सूत उवाच
यदा स्रष्टुं मतिं चक्रे मोहश्चासीन्महात्मनः॥
द्विजाश्च बुद्धिपूर्वं तु ब्रह्मणोऽव्यक्तजन्मनः॥ ५.१॥
तमो मोहो महामोहस्तामिस्रश्चान्धसञ्ज्ञितः॥
अविद्या पञ्चधा ह्येषा प्रादुर्भूता स्वयम्भुवः॥ ५.२ ॥
अविद्यया मुनेर्ग्रस्तः सर्गो मुख्य इति स्मृतः॥
असाधक इति स्मृत्वा सर्गो मुख्यः प्रजापतिः॥ ५.३ ॥
अभ्यमन्यत सोऽन्यं वै नगा मुख्योद्भवाः स्मृताः॥
त्रिधा कण्ठो मुनेस्तस्य ध्यायतो वै ह्यवर्तत॥ ५.४ ॥
प्रथमं तस्य वै जज्ञे तिर्यकस्रोतो महात्मनः॥
ऊर्ध्वस्रोतः परस्तस्य सात्विकः स इति स्मृतः॥ ५.५ ॥
अर्वाक्स्रोतोऽनुग्रहश्च तथा भूतादिकः पुनः॥
ब्रह्मणो महतस्त्वाद्यो द्वितीयो भौतिकस्तथा॥ ५.६ ॥
सर्गस्तृतीयश्चैन्द्रियस्तुरीयो मुख्य उच्यते॥
तिर्यग्योन्यः पञ्चमस्तु षष्ठो दैविक उच्यते॥ ५.७ ॥
सप्तमो मानुषो विप्रा अष्टमोऽनुग्रहः स्मृतः॥
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे॥ ५.८॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा॥
सनातनं मुनिश्रेष्ठा नैष्कर्म्येण गताः परम्॥ ५.९ ॥
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहङ्क्रतुम्॥
दक्षमत्रिं वसिष्ठं च सोऽसृजद्योगविद्यया॥ ५.१० ॥
नवैते ब्रह्मणः पुत्रा ब्रह्मज्ञा ब्राह्मणोत्तमाः॥
ब्रह्मवादिन एवैते ब्रह्मणः सदृशाः स्मृताः॥ ५.११ ॥
सङ्कल्पश्चैव धर्मश्च ह्यधर्मो धर्मसन्निधिः॥
द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः॥ ५.१२ ॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः॥
तावूर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ॥ ५.१३ ॥
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ॥
वक्ष्ये भार्याकुलं तेषां मुनीनामग्रजन्मनाम्॥ ५.१४ ॥
समासतो मुनिश्रेष्ठाः प्रजासम्भूतिमेव च॥
शतरूपां तु वै राज्ञिं विराजमसृजत्प्रभुः॥ ५.१५ ॥
स्वायम्भुवात्तु वै राज्ञी शतरूपा त्वयोनिजा॥
लेभे पुत्रद्वयं पुण्या तथा कन्याद्वयं च सा॥ ५.१६ ॥
उत्तानपादो ह्यवरो धीमाञ्ज्येष्ठः प्रियंव्रतः॥
ज्येष्ठा वरिष्ठा त्वाकूतिः प्रसूतिश्चानुजा स्मृता॥ ५.१७ ॥
उपयेमे तदाकूतिं रुचिर्नाम प्रजापतिः॥
प्रसूतिं भगवान्दक्षो लोकधात्रीं च योगिनीम्॥ ५.१८ ॥
दक्षिणासहितं यज्ञमाकूतिः सुषुवे तथा॥
दक्षिणा जन्यामास दिव्या द्वादश पुत्रिकाः॥ ५.१९ ॥
प्रसूतिः सुषुवे दक्षाच्चतुर्विशतिकन्यकाः॥
श्रद्धां लक्ष्मीं धृतिं पुष्टिं तुष्टिं मेधां क्रियां तथा॥ ५.२० ॥
बुद्धि लज्जां वपुःशान्तिं सिद्धिं कीर्ति महातपाः॥
ख्यातिं शान्ति च सम्भूतिं स्मृतिं प्रीतिं क्षमां तथा॥ ५.२१ ॥
सन्नतिं चानसूयां च ऊर्जां स्वाहां सुरारणिम्॥
स्वधां चैव महाभागां प्रददौ च यथाक्रमम्॥ ५.२२ ॥
श्रद्धाद्याश्चैव कीर्त्यन्तास्त्रयोदश सुदारिकाः॥
धर्मं प्रजापतिं जग्मुः पतिं परमदुर्लभाः॥ ५.२३ ॥
उपयेमे भृगुर्धीमान् ख्यातिं तां भार्गवारणिम्॥
सम्भूतिं च मरीचिस्तु स्मृतिं चैवाङ्गिरा मुनिः॥ ५.२४ ॥
प्रीतिं पुलस्त्यः पुण्यात्मा क्षमां तां पुलहो मुनिः॥
क्रतुश्च सन्नतिं धीमानत्रिस्तां चानसूयकाम्॥ ५.२५ ॥
ऊर्जां वसिष्ठो भगवान्वरिष्ठो वारिजेक्षणाम्॥
विभावसुस्तथा स्वाहां स्वधां वै पितरस्तथा॥ ५.२६ ॥
पुत्रीकृता सती या सा मानसी शिवसम्भवा॥
दक्षेम जगतां धात्री रुद्रमेवास्थिता पतिम्॥ ५.२७ ॥
अर्धनारीश्वरं दृष्ट्वा सर्गादौ कनकाण्डजः॥
विभजस्वेति चाहादौ यदा जाता तदाभवत्॥ ५.२८ ॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने तथा॥
एकादशाविधा रुद्रास्तस्य चांशोद्भवास्तथा॥ ५.२९ ॥
स्त्रीलिङ्गमखिलं सा वै पुल्लिङ्गं नीललोहितः॥
तं दृष्ट्वा भगवान् ब्रह्मा दक्षमालोक्य सुव्रताम्॥ ५.३० ॥
भजस्व धात्रीं जगतां ममापि च तवापि च॥
पुन्नाम्नो नरकात्त्राति इति पुत्रेत्विहोक्तितः॥ ५.३१ ॥
प्रशस्ता तव कान्तेयं स्यात् पुत्री विश्वमातृका॥
तस्मात् पुत्री सती नाम्ना तवैषा च भविष्यति॥ ५.३२ ॥
एवमुक्तस्तदा दक्षो नियोगाद्ब्रह्मणो मुनिः॥
लब्ध्वा पुत्रीं ददौ साक्षात् सतीं रुद्राय सादरम्॥ ५.३३ ॥
धर्मस्य पत्न्यः श्रद्धाद्याः कीर्तिता वै त्रयोदश॥
तासु धर्मप्रजां वक्ष्ये यथाक्रममनुत्तमम्॥ ५.३४ ॥
कामो दर्पोऽथ नियमः सन्तोषो लोभ एव च॥
श्रुतस्तु दण्डः समयो बोधश्चैव महाद्युतिः॥ ५.३५ ॥
अप्रमादश्च विनयो व्यवसायो द्विजोत्तमाः॥
क्षेमं सुखं यशश्चैव धर्मपुत्राश्च तासु वै॥ ५.३६ ॥
धर्मस्य वै क्रियायां तु दण्डः समय एव च॥
अप्रमादस्तथा बोधो बुद्धेर्धर्मस्य तौ सुतौ॥ ५.३७ ॥
तस्मात्पञ्चदशैवैते तासु धर्मात्मजास्त्विह॥
भृगुपत्नी च सुषुवे ख्यातिर्विष्णोः प्रियां श्रियम्॥ ५.३८ ॥
धातारं च विधातारं मेरोर्जामातरौ सुतौ॥
प्रभूतिर्नाम या पत्नी मरीचेः सुषुवे सुतौ॥ ५.३९ ॥
पूर्णमासं तु मारीचं ततः कन्याचतुष्टयम्॥
तुष्टिर्ज्येष्ठा च वै दृष्टिः कृषिश्चापचितिस्तथा॥ ५.४० ॥
क्षमा च सुषुवे पुत्रान् पुत्रीं च पुलहाच्छुभाम्॥
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमाः॥ ५.४१ ॥
तथा कनकपीतां स पीवरीं पृथिवीसमाम्॥
प्रीत्यां पुलस्त्यश्च तथा जनयामास वै सुतान्॥ ५.४२ ॥
दत्तोर्णं वेदबाहुं च पुत्रीं चान्यां दृषद्वतीम्॥
पुत्राणां षष्टिसाहस्रं सन्नतिः सुषुवे शुभा॥ ५.४३ ॥
क्रतोस्तु भार्या सर्वे ते वालखिल्या इति श्रुताः॥
सिनीवालीं कुहूं चैव राकां चानुमतिं तथा॥ ५.४४ ॥
स्मृतिश्च सुषुवे पत्नी मुनेश्चाङ्गिरसस्तथा॥
लब्धानुभावमग्निं च कीर्तिमन्तं च सुव्रता॥ ५.४५ ॥
अत्रेर्भार्यानसूया वै सुषुवे षट्प्रजास्तु याः॥
तास्वेका कन्यका नाम्ना श्रुतिः सा सूनुपञ्चकम्॥ ५.४६ ॥
सत्यनेत्रो मुनिर्भव्यो मूर्तिरापः शनैश्चरः॥
सोमश्च वै श्रुतिः षष्ठी पञ्चात्रेयास्तु सूनवः॥ ५.४७ ॥
ऊर्जा वसिष्ठाद्वै लेभे सुतांश्च सुतवत्सला॥
ज्यायसी पुण्डरीकाक्षान्वासिष्ठान्वरलोचना॥ ५.४८ ॥
रजः सुहोत्रो बाहुश्च सवनश्चानघस्तथा॥
सुतपाः शुक्र इत्येते मुनेर्वै सप्त सूनवः॥ ५.४९ ॥
यश्चाभिमाना भगवान् भवात्मा पैतामहो वह्निरसुः प्रजानाम्॥
स्वाहा च तस्मात्सुषुवे सुतानां त्रयं त्रयाणां जगतां हिताय॥ ५.५० ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे प्रजासृष्टिवर्णनं नाम पञ्चमोऽध्यायः॥ ५ ॥