विष्णुरुवाच॥
एकाक्षराय रुद्राय अकारायात्मरूपिणे॥
उकारायादिदेवाय विद्यादेहाय वै नमः॥ १८.१ ॥
तृतीयाय मकाराय शिवाय परमात्मने॥
सूर्याग्निसोमवर्णाय यजमानाय वै नमः॥ १८.२ ॥
अग्नये रुद्ररूपाय रुद्राणां पतये नमः॥
शिवाय शिवमन्त्राय सद्योजाताय वेधसे॥ १८.३ ॥
वामाय वामदेवाय वरदायामृताय ते॥
अघोरायातिघोराय सद्योजाताय रंहसे॥ १८.४ ॥
ईशानाय श्मशानाय अतिवेगाय वेगिने॥
नमोस्तु श्रुतिपादाय ऊर्ध्वलिङ्गाय लिङ्गिने॥ १८.५ ॥
हेमलिङ्गाय हेमाय वारिलिङ्गाय चाम्भसे॥
शिवाय शिव लिङ्गाय व्यापिने व्योमव्यापिने॥ १८.६ ॥
वायवे वायुवेगाय नमस्ते वायुव्यापिने॥
तेजसे तेजसां भर्त्रे नमस्तेजोधिव्यापिने॥ १८.७ ॥
जलाय जलभूताय नमस्ते जलव्यापिने॥
पृथिव्यै चान्तरिक्षाय पृथिवीव्यापिने नमः॥ १८.८ ॥
शब्दस्पर्शस्वरूपाय रसगन्धाय गन्धिने॥
गणाधिपतये तुभ्यं गुह्यद्गुह्यतमाय ते॥ १८.९ ॥
अनन्ताय विरुपाय अनन्तानामयाय च॥
शाश्वताय वरिष्ठाय वारिगर्भाय योगिने॥ १८.१೦ ॥
संस्थिता याम्भसां मध्ये आवयोर्मध्यवर्चसे॥
गोप्त्रे हर्त्रे सदा कर्त्रे निधनायेश्वराय च॥ १८.११ ॥
अचेतनाय चिन्त्याय चेतनायासहारिणे॥
अरूपाय सुरूपाय अनङ्गायाङ्गहारिणे॥ १८.१२ ॥
भस्मदिग्धशरीराय भानुसोमाग्निहेतवे॥
श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च॥ १८.१३ ॥
सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च॥
श्वेतास्याय महास्याय नमस्ते श्वेतलोहित॥ १८.१४ ॥
सुताराय विशिष्टाय नमो दुन्दुभिने हर॥
शतरूप विरुपाय नमः केतुमते सदा॥ १८.१५ ॥
ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने॥
विपाशाय सुपाशाय नमस्ते पाशनाशिने॥ १८.१६ ॥
सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे॥
सुमुखाय सुवक्त्राय दुर्दमाय दमाय च॥ १८.१७ ॥
कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग॥
सनकाय नमस्तुभ्यं सनातन सनन्दन॥ १८.१८ ॥
सनत्कुमार सारङ्गमारणाय महात्मने॥
लोकाक्षिणे त्रिधामाय नमो विरजसे सदा॥ १८.१९ ॥
शङ्खपालाय शङ्खाय रजसे तमसे नमः॥
सारस्वताय मेघाय मेघवाहन ते नमः॥ १८.२೦ ॥
सुवाहाय विवाहाय विवादवरदाय च॥
नमः शिवाय रुद्राय प्रधानाय नमोनमः॥ १८.२१ ॥
त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः॥
संसाराय नमस्तुभ्यं नमः संसारहेतवे॥ १८.२२ ॥
मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमोनमः॥
आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः॥ १८.२३ ॥
नमो भगवते तुभ्यं नागानां पतये नमः॥
ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः॥ १८.२४ ॥
सर्वाय च नमस्तुभ्यं नमो नारायणाय च॥
नमो हिरण्यगर्भाय आदिदेवाय ते नमः॥ १८.२५ ॥
नमोस्त्वजाय पतये प्रजानां व्यूहहेतवे॥
महादेवाय देवानामीश्वराय नमो नमः॥ १८.२६ ॥
शर्वाय च नमस्तुभ्यं सत्याय शमनाय च॥
ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः॥ १८.२७ ॥
महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः॥
चितये चितिरूपाय स्मृतिरूपाय वै नमः॥ १८.२८ ॥
ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा॥
शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः॥ १८.२९ ॥
अर्धनारीशरीराय अव्यक्ताय नमोनमः॥
एकादशविभेदाय स्थाणवे ते नमः सदा॥ १८.३೦ ॥
नमः सोमाय सूर्याय भवाय भवहारिणे॥
यशस्कराय देवाय शङ्करायेश्वराय च॥ १८.३१ ॥
नमोम्बिकाधिपतये उमायाः पतये नमः॥
हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे॥ १८.३२ ॥
नीलकेशाय वित्ताय शितिकण्ठाय वै नमः॥
कपर्दिने नमस्तुभ्यं नागाङ्गाभरणाय च॥ १८.३३ ॥
वृषारूढाय सर्वस्य हर्त्रे कर्त्रे नमोनमः॥
वीररामातिरामाय रामनाथाय ते विभो॥ १८.३४ ॥
नमो राजाधिराजाय राज्ञामधिगताय ते॥
नमः पालाधिपतये पालाशाकृन्तते नमः॥ १८.३५ ॥
नमः केयूरभूषाय गोपते ते नमोनमः॥
नमः श्रीकण्ठनाथाय नमो लिकुचपाणये॥ १८.३६ ॥
भुवनेशाय देवाय वेदशास्त्र नमोस्तु ते॥
सारङ्गाय नमस्तुभ्यं राजहंसाय ते नमः॥ १८.३७ ॥
कनकाङ्गदहाराय नमः सर्पोपवीतिने॥
सर्पकुण्डलमालाय कटिसूत्रीकृताहिने॥ १८.३८ ॥
वेदगर्भाय गर्भाय विश्वगर्भाय ते शिव॥
ब्रह्मोवाच॥
विररामेति संस्तुत्वा ब्रह्मणा सहितो हरिः॥ १८.३९ ॥
एतत्स्तोत्रवरं पुण्यं सर्वपापप्रणाशनम्॥
यः पठेच्छ्रावयेद्वापि ब्राह्मणान् वेदपारगान्॥ १८.४೦ ॥
स याति ब्रह्मणो लोके पापकर्मरतोपि वै॥
तस्माज्जपेत्पठेन्नित्यं श्रावयेद्ब्राह्मणाञ्छुभान्॥ १८.४१ ॥
सर्वपापविशुद्ध्यर्थं विष्णुना परिभाषितम्॥ १८.४२ ॥
इति लिङ्गमहापुराणे पूर्वभागे विष्णुस्तवो नामाष्टादशोऽध्यायः॥ १८ ॥