सूत उवाच॥
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः॥
ब्रह्म यत्र महातेजा रक्तवर्णमधारयत्॥ १२.१ ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः॥
प्रादुर्भूतो महातेजाः कुमारो रक्तभूषणः॥ १२.२ ॥
रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान्॥
स तं दृष्ट्वा महात्मानं कुमारं रक्तवाससम्॥ १२.३ ॥
परं ध्यानं समाश्रित्य बुबुधे देवमीश्वरम्॥
स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः॥ १२.४ ॥
वामदेवं ततो ब्रह्मा ब्रह्म वै समचिन्तयत्॥
तथा स्तुतो महादेवो ब्रह्मणा परमेश्वरः॥ १२.५ ॥
प्रतीतहृदयः सर्व इदमाह पितामहम्॥
ध्यायता पुत्रकामेन यस्मात्तेहं पितामह॥ १२.६ ॥
दृष्टः परमया भक्त्या स्तुतश्च ब्रह्मपुर्वकम्॥
तस्माद्ध्यानबलं प्राप्य कल्पेकल्पे प्रयत्नतः॥ १२.७ ॥
वेत्स्यसे मां प्रसङ्ख्यातं लोकधातारमीश्वरम्॥
ततस्तस्य महात्मानश्चत्वारस्ते कुमारकाः॥ १२.८ ॥
सम्बभूवुर्महात्मानो विशुद्धा ब्रह्मवर्चसः॥
विरजाश्च विबाहुश्च विशोको विश्वभावनः॥ १२.९ ॥
ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः॥
रक्ताम्बरधराः सर्वे रक्तमाल्यानुलेपनाः॥ १२.१० ॥
रक्तकुङ्कुमलिप्ताङ्गा रक्तभस्मानुलेपनाः॥
ततो वर्षसहस्रान्ते ब्रह्मत्वेध्यवसायिनः॥ १२.११ ॥
गृणन्तश्च महात्मानो ब्रह्म तद्वामदैविकम्॥
अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया॥ १२.१२ ॥
धर्मोपदेशमखिलं कृत्वा ते ब्रह्मणः प्रियाः॥
पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम्॥ १२.१३ ॥
येपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम्॥
प्रपश्यन्ति महादेवं तद्भक्तास्तत्परायणाः॥ १२.१४ ॥
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मचारिणः॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥ १२.१५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे वामदेवमाहात्म्यं नाम द्वादशोध्यायः॥ १२ ॥