०१५

सूत उवाच
ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके॥
तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम्॥ १५.१ ॥

अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः॥
अनेनैव तु रूपेण संहरामि न संशयः॥ १५.२ ॥

ब्रह्महत्यादिकान् घोरांस्तथान्यानपि पातकान्॥
हीनांश्चैव महाभाग तथैव विविधान्यपि॥ १५.३ ॥

उपपातकमप्येवं तथा पापानि सुव्रत॥
मानसानि सुतीक्ष्णानि वाचिकानि पितामह॥ १५.४ ॥

कायिकानि सुमिश्राणि तथा प्रासङ्गिकानि च॥
बुद्धिपूर्वं कृतान्येव सहजागन्तुकानि च॥ १५.५ ॥

मातृदेहोत्थतान्येवं पितृदेहे च पातकम्॥
संहरामि न सन्देहः सर्वं पातकजं विभो॥ १५.६ ॥

लक्षं जप्त्वा ह्यघोरेभ्यो ब्रह्महा मुच्यते प्रभो॥
तदर्धं वाचिके वत्स तदर्धं मानसे पुनः॥ १५.७ ॥

चतुर्गुणं बुद्धिपूर्वे क्रोधादष्टगुणं स्मृतम्॥
वीरहा लक्षमात्रेण भ्रूणहा कोटिमभ्यसेत्॥ १५.८ ॥

मातृहा नियुतं जप्त्वा शुद्ध्यते नात्र संशयः॥
गोघ्नश्चैव कृतघ्नश्च स्त्रीघ्नः पापयुतो नरः॥ १५.९ ॥

अयुताघोरमभ्यस्य मुच्यते नात्र संशयः॥
सुरापो लक्षमात्रेण बुद्ध्याबुद्ध्यापि वै प्रभो॥ १५.१೦ ॥

मुच्यते नात्र सन्देहस्तदर्धेन च वारुणीम्॥
अस्नाताशी सहस्रेण अजपी च तथा द्विजः॥ १५.११ ॥

अहुताशी सहस्रेण अदाता च विशुद्ध्यति॥
ब्राह्मणस्वापहर्ता च स्वर्णस्तेयी नराधमः॥ १५.१२ ॥

नियुतं मानसं जप्त्वा मुच्यते नात्र संशयः॥
गुरुतल्प रतो वापि मातृघ्नो वा नराधमः॥ १५.१३ ॥

ब्रह्मघ्नश्च जपेदेवं मानसं वै पितामह॥
सम्पर्कात्पापिनां पापं तत्समं परिभाषितम्॥ १५.१४ ॥

तथाप्ययुतमात्रेण पातकाद्वै प्रमुच्यते॥
संसर्गात्पातकी लक्षं जपेद्वै मानसं धिया॥ १५.१५ ॥

उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत्॥
पातकादर्धमेव स्यादुपपातकिनां स्मृतम्॥ १५.१६ ॥

तदर्धं केवले पापे नात्र कार्या विचारणा॥
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च॥ १५.१७ ॥

कृत्वा च गुरुतल्पं च पापकृद्ब्राह्मणो यदि॥
रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः॥ १५.१८ ॥

गन्धद्वारेति तस्या वै गोमयं खस्थमाहरेत्॥
तेजोसि शुक्तमित्याज्यं कापिलं संहरेद्बुधः॥ १५.१९ ॥

आप्यायस्वेति च क्षीरं दधिक्राव्णोति चाहरेत्॥
गव्यं दधि नवं साक्षात्कापिलं वै पितामह॥ १५.२೦ ॥

देवस्यत्वेतिमन्त्रेण सङ्ग्रहेद्वै कुशोदकम्॥
एकस्थां हेमपात्रे वा कृत्वाघोरेण राजते॥ १५.२१ ॥

ताम्रे वा पद्म पत्रे वा पालशे वा दले शुभे॥
सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैद काञ्चनम्॥ १५.२२ ॥

जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः॥
घृतेन चरुणा चैव समिद्भिश्च तिलैस्तथा॥ १५.२३ ॥

यवैश्च व्रीहिभिश्चैव जुहुयाद्वै पृथक्पृथक्॥
प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु॥ १५.२४ ॥

हुत्वाघोरेण देवेशं स्नात्वाऽघोरेण वै द्विजाः॥
अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च॥ १५.२५ ॥

अहोरात्रोषितः स्नातः पिबेत्कूर्चं शिवाग्रतः॥
ब्राह्मं ब्रह्मजपं कुर्यादाचम्य च यथा विधि॥ १५.२६ ॥

एवं कृत्वा कृतघ्नोऽपि ब्रह्महा भ्रूणहा तथा॥
वीरहा गुरुवाती च मित्रविश्वासघातकः॥ १५.२७ ॥

स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा॥
मद्यपो वृषलीसक्तः परदारविधर्षकः॥ १५.२८ ॥

ब्रह्मस्वहा तथा गोघ्नो मातृहा पितृहा तथा॥
देवप्रच्यावकश्चैव लिङ्गप्रध्वंसकस्तथा॥ १५.२९ ॥

तथान्यानि च पापानि मानसानि द्विजो यदि॥
वाचिकानि तथान्यानि कायिकानि सहस्रशः॥ १५.३೦ ॥

कृत्वा विमुच्यते तद्यो जन्मान्तरशतैरपि॥
एतद्रहस्यं कथितमघोरेशप्रसङ्गतः॥ १५.३१ ॥

तस्माज्जपेद्द्विजो नित्यं सर्वपापविशुद्धये॥ १५.३२ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽघोरेशमहात्म्यं पञ्चदशोऽध्यायः॥ १५ ॥