सूत उवाच॥
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयम्भुवः॥
पुनरन्यः प्रवृत्तस्तु कल्पो नाम्नाऽसितस्तु सः॥ १४.१ ॥
एकार्णवे तदा वृत्ते द्विव्ये वर्षसहस्रके॥
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः॥ १४.२ ॥
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः॥
कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः॥ १४.३ ॥
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्॥
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा॥ १४.४ ॥
कृष्णाम्बरधरोष्णीषं कृष्णयज्ञोपवीतिनम्॥
कृष्णेन मौलिना युक्तां कृष्णस्रगनुलेपनम्॥ १४.५ ॥
स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम्॥
ववन्दे देवदेवेशमद्भुतं कृष्णपिङ्गलम्॥ १४.६ ॥
प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्॥
मनसा ध्यानुयुक्तेन प्रपन्नस्तुतमीश्वरम्॥ १४.७ ॥
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिन्तयत्॥
तथा वै ध्यायमानस्य ब्रह्मणः परमेष्ठिनः॥ १४.८ ॥
प्रददौ दर्शनं देवो ह्यघोरो घोरविक्रमः॥
अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः॥ १४.९ ॥
चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः॥
कृष्णः कृष्णशिखश्चैव कृष्णास्यः कृष्णवस्त्रधृक्॥ १४.१೦ ॥
ततो वर्षसहस्रं तु योगतः परमेश्वरम्॥
उपासित्वा महायोगं शिष्येभ्यः प्रददुः पुनः॥ १४.११ ॥
योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्॥
अमलं निर्गुणं स्यानं प्रविष्टा विश्वमीश्वरम्॥ १४.१२ ॥
एवमेतेन योगेन येपि चान्ये मनीषिणः॥
चिन्तयन्ति महादेवं गन्तारो रुद्रमव्ययम्॥ १४.१३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे अघोरोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः॥ १४ ॥