ऋषय ऊचुः॥
कथं पूज्यो महादेवो लिङ्गमूर्तिर्महेश्वरः॥
वक्तुमर्हसि चास्माकं रोमहर्षण साम्प्रतम्॥ २५.१ ॥
सूत उवाच॥
देव्या पृष्टो महादेवः कैलासे तां नगात्मजाम्॥
अङ्कस्थामाह देवेशो लिङ्गार्चनविधिं क्रमात्॥ २५.२ ॥
तदा पार्श्वे स्थितो नन्दी शालङ्कायनकात्मजः॥
श्रृत्वाखिलं पुरा प्राह ब्रह्मपुत्राय सुव्रताः॥ २५.३ ॥
सनत्कुमाराय शुभं लिङ्गार्चनविधिं परम्॥
तस्माद्व्यासो महातेजाः श्रुतवाञ्छ्रुतिसम्मतिम्॥ २५.४ ॥
स्नानयोगोपचारं च यथा शैलादिनो मुखात्॥
श्रुतवान् तत्प्रवक्ष्यामि स्नानाद्यं चार्चनाविधिम्॥ २५.५ ॥
शैलादिरुवाच॥
अथ स्नानविधिं वक्ष्ये ब्राह्मणानां हिताय च॥
सर्वपापहरं साक्षाच्छिवेन कथितं पुरा॥ २५.६ ॥
अनेन विधिना स्नात्वा सकृत्पूज्य च शङ्करम्॥
ब्रह्मकूर्चं च पीत्वा तु सर्वपापैः प्रमुच्यते॥ २५.७ ॥
त्रिविधं स्नानमाख्यातं देवदेवेन शम्भुना॥
हिताय ब्राह्मणाद्यानां चतुर्मुखसुतोत्तम॥ २५.८ ॥
वारुणं पुरतः कृत्वा ततश्चाग्नेयमुत्तमम्॥
मन्त्रस्नानं ततः कृत्वा पूजयेत्परमेश्वरम्॥ २५.९ ॥
भावदुष्टोऽम्भसि स्नात्वा भस्मना च न शुद्ध्यति॥
भावशुद्धश्चरेच्छौचमन्यथा न समाचरेत्॥ २५.१೦ ॥
सरित्सरस्तडागेषु सर्वेष्वाप्रलयं नरः॥
स्नात्वापि भावदुष्टश्चेन्न शुध्यति न संशयः॥ २५.११ ॥
नृणां हि चित्तकमलं प्रबुद्धमभवद्यदा॥
प्रसुप्तं तमसा ज्ञानभानोर्भासा तदा शुचिः॥ २५.१२ ॥
मृच्छकृत्तिलपुष्पं च स्नानार्थं भसितं तथा॥
आदाय तीरे निःक्षिप्य स्नानतीर्थे कुशानि च॥ २५.१३ ॥
प्रक्षाल्याचम्य पादौ च मलं देहाद्विशोध्य च॥
द्रव्यैस्तु तीरदेशस्थैस्ततः स्नानं समाचरेत्॥ २५.१४ ॥
उद्धृतासीतिमन्त्रेण पुनर्देहं विशोधयेत्॥
मृदादाय ततश्चान्यद्वस्त्रं स्नात्वा ह्यनुल्बणम्॥ २५.१५ ॥
गन्धद्वारां दुराधर्षामिति मन्त्रेण मन्त्रवित्॥
कपिलागोमयेनैव खस्थेनैव तु लेपयेत्॥ २५.१६ ॥
पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः॥
शुक्लवस्त्रापरीधानो भूत्वा स्नानं समाचरेत्॥ २५.१७ ॥
सर्वपापविशुद्ध्यर्थमावाह्य वरुणं तथा॥
सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम्॥ २५.१८ ॥
आचम्य त्रिस्तदा तीर्थे ह्यवगाह्य भवं स्मरन्॥
पुनराचम्य विधिवदभिमन्त्र्य महाजलम्॥ २५.१९ ॥
अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम्॥
तत्तोये भानुसोमाग्निमण्डलं च स्मरेद्वशी॥ २५.२೦ ॥
आचम्य च पुनस्तस्माज्जलादुत्तीर्य मन्त्रवित्॥
प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये॥ २५.२१ ॥
श्रृङ्गेण पर्णपुटकैः पालशैः क्षालितैस्तथा॥
सकुशेन सपुष्पेण जलेनैवाभिषेचयेत्॥ २५.२२ ॥
रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित्॥
तरत्समन्दीवर्गाद्यैस्तथा शान्तिद्वयेन च॥ २५.२३ ॥
शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः॥
तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन्॥ २५.२४ ॥
एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः॥
ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यमीश्वरम्॥ २५.२५ ॥
आचम्याचमनं कुर्यात्स्वसूत्रोक्तं समीक्ष्य च॥
पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि॥ २५.२६ ॥
अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु।
पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः॥ २५.२७ ॥
प्रदक्षिणं ततः कुर्याद् हिंसापापप्रशान्तये॥
एवं सङ्क्षेपतः प्रोक्तं स्नानाचमनमुत्तमम्॥ २५.२८ ॥
सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः॥ २५.२९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे स्नानविधिर्नाम पञ्चविंशोध्यायः॥ २५ ॥