सूत उवाच॥
अथान्यो ब्रह्मणः कल्पो वर्तते मुनिपुङ्गवाः॥
विश्वरूप इति ख्यातो नामतः परमाद्भुतः॥ १६.१ ॥
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे॥
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः॥ १६.२ ॥
प्रादुर्भूता महानादा विश्वरूपा सरस्वती॥
विश्वमाल्याम्बरधरा विश्वयज्ञोपवीतिनी॥ १६.३ ॥
विश्वोष्णीषा विश्वगन्धा विश्वमाता महोष्ठिका॥
तथाविधं स भगवानीशानं परमेश्वरम्॥ १६.४ ॥
शुद्धस्फटिकसङ्काशं सर्वाभरणभूषितम्॥
अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः॥ १६.५ ॥
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम्॥
ओमीशान नमस्तेऽस्तु महादेव नमोस्तु ते॥ १६.६ ॥
नमोस्तु सर्वविद्यानामीशान परमेश्वर॥
नमोस्तु सर्वभूतानामीशान वृषवाहन॥ १६.७ ॥
ब्रह्मणोधिपते तुभ्यं ब्रह्मणे ब्रह्मरूपिणे॥
नमो ब्रह्माधिपतये शिवं मेऽस्तु सदाशिव॥ १६.८ ॥
ओङ्कारमूर्ते देवेश सद्योजात नमोनमः॥
प्रपद्ये त्वां प्रपन्नोऽस्मि सद्योजाताय वै नमः॥ १६.९ ॥
अभवे च भवे तुभ्यं तथा नातिभवे नमः॥
भवोद्भव भवेशान मां भजस्व महाद्युते॥ १६.१೦ ॥
वामदेव नमस्तुभ्यं ज्येष्ठाय वरदाय च॥
नमो रुद्राय कालाय कलनाय नमो नमः॥ १६.११ ॥
नमो विकरणायैव कालवर्णाय वर्णिने॥
बलाय बलिनां नित्यं सदा विकरणाय ते॥ १६.१२ ॥
बलप्रमथनायैव बलिने ब्रह्मरूपिणे॥
सर्वभूतेश्वरेशाय भूतानां दमनाय च॥ १६.१३ ॥
मनोन्मनाय देवाय नमस्तुभ्यं महाद्युते॥
वामदेवाय वामाय नमस्तुभ्यं महात्मने॥ १६.१४ ॥
ज्येष्ठाय चैव श्रेष्ठाय रुद्राय वरदाय च॥
कालहन्त्रे नमस्तुभ्यं नमस्तुभ्यं महात्मने॥ १६.१५ ॥
इति स्तवेन देवेशं ननाम वृषभध्वजम्॥
यः पठेत् सकृदेवेह ब्रह्मलोकं गमिष्यति॥ १६.१६ ॥
श्रावयेद्वा द्विजान् श्राद्धे स याति परमां गतिम्॥
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम्॥ १६.१७ ॥
उवाच भगवानीशः प्रीतोहं ते किमिच्छसि॥
ततस्तु प्रणतो भूत्वा वाग्विशुद्धं महेश्वरम्॥ १६.१८ ॥
उवाच भगवान् रुद्रं प्रीतं प्रीतेन चेतसा॥
यदिदं विश्वरूपं ते विश्वगौः श्रेयसीश्वरी॥ १६.१९ ॥
एतद्वेदितुमिच्छामि यथेयं परमेश्वर॥
कैषा भगवती देवी चतुष्पादा चतुर्मुखी॥ १६.२೦ ॥
चतुःश्रृङ्गी चतुर्वक्रा चतुर्दंष्ट्रा चतुःस्तनी॥
चतुर्हस्ता चतुर्नेत्रा विश्वरूपा कथं स्मृता॥ १६.२१ ॥
किन्नामगोत्रा कस्येयं किंवीर्या चापि कर्मतः॥
तस्य तद्वचनं श्रुत्वा देवदेवो वृषध्वजः॥ १६.२२ ॥
प्राह देववृषं ब्रह्मा ब्रह्माणं चात्मसम्भवम्॥
रहस्यं सर्वमन्त्राणां पावनं पुष्टिवर्धनम्॥ १६.२३ ॥
श्रृणुष्वैतत्परं गुह्यमादिसर्गे यथा तथा॥
एवं यो वर्तते कल्पो विश्वरूपस्त्वसौ मतः॥ १६.२४ ॥
ब्रह्मस्थानमिदं चापि यत्र प्राप्तं त्वया प्रभो॥
त्वत्तः परतरं देव विष्णुना तत्पदं शुभम्॥ १६.२५ ॥
वैकुण्ठेन विशुद्धेन मम वामाङ्गजेन वा॥
तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम्॥ १६.२६ ॥
शतं शतसहस्राणामतीता ये स्वयम्भुवः॥
पुरस्तात्तव देवेश तच्छृणुष्व महामते॥ १६.२७ ॥
आनन्दस्तु स विज्ञेय आनन्दत्वे व्यवस्थितः॥
माण्डव्यगोत्रस्तपसा मम पुत्रत्वमागतः॥ १६.२८ ॥
त्वयि योगं च साङ्ख्यं च तपोविद्याविधिक्रियाः॥
ऋतं सत्यं दया ब्रह्म अहिंसा सन्मतिः क्षमा॥ १६.२९ ॥
ध्यानं ध्येयं दमः शान्तिर्विद्याऽविद्या मतिर्धृतिः॥
कान्तिर्नीतिः प्रथा मेधा लज्जा दृष्टिः सरस्वती॥ १६.३೦ ॥
तुष्टिः पुष्टिः क्रिया चैव प्रसादश्च प्रतिष्ठिताः॥
द्वात्रिंशत्सुगुणा ह्येषा द्वात्रिंशाक्षरसञ्ज्ञया॥ १६.३१ ॥
प्रकृतिर्विहिता ब्रह्मंस्त्वत्प्रसूतिर्महेश्वरी॥
विष्णोर्भगवतश्चापि तथान्येषामपि प्रभो॥ १६.३२ ॥
सैषा भगवती देवी मत्प्रसूतिः प्रतिष्ठिता॥
चतुर्मुखी जगद्योनिः प्रकृतिर्गौः प्रतिष्ठिता॥ १६.३३ ॥
गौरी माया च विद्या च कृष्णा हैमवतीति च॥
प्रधानं प्रकृतिश्चैव यामाहुस्तत्त्वचिन्तकाः॥ १६.३४ ॥
अजामेकां लोहितां शुक्लकृष्णां विश्वप्रजां सृजमानां सरूपाम्॥
अजोहं मां विद्धि तां विश्वरूपं गायत्रीं गां विश्वरूपां हि बुद्ध्या॥ १६.३५ ॥
एवमुक्त्वा महादेवः ससर्ज परमेश्वरः॥
ततश्च पार्श्वगा देव्याः सर्वरूपकुमारकाः॥ १६.३६ ॥
जटी मुण्डी शिखण्डी च अर्धमुण्डश्च जज्ञिरे॥
ततस्तेन यथोक्तेन योगेन सुमहौजसः॥ १६.३७ ॥
दिव्यवर्षसहस्रान्ते उपासित्वा महेश्वरम्॥
धर्मोपदेशमखिलं कृत्वा योगमयं दृढम्॥ १६.३८ ॥
शिष्टाश्च नियतात्मानः प्रविष्टा रुद्रमीश्वरम्॥ १६.३९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे ईशानमाहात्म्यकथनं नाम षोडशोऽध्यायः॥ १६ ॥