०२२

सूत उवाच॥
अत्यन्तावनतौ दृष्ट्वा मधुपिङ्गायतेक्षणः॥
प्रहृष्टवदनोऽत्यर्थमभवत्सत्य कीर्तनात्॥ २२.१ ॥

उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः॥
पिनाकी खण्डपरशुः सुप्रीतस्तु त्रिलोचनः॥ २२.२ ॥

ततः स भगवान्देवः श्रुत्वा वागमृतं तयोः॥
जानन्नपि महादेवः क्रीडापूर्वमथाब्रवीत्॥ २२.३ ॥

कौ भवन्तौ महात्मानौ परस्परहितैषिणौ॥
समेतावम्बुजाभाक्षावस्मिन्घोरे महाप्लवे॥ २२.४ ॥

तावूचतुर्महात्मानौ सन्निरीक्ष्य परस्परम्॥
भगवान् किं तु यत्तेऽद्य न विज्ञानं त्वया विभो॥ २२.५ ॥

विभो रुद्र महामाय इच्छया वां कृतौ त्वया॥
तयोस्तद्वचनं श्रुत्वा अभिनन्द्याभिमान्यच॥ २२.६ ॥

उवाच भगवान्देवो मधुरं श्लक्ष्णया गिरा॥
भो भो हिरण्य गर्भ त्वां त्वां च कृष्ण ब्रवीम्यहम्॥ २२.७ ॥

प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया॥
भवन्तौ हृदयस्यास्य मम हृद्यतरावुभौ॥ २२.८ ॥

युवाभ्यां किं ददाम्यद्य वराणां वरमीप्सितम्॥
अथोवाच महाभागो विष्णुर्भवमिदं वचः॥ २२.९ ॥

सर्वं मम कृतं देव परितुष्टोऽसि मे यदि॥
त्वयि मे सुप्रतिष्ठा तु भक्तिर्भवतु शङ्करः॥ २२.१೦ ॥

एवमुक्तस्तु विज्ञाय सम्भावयत केशवम्॥
प्रददौ च महादेवो भक्तिं निजपदाम्बुजे॥ २२.११ ॥

भवान्सर्वस्य लोकस्य कर्ता त्वमधिदैवतम्॥
तदेवं स्वस्ति ते वत्स गमिष्याम्यम्बुजेक्षण॥ २२.१२ ॥

एवमुक्त्वा तु भगवान् ब्रह्माणं चापि शङ्करः॥
अनुगृह्याऽस्पृशद्देवो ब्रह्माणं परमेश्वरः॥ २२.१३ ॥

कराभ्यां सुशुभाभ्यां च प्राह हृष्टतरः स्वयम्॥
मत्समस्त्वं न सन्देहो वत्स भक्तश्च मे भवान्॥ २२.१४ ॥

स्वस्त्यस्तु ते गमिष्यामि सञ्ज्ञा भवतु सुव्रत॥
एवमुक्त्वा तु भगवांस्ततोन्तर्धानमीश्वरः॥ २२.१५ ॥

गतवान् गणपो देवः सर्वदेवनमस्कृतः॥
अवाप्य सञ्ज्ञां गोविन्दात् पद्मयोनिः पितामहः॥ २२.१६ ॥

प्रजाः स्रष्टुमनाश्चक्रे तप उग्रं पितामहः॥
तस्यैवं तप्यमानस्य न किञ्चित्समवर्तत॥ २२.१७ ॥

ततो दीर्घेण कालेन दुःखात्क्रोधो ह्यजायत॥
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः॥ २२.१८ ॥

ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः॥
महाभागा महासत्त्वाः स्वस्तिकैरप्यलङ्कृताः॥ २२.१९ ॥

प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महा विषाः॥
सर्पांस्तानग्रजान्दृष्ट्वा ब्रह्मात्मानमनिन्दयत्॥ २२.२೦ ॥

अहो धिक् तपसो मह्यं फलमीदृशकं यदि॥
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम॥ २२.२१ ॥

तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा॥
मूर्च्छाभिपरितापेन जहौ प्राणान्प्रजापतिः॥ २२.२२ ॥

तस्याप्रतिमवीर्यस्य देहात्कारुण्यपूर्वकम्॥
अथैकादश ते रुद्रा रुदन्तोऽभ्यक्रमंस्तथा॥ २२.२३ ॥

रोदनात्खलु रुद्रत्वं तेषु वै समजायत॥
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते तदात्मकाः॥ २२.२४ ॥

प्राणाः प्राणवतां ज्ञेयाः सर्वभूतेष्ववस्थिताः॥
अत्युग्रस्य महत्त्वस्य साधुराचरितस्य च॥ २२.२५ ॥

प्राणांस्तस्य ददौ भूयस्त्रिशूली नीललोहितः॥
लब्ध्वासून् भगवान्ब्रह्म देवदेवमुमापतिम्॥ २२.२६ ॥

प्रणम्य संस्थितोऽपश्यद्गायत्र्या विश्वमीश्वरम्॥
सर्वलोकमयं देवं दृष्ट्वा स्तुत्वा पितामहः॥ २२.२७ ॥

ततो विस्मयमापन्नः प्रणिपत्य मुहुर्मुहुः॥
उवाच वचनं शर्वं सद्यादित्वं कथं विभो॥ २२.२८ ॥

इति श्रीलङ्गमहापुराणे पूर्वभागे रुद्रोत्पत्तिवर्णनं नाम द्वाविंशतितमोऽध्यायः॥ २२॥