०१७

सूत उवाच॥
एवं सङ्क्षेपतः प्रोक्तः सद्यादीनां समुद्भवः॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्॥ १७.१ ॥

स याति ब्रह्मसायुज्यं प्रसादात्परमेष्ठिनः॥
ऋषय ऊचुः॥
कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः॥ १७.२ ॥

किं लिङ्गं कस्तथा लिङ्गी सूत वक्तुमिहार्हसि॥
रोमहर्षण उवाच॥
एवं देवाश्च ऋषयः प्रणिपत्य पितामहम्॥ १७.३ ॥

अपृच्छन् भगवाल्ँलिङ्गं कथमासीदिति स्वयम्॥
लिङ्गे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति॥ १७.४ ॥

किं लिङ्गं कस्तथा लिङ्गी सोप्याह च पितामहः॥
पितामह उवाच॥
प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः॥ १७.५ ॥

रक्षार्थमम्बुधौ मह्यं विष्णोस्त्वासीत्सुरोत्तमाः॥
वैमानिके गते सर्गे जनलोकं सहर्षिभिः॥ १७.६ ॥

स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा॥
चतुर्युगसहस्रान्ते सत्यलोकं गते सुराः॥ १७.७ ॥

विनाधिपत्यं समतां गतेऽन्ते ब्रह्मणो मम॥
शुष्के च स्थावरे सर्वे त्वनावृष्ट्या च सर्वशः॥ १७.८ ॥

पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः॥
गन्धर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः॥ १७.९ ॥

एकार्णवे महाघोरे तमोभूते समन्ततः॥
सुष्वापाम्भसि योगात्मा निर्मलो निरुपप्लवः॥ १७.१೦ ॥

सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात्॥
सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः॥ १७.११ ॥

हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम्॥
सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः॥ १७.१२ ॥

कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः॥
नारायणो महाबाहुः सर्वात्मा सदसन्मयः॥ १७.१३ ॥

तथाभूतमहं दृष्ट्वा शयानं पङ्कजेक्षणम्॥
मायया मोहितस्तस्य तमवोचममर्षितः॥ १७.१४ ॥

कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम्॥
तदा हस्तप्रहारेण तीव्रेण स दृढेन तु॥ १७.१५ ॥

प्रबुद्धोहीयशयनात्समासीनः क्षणं वशी॥
ददर्श निद्राविक्लिन्न नीरजामललोचनः॥ १७.१६ ॥

मामग्रे संस्थितं भासाध्यासितो भगवान् हरिः॥
आह चोत्थाय भगवान् हसन्मां मधुरं सकृत्॥ १७.१७ ॥

स्वागतंस्वागतं वत्स पितामह महाद्युते॥
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभाः॥ १७.१८ ॥

रजसा बद्धवैरश्च तमवोचं जनार्दनम्॥
भाषसे वत्सवत्सेति सर्गसंहारकारणम्॥ १७.१९ ॥

मामिहान्तः स्मितं कृत्वा गुरुः शिष्यमिवानघ॥
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम्॥ १७.२೦ ॥

सनातनमजं विष्णुं विरिञ्चिं विश्वसम्भवम्॥
विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम्॥ १७.२१ ॥

किमर्थं भाषसे मोहाद्वक्तुमर्हासि सत्वरम्॥
सोपि मामाह जगतां कर्ताहमिति लोकय॥ १७.२२ ॥

भर्ता हर्ता भवानङ्गादवतीर्णो ममाव्ययात्॥
विस्मृतोऽसि जगन्नाथं नारायणमनामयम्॥ १७.२३ ॥

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्॥
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्॥ १७.२४ ॥

तवापराधो नास्त्यत्र मम मायाकृतं त्विदम्॥
श्रृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्ययम्॥ १७.२५ ॥

कर्ता नेता च हर्ता च न मयास्ति समो विभुः॥
अहमेव परं ब्रह्म परं तत्त्वं पितामह॥ १७.२६ ॥

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः॥
यद्यदृष्टं श्रुतं सर्वं जगत्यस्मिंश्चराचरम्॥ १७.२७ ॥

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ॥
मया सृष्टं पुराव्यक्तं चतुर्विशतिकं स्वयम्॥ १७.२८ ॥

नित्यान्ता ह्यणवो बद्धाः सृष्टाः क्रोधोद्भवादयः॥
प्रसादाद्धि भवानण्डान्यनेकानीह लीलया॥ १७.२९ ॥

सृष्टा बुद्धिर्मया तस्यामहङ्कारस्त्रिधा ततः॥
तन्मात्रापञ्चकं तस्मान्मनः षष्ठेन्द्रियाणि च॥ १७.३೦ ॥

आकाशादीनि भूतानि भौतिकानि च लीलया॥
इत्युक्तवति तस्मिंश्च मयि चापि वचस्तथा॥ १७.३१ ॥

आवयोश्चाभवद्युद्धं सुघोरं रोमहर्षणम्॥
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः॥ १७.३२ ॥

एतस्मिन्नन्तरे लिङ्गमभवच्चावयोः पुरः॥
विवादशमनार्थं हि प्रबोधार्थं च भास्वरम्॥ १७.३३ ॥

ज्वालामालासहस्राढ्यं कालानलशतोपमम्॥
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम्॥ १७.३४ ॥

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसम्भवम्॥
तस्य ज्वालासहस्रेण मोहितो भगवान् हरिः॥ १७.३५ ॥

मोहितं प्राह मामत्र परिक्षावोऽग्निसम्भवम्॥
अधोगमिष्याम्यनलस्तम्भस्यानुपमस्य च॥ १७.३६ ॥

भवानूर्द्ध्वं प्रयत्नेन गन्तुमर्हसि सत्वरम्॥
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा॥ १७.३७ ॥

वाराहमहमप्याशु हंसत्वं प्राप्तवान्सुराः॥
तदाप्रभृति मामाहुर्हंसं हंसो विराडिति॥ १७.३८ ॥

हंसहंसेति यो ब्रूयान्मां हंसः स भविष्यति॥
सुश्वेतो ह्यनलाक्षश्च विश्वतः पक्षसंयुतः॥ १७.३९ ॥

मनोनिलजवो भूत्वा गतोहं चोर्ध्वतः सुराः॥
नारायणोपि विश्वात्मा नीलाञ्जनचयोपमम्॥ १७.४೦ ॥

दशयोजनविस्तीर्णं शतयोजनमायतम्॥
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णाग्रदंष्ट्रिणम्॥ १७.४१ ॥

कालादित्यसमाभासं दीर्घघोणं महास्वनम्॥
ह्रस्वपादं विचित्राङ्गं जैत्रं दृढमनौपमम्॥ १७.४२ ॥

वाराहमसितं रूपमास्थाय गतवानधः॥
एवं वर्षसहस्रं तु त्वरन्विष्णुरधोगतः॥ १७.४३ ॥

नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः॥
तावत्कालं गतोह्यूर्द्ध्वमहमप्यरिसूदनः॥ १७.४४ ॥

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया॥
श्रान्तो ह्यदृष्ट्वा तस्यान्तमहङ्कारादधोगतः॥ १७.४५ ॥

तथैव भगवान् विष्णुः श्रान्तः सन्त्रस्तलोचनः॥
सर्वदेवभवस्तूर्णमुत्थितः सः महावपुः॥ १७.४६ ॥

समागतो मया सार्धं प्रणिपत्य महामनाः॥
मायया मोहितः शम्भोस्तस्थौ संविग्नमानसः॥ १७.४७ ॥

पृष्ठतः पार्श्वतश्चैव चाग्रतः परमेश्वरम्॥
प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति॥ १७.४८ ॥

तदा समभवत्तत्र नादो वै शब्दलक्षणः॥
ओमोमिति सुरश्रेष्ठाः सुव्यक्तः प्लुतलक्षणः॥ १७.४९ ॥

किमिदं त्विति सञ्चित्य मया तिष्ठन्महास्वनम्॥
लिङ्गस्य दक्षिणे भागे तदापश्यत्सनातनम्॥ १७.५೦ ॥

आद्यवर्णमकारं तु उकारं चोत्तरे ततः॥
मकारं मध्यतश्चैव नादान्तं तस्य चोमिति॥ १७.५१ ॥

सूर्यमण्डलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे॥
उत्तरे पावकप्रख्यमुकारं पुरुषर्षभः॥ १७.५२ ॥

शीतांशुमण्डलप्रख्यं मकारं मध्यमं तथा॥
तस्योपरि तदापश्यच्छुद्धस्फटिकवत् प्रभुम्॥ १७.५३ ॥

तुरीयातीतममृतं निष्कलं निरुपप्लवम्॥
निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम्॥ १७.५४ ॥

सबाह्याभ्यन्तरं चैव सबाह्याभ्यन्तरस्थितम्॥
आदिमध्यान्तरहितमानन्दस्यापि कारणम्॥ १७.५५ ॥

मात्रास्तिस्रस्त्वर्धमात्रं नादाख्यं ब्रह्मसञ्ज्ञितम्॥
ऋग्यजुःसामवेदा वै मात्रारूपेण माधवः॥ १७.५६ ॥

वेदशब्देभ्य एवेशं विश्वात्मानमचिन्तयत्॥
तदाभवदृषिर्वेद ऋषेः सारतमं शुभम्॥ १७.५७ ॥

तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम्॥
देव उवाच॥
चिन्तया रहितो रुद्रो वाचो यन्मनसा सह॥ १७.५८ ॥

अप्राप्य तं निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः॥
एकाक्षरेण तद्वाच्यमृतं परमकारणम्॥ १७.५९ ॥

सत्यमानन्दममृतं परं ब्रह्म परात्परम्॥
एकाक्षरादकाराख्यो भगवान्कनकाण्डजः॥ १७.६೦ ॥

एकाक्षरादुकाराख्यो हरिः परमकारणम्॥
एकाक्षरान्मकाराख्यो भगवान्नीललोहितः॥ १७.६१ ॥

सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः॥
मकाराख्यास्तयोर्नित्यमनुग्रहकरोऽभवत्॥ १७.६२ ॥

मकाराख्यो विभुर्बीजी ह्यकारो बीजमुच्यते॥
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः॥ १७.६३ ॥

बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः॥
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः॥ १७.६४ ॥

अस्य लिङ्गादभूद्बीजमकारो बीजिनः प्रभोः॥
उकारयोनौ निक्षिप्तमवर्धत समन्ततः॥ १७.६५ ॥

सौवर्णमभवच्चाण्डमावेष्ट्याद्यं तदक्षरम्॥
अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम्॥ १७.६६ ॥

ततो वर्षसहस्रान्ते द्विधा कृतमजोद्भवम्॥
अण्डमप्सु स्थितं साक्षादाद्याख्येनेश्वरेण तु॥ १७.६७ ॥

तस्याण्डस्य शुभं हैमं कपालं चोर्द्ध्वसंस्थितम्॥
जज्ञे यद्द्यौस्तदपरं पृथिवी पञ्चलक्षणा॥ १७.६८ ॥

तस्मादण्डोद्भवो जज्ञे त्वकाराख्यश्चतुर्मुखः॥
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः॥ १७.६९ ॥

एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः॥
यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम्॥ १७.७೦ ॥

एवमेव हरे ब्रह्मन्नित्याहुः श्रुतयस्तदा॥
ततो विज्ञाय देवेशं यथावच्छ्रुतिसम्भवैः॥ १७.७१ ॥

मन्त्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम्॥
आवयोः स्तुतिसन्तुष्टो लिङ्गे तस्मिन्निरञ्जनः॥ १७.७२ ॥

दिव्यं शब्दमयं रूपमास्थाय प्रहसन् स्थितः॥
अकारस्तस्य मूर्द्धा तु ललाटं दीर्घमुच्यते॥ १७.७३ ॥

इकारो दक्षिणं नेत्रमीकारो वामलोचनम्॥
उकारो दक्षिणं श्रोत्रमूकारो वाममुच्यते॥ १७.७४ ॥

ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः॥
वामं कपोलमॄकारो लृलॄ नासापुटे उभे॥ १७.७५ ॥

एकारमोष्ठमूर्द्ध्वश्च एकारस्त्वधरो विभोः॥
ओकारश्च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् १७.७६ ॥

अमस्तु तालुनी तस्य देवदेवस्य धीमतः॥
कादिपञ्चाक्षराण्यस्य पञ्च हस्तानि दक्षिणे॥ १७.७७ ॥

चादिपञ्चाक्षराण्येवं पञ्च हस्तानि वामतः॥
टादिपञ्चाक्षरं पादस्तादिपञ्चाक्षरं तथा॥ १७.७८ ॥

पकारमुदरं तस्य फकारः पार्श्वमुच्यते॥
बकारो वामपार्श्वं वै भकारं स्कन्धमस्य तत्॥ १७.७९ ॥

मकारं हृदयं शम्भोर्महादेवस्य योगिनः॥
यकारादिसकारान्तं विभोर्वै सप्त धातवः॥ १७.८೦ ॥

हकार आत्मरूपं वै क्षकारः क्रोध उच्यते॥
तं दृष्ट्वा उमया सार्द्धं भगवन्तं महेश्वरम्॥ १७.८१ ॥

प्रणम्य भगवान् विष्णुः पुनश्चापश्यदूर्द्ध्वतः॥
ॐकारप्रभवं मन्त्रं कलापञ्चक संयुतम्॥ १७.८२ ॥

शुद्धस्फटिकसङ्काशं सुभाष्टत्रिंशदक्षरम्॥
मेधाकरमभूद्भूयः सर्वधर्मार्थसाधकम्॥ १७.८३ ॥

गायत्रीप्रभवं मन्त्रं हरितं वश्यकारकम्॥
चतुर्विशतिवर्णाढ्यं चतुष्कलमनुत्तमम्॥ १७.८४ ॥

अथर्वमसितं मन्त्रं कलाष्टकसमायुतम्॥
अभिचारिकमत्यर्थ त्रयस्त्रिंशच्छुभाक्षरम्॥ १७.८५ ॥

यजुर्वेदसमायुक्तं पञ्चत्रिंशच्छुभाक्षरम्॥
कलाष्टकसमायुक्तं सुश्वेतं शान्तिकं तथा॥ १७.८६ ॥

त्रयोदशकलायुक्तं बालाद्यैः सह लोहितम्॥
समोद्भवं जगत्याद्यं वृद्धिसंहारकारणम्॥ १७.८७ ॥

वर्णाः षडधिकाः षष्टिरस्य मन्त्रवरस्य तु॥
पञ्च मन्त्रांस्तथा लब्ध्वा जजाप भगवान् हरिः॥ १७.८८ ॥

अथ दृष्ट्वा कलावर्णमृग्यजुःसामरूपिणम्॥
ईशानमीशमुकुटं पुरुषास्यं पुरातनम्॥ १७.८९ ॥

अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम्॥
सद्यः पादं महादेवं महाभोगीन्द्रभूषणम्॥ १७.९೦ ॥

विश्वतः पादवदनं विश्वतोक्षिकरं शिवम्॥
ब्रह्मणोधिपतिं सर्गस्थितिसंहारकारणम्॥ १७.९१ ॥

तुष्टाव पुनरिष्टाभिर्वाग्भिर्वरदमीश्वरम्॥ १७.९२ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गोद्भवो नाम सप्तदशोऽध्यायः॥ १७ ॥