००६

सूत उवाच
पवमानः पावकश्च शुचिरग्निश्च ते स्मृताः॥
निर्मर्थ्यः पवमानस्तु वैद्युतः पावकः स्मृतः॥ ६.१ ॥

शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते॥
पुत्रैः पौत्रैस्त्विहैतेषां सङ्ख्या सङ्क्षेपतः स्मृता॥ ६.२ ॥

विसृज्य सप्तकं चादौ चत्वारिशन्नवैव च॥
इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु च॥ ६.३ ॥

सर्वे तपस्विनस्त्वेते सर्वे व्रतभृतः स्मृताः॥
प्रजानां पतयः सर्वे सर्वे रुद्रात्मकाः स्मृताः॥ ६.४ ॥

अयज्वानश्च यज्वानः पितरः प्रीतिमानसाः॥
आग्निष्वात्ताश्च यज्वानः शेषा बर्हिषदः स्मृताः॥ ६.५ ॥

मेनां तु मानसीं तेषां जनयामास वै स्वधा॥
आग्निष्वात्तात्मजा मेना मानसी लोकविश्रुता॥ ६.६ ॥

असूत मेना मैनाकं क्रौञ्चं तस्यानुजामुमाम्॥
गङ्गां हैमवतीं जज्ञे भवाङ्गाश्लेषपावनीम्॥ ६.७ ॥

धरणीं जनयामास मानसीं यज्ञयाजिनीम्॥
स्वधा सा मेरुराजस्य पत्नी पद्मसमानना॥ ६.८ ॥

पितरोऽमृतपाः प्रोक्तास्तेषां चैवेह विस्तरः॥
ऋषीणां च कुलं सर्वं श्रृणुध्वं तत्सुविस्तरम्॥ ६.९ ॥

वदामि पृथगध्यायसंस्थितं वस्तदूर्ध्वतः॥
दाक्षायणी सती याता पार्श्वं रुद्रस्य पार्वती॥ ६.१० ॥

पश्चाद्दक्षं विनिन्द्यैषा पतिं लेभे भवं तथा॥
तां ध्यात्वा व्यसृजद्रुद्राननेकान्नीललोहितः॥ ६.११ ॥

आत्मनस्तु समान्सर्वान्सर्वलोकनमस्कृतान्॥
याचितो मुनिशार्दूला ब्रह्मणा प्रहसन् क्षणात्॥ ६.१२ ॥

तैस्तु सञ्च्छादितं सर्वं चतुर्दशविधं जगत्॥
तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान्॥ ६.१३ ॥

जरामरणनिर्मुक्तान् प्राह रुद्रान्पितामहः॥
नमोऽस्तु वो महादेवास्त्रिनेत्रा नील लोहिताः॥ ६.१४ ॥

सर्वज्ञाः सर्वगा दीर्घा ह्रस्वा वामनकाः शुभाः॥
हिरण्यकेशा दृष्टिघ्ना नित्या बुद्धाश्च निर्मलाः॥ ६.१५ ॥

निर्द्वन्द्वावतिरागाश्च विश्वात्मानो भवात्मजाः॥
एवं स्तुत्वा तदा रुद्रान्रुद्रं चाह भवं शिवम्॥
प्रदक्षिणीकृत्य तदा भगवान्कनकाण्डजः॥ ६.१६ ॥

नमोऽस्तु ते महादेव प्रजा नार्हसि शङ्कर॥
मृत्युहीना विभो स्रष्टुं मृत्युयुक्ताः सृज प्रभो॥ ६.१७ ॥

ततस्तमाह भगवान्न हि मे तादृशी स्थितिः॥
स त्वं सृज यथाकामं मृत्युयुक्ताः प्रजाः प्रभो॥ ६.१८ ॥

लब्ध्वा ससर्ज सकलं शङ्कराच्चतुराननः॥
जरामरणसंयुक्तं जगदेतच्चराचरम्॥ ६.१९ ॥

शङ्करोऽपि तदा रुद्रौर्निवृत्तात्मा ह्यधिष्ठितः॥
स्थाणुत्वं तस्य वै विप्राः शङ्करस्य महात्मनः॥ ६.२० ॥

निष्कलस्यात्मनः शम्भोः स्वेच्छाधृतशरीरिणः॥
शं रुद्रः सर्वभूतानां करोति घृणया यतः॥ ६.२१ ॥

शङ्करश्चाप्रयत्नेन तदात्मा योग विद्यया॥
वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते॥ ६.२२ ॥

अणोस्तु विषयत्यागः संसारभयतः क्रमात्॥
वैराग्याज्जायते पुंसो विरागो दर्शनान्तरे॥ ६.२३ ॥

विमिख्यो विगुणत्यागो विज्ञानस्याविचारतः॥
तस्य चास्य च सन्धानं प्रसादात्परमेष्ठिनः॥ ६.२४ ॥

धर्मो ज्ञानं च वैराग्यमैश्वर्यं शङ्करादिह॥
स एव शङ्करः साक्षात्पिनाकी नीललोहितः॥ ६.२५ ॥

ये शङ्कराश्रिताः सर्वे मुच्यन्ते ते न संशयः॥
न गच्छन्त्येव नरकं पापिष्ठा अपि दारुणम्॥ ६.२६ ॥

आश्रिताः शङ्करं तस्मात्प्राप्नुवन्ति च शश्वतम्॥
ऋषय ऊचुः॥
मायान्ताश्चैव घोराद्या ह्यष्टाविंशतिरेव च॥ ६.२७ ॥

कोटयो नरकाणां तु पच्यन्ते तासु पापिनः॥
अनाश्रिताः शिवं रुद्रां शङ्करं नीललोहितम्॥ ६.२८ ॥

आश्रयं सर्वभूतानामव्ययं जगतां पतिम्॥
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्॥ ६.२९ ॥

तमसा कालरुद्राख्यं रजसा कनकाण्डजम्॥
सत्त्वेन सर्वगं विष्णुं निगुर्णत्वे महेश्वरम्॥ ६.३० ॥

केन गच्छन्ति नरकं नराः केन महामते॥
कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः॥ ६.३१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे षष्ठोऽध्यायः॥ ६ ॥