सूत उवाच॥
अथोवाच महादेवः प्रीतोहं सुरसत्तमौ॥
पश्यतां मां महादेवं भयं सर्वं विमुच्यताम्॥ १९.१ ॥
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ॥
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः॥ १९.२ ॥
वामे पार्श्वे च मे विष्णुर्विश्वात्मा हृदयोद्भवः॥
प्रीतोहं युवयोः सम्यग्वरं दद्मि यथेप्सितम्॥ १९.३ ॥
एवमुक्त्वा तु तं विष्णुं कराभ्यां परमेश्वरः॥
पस्पर्श सुभगाभ्यां तु कृपया तु कृपानिधिः॥ १९.४ ॥
ततः प्रहृष्टमनसा प्रणिपत्य महेश्वरम्॥
प्राह नारायणो नाथं लिङ्गस्थं लिङ्गवर्जितम्॥ १९.५ ॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ॥
भर्क्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी॥ १९.६ ॥
देवः प्रदत्तवान् देवाः स्वात्मन्यव्यभिचारिणीम्॥
ब्रह्मणे विष्णवे चैव श्रद्धां शीतांशुभूषणः॥ १९.७ ॥
जानुभ्यामवनीं गत्वा पुनर्नारायणः स्वयम्॥
प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी॥ १९.८ ॥
आवयोर्देवदेवेश विवादमतिशोभनम्॥
इहागतो भवान् यस्माद्विवादशमनाय नौ॥ १९.९ ॥
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम्॥
प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटं स्मयन्॥ १९.१೦ ॥
श्रीमहादेव उवाच॥
प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते॥
वत्सवत्स हरे विष्णो पालयैतच्चराचरम्॥ १९.११ ॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया॥
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः॥ १९.१२ ॥
सम्मोहं त्यज भो विष्णो पालयैनं पितामहम्॥
पाद्मे भविष्यति सुतः कल्पे तव पितामहः॥ १९.१३ ॥
तदा द्रक्ष्यसि मां चैवं सोपि द्रक्ष्यति पद्मजः॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत॥ १९.१४ ॥
तदाप्रभृति लोकेषु लिङ्गार्च्चा सुप्रतिष्ठिता॥
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः॥ १९.१५ ॥
लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं सुराः॥
यस्तु लैङ्गं पठेन्नित्यमाख्यानं लिङ्गसन्निधौ॥ १९.१६ ॥
स याति शिवतां विप्रो नात्र कार्या विचारणा॥ १९.१७ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे विष्णुप्रबोधो नामैकोनाविंशोऽध्यायः॥ १९ ॥