सुत उवाच॥
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः॥
प्रभावं शङ्करस्याद्यं सङ्क्षेपात्सर्वदर्शिनः॥ ७.१ ॥
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः॥
प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः॥ ७.२ ॥
करुणादिगुणोपेताः कृत्वापि विविधानि ते॥
कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा॥ ७.३ ॥
प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते॥
योगेन जायते मुक्तिः प्रसादादाखिलं ततः॥ ७.४ ॥
ऋषय ऊचुः॥
प्रसादाद्यदि विज्ञानं स्वरूपं वक्तुमर्हसि॥
दिव्यं माहेश्वरं चैव योगं योगविदां वर॥ ७.५ ॥
कथं करोति भगवान् चिन्तया रहितः शिवः॥
प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः॥ ७.६ ॥
रोमहर्षण उवाच॥
देवानां च ऋषीणां च पितॄणां सन्निधौ पुरा॥
शैलादिना तु कथितं श्रृण्वन्तु ब्रह्मसूनवे॥ ७.७ ॥
व्यासावताराणि तथा द्वापरान्ते च सुव्रताः॥
योगाचार्यावताराणि तथा तिष्ये तु शूलिनः॥ ७.८ ॥
तत्रतत्र विभोः शिष्याश्चात्वारः शमभाजनाः॥
प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः॥ ७.९ ॥
एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः॥
वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः॥ ७.१० ॥
ऋषय ऊचुः॥
द्वापरेद्वापरे व्यासाः के वै कुत्रान्तरेषु वै॥
कल्पेषु कस्मिन्कल्पे नो वक्तुमर्हसि चात्र तान्॥ ७.११ ॥
सूत उवाच॥
श्रृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे॥
व्यासांश्च साम्प्रतं रुद्रांस्तथा सर्वान्तरेषु वै॥ ७.१२ ॥
वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान्॥
यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साप्रतम्॥ ७.१३ ॥
क्रतुः सत्यो भार्गवश्च अङ्गिराः सविता द्विजाः॥
मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुङ्गवः॥ ७.१४ ॥
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः॥
शततेजाः स्वयं धर्मो नारायण इति श्रुतः॥ ७.१५ ॥
तरक्षुश्चारुणिर्धीमांस्तथा देवः गृतञ्जयः॥
ऋतञ्जयो भरद्वाजो गौतमः कविसत्तमः॥ ७.१६ ॥
वाचःश्रवाः मुनिः साक्षात्तथा शुष्मायणिः शुचिः॥
तृणाबिन्दुर्मुनी रुक्षः शक्तिः शाक्तेय उत्तरः॥ ७.१७ ॥
जातूकर्ण्यो हरिः साक्षात्कृष्णद्वैपायनो मुनिः॥
व्यासास्त्वेते च श्रृण्वन्तु कलौ योगेश्वरान् क्रमात्॥ ७.१८ ॥
असङ्ख्याता हि कल्पेषु विभोः सर्वान्तरेषु च॥
कलौ रुद्रावताराणां व्यासानां किल गौरवात्॥ ७.१९ ॥
वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः॥
अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै॥ ७.२० ॥
ऋषयः ऊचुः॥
मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम्॥
तथैव चोर्ध्वकल्पेषु सिद्धान्वैवस्वतान्तरे॥ ७.२१ ॥
रोमहर्षण उवाच॥
मनुः स्वायम्भुवस्त्वाद्यस्ततः स्वारोचिषो द्विजाः॥
उत्तमस्तामसश्चैव रैवताश्चाक्षुषस्तथा॥ ७.२२ ॥।
वैवस्वतश्च सावर्णिर्धर्मः सावर्णिकः पुनः॥
पिशङ्गश्चापिशङ्गाभः शबलो वर्णकस्तथा॥ ७.२३ ॥
औकारान्ता अकाराद्या मनवः परीकीर्तिताः॥
श्वेतः पाण्डुस्तथा रक्तस्ताम्राः पीतश्च कापिलः॥ ७.२४ ॥
कृष्णः श्यामस्तथा धूम्रः सुधूम्रश्च द्विजोत्तमाः॥
अपिशङ्गः पिशङ्गश्च त्रिवर्णः शबलस्तथा॥ ७.२५ ॥
कालन्धुरस्तु कथिता वर्णतो मनवः शुभाः॥
नामतो वर्णतश्चैव वर्णतः पुनरेव च॥ ७.२६ ॥
स्वरात्मानः समाख्याताश्चान्तरेशाः समासतः॥
वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः॥ ७.२७ ॥
सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः॥
समतीतेषु कल्पेषु तथा चानागतेषु वै॥ ७.२८ ॥
वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात्॥
योगावतारांश्च विभोः शिष्याणां सन्ततिस्तथा॥ ७.२९ ॥
सम्प्रेक्ष्य सर्वकालेषु तथावर्त्तेषु योगिनाम्।
आद्ये श्वेतः कलौ रुद्राः सुतारो मदनस्तथा॥ ७.३० ॥
सुहोत्रः कङ्कणश्चैव लोगाक्षिर्मुनिसत्तमाः॥
जैगीषव्यो महातेजा भगवान् दधिवाहनः॥ ७.३१ ॥
ऋषभश्च मुनिर्धीमानुग्रश्चत्रिः सुबालकः॥
गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः॥ ७.३२ ॥
वेदशीर्षश्च गोकर्णो गुहावासी शिखण्डभृत्॥
जटा माल्यट्टहासश्च दारुको लाङ्गली तथा॥ ७.३३ ॥
महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम्॥
सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः॥ ७.३४ ॥
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः॥
योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः॥ ७.३५ ॥
व्यासाश्चैवं मुनिश्रेष्ठा द्वापरेद्वापरे त्विमे॥
योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः॥ ७.३६ ॥
श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः॥
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा॥ ७.३७ ॥
विशाकेश्च विकेशश्च विपाशः पापनाशनः॥
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः॥ ७.३८ ॥
सनकश्च सनन्दश्च प्रभुर्यश्च सनातनः॥
ऋभुः सनत्कुमारश्च सुधामा विरजास्तथा॥ ७.३९ ॥
शङ्खपा द्वैरजश्चैव मेघः सारस्वतस्तथा॥
सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः॥ ७.४० ॥
कपिलश्चासुरिश्चैव तथा पञ्चाशिखो मुनिः॥
वाल्कलश्च महायोगी धर्मात्मानो महौजसः॥ ७.४१ ॥
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा॥
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः॥ ७.४२ ॥
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः॥
सर्वज्ञः समुबुद्धिश्च साध्यः सर्वस्तथैव च॥ ७.४३ ॥
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा॥
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः॥ ७.४४ ॥
कश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः॥
उतथ्यो वामदेवश्च महायोगो महाबलः॥ ७.४५ ॥
वाचः श्रवाः सुधकिश्च श्यावाश्वश्च यतीश्वरः॥
हिरण्य नाभः कौशल्यो लोगाक्षिः कुथुमिस्तथा॥ ७.४६ ॥
सुमन्तुर्बर्बरी विद्वान् कबन्धः कशिकन्धरः॥
प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस्तथा॥ ७.४७ ॥
भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः॥
उशिको बृहदश्वश्च देवलः कविरेव च॥ ७.४८ ॥
शालिहोत्रोग्निवेशश्च युवनाश्वः शरद्वसुः॥
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवांहकः॥ ७.४९ ॥
उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः॥
अक्षपादः कुमारश्च उलूको वत्स एव च॥ ७.५० ॥
कुशिकश्चैव गर्भश्च मित्रः कौरुष्य एव च॥
शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम्॥ ७.५१ ॥
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः॥
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः॥ ७.५२ ॥
शिष्याः प्रशिष्याश्चैतेषां शतशोथ सहस्रशः॥
प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः॥ ७.५३ ॥
देवादयः पिशाचान्ताः पशवः परिकीर्तिताः॥
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः॥ ७.५४ ॥
तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः॥
योगः पाशुपतो ज्ञेयः परावरविभूतये॥ ७.५५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे मनुव्यास योगेश्वरतच्छिष्यकथनं नाम सप्तमोऽध्यायः॥ ७ ।