सूत उवाच॥
अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते॥
अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम्॥ ३.१ ॥
प्रधानं प्रकृतिश्चेति यदाहुर्लिङ्गमुत्तमम्॥
गन्धवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम्॥ ३.२॥
अगुणं ध्रुवमक्षय्यमलिङ्गं शिवलक्षणम्॥
गन्धवर्णरसैर्युक्तं शब्दस्पर्शादिलक्षणम्॥ ३.३ ॥
जगद्योनिं महाभूतं स्थूलं सूक्ष्मं द्विजोत्तमाः॥
विग्रहो जगतां लिङ्गमालिङ्गादभवत्स्वयम्॥ ३.४ ॥
सप्तधाचाष्टधा चैव तथैकादशधा पुनः॥
लिङ्गान्यलिङ्गस्य तथा मायया विततानि तु॥ ३.५ ॥
तेभ्यः प्रधानदेवानां त्रयमासीच्छिवात्मकम्॥
एकस्मात्त्रिष्वभूद्विश्वमेकेन परिरक्षितम्॥ ३.६ ॥
एकेनैव हृतं विश्वं व्याप्तं त्वेवं शिवेन तु॥
अलिङ्गं चैव लिङ्गं च लिङ्गालिङ्गानि मूर्तयः॥ ३.७ ॥
यथावत्कथिताश्चैव तस्माद्ब्रह्म स्वयं जगत्॥
अलिङ्गी भगवान् बीजी स एव परमेश्वरः॥ ३.८ ॥
बीजं योनिश्च निर्बीजं निर्बीजो बीजमुच्यते॥
बीजयोनिप्रधानानामात्माख्या वर्तते त्विह॥ ३.९ ॥
परमात्मा मुनिर्ब्रह्म नित्यबुद्धस्वभावतः॥
विशुद्धोयं तथा रुद्रः पुराणे शिव उच्यते॥ ३.१० ॥
शिवेन दृष्टा प्रकृतिः शैवी समभवद्द्विजाः॥
सर्गादौ सा गुणैर्युक्ता पुराव्यक्ता स्वभावतः॥ ३.११ ॥
अव्यक्तादिविशेषान्तं विश्वं तस्याः समुच्छ्रितम्॥
विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता॥ ३.१२ ॥
तामजां लोहितां शुक्लां कृष्णामेका बहुप्रजाम्॥
जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम्॥ ३.१३ ॥
तामेवाजामजोऽन्यस्तु भुक्तभोगां जहाति च॥
अजा जनित्री जगतां साजेन समधिष्ठिता॥ ३.१४ ॥
प्रादुर्बभूव स महान् पुरुषाधिष्ठितस्य च॥
अजाज्ञया प्रधानस्य सर्गकाले गुणैस्त्रिभिः॥ ३.१५ ॥
सिसृक्षया चोद्यमानः प्रविश्याव्यक्तमव्ययम्॥
व्यक्तसृष्टिं विकुरुते चात्म नाधिष्ठितो महान्॥ ३.१६ ॥
महतस्तु तथा वृत्तिः सङ्कल्पाध्यवसायिका॥
महतस्त्रिगुणस्तस्मादहङ्कारो रजोधिकः॥ ३.१७ ॥
तेनैव चावृतः सम्यगहङ्कारस्तमोधिकः॥
महतो भूततन्मात्रं सर्गकृद्वै बभूव च॥ ३.१८ ॥
अहङ्काराच्छब्दमात्रं तस्मादाकाशमव्ययम्॥
सशब्दमावृणोत्पश्चादाकाशं शब्दकारणम्॥ ३.१९ ॥
तन्मात्राद्भूतसर्गश्च द्विजास्त्वेवं प्रकीर्तितः॥
स्पर्शमात्रं तथाकाशात्तस्माद्वायुर्महान्मुने॥ ३.२० ॥
तस्माच्च रूपमात्रं तु ततोग्निश्च रसस्ततः॥
रसादापः शुभास्ताभ्यो गन्धमात्रं धरा ततः॥ ३.२१ ॥
आवृणोद्धि तथाकाशं स्पर्शमात्रं द्विजोत्तमाः॥
आवृणोद्रूपमात्रं तु वायुर्वाति क्रियात्मकः॥ ३.२२ ॥
आवृणोद्रसमात्रं वै देवः साक्षाद्विभावसुः॥
आवृण्वाना गन्धमात्रमापः सर्वरसात्मिकाः॥ ३.२३ ॥
क्ष्मा सा पञ्चगुणा तस्मादेकोना रससम्भवाः॥
त्रिगुणो भगवान्वह्निर्द्विगुणः स्पर्श सम्भवः॥ ३.२४ ॥
अवकाशस्ततो देव एकमात्रस्तु निष्कलः॥
तन्मात्राद्भूतसर्गश्च विज्ञेयश्च परस्परम्॥ ३.२५ ॥
वैकारिकः सात्त्विको वै युगपत्सम्प्रवर्तते॥
सर्गस्तथाप्यहङ्करादेवमात्र प्रकीर्तिन्तः॥ ३.२६ ॥
पञ्च बुद्धीन्द्रियाण्यस्य पञ्च कर्मेद्रियाणि तु॥
शब्दादीनामवाप्त्यर्थं मनश्चैवोभयात्मकम्॥ ३.२७ ॥
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति च॥
जलबुद्बुदवत्तस्मादवतीर्णः पितामहः॥ ३.२८ ॥
स एव भगवान् रुद्रो विष्णुर्विश्वगतः प्रभुः॥
तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत्॥ ३.२९ ॥
अण्डं दशगुणेनैव वारिणा प्रावृतं बहिः॥
आपो दशगुणेनैव तद्ब्राह्ये तेजसा वृताः॥ ३.३० ॥
तेजो दशगुणेनैव बाह्यतो वायुना वृतम्॥
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः॥ ३.३१ ॥
आकाशेनावृतो वायुरहङ्कारेण शब्दजः॥
महताशब्दहेतुर्वै प्रधानेनावृतः स्वयम्॥ ३.३२ ॥
सप्ताण्डावरणान्याहुस्तस्यात्मा कमलासनः॥
कोटिकोटियुतान्यत्र चाण्डानि कथितानि तु॥ ३.३३ ॥
तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः॥
सृष्टाः प्रधानेन तदा लब्ध्वा शम्भोस्तु सन्निधिम्॥ ३.३४ ॥
लयश्चैव तथान्योन्यमान्द्यतमिति कीर्तितम्॥
सर्गस्य प्रतिसर्गस्य स्थितेः कर्ता महेश्वरः॥ ३.३५ ॥
सर्गे च रजसा युक्तः सत्त्वस्थः प्रतिपालने॥
प्रतिसर्गे तमोद्रिक्तः स एव त्रिविधः क्रमात्॥ ३.३६ ॥
आदिकर्ता च भूतानां संहर्ता परिपालकः॥
तस्मान्महेश्वरो देवो ब्रह्मणोधिपतिः शिवः॥ ३.३७ ॥
सदाशिवो भवो विष्णुर्ब्रह्मा सर्वात्मको यतः॥
एकदण्डे तथा लोका इमे कर्ता पितामहः॥ ३.३८ ॥
प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया॥
सर्गश्चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः॥ ३.३९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे प्राकृतप्राथमिकसर्गकथनं नाम तृतीयोऽध्यायः॥ ३ ॥