०२३

सूत उवाच॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः॥
ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम्॥ २३.१ ॥

श्वेतकल्पो यदा ह्यसीदहमेव तदाभवम्॥
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः सितः॥ २३.२ ॥

श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः॥
तेन नाम्नाच विख्यातः श्वेतकल्पस्तदा ह्यसौ॥ २३.३ ॥

मत्प्रसूता च देवेशी श्वेताङ्गा श्वेतलोहिता॥
श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसञ्ज्ञिता॥ २३.४ ॥

तस्मादहं च देवेश त्वया गुह्येन वै पुनः॥
विज्ञातः स्वेन तपसा सद्योजातत्वमागतः॥ २३.५ ॥

सद्योजातेति ब्रह्मैतद्गुह्यं चैतत्प्रकीर्तितम्॥
तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः॥ २३.६ ॥

मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
यदा चैव पुनस्त्वासील्लोहितो नाम नामतः॥ २३.७ ॥

मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः॥
तदा लोहितमांसास्थिलोहितक्षीरसम्भवा॥ २३.८ ॥

लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता॥
ततोऽस्या लोहितत्वेन वर्णस्य च विपर्ययात्॥ २३.९ ॥

वामत्वाच्चैव देवस्य वामदेवत्वमागतः॥
तत्रापि च महासत्त्व त्वयाहं नियतात्मना॥ २३.१೦ ॥

विज्ञातः स्वेन योगेन तस्मिन्वर्णान्तरे स्थितः॥
ततश्च वामदेवेति ख्यातिं यातोऽस्मि भूतले॥ २३.११ ॥

ये चापि वामदेव त्वां ज्ञास्यन्तीह द्विजातयः॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥ २३.१२ ॥

यदाहं पुनरेवेह पीतवर्णो युगक्रमात्॥
मत्कृतेन च नाम्ना वै पीतकल्पोऽभवत्तदा॥ २३.१३ ॥

मत्प्रसूता च देवेशी पीताङ्गी पीतलोहिता॥
पीतवर्णा तदा ह्यसीद्गायत्री ब्रह्मसञ्ज्ञिता॥ २३.१४ ॥

तत्रापि च महासत्व योगयुक्तेन चेतसा॥
यस्मादहं तैर्विज्ञातो योगतत्परमानसैः॥ २३.१५ ॥

तत्र तत्पुरुषत्वेन विज्ञातोऽहं त्वया पुनः॥
तस्मात्तत्पुरुषत्वं वै ममैतत्कनकाण्डज॥ २३.१६ ॥

ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम्॥
वेत्स्यन्ति तपसा युक्ता विमला ब्रह्मसङ्गताः॥ २३.१७ ॥

रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥
यदाहं पुनरेवासं कृष्णवर्णो भयानकः॥ २३.१८ ॥

मत्कृतेन च वर्णेन सङ्कल्पः कृष्ण उच्यते॥
तत्राहं कालसङ्काशः कालो लोकप्रकालकः॥ २३.१९ ॥

विज्ञातोऽहं त्वया ब्रह्मन्घोरो घोरपराक्रमः॥
मत्प्रसूता च गायत्री कृष्णाङ्गी कृष्णलोहिता॥ २३.२೦ ॥

कृष्णरूपा च देवेश तदासीद्ब्रह्मसञ्ज्ञिता॥
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले॥ २३.२१ ॥

तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः॥
पुनश्च विश्वरूपत्वं यदा ब्रह्मन्ममाभवत्॥ २३.२२ ॥

तदाप्यहं त्वया ज्ञातः परमेण समाधिना॥
विश्वरूपा च संवृत्ता गायत्री लोकधारिणी॥ २३.२३ ॥

तस्मिन्विश्वत्वमापन्नं ये मां वेत्स्यन्ति भूतले॥
तेषां शिवश्च सौम्यश्च भविष्यामि सदैव हि॥ २३.२४ ॥

यस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः॥
विश्वरूपा तथा चेयं सावित्री समुदाहृता॥ २३.२५॥

सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः॥
चत्वारस्ते मया ख्याताः पुत्र वै लोकसम्मताः॥ २३.२६ ॥

यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति॥
सर्वभक्षा च मेध्या च वर्णतश्च भविष्यति॥ २३.२७ ॥

मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम्॥
यस्माद्वेदाश्च वेद्यं च चतुर्धा वै भविष्यति॥ २३.२८ ॥

भूतग्रामाश्च चत्वार आश्रमाश्च तथैव च॥
धर्मस्य पादाश्चत्वारश्चत्वारो मम पुत्रकाः॥ २३.२९ ॥

तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्॥
चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति॥ २३.३೦ ॥

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महस्तथा॥
जनस्तपश्च सत्यं च विष्णुलोकस्ततः परम्॥ २३.३१ ॥

अष्टाक्षरस्थितो लोकः स्थानेस्थाने तदक्षरम्॥
भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च॥ २३.३२ ॥

भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम्॥
स्वर्लोको वै तृतीयश्च चतुर्थस्तु महस्तथा॥ २३.३३ ॥

पञ्चमस्तु जनस्तत्र षष्ठश्च तप उच्यते॥
सत्यं तु सप्तमो लोको ह्यपुनर्भवगामिनाम्॥ २३.३४ ॥

विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम्॥
स्कान्दमौमं तथा स्थानं सर्वसिद्धिसमन्वितम्॥ २३.३५ ॥

रुद्रलोकः स्मृतस्तस्मात्पदं तद्योगिनां शुभम्॥
निर्ममा निरहङ्काराः कामक्रोध विविर्जिताः॥ २३.३६ ॥

द्रक्ष्यन्ति तद्द्विजा युक्ता ध्यानतत्परमानसाः॥
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती॥ २३.३७ ॥

पादान्तं विष्णु लोकं वै कौमारं शान्तमुत्तमम्॥
औमं माहेश्वरं चैव तस्माद्दृष्टा चतुष्पदा॥ २३.३८ ॥

तस्मात्तु पशवः सर्वे भविष्यन्ति चतुष्पदाः॥
ततश्चैषां भविष्यन्ति चत्वारस्ते पयोधराः॥ २३.३९ ॥

सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः॥
जीवः प्राणभृतां ब्रह्मन्पुनः पीतस्तनाः स्मृताः॥ २३.४೦ ॥

तस्मात्सोममयं चैव अमृतं जीवसञ्ज्ञितम्॥
चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत्॥ २३.४१ ॥

यस्माच्चैव क्रिया भूत्वा द्विपदा च महेश्वरी॥
दृष्टा पुनस्तथैवैषा सावित्री लोकभाविनी॥ २३.४२ ॥

तस्माच्च द्विपदाः सर्वे द्विस्तनाश्च नराः शुभाः॥
तस्माच्चेयमजा भूत्वा सर्ववर्णा महेश्वरी॥ २३.४३ ॥

या वै दृष्टा महासत्त्वा सर्वभूतधरा त्वया॥
तस्माच्च विश्वरूपत्वं प्रजानां वै भविष्यति॥ २३.४४ ॥

अजश्चैव महातेजा विश्वरूपो भविष्यति॥
अमोघरेताः सर्वत्र मुखे चास्य हुताशनः॥ २३.४५ ॥

तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः॥
तपसा भावितात्मानो ये मां द्रक्ष्यन्ति वै द्विजाः॥ २३.४६ ॥

ईशित्वे च वशित्वे च सर्वगं सर्वतः स्थितम्॥
रजस्तमोभ्यां निर्मुक्तास्त्यक्त्वा मानुष्यकं वपुः॥ २३.४७ ॥

मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम्॥
इत्येवमुक्तो भगवान्ब्रह्मा रुद्रेण वै द्विजाः॥ २३.४८ ॥

प्रणम्य प्रयतो भूत्वा पुनराह पितामहः॥
य एवं भगवान् विद्वान् गायत्र्या वै महेश्वरम्॥ २३.४९ ॥

विश्वात्मानं हि सर्वं त्वां गायत्र्यास्तव चेश्वर॥
तस्य देहि परं स्थानं तथास्त्विति च सोब्रवीत्॥ २३.५೦ ॥

तस्माद्विद्वान् हि विश्वत्वमस्याश्चास्य महात्मनः॥
स याति ब्रह्मसायुज्यं वचनाद्ब्रह्मणः प्रभोः॥ २३.५१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रयोविंशोऽध्यायः॥ २३ ॥