०१३

सूत उवाच॥
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः॥
ब्रह्म यत्र महाभागः पीतवासा बभूव ह॥ १३.१ ॥

ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः॥
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक्॥ १३.२ ॥

पीतगन्धानुलिप्ताङ्गः पीतमाल्याम्बरो युवा॥
हेमयज्ञोपवीतश्च पीतोष्णीषो महाभुजः॥ १३.३ ॥

तं दृष्ट्वा ध्यानसंयुक्तो ब्रह्मा लोकमहेश्वरम्॥
मनसा लोकधातारं प्रपेदे शरणं विभुम्॥ १३.४ ॥

ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं वराम्॥
गां विश्वरूपां ददृशे महेश्वरमुखाच्च्युताम्॥ १३.५ ॥

चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम्॥
चतुर्नेत्रां चतुःश्रृङ्गीं चतुर्दंष्ट्रां चतुर्मखीम्॥ १३.६ ॥

द्वात्रिंशद्गुणसंयुक्तामीश्वरीं सर्वतोमुखाम्॥
स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम्॥ १३.७ ॥

पुनराह महादेवः सर्वदेवनमस्कृतः॥
मतीः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः॥ १३.८ ॥

एह्येहीति महादेवी सातिष्ठत्प्राञ्जलिर्विभुम्॥
विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु॥ १३.९ ॥

अथ तामाह देवेशो रुद्राणी त्वं भविष्यसि॥
ब्राह्मणानां हितार्थाय परमार्थाय भविष्यसि॥ १३.१० ॥

तथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः॥
प्रददौ देवदेवेशः चतुष्पादां जगद्गुरुः॥ १३.११ ॥
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम्॥
ब्रह्मा लोकगुरोः सोथ प्रतिपेदे महेश्वरीम्॥ १३.१२ ॥

गायत्रीं तु ततो रौद्रीं ध्यात्वा ब्रह्मानुयन्त्रितः॥
इत्येतां वैदीकीं विद्यां रौद्रीं गायत्रिमीरिताम्॥ १३.१३ ॥

जपित्वा तु महादेवीं ब्रह्मा लोकनमस्कृताम्॥
प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा॥ १३.१४ ॥

ततस्तस्य महादेवो दिव्ययोगं बहुश्रुतम्॥
ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ प्रभुः॥ १३.१५ ॥

ततोस्य पार्श्वतो दिव्याः प्रदुर्भूताः कुमारकाः॥
पीतमाल्याम्बरधराः पीतस्रगनुलेपनाः॥ १३.१६ ॥

पीताभोष्णीषशिरसः पीतास्याः पीतमूर्धजाः।
ततो वर्षसहस्रान्त उषित्वा विमलौजसः॥ १३.१७ ॥

योगात्मानस्तपोह्लादाः ब्राह्मणानां हितैषिणः॥
धर्मयोगबलोपेता मुनीनां दीर्घसत्त्रणाम्॥ १३.१८ ॥

उपदिश्य महायोगं प्रविष्टास्ते महेश्वरम्॥
एवमेतेन विधिना ये प्रपन्ना महेश्वरम्॥ १३.१९ ॥

अन्येपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः॥
ते सर्वे पापमुत्सृज्य विमला ब्रह्मवर्चसः॥ १३.२० ॥

प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः॥ १३.२१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे तत्पुरुषमाहात्म्यं नाम त्रयोदशोध्यायः॥ १३ ॥