०१०

सूत उवाच॥
सतां जितात्मनां साक्षाद्द्विजातीनां द्विजोत्तमाः॥
धर्मज्ञानां च साधूनामाचार्याणां शिवत्मनाम्॥ १०.१ ॥

दयावतां द्विजश्रेष्ठास्तथा चैव तपस्विनाम्॥
सन्न्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम्॥ १०.२ ॥

दानिनां चैव दान्तानां त्रयाणां सत्यवदिनाम्॥
अलुब्धानां सयोगानां श्रुति स्मृतिविदां द्विजाः॥ १०.३ ॥

श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः॥
सदिति ब्रह्मणः शब्दस्तदन्ते ये लभन्त्युत॥ १०.४ ॥

सायुज्यं ब्रह्मणो याति तेन सन्तः प्रचक्षते॥
दशात्मके ये विषये साधने चाष्टलक्षणे॥ १०.५ ॥

न क्रुध्यान्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः॥
सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च॥ १०.६ ॥

ब्रह्मक्षत्रविशे यस्माद्युक्तास्तस्माद्द्विजातयः॥
वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः॥ १०.७ ॥

श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते॥
विद्यायाः साधनात्साधुब्रह्मचारी गुरोर्हितः॥ १०.८ ॥

क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते॥
साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः॥ १०.९ ॥

यतमानो यतिः साधुः स्मृतो योगस्य साधनात्॥
एवमाश्रमधर्माणां साधनात्साधवः स्मृताः॥ १०.१० ॥

गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा॥
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ॥ १०.११ ॥

कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ॥
धारणार्थे महान् ह्येष धर्मशब्दः प्रकीर्तितः॥ १०.१२ ॥

अधारणे महत्त्वे च अधर्म इति चोच्यते॥
अत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते॥ १०.१३ ॥

अधर्मश्चानिष्टफलो ह्याचर्यैरुपदिश्यते॥
वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः॥ १०.१४ ॥

सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते॥
स्वयमाचरते यस्मादाचारे स्थाप यत्यपि॥ १०.१५ ॥

आचिनोति च शास्त्रार्थानाचार्यस्तेन चोच्यते॥
विज्ञेयं श्रवणाच्छ्रौतं स्मरणात्स्मार्तमुच्यते॥ १०.१६ ॥

इज्या वेदात्मकं श्रौतं स्मार्तं वर्णाश्रमात्मकम्॥
दृष्ट्वानुरूपमर्थं यः पृष्टो नैवापि गूहति॥ १०.१७ ॥

यथादृष्टप्रवादस्तु सत्यं लैङ्गेऽत्र पठ्यते॥
ब्रह्मचर्यं तथा मौनं निराहारत्वमेव च॥ १०.१८ ॥

अहिंसा सर्वतः शान्तिस्तप इत्यभिधीयते॥
आत्मवत्सर्वभूतेषु यो हितायाहिताय च॥ १०.१९ ॥

वर्तते त्वसकृद्धृत्तिः कृत्स्ना ह्येषा दया स्मृता॥
यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात्॥ १०.२९ ॥

तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम्॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम्॥ १०.२१ ॥

कारुण्यात्सर्वभूतेभ्यः संविभागस्तु मध्यमः॥
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः॥ १०.२२ ॥

शिष्टाचाराविरुद्धश्च स धर्मः साधुरुच्यते॥
मायाकर्मफलत्यागी शिवात्मा परि कीर्तितः॥ १०.२३ ॥

निवृत्तः सर्वसङ्गेभ्यो युक्तो योगी प्रकीर्तितः॥
असक्तो भयतो यस्तु विषयेषु विचार्य च॥ १०.२४ ॥

अलुब्धः संयमी प्रोक्तः प्रर्थितोपि समन्ततः॥
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै॥ १०.२५ ॥

न मिथ्या सम्प्रवर्तन्ते शमस्यैव तु लक्षणम्॥
अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनन्दति॥ १०.२६ ॥

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता॥
सन्न्यासः कर्मणां न्यासः कृतानामकृतैः सह॥ १०.२७ ॥

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते॥
अव्यक्ताद्यविशेषान्ते विकारेऽस्मिन्नचेतने॥ १०.२८ ॥

चेतनाचेतनान्यत्व विज्ञानं ज्ञानमुच्यते॥
एवं तु ज्ञानयुक्तस्य श्रद्धायुक्तस्य शङ्करः॥ १०.२९ ॥

प्रसीदति न सन्देहो धर्मश्चायं द्विजोत्तमाः॥
किं तु गुह्यतमं वक्ष्ये सर्वत्र परमेश्वरे॥ १०.३० ॥

भवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते॥
अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः॥ १०.३१ ॥

प्रसीदति न सन्देहो निगृह्य विविधं तमः॥
ज्ञानमध्यापनं होमो ध्यानं यज्ञस्तपः श्रुतम्॥ १०.३२ ॥

दानमध्ययनं सर्वं भवभक्त्यै न संशयः॥
चान्द्रायणसहस्रैश्च प्राजापत्यशतैस्तथा॥ १०.३३ ॥

मासोपवासै श्चान्यैर्वा भक्तिर्मुनिवरोत्तमाः॥
अभक्ता भगवत्यस्मिल्ँलोके गिरिगुहाशये॥ १०.३४ ॥

पतन्ति चात्मभोगार्थं भक्तो भावेन मुच्यते॥
भक्तानां दर्शनादेव नृणां स्वर्गादयो द्विजाः॥ १०.३५ ॥

न दुर्लभा न सन्देहो भक्तानां किं पुनस्तथा॥
ब्रह्मविष्णुसुरेन्द्राणां तथान्येषामपि स्थितिः॥ १०.३६ ॥

भक्त्या एव मुनीनां च बलसौभाग्यमेव च॥
भवेन च तथा प्रोक्तं सम्प्रेक्ष्योमां पिनाकिना॥ १०.३७ ॥

देव्यै देवेन मधुरं वाराणस्यां पुरा द्विजाः॥
अविमुक्ते समासीना रुद्रेण परमात्मना॥ १०.३८ ॥

रुद्राणी रुद्रमाहेदं लब्ध्वा वाराणसीं पुरीम्॥
श्रीदेव्युवाच॥
केन वश्यो महादेव पूज्यो दृश्यस्त्वमीश्वरः॥ १०.३९ ॥

तपसा विद्यया वापि योगेनेह वद प्रभो॥
सूत उवाच॥
निशम्य वचनं तस्यास्तथा ह्यालोक्य पार्वतीम्॥ १०.४० ॥

आह बालेन्दुतिलकः पूर्णेन्दुवदनां हसन्॥
स्मृत्वाथ मेनया पत्न्या गिरेर्गां कथितां पुरा॥ १०.४१ ॥

चिरकालस्थितिं प्रेक्ष्य गिरौ देव्या महात्मनः॥
देवी लब्धा पुरी रम्या त्वया यत्प्रष्टुमर्हसि॥ १०.४२ ॥

स्थानार्थं कथितं मात्रा विस्मृतेह विलासिनि॥
पुरा पितामहेनापि पृष्टः प्रश्रवतां वरे॥ १०.४३ ॥

यथा त्वयाद्य वै पृष्टो द्रष्टुं ब्रह्मात्मकं त्वहम्॥
श्वेते श्वेतेन वर्णेन दृष्ट्वा कल्पे तु मां शुभे॥ १०.४४ ॥

सद्योजातं तथा रक्ते रक्तं वामं पितामहः॥
पीते तत्पुरुषं पीतमघोरे कृष्णमीश्वरम्॥ १०.४५ ॥

ईशानं विश्वरूपाख्यो विश्वरूपं तदाह माम्॥ १०.४६ ॥

पितामह उवाच॥
वाम तत्पुरुषाघोर सद्योजात महेश्वर॥
दृष्टो मया त्वं गायत्र्या देवदेव महेश्वर॥
केन वश्यो महादेव ध्येयः कुत्र घृणानिधे॥ १०.४७ ॥

दृश्यः पूज्यस्तथा देव्या वक्तुमर्हसि शङ्कर॥
श्रीभगवानुवाच॥
अवोचं श्रद्धयैवेति वश्यो वारिजसम्भव॥ १०.४८ ॥

ध्येयो लिङ्गे त्वया दृष्टे विष्णुना पयसां निधौ॥
पूज्यः पञ्चास्यरूपेण पवित्रैः पञ्चभि र्द्विजैः॥ १०.४९ ॥

भवभक्त्याद्य दृष्टोहं त्वयाण्डज जगद्गुरो॥
सोपि मामाह भावार्थं दत्तं तस्मै मया पुरा॥ १०.५० ॥

भावं भावेन देवेशि दृष्टवान्मां हृदीश्वरम्॥
तस्मात्तु श्रद्धया वश्यो दृश्यः श्रेष्ठगिरेः सुते॥ १०.५१ ॥

पूज्यो लिङ्गे न सन्देहः सर्वदा श्रद्धया द्विजैः॥
श्रद्धा धर्मः परः सूक्ष्माः श्रद्धा ज्ञानं हुतं तपः॥ १०.५२ ॥

श्रद्धा स्वर्गश्च मोक्षश्च दृश्योहं श्रद्धया सदा॥ १०.५३ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे भक्तिभावकथनं नाम दशमोऽध्यायः॥ १० ॥