सूत उवाच॥
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः॥
अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च॥ २१.१ ॥
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत्॥
विष्णुरुवाच॥
नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे॥ २१.२ ॥
नमः क्षेत्राधिपतये बीजिने शूलिने नमः॥
सुमेण्ढ्रायार्च्यमेण्ढ्राय दण्डिने रूक्षरेतसे॥ २१.३ ॥
नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च॥
नमो मान्याय पूज्याय सद्योजाताय वै नमः॥ २१.४ ॥
गह्वराय घटेशाय व्योमचीराम्बराय च॥
नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः॥ २१.५ ॥
वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः॥
प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः॥ २१.६ ॥
नमो योगस्य प्रभवे साङ्ख्यस्य प्रभवे नमः॥
नमो ध्रुवनिबद्धानामृषीणां प्रभवे नमः॥ २१.७ ॥
ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः॥
वैद्युताशनिमेघानां गर्जितप्रभवे नमः॥ २१.८ ॥
महोदधीनां प्रभवे द्वीपानां प्रभवे नमः॥
अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः॥ २१.९ ॥
नमो नदीनां प्रभवे नदानां प्रभवे नमः॥
महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः॥ २१.१೦ ॥
धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः॥
प्रभवे च परार्धस्य परस्य प्रभवे नमः॥ २१.११ ॥
नमो रसानां प्रभवे रत्नानां प्रभवे नमः॥
क्षणानां प्रभवे चैव लवानां प्रभवे नमः॥ २१.१२ ॥
अहोरात्रार्धमासानां मासानां प्रभवे नमः॥
ऋतूनां प्रभवे तुभ्यं सङ्ख्यायाः प्रभवे नमः॥ २१.१३ ॥
प्रभवे चापरार्धस्य परार्धप्रभवे नमः॥
नमः पुराणप्रभवे सर्गाणां प्रभवे नमः॥ २१.१४ ॥
मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः॥
चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे॥ २१.१५ ॥
कल्पोदयनिबन्धानां वातानां प्रभवे नमः॥
नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः॥ २१.१६ ॥
विद्यानां प्रभवे चैव विद्याधिपतये नमः॥
नमो व्रताधिपतये व्रतानां प्रभवे नमः॥ २१.१७ ॥
मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः॥
पितॄणां पतये चैव पशूनां पतये नमः॥ २१.१८ ॥
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च॥
नमः पशूनां पतये गोवृषेन्द्रध्वजाय च॥ २१.१९ ॥
प्रजापतीनां पतये सिद्धीनां पतये नमः॥
दैत्यदानवसङ्घानां रक्षसां पतये नमः॥ २१.२೦ ॥
गन्धर्वाणां च पतये यक्षाणां पतये नमः॥
गरुडोरगसर्पाणां पक्षिणां पतये नमः॥ २१.२१ ॥
सर्वगुह्यपिशाचानां गुह्याधिपतये नमः॥
गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः॥ २१.२२ ॥
वराहायाप्रमेयाय ऋक्षाय विरजाय च॥
नमो सुराणां पतये गणानां पतये नमः॥ २१.२३ ॥
अम्भसां पतये चैव ओजसां पतये नमः॥
नमोस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च॥ २१.२४ ॥
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च॥
दीप्तश्रृङ्गैकश्रृङ्गाय वृषभाय ककुद्मिने॥ २१.२५ ॥
नमः स्थैर्याय वपुषे तेजसानुव्रताय च॥
अतीताय भविष्याय वर्तमानाय वै नमः॥ २१.२६ ॥
सुवर्चसे च वीर्याय शूराय ह्यजिताय च॥
वरदाय वरेण्याय पुरुषाय महात्मने॥ २१.२७ ॥
नमो भूताय भव्याय महते प्रभवाय च॥
जनाय च नमस्तुभ्यं तपसे वरदाय च॥ २१.२८ ॥
अणवे महते चैव नमः सर्वगताय च॥
नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च॥ २१.२९ ॥
नमो भवाय देवाय इज्याय याजकाय च॥
प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च॥ २१.३೦ ॥
नमः पाशाय शस्त्राय नमस्त्वाभरणाय च॥
हुताय उपहूताय प्रहुतप्राशिताय च॥ २१.३१ ॥
नमोस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च॥
सदस्याय नमश्चैव दक्षिणावभृथाय च॥ २१.३२ ॥
अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च॥
नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने॥ २१.३३ ॥
अतीताय भविष्याय वर्तमानाय ते नमः॥
सुवर्चसे च वीर्याय शूराय ह्यजिताय च॥ २१.३४ ॥
वरदाय वरेण्याय पुरुषाय महात्मने॥
नमो भूताय भव्याय महते चाभयाय च॥ २१.३५ ॥
जरासिद्ध नमस्तुभ्यमयसे वरदाय च॥
अधरे महते चैव नमः सस्तुपताय च॥ २१.३६ ॥
नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे॥
विश्वाय विश्वरूपाय विश्वतः शिरसे नमः॥ २१.३७ ॥
सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च॥
नमो हव्याय कव्याय हव्यवाहाय वै नमः॥ २१.३८ ॥
नमः सिद्धाय मेध्याय इष्टायेज्यापराय च॥
सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च॥ २१.३९ ॥
सुप्रजाय सुमेधाय दीप्ताय भास्कराय च॥
नमो बुद्धाय शुद्धाय विस्तृताय मताय च॥ २१.४೦ ॥
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः॥
वर्षते ज्वलते चैव वायवे शिशिराय च॥ २१.४१ ॥
नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च॥
नमो नमः सुवर्णाय तपनीयनिभाय च॥ २१.४२ ॥
विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे॥
वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च॥ २१.४३ ॥
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च॥
पिशिताय पिशङ्गाय पीताय च निषङ्गिणे॥ २१.४४ ॥
नमस्ते सविशेषाय निर्विशेषाय वै नमः॥
नम ईज्याय पूज्याय उपजीव्याय वै नमः॥ २१.४५ ॥
नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः॥
नमो भूताय सत्याय सत्यासत्याय वै नमः॥ २१.४६ ॥
नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे॥
नमो गौराय श्यामाय कद्रवे लोहिताय च॥ २१.४७ ॥
महासन्ध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे॥
नमः कमलहस्ताय दिग्वासाय कपर्दिने॥ २१.४८ ॥
अप्रमाणाय सर्वाय अव्ययायामराय च॥
नमो रूपाय गन्धाय शाश्वतायाक्षताय च॥ २१.४९ ॥
पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च॥
दुर्गमाय महेशाय क्रोधाय कपिलाय च॥ २१.५೦ ॥
तर्क्यातर्क्यशरीराय बलिने रंहसाय च॥
सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च॥ २१.५१ ॥
सुमेधसे कुलालाय नमस्ते शशिखण्डिने॥
चित्राय चित्रवेषाय चित्रवर्णाय मेधसे॥ २१.५२ ॥
चेकितानाय तुष्टाय नमस्ते निहिताय च॥
नमः क्षान्ताय दान्ताय वज्रसंहननाय च॥ २१.५३ ॥
रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे ॥
लेलिहाय कृतान्ताय तिग्मायुधधराय च॥ २१.५४ ॥
प्रमोदाय सम्मोदाय यतिवेद्याय ते नमः॥
अनामयाय सर्वाय महाकालाय वै नमः॥ २१.५५ ॥
प्रणवप्रणवेशाय भगनेत्रान्तकाय च॥
मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च॥ २१.५६ ॥
सर्वभूतात्मभूताय सर्वेशाति शयाय च॥
पुरघ्नाय सुशस्त्राय धन्विनेऽथ परश्वधे॥ २१.५७ ॥
पूषदन्तविनाशाय भगनेत्रान्तकाय च॥
कामदाय वरिष्ठाय कामाङ्गदहनाय च॥ २१.५८ ॥
रङ्गे करालवक्राय नागेन्द्रवदनाय च॥
दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च॥ २१.५९ ॥
हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च॥
श्मशानरतिनित्याय नमोस्तूल्मुकधारिणे॥ २१.६೦ ॥
नमस्ते प्राणपालाय मुण्डमालाधराय च॥
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च॥ २१.६१ ॥
नरनारीशरीराय देव्याः प्रियकराय च॥
जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने॥ २१.६२ ॥
नमोऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च॥
मन्यवे गीतशीलाय मुनिभिर्गायते नमः॥ २१.६३ ॥
कटकटाय तिग्माय अप्रियाय प्रियाय च॥
विभीषणाय भीष्माय भगप्रमथनाय च॥ २१.६४ ॥
सिद्धसङ्घानुगीताय महाभागाय वै नमः॥
नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च॥ २१.६५ ॥
नर्दते कूर्दते चैव नमः प्रमुदितात्मने॥
नमो मॄडाय श्वसते धावतेऽधिष्ठिते नमः॥ २१.६६ ॥
ध्यायते जृम्भते चैव रुदते द्रवते नमः॥
वल्गते क्रीडते चैव लम्बोदरशरीरिणे॥ २१.६७ ॥
नमोऽकृत्याय कृत्याय मुण्डाय कीकटाय च॥
नम उन्मत्तदेहाय किङ्किणीकाय वै नमः॥ २१.६८ ॥
नमो विकृतवेषाय क्रूरायामर्षणाय च॥
अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च॥ २१.६९ ॥
वामप्रियाय वामाय चूडामणिधराय च॥
नमस्तोकाय तनवे गुणैरप्रमिताय च॥ २१.७೦ ॥
नमो गुण्याय गुह्याय अगम्यगमनाय च॥
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ॥ २१.७१ ॥
सर्वेषां सिद्धियोगानामधिष्ठानं तवोदरम्॥
मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम्॥ २१.७२ ॥
स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि॥
दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः॥ २१.७३ ॥
विस्तीर्णपरिणाहश्च नीलाञ्जनचयोपमः॥
कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः॥ २१.७४ ॥
दंष्ट्राकरालं दुर्धर्षमनौपम्यं मुखं तथा॥
पद्ममालाकृतोष्णीषं शिरो द्यौः शोभतेऽधिकम्॥ २१.७५ ॥
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैलेऽनिले बलम्॥
औष्ण्यमग्नौ तथा शैत्यमप्सु शब्दोऽम्बरे तथा॥ २१.७६ ॥
अक्षरान्तरनिष्पन्दाद्गुणानेतान्विदुर्बुधाः॥
जपो जप्यो महादेवो महायोगोमहेश्वरः॥ २१.७७ ॥
पुरेशयो गुहावासी खेचरो रजनीचरः॥
तपोनिधिर्गुहगुरुर्नन्दनो नन्दवर्धनः॥ २१.७८ ॥
हयशीर्षा पयोधाता विधाता भूतभावनः॥
बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः॥ २१.७९ ॥
बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः॥
घण्टाप्रियो ध्वजी छत्री पिनाकी ध्वजिनीपतिः॥ २१.८೦ ॥
कवची पाट्टिशी खङ्गी धनुर्हस्तः परमश्वधी॥
अघस्मरोऽनघः शूरो देवराजोऽरिमर्दनः॥ २१.८१ ॥
त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि॥
अग्निः सदार्णवाम्भस्त्वं पिबन्नपि न तृप्यसे॥ २१.८२ ॥
क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः॥
ब्रह्मचारि चागाधश्च ब्रह्मण्यः शिष्टपूजितः॥ २१.८३ ॥
देवानामक्षयः कोशस्त्वया यज्ञः प्रकल्पितः॥
हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः॥
प्रीति त्वयि महादेव वयं प्रीति भवामहे॥ २१.८४ ॥
भवानीशोऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः॥
साङ्ख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति॥ २१.८५ ॥
योगाश्च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् सन्त्यजन्ते पुनस्तान्॥
ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति॥ २१.८६ ॥
अप्रसङ्ख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः॥
कीर्तितं तव माहात्म्यमपारस्य महात्मनः॥ २१.८७ ॥
शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते॥
सूत उवाच॥
य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम्॥ २१.८८ ॥
श्रावयेद्वा द्विजान् विद्वान् श्रृणुयाद्वा समाहितः॥
अश्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात्॥ २१.८९ ॥
पापाचारोऽपि यो मर्त्यः श्रृणुयाच्छिवसन्निधौ॥
जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति॥ २१.९೦ ॥
श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके॥
कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणोन्तिकम्॥ २१.९१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मविष्णुस्तुतिर्नामैकविंशोऽध्यायः॥ २१ ॥