०२७

शैलादिरुवाच॥
वक्ष्यामि श्रृणु सङ्क्षोपाल्लिङ्गार्चनविधिक्रमम्॥
वक्तुं वर्षशतेनापि न शक्यं विस्तरेण यत्॥ २७.१ ॥

एवं स्नात्वा यथान्यायं पूजास्थानं प्रविश्य च॥
प्राणायामत्रयं कृत्वा ध्यायेद्देवं त्रियम्बकम्॥ २७.२ ॥

पञ्चवक्त्रं दश भुज शुद्धस्फटिकसन्निभम्॥
सर्वाभरणसंयुक्तं चित्राम्बरविभूषितम्॥ २७.३ ॥

तस्य रूपं समाश्रित्य दाहनप्लावनादिभिः॥
शैवीं तनुं समास्थाय पूजयेत्परमेश्वरम्॥ २७.४ ॥

देहशुद्धिं च कृत्वैव मूलमन्त्रं न्यसेत् क्रमात्॥
सर्वत्र प्रणवेनैव ब्रह्माणि च यथाक्रमम्॥ २७.५ ॥

सूत्रे नमः शिवायेति छन्दांसि परमे शुभे॥
मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः॥ २७.६ ॥

न्यग्रोधबीजे न्यग्रोधस्तथा सूत्रे तु शोभने॥
महत्यपि महद्ब्रह्म संस्थितं सूक्ष्मवत्स्वयम्॥ २७.७ ॥

सेचयेदर्चनस्थानं गन्धचन्दनवारिणा॥
द्रव्याणि शोधयेत्पश्चात्क्षालनप्रोक्षणादिभिः॥ २७.८ ॥

क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते॥
प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रमनुक्रमत्॥ २७.९ ॥

तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च॥
स्थापयेद्विधिना धीमानवगुण्ठ्य यथाविधि॥ २७.१೦ ॥

दर्भैराच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा॥
तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम्॥ २७.११ ॥

प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान्॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्॥ २७.१२ ॥

जातिकङ्कोलकर्पूरबहुमूलतमालकम्॥
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके॥ २७.१३ ॥

एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा॥
कर्पूरं च यथान्यायं पुष्पाणि विविधानि च॥ २७.१४ ॥

कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च॥
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके॥ २७.१५ ॥

कुशपुष्पयवव्रीहिबहुमूलतमालकम्॥
दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च॥ २७.१६ ॥

न्यसेत्पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम्॥
केवलं प्रणवं वापि वेदसारमनुत्तमम्॥ २७.१७ ॥

अथ सम्प्रोक्षयेत्पश्चाद्द्रव्याणि प्रणवेन तु॥
प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश्च पञ्चभिः॥ २७.१८ ॥

पार्श्वतो देवदेवस्य नन्दिनं मां समर्चयेत्॥
दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम्॥ २७.१९ ॥

बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम्॥
पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम्॥ २७.२೦ ॥

उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम्॥
सुयशां सुव्रतां चाम्बापादमण्डनतत्पराम्॥ २७.२१ ॥

एवं पूज्य प्रविश्यान्तर्भवनं परमेष्ठिनः॥
दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः॥ २७.२२ ॥

गन्धपुष्पैस्तथा धूपैर्विविधैः पूज्य शङ्करम्॥
स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत्॥ २७.२३ ॥

जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमेन्तकम्॥
कल्पयेदासनं पश्चात्पद्माख्यं प्रणवेन तत्॥ २७.२४ ॥

तस्य पूर्वदलं साक्षादणिमामयमक्षरम्॥
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा॥ २७.२५ ॥

प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु॥
ईशित्वं नैऋतं पत्रं वशित्वं वायुगोचरे॥ २७.२६ ॥

सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते॥
सोमस्याधस्तथा सूर्यस्तस्याधः पावकः स्वयम्॥ २७.२७ ॥

धर्मादयो विदिक्ष्वेते त्वनन्तं कल्पयेत्क्रमात्॥
अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम्॥ २७.२८ ॥

आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका॥
सद्योजातं प्रपद्यामीत्यावाह्य परमेश्वरम्॥ २७.२९ ॥

वामदेवेन मन्त्रेण स्थापयेदासनोपरि॥
सान्निध्यं रुद्रगायत्र्या अघोरेण निरुद्ध्य च॥ २७.३೦ ॥

ईशानः सर्वविद्यानामिति मन्त्रेण पूजयेत्॥
पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत्॥ २७.३१ ॥

स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा॥
पञ्चगव्य विधानेन गृह्य पात्रेभिमन्त्र्य च॥ २७.३२ ॥

प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि॥
आज्येन मधुना चैव तथा चेक्षुरसेन च॥ २७.३३ ॥

पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्॥
जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः॥ २७.३४ ॥

शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः॥
कुशापामार्गकर्पूरजातिपुष्पकचम्पकैः॥ २७.३५ ॥

करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः॥
आपूर्य पुष्पैः सुशुभैः चन्दनाद्यैश्च तज्जलम्॥ २७.३६ ॥

न्यसेन्मन्त्राणि तत्तोये सद्योजातादिकानि तु॥
सुवर्णकलशेनाथ तथा वै राजतेन वा॥ २७.३७ ॥

ताम्रेण पद्मपत्रेण पालाशेन दलेन वा॥
शङ्खेन मृन्मयेनाथ शोधितेन शुभेन वा॥ २७.३८ ॥

सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम्॥
मन्त्राणि ते प्रवक्ष्यामि श्रृणु सर्वार्थसिद्धये॥ २७.३९ ॥

यैर्लिङ्गं सकृदप्येवं स्नाप्य मुच्येत मानवः॥
पवमानेन मन्त्रज्ञाः तथा वामीयकेन च॥ २७.४೦ ॥

रुद्रेण नीलरुद्रेण श्रीसुक्तेन शुभेन च॥
रजनीसूक्तकेनैव चमकेन शुभेन च॥ २७.४१ ॥

होतारेणाथ शिरसा अर्थर्वेण शुभेन च॥
शान्त्या चाथ पुनः शान्त्या भारुण्डेनारुणेन च॥ २७.४२ ॥

वारुणेन च ज्येष्टेन तथा वेदव्रतेन च॥
तथान्तरेण पुण्येन सूक्तेन पुरुषेण च॥ २७.४३ ॥

त्वरितेनैव रुद्रेण कपिना च कपिर्दिना॥
आवोसजेति साम्ना तु बृहच्चन्द्रेण विष्णुना॥ २७.४४ ॥

विरूपाक्षेण स्कन्देन शतऋग्भिः शिवौस्तथा॥
पञ्च ब्रह्मैश्च सूत्रेण केवलप्रणवेन च॥ २७.४५ ॥

स्नापयेद्देवदेवेशं सर्वपापप्रशान्तये॥
वस्त्रं शिवोपवीतं च तथा ह्याचमनीयकम्॥ २७.४६ ॥

गन्धं पुष्पं तथा धूपं दीपमन्नं क्रमेण तु॥
तोयं सुगन्धितं चैव पुनराचमनीयकम्॥ २७.४७ ॥

मुकुटं च शुभं छन्नं तथा वै भूषणानि च॥
दापयेत्प्रणवेनैव मुखवासादिकानि च॥ २७.४८ ॥

ततः स्फटिकसङ्काशं देव निष्कलमक्षरम्॥
कारणं सर्वदेवानां सर्वलोकमयं परम्॥ २७.४९ ॥

ब्रह्मेन्द्रविष्णुरुद्राद्यैर्ऋषिदेवैरगोचरम्॥
वेदविद्भिर्हि वेदान्तैस्त्वगोचरमिति श्रुतिः॥ २७.५೦ ॥

आदिमध्यान्तरहितं भेषजं भवरोगिणाम्॥
शिवतत्त्वमिति ख्यातं शिवलिङ्गे व्यवस्थितम्॥ २७.५१ ॥

प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि॥
स्तोत्रं जपेच्च विधिना नमस्कारं प्रदक्षिणम्॥ २७.५२ ॥

अर्घ्यां दत्त्वाथ पुष्पाणि पादयोस्तु विकीर्य च॥
प्रणिपत्य च देवेशमात्मन्यारोपयेच्छिवम्॥ २७.५३ ॥

एवं सङ्क्षिप्य कथितं लिङ्गार्चनमनुत्तमम्॥
आभ्यन्तरं प्रवक्ष्यामि लिङ्गार्चनमिहाद्य ते॥ २७.५४ ॥

इति श्रीलिङ्गमहापुराणे पूर्व भागे लिङ्गार्चनविधिर्नाम सप्तविंशोऽध्यायः॥ २७ ॥