सूत उवाच॥
श्रुत्वैवमखिलं ब्रह्मा रुद्रेण परिभाषितम्॥
पुनः प्रणम्य देवेशं रुद्रमाह प्रजापतिः॥ २४.१ ॥
भगवन्देवदेवेश विश्वरूपं महेश्वर॥
उमाधव महादेव नमो लोकाभिवन्दित॥ २४.२ ॥
विश्वरूप महाभाग कस्मिन्काले महेश्वर॥
या इमास्ते महादेव तनवो लोकवन्दिताः॥ २४.३ ॥
कस्यां वा युगसम्भूत्यां द्रक्ष्यन्तीह द्विजातयः॥
केन वा तपसा देव ध्यानयोगेन केन वा॥ २४.४ ॥
नमस्ते वै महादेव शक्यो द्रष्टुं द्विजातिभिः॥
तस्य तद्वचनं श्रुत्वा शर्वः सम्प्रेक्ष्य तं पुरः॥ २४.५ ॥
स्मयन्प्राह महादेवो ऋग्यजुःसामसम्भवः॥
श्रीभगवानुवाच॥
तपसा नैव वृत्तेन दानधर्मफलेन च॥ २४.६ ॥
न तीर्थफलयोगेन क्रतुभिर्वाप्तदक्षिणैः॥
न वेदाध्ययनैर्वापि न वित्तेन न वेदनैः॥ २४.७ ॥
न शक्यं मानवैर्द्रष्टुमृते ध्यानादहं त्विह॥
सप्तमे चैव वाराहे ततस्तस्मिन्पितामह॥ २४.८ ॥
कल्पेश्वरोऽथ भगवान् सर्वलोकप्रकाशनः॥
मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति॥ २४.९ ॥
तदा चतुर्युगावस्थे तस्मिन्कल्पे युगान्तिके॥
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च॥ २४.१೦ ॥
उत्पत्स्यामि तदा ब्रह्मन्पुनरस्मिन्युगान्तिके॥
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे॥ २४.११ ॥
द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयं प्रभुः॥
तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगान्तिके॥ २४.१२ ॥
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः॥
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे॥ २४.१३ ॥
तत्र शिष्याः शिखायुक्ता भविष्यन्ति तदा मम॥
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः॥ २४.१४ ॥
चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः॥
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम्॥ २४.१५ ॥
मत्समीपं गमिष्यन्ति ध्यानयोगपरायणाः॥
ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः॥ २४.१६ ॥
प्रजापतिर्यदा व्यसः सद्यो नाम भविष्यति॥
तदा लोकहितार्थाय सुतारो नाम नामतः॥ २४.१७ ॥
भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया॥
तत्रापि मम ते शिष्या नामतः परिकीर्तिताः॥ २४.१८ ॥
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तदा॥
प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले॥ २४.१९ ॥
रुद्रलोकं गमिष्यन्ति सहचारित्वमेव च॥
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः॥ २४.२೦ ॥
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके॥
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः॥ २४.२१ ॥
विकोशश्च विकेशश्च विपाशः शापनाशनः॥
तेपि तेनैव मार्गेण योगोक्तेन महौजसः॥ २४.२२ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः॥ २४.२३ ॥
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः॥
तत्रापि मम ते पुत्राश्चत्वारोपि तपोधनाः॥ २४.२४ ॥
द्विजश्रेष्ठा भविष्यन्ति योगात्मानो दृढव्रताः।
सुमुखो दुर्मुखश्चैव दुर्दरो दुरतिक्रमः॥ २४.२५ ॥
प्राप्य योगगतिं सूक्ष्मां विमला दग्ध किल्बिषाः॥
तेपि तेनैव मार्गेण योगयुक्ता महौजसः॥ २४.२६ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा॥ २४.२७ ॥
तदा चापि भविष्यामि कङ्को नाम महातपाः॥
अनुग्रहार्थं लोकानां योगात्मैककलागतिः॥ २४.२८ ॥
चत्वारस्तु महाभागा विमलाः शुद्धयोनयः॥
शिष्या मम भविष्यन्ति योगात्मानो दृढव्रताः॥ २४.२९ ॥
सनकः सनन्दनश्चैव प्रभुर्यश्च सनातनः॥
विभुः सनत्कुमारश्च निर्ममा निरहङ्कृताः॥ २४.३೦ ॥
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम्॥
परिवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः॥ २४.३१ ॥
तदाप्यहं भविष्यामि लोगाक्षीर्नाम नामतः॥
तत्रापि मम ते शिष्या योगात्मानो दृढव्रताः॥ २४.३२ ॥
भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः॥
सुधामा विरजाश्चैव शङ्खपाद्रज एव च॥ २४.३३ ॥
योगात्मानो महात्मानः सर्वे वै दग्धकिल्बिषाः॥
तेपि तेनैव मार्गेण ध्यानयोगसमन्विताः॥ २४.३४ ॥
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः॥ २४.३५ ॥
विभुनामा महातेजाः प्रथितः पूर्वजन्मनि॥
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके॥ २४.३६ ॥
जैगीषव्यो विभुः ख्यातः सर्वेषां योगिनां वरः॥
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तथा॥ २४.३७ ॥
सारस्वतश्च मेघश्च मेघवाहः सुवाहनः॥
तेपि तेनैव मार्गेण ध्यानयोगपरायणाः॥ २४.३८ ॥
गमिष्यन्ति महात्मानो रुद्रलोकं निरामयम्॥
वसिष्ठश्चाष्टमे व्यासः परिवर्ते भविष्यति॥ २४.३९ ॥
यदा तदा भविष्यामि नाम्नाहं दधिवाहनः॥
तत्रापि मम ते पुत्रा योगात्मानो दृढव्रताः॥ २४.४೦ ॥
भविष्यन्ति महायोगा येषां नास्ति समो भुवि॥
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः॥ २४.४१ ॥
बाष्कलश्च महायोगी धर्मात्मानो महौजसः॥
प्राप्य माहेश्वरं योगं ज्ञानिनो दग्धकिल्बिषाः॥ २४.४२ ॥
मत्समीपं गमिष्यन्ति पुनरावृत्ति दुर्लभम्॥
परिवर्ते तु नवमे व्यासः सारस्वतो यदा॥ २४.४३ ॥
तदाप्यहं भविष्यामि ऋषभो नाम नामतः॥
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ २४.४४ ॥
पराशरश्च गर्गश्च भार्गवाङ्गिरसौ तदा॥
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः॥ २४.४५ ॥
ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते॥
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः॥ २४.४६ ॥
तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥ २४.४७ ॥
दशमे द्वापरे व्यासः त्रिपाद्वै नाम नामतः॥
यदा भविष्यते विप्रस्तदाहं भविता मुनिः॥ २४.४८ ॥
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे॥
नाम्ना भृगोस्तु शिखरं प्रथितं देवपूजितम्॥ २४.४९ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति दृढव्रताः॥
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः॥ २४.५೦ ॥
योगात्मानो महात्मानस्तपोयोगसमन्विताः॥
रुद्रलोकं गमिष्यन्ति तपसा दग्धकिल्बिषाः॥ २४.५१ ॥
एकादशे द्वापरे तु व्यासस्तु त्रिव्रतो यदा॥
तदाप्यहं भविष्यामि गङ्गाद्वारे कलौ तथा॥ २४.५२ ॥
उग्रो नाम महातेजाः सर्वलोकेषु विश्रुतः॥
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ २४.५३ ॥
लम्बोदरश्च लम्बाक्षो लम्बकेशः प्रलम्बकः॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते॥ २४.५४ ॥
द्वादशे परिवर्ते तु शततेजा यदा मुनिः॥
भविष्यति महातेजा व्यासस्तु कविसत्तमः॥ २४.५५ ॥
तदाप्यहं भविष्यामि कलाविह युगान्तिके॥
हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः॥ २४.५६ ॥
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः॥
भविष्यन्ति महायोगा रुद्रलोकपरायणाः॥ २४.५७ ॥
सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते॥ २४.५८ ॥
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु॥
धर्मो नारायणो नाम व्यासस्तु भविता यदा॥ २४.५९ ॥
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः॥
वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने॥ २४.६೦ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः॥
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा॥ २४.६१ ॥
महायोगबलोपेता विमला ऊर्ध्वरेतसः॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते॥ २४.६२ ॥
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे॥
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके॥ २४.६३ ॥
वंशे त्वङ्गिरसां श्रेष्ठे गौतमो नाम नामतः॥
भविष्यति महापुण्यं गौतमं नाम तद्वनम्॥ २४.६४ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा॥
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः॥ २४.६५ ॥
योगात्मानो महात्मानः सर्वे योगसमन्विताः॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः॥ २४.६६ ॥
ततः पञ्चदशे प्राप्ते परिवर्ते क्रमागते॥
त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत॥ २४.६७ ॥
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः॥
तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम्॥ २४.६८ ॥
भविष्यति महावीर्यं वेदशीर्षश्च पर्वतः॥
हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे॥ २४.६९ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः॥ २४.७೦ ॥
योगात्मानो महात्मानः सर्वे ते द्यूर्ध्वरेतसः॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः॥ २४.७१ ॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति॥
तत्र योगप्रदानाय भक्तानां च यतात्मनाम्॥ २४.७२ ॥
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः॥
भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम्॥ २४.७३ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिनः॥
काश्यपो ह्युशनाश्चैव च्यवनोथ बृहस्पतिः॥ २४.७४ ॥
तेपि तेनैव मार्गेण ध्यानयोगसमन्विताः॥
प्राप्य माहेश्वरं योगं गन्तारो रुद्रमेव हि॥ २४.७५ ॥
ततः सप्तदशे चैव परिवर्ते क्रमागते॥
यदा भविष्यति व्यासो नाम्ना देवकृतं जयः॥ २४.७६ ॥
तदाप्यहं भविष्यामि गुहावासीति नामतः॥
हिमवच्छिखरे रम्ये महोत्तुङ्गे महालये॥ २४.७७ ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम्॥
तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः॥ २४.७८ ॥
भविष्यन्ति महात्मानो निर्ममा निरहङ्कृताः॥
उतथ्यो वामदेवश्च महायोगो महाबलः॥ २४.७९ ॥
तेषां शतसहस्रं तु शिष्याणां ध्यानयोगिनाम्॥
भविष्यन्ति तदा काले सर्वे ते ध्यानयुञ्जकाः॥ २४.८೦ ॥
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम्॥
महालये पदं न्यस्तं दृष्ट्वा यान्ति शिवं पदम्॥ २४.८१ ॥
ये चान्येपि महात्मानः कलौ तस्मिन् युगान्तिके॥
ध्याने मनः समाधाय विमलाः शुद्धबुद्धयः॥ २४.८२ ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः॥
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम्॥ २४.८३ ॥
तीर्णस्तारयते जन्तुर्दश पूर्वान्दशोत्तरान्॥
आत्मानमेकविंशं तु तारयित्वा महालये॥ २४.८४ ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः॥
ततोष्टादशमे चैव परिवर्ते यदा विभो॥ २४.८५ ॥
तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः॥
तदाप्यहं भविष्यामि शिखण्डी नाम नामतः॥ २४.८६ ॥
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते॥
हिमवच्छिखरे रम्ये शिखण्डी नाम पर्वतः॥ २४.८७ ॥
शिखण्डिनो वनं चापि यत्र सिद्धनिषेवितम्॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः॥ २४.८८ ॥
वाचश्रवा ऋचीकश्च श्यावाश्वश्च यतीश्वरः॥
योगात्मानो महात्मानः सर्वे ते वेदपारगाः॥ २४.८९ ॥
प्रप्य माहेश्वरं योगं रुद्रलोकाय संवृताः॥
अथ एकोनविंशे तु परिवर्त्ते क्रमागते॥ २४.९೦ ॥
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः॥
तदाप्यहं भविष्यामि जटामाली च नामतः॥ २४.९१ ॥
हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः॥
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ २४.९२ ॥
हिरण्यनाभः कौशल्यो लोकाक्षी कुथुमिस्तथा॥
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः॥ २४.९३ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः॥
ततो विंशतिमश्चैव परिवर्तो यदा तदा॥ २४.९४ ॥
गौतमस्तु तदा व्यासो भविष्यति महामुनिः॥
तदाप्यहं भविष्यामि अट्टहासस्तु नामतः॥ २४.९५ ॥
अट्टहासप्रियाश्चैव भविष्यन्ति तदा नराः॥
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः॥ २४.९६ ॥
देवदानव यक्षेन्द्रसिद्धचारणसेवितः॥
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ २४.९७ ॥
योगात्मानो महात्मानो ध्यायिनो नियतव्रताः॥
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकन्धरः॥ २४.९८ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः॥
एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ २४.९९ ॥
वाचश्रवाः स्मृतो व्यासो यदा स ऋषिसत्तमः॥
तदाप्यहं भविष्यामि दारुको नाम नामतः॥ २४.१೦೦ ॥
तस्माद्भविष्यते पुण्यं देवदारु वनं शुभम्॥
तत्रापि मम ते पुत्रा भवष्यन्ति महौजसः॥ २४.१೦१ ॥
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा॥
योगात्मानो महात्मानो नियता ऊर्ध्वरेतसः॥ २४.१೦२ ॥
नैष्ठिकं व्रतमास्थाय रुद्रलोकाय ते गताः॥
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा॥ २४.१೦३ ॥
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः॥
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः॥ २४.१೦४ ॥
द्रक्ष्यन्ति मां कलौ तस्मिन् भवं चैव हलायुधम्॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः॥ २४.१೦५ ॥
भल्लवी मधुपिङ्गश्च श्वेतकेतुः कुशस्तथा॥
प्राप्य माहेश्वरं योगं तेपि ध्यानपरायणाः॥ २४.१೦६ ॥
विमला ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः॥
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः॥ २४.१೦७ ॥
व्यासो हि भविता ब्रह्मंस्तदाहं भविता पुनः॥
श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिकः॥ २४.१೦८ ॥
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे॥
तेन कालञ्जरो नाम भविष्यति स पर्वतः॥ २४.१೦९ ॥
तत्रापि मम ते शिष्याः भविष्यन्ति तपस्विनः॥
उशिको बृहदश्वश्च देवलः कविरेव च॥ २४.११೦ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गतः॥
परिवर्ते चतुर्विंशे व्यासो ऋक्षो यदा विभो॥ २४.१११ ॥
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके॥
शूली नाम महायोगी नैमिषे देववन्दिते॥ २४.११२ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः॥
शालिहोत्रोग्निवेशश्च युवनाश्वः शरद्वसुः॥ २४.११३ ॥
तेऽपि तेनैव मार्गेण रुद्रलोकाय संस्थिताः॥
पञ्चविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ २४.११४ ॥
वासिष्ठस्तु यदा व्यासः शक्तिर्नाम्ना भविष्यति॥
तदाप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः॥ २४.११५ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः॥
छगलः कुण्डकर्णश्च कुभाण्डश्च प्रवाहकः॥ २४.११६ ॥
प्राप्य माहेश्वरं योगममृतत्वाय ते गताः॥
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः॥ २४.११७ ॥
तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः॥
पुरं भद्रवटं प्राप्य कलौ तस्मिन् युगान्तिके॥ २४.११८ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः॥
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः॥ २४.११९ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः॥
सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ २४.१२೦ ॥
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः॥
तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः॥ २४.१२१ ॥
प्रभासतीर्थमासाद्य योगात्मा योगविश्रुतः॥
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः॥ २४.१२२ ॥
अक्षपादः कुमारश्च उलूको वत्स एव च॥
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः॥ २४.१२३ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः॥
अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ २४.१२४ ॥
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः॥
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः॥ २४.१२५ ॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः॥
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति॥ २४.१२६ ॥
तदाप्यहं भविष्यामि योगात्मा योगमायया॥
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः॥ २४.१२७ ॥
श्मशाने मृतमुत्सृष्टं दृष्ट्वा कायमनाथकम्॥
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया॥ २४.१२८ ॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना॥
भविष्यामि तदा ब्रह्मल्ँलकुली नाम नामतः॥ २४.१२९ ॥
कायावतार इत्येवं सिद्धक्षेत्रं च वै तदा॥
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति॥ २४.१३೦ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः॥
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च॥ २४.१३१ ॥
योगात्मानो महात्मानो ब्राह्मणा वेदपारगाः॥
प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः॥ २४.१३२ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
एते पाशुपताः सिद्धा भस्मोद्दूलितविग्रहाः॥ २४.१३३ ॥
लिङ्गार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः॥
भक्त्या मयि च योगेन ध्यान निष्ठा जितेन्द्रियाः॥ २४.१३४ ॥
संसारबन्धच्छेदार्थं ज्ञानमार्गप्रकाशकम्॥
स्वरूपज्ञानसिद्ध्यर्थं योगं पाशुपतं महत्॥ २४.१३५ ॥
योगमार्गा अनेकाश्च ज्ञानमार्गास्त्वनेकशः॥
न निवृत्तिमुपायान्ति विना पञ्चाक्षरीं क्वचित्॥ २४.१३६ ॥
यदाचरेत्तपश्चायं सर्वद्वन्द्वविवर्जितम्॥
तदा स मुक्तो मन्तव्यः पक्वं फलमिव स्थितः॥ २४.१३७ ॥
एकाहं यः पुमान्सम्यक् चरेत्पाशुपतव्रतम्॥
न साङ्ख्ये पञ्चरात्रे वा न प्राप्नोति गतिं कदा॥ २४.१३८ ॥
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम्॥
मन्वादिकृष्णपर्यन्तमष्टाविशन्द्युगक्रमात्॥ २४.१३९ ॥
तत्र श्रुतिसमूहानां विभागो धर्मलक्षणः॥
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा॥ २४.१४೦ ॥
सूत उवाच॥
निशम्यैवं महातेजा महादेवेन कीर्तितम्॥
रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम्॥ २४.१४१ ॥
तुष्टाव वाग्भिरिष्टाभिः पुनः प्राह च शङ्करम्॥
पितामह उवाच॥
सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः॥ २४.१४२ ॥
न हि विष्णुसमा काचिद्गतिरन्या विधीयते॥
इत्येवं सततं वेदा गायन्ति नात्र संशयः॥ २४.१४३ ॥
स देवदेवो भगवांस्तव लिङ्गार्चने रतः॥
तव प्रणामपरमः कथं देवो ह्यभूत्प्रभुः॥ २४.१४४ ॥
सूत उवाच॥
निशम्य वचनं तस्य ब्रह्मणः परमेष्ठिनः॥
प्रपिबन्निव चक्षुर्भ्यां प्रीतस्तत्प्रश्नगौरवात्॥ २४.१४५ ॥
पूजाप्रकरणं तस्मै तमालोक्याह शङ्करः॥
भवान्नारायणश्चैव शक्रः साक्षात्सुरोत्तमः॥ २४.१४६ ॥
मुनयश्च सदा लिङ्गं सम्पूज्य विधिपूर्वकम्॥
स्वंस्वं पदं विभो प्राप्तास्तस्मात्सम्पूजयन्ति ते॥ २४.१४७ ॥
लिङ्गार्चनं विना निष्ठा नास्ति तस्माज्जनार्दनः॥
आत्मनो यजते नित्यं श्रद्धया भगवान्प्रभुः॥ २४.१४८ ॥
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः॥
पुनः सम्प्रेक्ष्य देवेशं तत्रैवान्तरधीयत॥ २४.१४९ ॥
तमुद्दिश्य तदा ब्रह्मा नमस्कृत्य कृताञ्जलिः॥
स्रष्टुं त्वशेषं भगवाल्ँलब्धसञ्ज्ञस्तु शङ्करात्॥ २४.१५೦ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्विंशतितमोऽध्यायः॥ २४ ॥