००२

सूत उवाच॥
ईशानकल्पवृत्तान्तमधिकृत्य महात्मना॥
ब्रह्मणा कल्पितं पूर्वं पुराणं लौङ्गमुत्तमम्॥ २.१ ॥

ग्रन्थकोटिप्रमाणं तु शतकोटि प्रवीस्तरे॥
चतुर्लक्षेण सङ्क्षिप्ते व्यासैः सर्वान्तरेषु वै॥ २.२ ॥

व्यस्तेष्टादशधा चैव ब्रह्मादौ द्वापरादिषु॥
लिङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत्॥ २.३ ॥

अस्यैकादशसाहस्रे ग्रन्थमानमिह द्विजाः॥
तस्मात्सङ्क्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत्॥ २.४॥

चतुर्लक्षेण सङ्क्षिप्ते कृष्णद्वैपायनेन तु॥
अत्रैकादशसाहस्रैः कथितो लिङ्गसम्भवः॥ २.५ ॥

सर्गः प्राधानिकः पश्चात् प्राकृतो वैकृतानि च॥
अण्डस्यास्य च सम्भूतिरण्डस्यावरणाष्टकम्॥ २.६ ॥

अण्डोद्भवत्वं शर्वस्य रजोगुणसमाश्रयात्॥
विष्णुत्वं कालरुद्रत्वं शयनं चाप्सु तस्य च॥ २.७ ॥

प्रजापतीनां सर्गश्च पृथिव्युद्धरणं तथा॥
ब्रह्मणश्च दिवारात्रमायुषो गणनं पुनः॥ २.८ ॥

सवनं ब्रह्मणश्चैव युगकल्पश्च तस्य तु॥
दिव्यं च मानुषं वर्षमार्षं वै ध्रौव्यमेव च॥ २.९॥
पित्र्यं पितॄणांसम्भूतिधर्मश्चाश्रमिणां तथा॥
अवृद्धिर्जगतो भूयो देव्याः शक्त्युद्भवस्तथा॥ २.१० ॥

स्त्रीपुम्भावो विरिञ्चस्य सर्गो मिथुनसम्भवः॥
आख्याष्टकं हि रुद्रस्य कथितं रोदनान्तरे॥ २.११ ॥

ब्रह्मविष्णुविवादश्च पुनर्लिङ्गस्य सम्भवः॥
शिलादस्य तपश्चैव वृत्रारेर्दर्शनं तथा॥ २.१२ ॥

प्रार्थनायोनिजस्याथ दुर्लभत्वं सुतस्य तु॥
शिलादशक्रसंवादः पद्मयोनित्वमेव च॥ २.१३॥

भवस्य दर्शनं चैव तिष्येष्वाचार्यशिष्ययोः॥
व्यासावताराश्च तथा कल्पमन्वन्तराणि च॥ २.१४ ॥

कल्पत्वं चैव कल्पानामाख्याभेदेष्वनुक्रमात्॥
कल्पेषु कल्पे वाराहे वाराहत्वं हरेस्तथा॥ २.१५ ॥

मेघवाहनकल्पस्य वृत्तान्तं रुद्र गौरवम्॥
पुनर्लिङ्गोद्भवश्चैव ऋषिमध्ये पिनाकिनः॥ २.१६ ॥

लिङ्गस्याराधनं स्नानविधानं शौचलक्षणम्॥
वाराणस्याश्च महात्म्यं क्षेत्रमाहात्म्यवर्णनम्॥ २.१७ ॥

भुवि रुद्रालयानां तु सङ्ख्या विष्णोर्गृहस्य च॥
अन्तरिक्षे तथाण्डेऽस्मिन् देवायतनवर्णनम्॥ २.१८ ॥

दक्षस्य पतनं भूमौ पुनः स्वारोचिषेऽन्तरे॥
दक्षशापश्च दक्षस्य शापमोक्षस्तथैव च॥ २.१९ ॥

कैलासवर्णनं चैव योगः पाशुपतस्तथा॥
चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः॥ २.२० ॥

सन्ध्यांशकप्रमाणं च सन्ध्यावृत्तं भवस्य च॥
श्मशाननिलयश्चैव चन्द्ररेखासमुद्भवः॥ २.२१ ॥

उद्वाहः शङ्करस्याथ पुत्रोत्पादनमेव च॥
मैथुनातिग्रसङ्गेन विनाशो जगतां भयम्॥ २.२२ ॥

शापः सत्या कृतो देवान्पुरा विष्णुं च पालितम्॥
शुक्रोत्सर्गस्तु रुद्रस्य गाङ्गेयोद्भव एव च॥ २.२३ ॥

ग्रहणादिषु कालेषु स्नाप्य लिङ्गं फलं तथा॥
क्षुब्दधीचविवादश्च दधी चोपेन्द्रयोस्तथा॥ २.२४ ॥

उत्पत्तिर्नन्दिनाम्ना तु देवदेवस्य शूलिनः॥
पतिव्रतायाश्चाख्यानं पशुपाशविचारणा॥ २.२५ ॥

प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा॥
वसिष्ठतनयोत्पत्तिर्वासिष्ठानां महात्मनाम्॥ २.२६ ॥

मुनीनां वंशविस्तारो राज्ञां शक्तेर्विनाशनम्॥
दौरात्म्यं कौशिकस्याथ सुरभेर्बन्धनं तथा॥ २.२७ ॥

सुतशोको वसिष्ठस्य अरुन्धत्याः प्रलापनम्॥
स्नुषायाः प्रेषणं चैव गर्भस्थस्य वचस्तथा॥ २.२८ ॥

पराशरस्यावतारो व्यासस्य च शुकस्य च॥
विनाशो राक्षसानां च कृतो वै शक्तिसूनुना॥ २.२९ ॥

देवतापरमार्थं तु विज्ञानं च प्रसादतः॥
पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः॥ २.३० ॥

भुवनानां प्रमाणं च ग्रहाणां ज्योतिषां गतिः॥
जीवच्छ्राद्धविधानं च श्राद्धार्हाः श्राद्धमेव च॥ २.३१॥

नान्दीश्राद्धविधानं च तथाध्ययन लक्षणम्॥
पञ्चयज्ञप्रभावश्च पञ्चयज्ञविधिस्तथा॥ २.३२ ॥

रजस्वलानां वृत्तिश्च वृत्त्या पुत्रविशिष्टता॥
मैथुनस्य विधिश्चैव प्रतिवर्णमनुक्रमात्॥ २.३३ ॥

भोज्याभोज्यविधानं च सर्वेषामेव वर्णिनाम्॥
प्रायश्चित्तमशेषस्य प्रत्येकं चैव विस्तरात्॥ २.३४ ॥

नरकाणां स्वरूपं च दण्डः कर्मानुरूपतः॥
स्वर्गिनारकिणां पुंसां चिह्नं जन्मान्तरेषु च॥ २.३५॥

नानाविधानि दानानि प्रेतराजपुरं तथा॥
कल्पं पञ्चाक्षरस्याथ रुद्रमाहात्म्यमेव च॥ २.३६ ॥

वृत्रेन्द्रयोर्महायुद्धं विश्वरूपविमर्दनम्॥
श्वेतस्य मृत्योः संवादः श्वेतार्थे कालनाशनम्॥ २.३७ ॥

देवदारुवने शम्भोः प्रवेशः शङ्करस्य तु॥
सुदर्शनस्य चाख्यानं क्रमसन्न्यासलक्षणम्॥ २.३८ ॥

श्रद्धासाद्ध्योथ रुद्रस्तु कथितं ब्रह्मणा तदा॥
मधुना कैटभेनैव पुरा हृतगतेर्विभोः॥ २.३९॥

ब्रह्मणः परमं ज्ञानमादातुं मीनता हरेः॥
सर्वावस्थासु विष्णोश्च जननं लीलयैव तु॥ २.४०॥

रुद्रप्रसादाद्विष्णोश्च जिष्णोश्चैव तु सम्भवः॥
मन्थानधारणार्थाय हरेः कूर्मत्वमेवच॥ २.४१ ॥

सङ्कर्षणस्य चोत्पत्तिः कौशिक्याश्च पुनर्भवः॥
यद्वनां चैव सम्भूतिर्यादवत्वं हरेः स्वयम्॥ २.४२ ॥

भोजराजस्य दौरात्म्यं मातुलस्य हरेर्विभोः॥
बालभावे हरेः क्रीडा पुत्रार्थं शङ्करार्चनम्॥ २.४३ ॥

नारस्य च तथोत्पत्तिः कपाले वैष्णवाद्धरात्॥
भूभारनिग्रहार्थे तु रुद्रस्याराधनं हरेः॥ २.४४॥

वैन्येन पृथुना भूमेः पुरा दोहप्रवर्तनम्॥
देवासुरे पुरा लब्धो भृगुशापश्च विष्णुना॥ २.४५ ॥

कृष्णत्वे द्वारकायान्तु निलयो माधवस्य तु॥
लब्धो हिताय शापस्तु दुर्वासस्याननाद्धरेः॥ २.४६ ॥

वृष्ण्यन्धकविनाशाय शापः पिण्डारवासिनाम्॥
एरकस्य तथोत्पत्तिस्तोमरस्योद्भवस्तथा॥ २.४७ ॥

एरकालाभतोऽन्योन्यं विवादे वृष्णिविग्रहः॥
लीलया चैव कृष्णेन स्वकुलस्य च संहृतिः॥ २.४८ ॥

एरकास्त्रबलेनैव गमनं स्वेच्छयैव तु॥
ब्रह्मणश्चैव मोक्षस्य विज्ञानं तु सुविस्तरम्॥ २.४९ ॥

पुरान्धकाग्निदक्षाणां शक्रेभमृगरूपिणाम्॥
मदनस्यादिदेवस्य ब्रह्मणश्चामरारिणाम्॥ २.५० ॥

हलाहलस्य दैत्यस्य कृतावज्ञा पिनाकिना॥
जालन्धरवधश्चैव सुदर्शनसमुद्भवः॥ २.५१ ॥

विष्णोर्वरायुधावाप्तिस्तथा रुद्रस्य चेष्टितम्॥
तथान्यानि च रुद्रस्य चरितानि सहस्रशः॥ २.५२ ॥

हरेः पितामहस्याथ शक्रस्य च महात्मनः॥
प्रभावानुभवश्चैव शिवलोकस्य वर्णनम्॥ २.५३ ॥

भूमौ रुद्रस्य लोकं च पाताले हाटकेश्वरम्॥
तपसां लक्षणं चैव द्विजानां वैभवं तथा॥ २.५४ ॥

आधिक्यं सर्वमूर्तीनां लिङ्गमूर्तेर्विशेषतः॥
लिङ्गस्मिन्नानुपूर्व्येण विस्तरेणानुकीर्त्यते॥ २.५५ ॥

एतज्ज्ञात्वा पुराणस्य सङ्क्षेपं कीर्तयेत्तु यः॥
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति॥ २.५६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽनुक्रमणिकावर्णनं नाम द्वितीयोऽध्यायः॥ २ ॥