सूत उवाच॥
अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम्॥
सर्गस्य तादृशी रात्रिः प्राकृतस्य समासनः॥ ४.१ ॥
दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः॥
औपचारिकमस्यैतदहोरात्रं न विद्यते॥ ४.२ ॥
दिवा विकृतयः सर्वे विकारा विश्वदेवताः॥
प्रजानां पतयः सर्वे तिष्ठन्त्यन्ये महर्षयः॥ ४.३ ॥
रात्रौ सर्वे प्रलीयन्ते निशान्ते सम्भवन्ति च॥
अहस्तु तस्य वैकल्पो रात्रिस्तादृग्विधा स्मृता॥ ४.४ ॥
चतुर्युगसहस्रान्ते मनवस्तु चतुर्दश॥
चत्वारि तु सहस्राणि वत्सराणां कृतं द्विजाः॥ ४.५ ॥
तावच्छती च वै सन्ध्या सन्ध्यांशश्च कृतस्य तु॥
त्रिशर्ता द्विशती सन्ध्या तथा चैकशती क्रमात्॥ ४.६ ॥
अंशकः षट्शतं तस्मात्कृतसन्ध्यांशकं विना॥
त्रिद्व्येकसाहस्रमितौ विना सन्ध्यांशके न तु॥ ४.७ ॥
त्रेताद्वापरतिष्याणां कृतस्य कथयामि वः॥
निमेषपञ्चदशका काष्ठा स्वस्थास्य सुव्रताः॥ ४.८ ॥
मर्त्यस्य चाक्ष्णोस्तस्याश्च ततस्त्रिंशतिका कला॥
कलात्रिंशतिको विप्रा मुहूर्त इति कल्पितः॥ ४.९ ॥
मुहूर्तपञ्चदशिका रजनी तादृशं त्वहः॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः॥ ४.१० ॥
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी॥
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु स स्मृतः॥ ४.११ ॥
शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै॥
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते॥ ४.१२ ॥
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत्॥
पितॄणां त्रीणि वर्षाणि सङ्ख्यातानीह तानि वै॥ ४.१३ ॥
दश वै द्व्यधिका मासाः पितृसङ्ख्येह संस्मृता॥
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः॥ ४.१४ ॥
एतद्दिव्यमहोरात्रमिति लौङ्गेऽत्र पठ्यते॥
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः॥ ४.१५ ॥
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्॥
एते रात्र्यहनी दिव्ये प्रसङ्ख्याते विशेषतः॥ ४.१६ ॥
त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः॥
मानुषं तु शतं विप्रा दिव्यमासास्त्रयस्तु ते॥ ४.१७ ॥
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः॥
त्रीणि वर्षशतन्येन षष्टिवर्षाणि यानि तु॥ ४.१८ ॥
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः॥
त्रिणि वर्षसहस्राणि मानुषाणि प्रमाणतः॥ ४.१९ ॥
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः॥
नव यानि सहस्राणि वर्षाणां मानुषाणि तु॥ ४.२० ॥
अन्यानि नवतीश्चैव ध्रौवः संवत्सरस्तु सः॥
षट्त्रिशत्तु सहस्राणि वर्षाणां मानुषाणि तु॥ ४.२१ ॥
वर्षाणां तच्छतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः॥
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु॥ ४.२२ ॥
षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया॥
दिव्यं वर्षसहस्रं तु प्राहुः सङ्ख्याविदो जनाः॥ ४.२३ ॥
दिव्येनैव प्रमाणेन युगसङ्ख्याप्रकल्पनम्॥
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते॥ ४.२४ ॥
द्वारपश्च कलिश्चैव युगान्येतानि सुव्रताः॥
अथ संवत्सरा दृष्टा मानुषेण प्रमाणतः॥ ४.२५ ॥
कृतस्याद्यस्य विप्रेन्द्रा दिव्यमानेन कीर्तितम्॥
सहस्राणां शतान्यासंश्चतुर्दश च सङ्ख्यया॥ ४.२६ ॥
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्॥
तथा दशसहस्राणां वर्षाणां शतसङ्ख्यया॥ ४.२७ ॥
अशीतिश्च सहस्राणि कालस्रेतायुगस्य च॥
सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि तु॥ ४.२८ ॥
विंशतिश्च सहस्राणि कालस्तु द्वापरस्य च॥
तथा शतसहस्राणि वर्षाणां त्रीणि सङ्ख्यया॥ ४.२९ ॥
षष्ठिश्चैव सहस्राणि कालः कलियुगस्य तु॥
एवं चतुर्युगः काल ऋते सन्ध्यांशकात्स्मृतः॥ ४.३० ॥
नियुतान्येव षट्त्रिंशन्निरंशानि तु तानि वै॥
चत्वारिंशत्तथा त्रीणी नियुतानीह सङ्ख्यया॥ ४.३१ ॥
विंशतिश्च सहस्राणि सन्ध्यांशश्च चतुर्युगः॥
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः॥ ४.३२ ॥
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते॥
मन्वन्तरस्य सङ्ख्या च वर्षाग्रेण प्रकीर्तिता॥ ४.३३ ॥
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः॥
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु॥ ४.३४ ॥
विंशतिश्च सहस्राणि कालोयमधिकं विना॥
मन्वन्तरस्य सङ्ख्यैषा लैङ्गेस्मिन्कीर्तिता द्विजाः॥ ४.३५ ॥
चतुर्युगस्य च तथा वर्षसङ्ख्याप्रकीर्तिता॥
चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः॥ ४.३६ ॥
निशान्ते सृजते लोकान् नश्यन्ते निशि जन्तवः॥
तत्र वैमानिकानां तु अष्टाविंशतिकोटयः॥ ४.३७ ॥
मन्वन्तरेषु वै सङ्ख्या सान्तरेषु यथातथा॥
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा॥ ४.३८ ॥
कल्पेतीऽते तु वै विप्राः सहस्राणां तु सप्ततिः॥
पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः॥ ४.३९ ॥
कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते॥
महर्लोकात् प्रयान्त्येते जनलोकं जनास्ततः॥ ४.४० ॥
कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु॥
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः॥ ४.४१ ॥
कल्पार्धसङ्ख्या दिव्या वै कल्पमेवं तु कल्पयेत्॥
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु॥ ४.४२ ॥
वर्षाणामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम्॥
सवनं युगसाहस्रं सर्व देवोद्भवस्य तु॥ ४.४३ ॥
सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा॥
ब्रह्मणस्तु तथा प्रोक्तः कालः कालात्मनः प्रभो॥ ४.४४ ॥
भवोद्भवस्तपश्चैव भव्यो रम्भः क्रतुः पुनः॥
ऋतुर्वह्निर्हव्यवाहः सावित्रः शुद्ध एव च॥ ४.४५ ॥
उशिकः कुशिकश्चैव गान्धारो मुनि सत्तमाः॥
ऋषभश्च तथा षड्जो मज्जालीयश्च मध्यमः॥ ४.४६ ॥
वैराजोवै निषादश्च मुख्यो वै मेघवाहनः॥
पञ्चमाश्चित्रकश्चैव आकूतिर्ज्ञान एव च॥ ४.४७ ॥
मनः सुदर्शो बृंहश्च तथा वै श्वेतलोहितः॥
रक्तश्च पीतवासाश्च असितः सर्वरूपकः॥ ४.४८ ॥
एवं कल्पास्तु सङ्ख्याता ब्रह्मणोऽव्यक्तजन्मनः॥
कोटिकोटिसहस्राणि कल्पानां मुनिसत्तमाः॥ ४.४९ ॥
गतानि तावच्छेषाणि अहर्निश्यानि वै पुनः॥
परान्ते वै विकाराणि विकारं यान्ति विश्वतः॥ ४.५० ॥
विकारस्य शिवस्याज्ञावशेनैव तु संहृतिः॥
संहृते तु विकारे च प्रधाने चात्मनि स्थिते॥ ४.५१ ॥
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ॥
गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता॥ ४.५२ ॥
साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः॥
लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः॥ ४.५३ ॥
असङ्ख्याताश्च सङ्क्षेपात् प्रधानादन्वधिष्ठितात्॥
असङ्ख्याताश्च कल्पाख्या ह्यसङ्ख्यताः पितामहाः॥ ४.५४ ॥
हरयश्चाप्यसङ्ख्यातास्त्वेक एव महेश्वरः॥
प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु॥ ४.५५ ॥
गुणात्मिका च तद्वृत्तिस्तस्य देवस्य वै त्रिधा॥
अप्राकृतस्य तस्यादिर्मध्यान्तं नास्ति चात्मनः॥ ४.५६ ॥
पितामहस्याथ परः परार्धद्वयसम्मितः॥
दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत्॥ ४.५७ ॥
भूर्भुवःस्वर्महस्तत्र नश्यते चोर्ध्वतो न च॥
रात्रौ चैकार्णवे ब्रह्म नष्टे स्थावरजङ्गमे॥ ४.५८ ॥
सुष्वापाम्भासि यस्तस्मान्नारायण इति स्मृतः॥
शर्वर्यन्ते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम्॥ ४.५९ ॥
स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः॥
उदकैराप्लुतां क्ष्मां तां समादाय सनातनः॥ ४.६० ॥
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः॥
नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः॥ ४.६१॥
कृत्वा धरां प्रयत्नेन निम्नोन्नतिविवर्जिताम्॥
धरायां सोचिनोत्सर्वान् गिरीन् दग्धान् पुराग्निना॥ ४.६२ ॥
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत्॥
स्रष्टुं च भगवांश्चक्रे तदा स्रष्टा पुनर्मतिम्॥ ४.६३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिप्रारम्भवर्णनं नाम चतुर्थोऽध्यायः॥ ४ ॥