०२६

नन्द्युवाच॥
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम्॥
आयातु वरदा देवीत्यनेनैव महेश्वरीम्॥ २६.१ ॥

पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत्॥
प्राणायामत्रयं कृत्वा समासीनः स्थितेपि वा॥ २६.२ ॥

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥
गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरत्॥ २६.३ ॥

अर्घ्यं दत्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम्॥
उत्तमे शिखरे देवीत्युक्त्वोद्वास्य च मातरम्॥ २६.४ ॥

प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम्॥
कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा॥ २६.५ ॥

उदुत्यं च तथा चित्रं जातवेदसमेव च॥
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः॥ २६.६ ॥

तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च॥
जप्त्वा प्रदक्षिणं पश्चात्त्रिः कृत्वा च विभावसोः॥ २६.७ ॥

आत्मानं चान्तरात्मानं परमात्मानमेव च॥
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विभावसुम्॥ २६.८ ॥

मुनीन्पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः॥
सर्वानावाहयामीति देवानावाह्य सर्वतः॥ २६.९ ॥

तर्पयेद्विधिना पश्चात्प्राङ्मुखो वा ह्युदङ्मुखः॥
ध्यात्वा स्वरूपं तत्तत्त्वमभिवन्द्य यथाक्रमम्॥ २६.१೦ ॥

देवानां पुष्पतोयेन ऋषीणां तु कुशाम्भसा॥
पितॄणां तिलतोयेन गन्धयुक्तेन सर्वतः॥ २६.११ ॥

यज्ञोपवीति देवानां निवीती ऋषितर्पणम्॥
प्राचीनावीति विप्रेद्र पितॄणां तर्पयेत् क्रमात्॥ २६.१२ ॥

अङ्गुल्यग्रेण वै धीमांस्तर्पयेद्देवतर्पणम्॥
ऋषीन् कनिष्ठाङ्गुलिना श्रोत्रियः सर्वसिद्धये॥ २६.१३ ॥

पितॄंस्तु तर्पयेद्विद्वान्दाक्षिणाङ्गुष्ठकेन तु॥
तथैवं मुनिशार्दूल ब्रह्मयज्ञ यजेद्द्विजः॥ २६.१४ ॥

देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च॥
पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः॥ २६.१५ ॥

स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः॥
अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः॥ २६.१६ ॥

सर्वेषामेव भूतानां बलिदानं विधानतः॥
भूतयज्ञ इति प्रोक्तो भूतिदः सर्वदेहिनाम्॥ २६.१७ ॥

सदारान्सर्वतत्त्वज्ञान्ब्राह्मणान्वेदपारगान्॥
प्रणम्य तेभ्यो यद्दत्तमन्नं मानुष उच्यते॥ २६.१८ ॥

पितॄनुद्दिश्य यद्दत्तं पितृयज्ञः स उच्यते॥
एवं पञ्च महायज्ञान्कुर्यात् सर्वार्थसिद्धये॥ २६.१९ ॥

सर्वेषां श्रृणु यज्ञानां ब्रह्मयज्ञः परः स्मृतः॥
ब्रह्मयज्ञरतो मर्त्यो ब्रह्मलोके महीयते॥ २६.२೦ ॥

ब्रह्मयज्ञेन तुष्यन्ति सर्वे देवाः सवासवाः॥
ब्रह्मा च भगवान्विष्णुः शङ्करो नीललोहितः॥ २६.२१ ॥

वेदाश्च पितरः सर्वे नात्र कार्या विचारणा॥
ग्रामाद्बहिर्गतो भूत्वा ब्राह्मणो ब्रह्मयज्ञवित्॥ २६.२२ ॥

यावत्त्वदृष्टमभवदुटजानां छदं नरः॥
प्राच्यामुदीच्यां च तथा प्रागुदीच्यामथापि वा॥ २६.२३ ॥

पुण्यमाचमनं कुर्याद्ब्रह्मयज्ञार्थमेव तत्॥
प्रीत्यर्थं च ऋचां विप्राः त्रिः पीत्वा प्लाव्यप्लाव्य च॥ २६.२४ ॥

यजुषां परिमृज्यैवं द्विः प्रक्षाल्य च वारिणा॥
प्रीत्यर्थं सामवेदानामुपस्पृश्य च मूर्धानि॥ २६.२५ ॥

स्पृशेदथर्व वेदानां नेत्रे चाङ्गिरसां तथा॥
नासिके ब्राह्मणोऽङ्गानां क्षाल्यक्षाल्य च वारिणा॥ २६.२६ ॥

अष्टादशपुराणानां ब्रह्माद्यानां तथैव च॥
तथा चोपपुराणानां सौरादीनां यथाक्रमम्॥ २६.२७ ॥

पुण्यानामितिहासानां शैवादीनां तथैव च॥
श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं हृद्देश्यं तु ततः स्पृशेत्॥ २६.२८ ॥

कल्पादीनां तु सर्वेषां कल्पवित्कल्पवित्तमाः॥
एवमाचम्य चास्तीर्य दर्भपिञ्जूलमात्मनः॥ २६.२९ ॥

कृत्वा पाणितले धीमानात्मनो दक्षिणोत्तरम्॥
हेमाङ्गुलीयसंयुक्तो ब्रह्मबन्धयुतोपि वा॥ २६.३೦ ॥

विधिवद्ब्रह्मयज्ञं च कुर्यात्सूत्री समाहितः॥
अकृत्वा च मुनिः पञ्च महायज्ञान्द्विजोत्तमः॥ २६.३१ ॥

भुक्त्वा च सूकराणां तु योनौ वै जायते नरः॥
तस्मात्सर्वप्रयत्नेन कर्तव्याः शुभमिच्छता॥ २६.३२ ॥

ब्रह्मयज्ञादथ स्नानं कृत्वादौ सर्वथात्मनः॥
तीर्थं सङ्गृह्य विधिवत्प्रविशेच्छिबिरं वशी॥ २६.३३ ॥

बहिरेव गृहात्पादौ हस्तौ प्रक्षाल्य वारिणा॥
भस्मस्नानं ततः कुर्याद्विधिवद्देहशुद्धये॥ २६.३४ ॥

शोध्य भस्म यथान्यायं प्रणवेनाग्निहोत्रजम्॥
ज्योतिः सूर्य इति प्रातर्जुहुयादुदिते यतः॥ २६.३५ ॥

ज्योतिरग्निस्तथा सायं सम्यक् चानुदिते मृषा॥
तस्मादुदितहोमस्थं भसितं पावनं शुभम्॥ २६.३६ ॥

नास्ति सत्यसमं यस्मादसत्यं पातकं च यत्॥
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च॥ २६.३७ ॥

उरोदेशमघोरेण गुह्यं वामेव सुव्रताः॥
सद्येन पादौ सर्वाङ्गं प्रणवेनाभिषेचयेत्॥ २६.३८ ॥

ततः प्रक्षालयेत्पादं हस्तं ब्रह्मविदां वरः॥
व्यपोद्य भस्म चादाय देवदेवमनुस्मरन्॥ २६.३९ ॥

मन्त्रस्नानं ततः कुर्यादापोहिष्ठादिभिः क्रमात्॥
पुण्यैश्चैव तथा मन्त्रैर्ऋग्यजुः सामसम्भवैः॥ २६.४೦ ॥

द्विजानां तु हितायैवं कथितं स्नानमद्य ते॥
सङ्क्षिप्य यः सकृत्कुर्यात्स याति परमं पदम्॥ २६.४१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चयज्ञविधानं नाम षड्विंशोध्यायः॥ २६ ॥