०२८

शैलादिरुवाच॥
आग्नेयं सौरममृतं बिम्बं भाव्यं ततोपरि॥
गुणत्रयं च हृदये तथा चात्मत्रयं क्रमात्॥ २८.१ ॥

तस्योपरि महादेवं निष्कलं सकलाकृतिम्॥
कान्तार्धरूढदेहं च पूजयेद्ध्यानविद्यया॥ २८.२ ॥

ततो बहुविधं प्रोक्तं चिन्त्यं तत्रास्ति चेद्यतः॥
चिन्तकस्य ततश्चिन्ता अन्यथा नोपपद्यते॥ २८.३ ॥

तस्माद्ध्येयं तथा ध्यानं यजमानः प्रयोजनम्॥
स्मरेत्तन्नान्यथा जातु बुद्ध्यते पुरुषस्य ह॥ २८.४ ॥

पुरे शेते पुरं देहं तस्मात्पुरुष उच्यते॥
याज्यं यज्ञेन यजते यजमानस्तु स स्मृतः॥ २८.५ ॥

ध्येयो महेश्वरो ध्यानं चिन्तनं निर्वृतिः फलम्॥
प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते॥ २८.६ ॥

इह षड्विंशको ध्येयो ध्याता वै पञ्चविंशकः॥
चतुर्विंशकमव्यक्तं महदाद्यास्तु सप्त च॥ २८.७ ॥

महांस्तथा त्वहङ्कारं तन्मात्रं पञ्चकं पुनः॥
कर्मेद्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च॥ २८.८ ॥

मनश्च पञ्च भूतानि शिवः षड्विंशकस्ततः॥
स एव भर्ता कर्ता च विघेरपि महेश्वरः॥ २८.९ ॥

हिरण्यगर्भं रुद्रोसौ जनयामास शङ्करः॥
विश्वाधिकश्च विश्वात्मा विश्वरूप इति स्मृतः॥ २८.१೦ ॥

विना यथा हि पितरं मातरं तनयास्त्विह॥
न जायन्ते तथा सोमं विना नास्ति जगत्त्रयम्॥ २८.११ ॥

सनत्कुमार उवाच॥
कर्ता यदि महादेवः परमात्मा महेश्वरः॥
तथा कारयिता चैव कुर्वतोल्पात्मनस्तथा॥ २८.१२ ॥

नित्यो विशुद्धो बुद्धश्च निष्कलः परमेश्वरः॥
त्वयोक्तो मुक्तिदः किं वा निष्कलश्चेत्करोति किम्॥ २८.१३ ॥

शैलादिरूवाच॥
कालः करोति सकलं कालं कलयते सदा॥
निष्कलं च मनः सर्वं मन्यते सोपि निष्कलः॥ २८.१४ ॥

कर्मण तस्य चैवेह जगत्सर्वं प्रतिष्ठितम्॥
किमत्र देवदेवस्य मूर्त्यष्टकमिदं जगत्॥ २८.१५ ॥

विनाकाशं जगन्नैव विना वायुना विना॥
तेजसा वारिणा चैव यजमानं तथा विना॥ २८.१६ ॥

भानुना शाशिना लोकस्तस्यैतास्तनवः प्रभोः॥
विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम्॥ २८.१७ ॥

सूक्ष्मं वदन्ति ऋषयो यन्न वाच्यं द्विजोत्तमाः॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह॥ २८.१८ ॥

आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन॥
न भेतव्यं तथा तस्माज्ज्ञात्वानन्दं पिनाकिनः॥ २८.१९ ॥

विभूतयश्च रुद्रस्य मत्वा सर्वत्र भावतः॥
सर्वं रुद्र इति प्राहुर्मुनयस्तत्त्वदर्शिनः॥ २८.२೦ ॥

नमस्कारेण सततं गौरवात्परमेष्ठिनः॥
सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः॥ २८.२१ ॥

पुरुषो वै महादेवो महेशानः परः शिवः॥
एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिन्तनम्॥ २८.२२ ॥

चतुर्व्यूहेण मार्गेण विचार्यालोक्य सुव्रत॥
संसारहेतुः संसारो मोक्षहेतुश्च निर्वृतिः॥ २८.२३ ॥

चतुर्व्यूहः समाख्यातश्चिन्तकस्येह योगिनः॥
चिन्ता बहुविधा ख्याता सैकत्र परमेष्ठिना॥ २८.२४ ॥

सुनिष्ठेत्यत्र कथिता रुद्रं रोद्री न संशयः॥
एन्द्री चैन्द्रे तथा सौम्या सोमे नारायणे तथा॥ २८.२५ ॥

सूर्यो वह्नौ च सर्वेषां सर्वत्रैवं विचारतः॥
सैवाहं सोहमित्येवं द्विधा संस्थाप्य भावतः॥ २८.२६ ॥

भक्तोसौ नास्ति यस्तस्माच्चिन्ता ब्राह्मी न संशयः॥
एवं ब्रह्ममयं ध्यायेत्पूर्वे विप्र चराचरम्॥ २८.२७ ॥

चराचरविभागं च त्यजेदभिमतं स्मरन्॥
त्याज्यं ग्राह्यमलभ्यं च कृत्यं चाकृत्यमेव च॥ २८.२८ ॥

यस्य नास्ति सुतृप्तस्य तस्य ब्राह्मी न चान्यथा॥
आभ्यन्तंरं समाख्यातमेवमभ्यर्चनं क्रमात्॥ २८.२९ ॥

आभ्यन्तरार्चकाः पूज्या नमस्कारादिभिस्तथा॥
विरूपा विकृतास्चापि न निन्द्या ब्रह्म वादिनः॥ २८.३೦ ॥

आभ्यन्तरार्चकाः सर्वे न परीक्ष्या विजानता॥
निन्दका एव दुःखार्ता भविष्यन्त्यल्पचेतसः॥ २८.३१ ॥

यथा दारुवने रुद्रं विनिन्द्य मुनयः पुरा॥
तस्मात्सेव्या नमस्कार्याः सदा ब्रह्मविदस्तथा॥ २८.३२ ॥

वर्णाश्रमविनिर्मुक्ता वर्णाश्रमपरायणैः॥ २८.३३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवार्चनतत्त्वसङ्ख्यादिवर्णनं नामाऽष्टाविंशोध्यायः॥ २८ ॥