ऋषय ऊचुः॥
कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवोऽभवत्॥
भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः॥ २೦.१ ॥
एतत्सर्वं विशेषेण साम्प्रतं वक्तुमर्हसि॥
सूत उवाच॥
आसीदेकार्णवं घोरमविभागं तमोमयम्॥ २೦.२ ॥
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः॥
जीमूताम्भोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः॥ २೦.३ ॥
नारायणमुखोद्गीर्णसर्वात्मा पुरुषोत्तमः॥
अष्टबाहुर्महावक्षा लोकानां योनिरुच्यते॥ २೦.४ ॥
किमप्यचिन्त्यं योगात्मा योगमास्थाय योगवित्॥
फणासहस्रकलितं तमप्रतिमवर्चसम्॥ २೦.५ ॥
महाभोगपतेर्भोगं साध्वास्तीर्य महोच्छ्रयम्॥
तस्मिन्महति पर्यङ्के शेते चैकार्णवे प्रभुः॥ २೦.६ ॥
एवं तत्र शयनेन विष्णुना प्रभविष्णुना॥
आत्मारामेण क्रीडार्थं लीलयाक्लिष्टकर्मणा॥ २೦.७ ॥
शतयोजनविस्तीर्णं तरुणादित्यसन्निभम्॥
वज्रदण्डं महोत्सेधं नाभ्यां सृष्टं तु पुष्करम्॥ २೦.८ ॥
तस्यैवं क्रीडमानस्य समीपं देवमीढुषः॥
हेमगर्भाण्डजो ब्रह्म रुक्मवर्णो ह्यतीन्द्रियः॥ २೦.९ ॥
चतुर्वक्त्रो विशालाक्षः समागम्य यदृच्छया॥
श्रिया युक्तेन दिव्येन सुशुभेन सुगन्धिना॥ २೦.१೦ ॥
क्रीडमानं च पद्मेन दृष्ट्वा ब्रह्मा शुभेक्षणम्॥
सविस्मयमथागम्य सौम्यसम्पन्नया गिरा॥ २೦.११ ॥
प्रोवाच को भवाञ्छेते ह्याश्रितो मध्यमम्भसाम्॥
अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः॥ २೦.१२ ॥
उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः॥
प्रत्युवाचोत्तरं चैव कल्पेकल्पे प्रतिश्रयः॥ २೦.१३ ॥
कर्तव्यं च कृतं चैव क्रियते यच्च किञ्चन।
द्यौरन्तरिक्षं भूश्चैव परं पदमहं भुवः॥ २೦.१४ ॥
तमेवमुक्त्वा भगवान् विष्णुः पुनरथाब्रवीत्॥
कस्त्वं खलु समायातः समीपं भगवान्कुतः॥ २೦.१५ ॥
क्व वा भूयश्च गन्तव्यं कश्च वा ते प्रतिश्रयः॥
को भवान् विश्वमूर्तिर्वै कर्तव्यं किं च ते मया॥ २೦.१६ ॥
एवं ब्रुवन्तं वैकुण्ठं प्रत्युवाच पितामहः॥
मायया मोहितः शम्भोरविज्ञाय जनार्दनम्॥ २೦.१७ ॥
मायया मोहितं देवमविज्ञातं महात्मनः॥
यथा भवांस्तथैवाहमादिकर्ता प्रजापतिः॥ २೦.१८ ॥
सविस्मयं वचः श्रुत्वा ब्रह्मणो लोकतन्त्रिणः॥
अनुज्ञातश्च ते नाथ वैकुण्ठो विश्वसम्भवः॥ २೦.१९ ॥
कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम्॥
इमानष्टादश द्वीपान्ससमुद्रान् सपर्वतान्॥ २೦.२೦ ॥
प्रविश्य सुमहातेजाश्चातुर्वर्ण्यसमाकुलान्॥
ब्रह्मणस्तम्बपर्यन्तं सप्तलोकान् सनातनान्॥ २೦.२१ ॥
ब्रह्मणस्तूदरे दृष्ट्वा सर्वान्विष्णुर्महाभुजः॥
अहोस्य तपसो वीर्यमित्युक्त्वा च पुनः पुनः॥ २೦.२२ ॥
अटित्वा विविधाल्ँलोकान् विष्णुर्नानाविधाश्रयान्॥
ततो वर्षसहस्रान्ते नान्तं हि ददृशे यदा॥ २೦.२३ ॥
तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः॥
नारायणो जगद्धाता पितामहमथाब्रवीत्॥ २೦.२४ ॥
भगवानादिरन्तश्च मध्यं कालो दिशो नभः॥
नाहमन्तं प्रपश्यामि उदरस्य तवानघ॥ २೦.२५ ॥
एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः॥
भगवानेवमेवाहं शाश्वतं हि ममोदरम्॥ २೦.२६ ॥
प्रविश्य लोकान् पश्यैताननौपम्यान्सुरोत्तम॥
ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनन्द्य च॥ २೦.२७ ॥
श्रीपतेरुदरं भूयः प्रविवेश पितामहः॥
तानेव लोकान् गर्भस्थानपश्यत्सत्यविक्रमः॥ २೦.२८ ॥
पर्यटित्वा तु देवस्य ददृशेऽन्तं न वै हरेः॥
ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः॥
विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तोहमिति प्रचिन्त्य॥ २೦.२९ ॥
ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै॥
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत॥ २೦.३೦ ॥
पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः॥
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः॥ २೦.३१ ॥
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः॥
ब्रह्मा स्वयम्भूर्भगवाञ्जगद्योनिः पितामहः॥ २೦.३२ ॥
एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कृत्स्नशः॥
वर्तमाने तु सङ्घर्षे मध्ये तस्यार्णवस्य तु॥ २೦.३३ ॥
कुतोप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः॥
शूलपाणिर्महादेवो हेमवीराम्बरच्छदः॥ २೦.३४ ॥
अगच्छद्यत्र सोनन्तो नागभोगपतिर्हरिः॥
शीघ्रं विक्रमतस्तस्य पद्भ्यामाक्रान्तपीडिताः॥ २೦.३५ ॥
उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः॥
अत्युष्णश्चातिशीतश्च वायुस्तत्र ववौ पुनः॥ २೦.३६ ॥
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत॥
अब्बिन्दवश्च शीतोष्णाः कम्पयन्त्यम्बुजं भृशम्॥ २೦.३७ ॥
एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि॥
एतदेवंविधं वाक्यं पितामहमुखोद्गतम्॥ २೦.३८ ॥
श्रुत्वाप्रतिमकर्मा हि भगवानसुरान्तकृत्॥
किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम्॥ २೦.३९ ॥
वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः॥
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्॥ २೦.४೦ ॥
किमत्र भगवानद्य पुष्करे जातसम्भ्रमः॥
किं मया च कृतं देव यन्मां प्रियमनुत्तमम्॥ २೦.४१ ॥
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः॥
एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः॥ २೦.४२ ॥
प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः॥
योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया॥ २೦.४३ ॥
यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो॥
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे॥ २೦.४४ ॥
ततो वर्षसहस्रात्तु उपावृत्तस्य मेऽनघ॥
त्वया मत्सरभावेन मां वशीकर्तुमिच्छता॥ २೦.४५ ॥
आशु द्वाराणि सर्वाणि पिहितानि समन्ततः॥
ततो मया महाभाग सञ्चित्य स्वेन तेजसा॥ २೦.४६ ॥
लब्धो नाभिप्रदेशेन पद्मसूत्राद्विनिर्गमः॥
माभूत्ते मनसोऽल्पोपि व्याघातोऽयं कथञ्चन॥ २೦.४७ ॥
इत्येषानुगतिर्विष्णो कार्याणामौपसर्पिणी॥
यन्मयानन्तरं कार्यं ब्रूहि किं करवाण्यहम्॥ २೦.४८ ॥
ततः परममेयात्मा हिरण्यकशिपो रिपुः॥
अनवद्यां प्रियामिष्टां शिवां वाणीं पितामहात्॥ २೦.४९ ॥
श्रुत्वा विगतमात्सर्यं वाक्यमस्मै ददौ हरिः॥
न ह्येवमीदृशं कार्यं मयाध्यवसितं तव॥ २೦.५೦ ॥
त्वां बोधयितुकामेन क्रीडापूर्वं यदृच्छया॥
आशु द्वाराणि सर्वाणि घटितानि मयात्मनः॥ २೦.५१ ॥
न तेऽन्यथावगन्तव्यं मान्यः पूज्यश्च मे भवान्॥
सर्वं मर्षय कल्याण यन्मयापकृतं तव॥ २೦.५२ ॥
अस्मान् मयोह्यमानस्त्वं पद्मादवतर प्रभो॥
नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम्॥ २೦.५३ ॥
सहोवाच वरं ब्रूहि पद्मादवतर प्रभो॥
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम्॥ २೦.५४ ॥
सद्भाववचनं ब्रूहि पद्मादवतर प्रभो॥
स त्वं च नो महायोगी त्वमीड्यः प्रणवात्मकः॥ २೦.५५ ॥
अद्यप्रभृति सर्वेशः श्वेतोष्णीषविभूषितः॥
पद्मयोनिरिति ह्येवं ख्यातो नाम्ना भविष्यसि॥ २೦.५६ ॥
पुत्रो मे त्वं भव ब्रह्मन् सप्तलोकाधिपः प्रभो॥
ततः स भगवान्देवो वरं दत्वा किरीटिने॥ २೦.५७ ॥
एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः॥
प्रत्यासन्नमथायान्तं बालार्काभं महाननम्॥ २೦.५८ ॥
भवमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत्॥
अप्रमेयो महावक्त्रो दंष्ट्री ध्वस्तशिरोरुहः॥ २೦.५९ ॥
दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतः स्थितः॥
लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली॥ २೦.६೦ ॥
मेण्ढ्रेणोर्ध्वेन महता नर्दमानोतिभैरवम्॥
कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः॥ २೦.६१ ॥
व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते॥
तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत्॥ २೦.६२ ॥
पद्भ्यां? तल०निपातेन यस्य विक्रमतोर्णवे॥
वेगेन महताकाशेप्युत्थिताश्च जलाशयाः॥ २೦.६३ ॥
स्थूलाद्भिर्विश्वतोत्यर्थं सिच्यसे पद्मसम्भव॥
घ्राणजेन च वातेन कम्प्यमानं त्वया सह॥ २೦.६४ ॥
दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम्॥
समागतो भवानीशो ह्यनादिश्चान्तकृत्प्रभुः॥ २೦.६५ ॥
भवानहं च स्तोत्रेण उपतिष्ठाव गोध्वजम्॥
ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम्॥ २೦.६६ ॥
भवान्न नूनमात्मानं वेत्ति लोकप्रभुं विभुम्॥
ब्रह्माणं लोककर्तारं मां न वेत्सि सनातनम्॥ २೦.६७ ॥
को ह्यसौ शङ्करो नाम आवयोर्व्यतिरिच्यते॥
तस्य तत्क्रोधजं वाक्यं श्रुत्वा हरिरभाषत॥ २೦.६८ ॥
मा मैवं वद कल्याण परिवादं महात्मनः॥
महायोगेन्धनो धर्मो दुराधर्षो वरप्रदः॥ २೦.६९ ॥
हेतुरस्याथ जगतः पुराणपुरुषोऽव्ययः॥
बीजी खल्वेष बीजानां ज्योतिरेकः प्रकाशते॥ २೦.७೦ ॥
बालक्रीडनकैर्देवः क्रीडते शङ्करः स्वयम्॥
प्रधानमव्ययो योनिरव्यक्तं प्रकृतिस्तमः॥ २೦.७१ ॥
मम चैतानि नामानि नित्यं प्रसवधर्मिणः॥
यः कः स इति दुःखार्तैर्दृश्यते यतिभिः शिवः॥ २೦.७२ ॥
एष बीजी भवान्बीजमहं योनिः सनातनः॥
स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत॥ २೦.७३ ॥
भवान् योनिरहं बीजं कथं बीजी महेश्वरः॥
एतन्मे सूक्ष्ममव्यक्तं संशयञ्छेत्तुमर्हसि॥ २೦.७४ ॥
ज्ञात्वा च विविधोत्पत्तिं ब्रह्मणो लोकतन्त्रिणः॥
इमं परमसादृश्यं प्रश्नमभ्यवदद्धरिः॥ २೦.७५ ॥
अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते॥
महतः परमं धाम शिवमध्यात्मिनां पदम्॥ २೦.७६ ॥
द्विविधं चैवमात्मानं प्रविभज्यव्यवस्थितः॥
निष्कलस्तत्र योव्यक्तः सकलश्च महेश्वरः॥ २೦.७७ ॥
यस्य मायाविधिज्ञस्य अगम्यगहनस्य च॥
पुरा लिङ्गोद्भवं बीजं प्रथमं त्वादिसर्गिकम्॥ २೦.७८ ॥
मम योनौ समायुक्तं तद्बीजं कालपर्ययात्॥
हिरण्मयमकूपारे योन्यामण्डमजायत॥ २೦.७९ ॥
शतानि दशवर्षाणामण्डमप्सु प्रतिष्ठितम्॥
अन्ते वर्षसहस्रस्य वायुना तद्द्विदा कृतम्॥ २೦.८೦ ॥
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः॥
उल्बं तस्य महोत्सेधो योसौ कनकपर्वतः॥ २೦.८१ ॥
ततश्च प्रतिसन्ध्यात्मा देवदेवो वरः प्रभुः॥
हिरण्यगर्भो भगवांस्त्वभिजज्ञे चतुर्मुखः॥ २೦.८२ ॥
आतारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च॥
कोहमित्यपि च ध्याते कुमारास्तेऽभवंस्तदा॥ २೦.८३ ॥
प्रियदर्शनास्तु यतयो यतीनां पूर्वजास्तव॥
भूयो वर्षसहस्रान्ते तत एवात्मजास्तव॥ २೦.८४ ॥
भुवनानलसङ्काशाः पद्मपत्रायतेक्षणाः॥
श्रीमान्सनत्कुमारश्च ऋभुश्चैवोर्ध्व रेतसौ॥ २೦.८५ ॥
सनकः सनातनश्चैव तथैव च सनन्दनः॥
उत्पन्नाः समकालं ते बुद्ध्यातीन्द्रियदर्शनाः॥ २೦.८६ ॥
उत्पन्नाः प्रतिभात्मानो जगतां स्थितिहेतवः॥
नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः॥ २೦.८७ ॥
अल्पसौख्यं बहुक्लेशं जराशोकसमन्विताम्॥
जीवनं मरणं चैव सम्भवश्च पुनः पुनः॥ २೦.८८ ॥
अल्पभूतं सुखं स्वर्गे दुःखानि नरके तथा॥
विदित्वा चागमं सर्वमवश्यं भवितव्यताम्॥ २೦.८९ ॥
ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ॥
त्रयस्तु त्रीन् गुणान् हित्वा चात्मजाः सनकादयः॥ २೦.९೦ ॥
वैवर्तेन तु ज्ञानेन प्रवृत्तास्ते महौजसः॥
ततस्तेषु प्रवृत्तेषु सनकादिषु वै त्रिषु॥ २೦.९१ ॥
भविष्यसि विमूढस्त्वं मायया शङ्करस्य तु॥
एवं कल्पे तु वै वृत्ते सञ्ज्ञा नश्यति तेऽनघ॥ २೦.९२ ॥
कल्पे शेषाणि भूतानि सूक्ष्माणि पार्थिवानि च॥
सर्वेषां ह्यैश्वरी माया जागृतिः समुदाहृता॥ २೦.९३ ॥
यथैष पर्वतो मेरुर्देवलोको ह्युदाहृतः॥
तस्य चेदं हि माहात्म्यं विद्धि देववरस्य ह॥ २೦.९४ ॥
ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम्॥
महादेवं महाभूतं भूतानां वरदं प्रभुम्॥ २೦.९५ ॥
प्रणवेनाथ साम्ना तु नमस्कृत्य जगद्गुरुम्॥
त्वां च मां चैव सङ्क्रुद्धो निःश्वासान्निर्दहेदयम्॥ २೦.९६ ॥
एवं ज्ञात्वा महायोगमभ्युत्तिष्ठन्महाबलम्॥
अहं त्वामग्रतः कृत्वा स्तोष्याम्यनलसप्रभम्॥ २೦.९७ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मप्रबोधनं नाम विंशोऽध्यायः॥ २೦ ॥