००९

सूत उवाच॥
आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते॥
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः॥ ९.१ ॥

अश्रद्धादर्शनं भ्रान्तिर्दुःखं च त्रिविधं ततः॥
दौर्मनस्यमयोग्येषु विषयेषु च योगता॥ ९.२ ॥

दशधाभिप्रजायन्ते मुनेर्योगान्तरायकाः॥
आलस्यं चाप्रवृत्तिश्च गुरुत्वात्कायचित्तयोः॥ ९.३ ॥

व्याधयो धातुवैषम्यात् कर्मजा दोषजास्तथा॥
प्रमादस्तु समावेस्तु साधनानामभावनम्॥ ९.४ ॥

इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः॥
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः॥ ९.५ ॥

लब्धायामपि भूमौ च चित्तस्य भवबन्धनात्॥
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च॥ ९.६ ॥

साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु॥
विपर्ययज्ञानमिति भ्रान्तिदर्शनमुच्यते॥ ९.७ ॥

अनात्मन्यात्मविज्ञानमज्ञानात्तस्य सन्निधौ॥
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम्॥ ९.८ ॥

आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः॥
इच्छाविघातात्सङ्क्षोभश्चेतसस्तदुदाहृतम्॥ ९.९ ॥

दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु॥
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम्॥ ९.१० ॥

तदा मनसि सञ्जातं दौर्मनस्यमिति स्मृतम्॥
हठात्स्वीकरणं कृत्वा योग्यायोग्य विवेकतः॥ ९.११ ॥

विषयेषु विचित्रेषु जन्तोर्विषयलोलता॥
अन्तराया इति ख्याता योगस्यैते हि योगिनाम्॥ ९.१२ ॥

अत्यन्तोत्साह युक्तस्य नश्यन्ति न च संशयः॥
प्रनष्टेष्वन्तरायेषु द्विजाः पश्चाद्धि योगिनः॥ ९.१३ ॥

उपसर्गाः प्रवर्तते सर्वे तेऽसिद्धिसूचकाः॥
प्रतिभा प्रथमा सिद्धिर्द्वितीया श्रवणा स्मृता॥ ९.१४॥

वार्ता तृतीया विप्रेन्द्रास्तुरीया चेह दर्शना॥
आस्वादा पञ्चमी प्रोक्ता वेदना षष्ठिका स्मृता॥ ९.१५ ॥

स्वल्पषट्सिद्धिसन्त्यागात्सिद्धिदाः सिद्धयो मुनेः॥
प्रतिभा प्रतिभावृतिः प्रतिभाव इति स्थितिः॥ ९.१६ ॥

बुद्धिर्विवेचना वेद्यं बुद्ध्यते बुद्धिरुच्यते॥
सूक्ष्मे व्यवहितेतीते विप्रकृष्टे त्वनागते॥ ९.१७ ॥

सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु॥
श्रवणात्सर्वशब्दानामप्रयत्नेन योगिनः॥ ९.१८ ॥

ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि॥
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता॥ ९.१९ ॥

दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः॥
संविद्दिव्यरसे तस्मिन्नास्वादो ह्यप्रयत्नतः॥ ९.२० ॥

वार्ता च दिव्यगन्धानां तन्मात्रा बुद्धिसंविदा॥
विन्दन्ते योगिनस्तस्मादाब्रह्मभुवनं द्विजाः॥ ९.२१ ॥

जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम्॥
औपसर्गिकमेतेषु गुणेषु गुणितं द्विजाः॥ ९.२२ ॥

सन्त्याज्यं सर्वथा सर्वमौपसर्गिकमात्मनः॥
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः॥ ९.२३ ॥

याक्षे तु तैजसं प्रोक्तं गान्धर्वे श्वसनात्मकम्॥
ऐन्द्रे व्योमात्मकं सर्वं सौम्ये चैव तु मानसम्॥ ९.२४ ॥

प्राजापत्ये त्वहङ्कारं ब्राह्मे बोधमनुत्तमम्॥
आद्ये चाष्टौ द्वीतीये च तथा षोडशरूपकम्॥ ९.२५ ॥

चतुर्विंशत्तृतीये तु द्वत्रिंशच्च चतुर्थके॥
चत्वारिंशत् पञ्चमे तु भूतमात्रात्मकं स्मृतम्॥ ९.२६ ॥

गन्धो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च॥
प्रत्येकमष्टधा सिद्धं पञ्चमेतच्छतक्रतोः॥ ९.२७ ॥

तथाष्टचत्वारिंशच्च षट्पञ्चाशत्तथैव च॥
चतुः षष्टिगुणं ब्राह्मं लभते द्विजसत्तमाः॥ ९.२८ ॥

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्॥
लोकेष्वालोक्य योगेन योगवित्परमं सुखम्॥ ९.२९ ॥

स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा॥
नानाजातिस्वरूपं च चतुर्भिर्देहधारणम्॥ ९.३० ॥

पार्थिवांशं विना नित्यं सुरभिर्गन्धसंयुतः॥
एतदष्टगुणं प्रोक्तमैश्वर्यं पार्थिवं महत्॥ ९.३१ ॥

जले निवसनं यद्वद्भूम्यामिव विनिर्गमः॥
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः॥ ९.३२ ॥

यत्रेच्छति जगत्यस्मिंस्तत्रास्य जलदर्शनम्॥
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः॥ ९.३३ ॥

तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम्॥
भाण्डं विनाथ हस्तेन जलपिण्डस्य धारणम्॥ ९.३४ ॥

अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम्॥
एतत् षोडशकं प्रोक्तमाप्यमैश्वर्यमुत्तमम्॥ ९.३५ ॥

देहादग्निविनिर्माणं तत्तापभयवर्जितम्॥
लोकं दग्धमपीहान्यददग्धं स्वविधानतः॥ ९.३६ ॥

जलमध्ये हुतवहं चाधाय परिरक्षणम्॥
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः॥ ९.३७ ॥

भस्मीभूतविनिर्माणं यथापूर्वं सकामतः॥
द्वाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः॥ ९.३८ ॥

चतुर्विंशात्मकं ह्येतत्तैजसं मुनिपुङ्गवाः॥
मनोगतित्वं भूतानामन्तर्निवसनं तथा॥ ९.३९ ॥

पर्वतादिमहाभारस्कन्धेनोद्वहनं पुनः॥
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम्॥ ९.४० ॥

अङ्गुल्यग्रनिघातेन भूमेः सर्वत्र कम्पनम्॥
एकेन देहनिष्पत्तिर्वातैश्वर्य स्मृतं बुधैः॥ ९.४१ ॥

छायाविहीननिष्पत्तिरिन्द्रियाणां च दर्शनम्॥
आकाशगमनं नित्यमिन्द्रियार्थैः समन्वितम्॥ ९.४२ ॥

दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्॥
तन्मात्रलिङ्गग्रहणं सर्वप्राणिनिदर्शनम्॥ ९.४३ ॥

ऐन्द्रमैश्वर्यमित्युक्तमेतैरुक्तः पुरातनः॥
यताकामोपलब्धिश्च यथाकाम विनिर्गमः॥ ९.४४ ॥

सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्॥
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम्॥ ९.४५ ॥

संसारदर्शनं चैव मानसं गुणलक्षणम्॥
छेदनं ताडनं बन्धं संसारपरिवर्तनम्॥ ९.४६ ॥

सर्वभूतप्रसादश्च मृत्युकालजयस्तथा॥
प्राजापत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम्॥ ९.४७ ॥

अकारणजगत्सृष्टिस्तथानुग्रह एव च॥
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्तनम्॥ ९.४८ ॥

असादृश्यमिदं व्यक्तं निर्माणं च पृथक्पृथक्॥
संसारस्य च कर्तृत्वं ब्राह्ममेतदनुत्तमम्॥ ९.४९ ॥

एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम्॥
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते॥ ९.५० ॥

विद्यते तत्परं शैवं विष्णुना नावगम्यते॥
असङ्ख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम्॥ ९.५१ ॥

व्युत्थाने सिद्धयश्चैता ह्युपसर्गाश्च कीर्तिताः॥
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु॥ ९.५२ ॥

नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च॥
अश्रद्धया त्यजेत्सर्वं विरक्त इति कीर्तितः॥ ९.५३ ॥

वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते॥
वैराग्येणैव सन्त्याज्याः सिद्धयश्चौपसर्गिकाः॥ ९.५४ ॥

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्॥
निरुद्ध्यैव त्यजेत्सर्वं प्रसीदति महेश्वरः॥ ९.५५ ॥

प्रसन्ने विमला मुक्तिर्वैराग्येण परेण वै॥
अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः॥ ९.५६ ॥

अनिरुद्ध्य विचेष्टेद्यः सोप्येवं हि सुखी भवेत्॥
क्वचिद्भूमिं परित्यज्य ह्याकाशे क्रीडते श्रिया॥ ९.५७ ॥

उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः॥
क्वचिच्छ्रुते तदर्थेन श्लोकबन्धं करोति सः॥ ९.५८ ॥

क्वचिद्दण्डकबन्धं तु कुर्याद्बन्धं सहस्रशः॥
मृगपक्षिसमूहस्य रुतज्ञानं च विन्दति॥ ९.५९ ॥

ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत्॥
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः॥ ९.६० ॥

उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः॥
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत्॥ ९.६१ ॥ (९.६२)

तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित्॥
देवबिम्बान्यनेकानि विमानानि सहस्रशः॥ ९.६२ ॥ (९.६३)

पश्यति ब्रह्मविष्ण्वीन्द्रयमाग्निवरुणादिकान्॥
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः॥ ९.६३ ॥ (९.६४)

पातालतलसंस्थाश्च समाधिस्थः स पश्यति॥
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु॥ ९.६४ ॥ (९.६५)

प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु॥
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम्॥ ९.६५ ॥

तस्य प्रसादाद्धर्मश्च ऐश्वर्यं ज्ञानमेव च॥
वैराग्यमपवर्गश्च नात्र कार्या विचारणा॥ ९.६६ ॥

न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि॥
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः॥ ९.६७ ॥

इति श्रीलिङ्गपुराणे पूर्वभागे योगान्तरायकथनं नाम नवमोऽध्यायः॥ ९ ॥