ऋषय ऊचुः॥
कथं वै दृष्टवान्ब्रह्मा सद्योजातं महेश्वरम्॥
वामदेवं महात्मानं पुराण पुरुषोत्तमम्॥ ११.१ ॥
अघोरं च तथेशानं यथावद्वकुमर्हसि॥
सूत उवाच॥
एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः॥ ११.२ ॥
तस्मिंस्तत्परमं ध्यानं ध्यायतो ब्रह्मणस्तदा॥
उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः॥ ११.३ ॥
तं दृष्ट्वा पुरुषं श्रीमान्ब्रह्मा वै विश्वतोमुखः॥
हृदि कृत्वा महात्मानं ब्रह्मरूपिणमीश्वरम्॥ ११.४ ॥
सद्योजातं ततो ब्रह्मा ध्यानयोगपरोऽभवत्॥
ध्यानयोगात्परं ज्ञात्वा ववन्दे देवमीश्वरम्॥ ११.५ ॥
सद्योजातं ततो ब्रह्म ब्रह्म वै समचिन्तयत्॥
ततोस्य पार्श्वतः श्वेताः प्रादुर्भूता महायशाः॥ ११.६ ॥
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ॥
शिष्यास्ते वै महात्मानो यैस्तद्ब्रह्म सदावृतम्॥ ११.७ ॥
तस्याग्रे श्वेतवर्णाभः श्वेतो नाम महामुनिः॥
विजज्ञेऽथ महातेजास्तस्माज्जज्ञे हरस्त्वसौ॥ ११.८ ॥
तत्र ते मुनयः सर्वे सद्योजातं महेश्वरम्॥
प्रपन्नाः परया भक्त्या गृणन्तो ब्रह्म शाश्वतम्॥ ११.९ ॥
तस्माद्विश्वेश्वरं देवं ये प्रपद्यन्ति वै द्विजाः॥
प्राणायामपरा भूत्वा ब्रह्मतत्पर मानसाः॥ ११.१० ॥
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः॥
विष्णुलोकमतिक्रम्य रुद्रलोकं व्रजन्ति ते॥ ११.११ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सद्योजातमाहत्म्यं नामैकादशोध्यायः॥ ११ ॥