श्रीगणेशाय नमः॥
ॐनमः शिवाय॥
नमो रुद्राय हरये ब्रह्मणे परमात्मने॥
प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे॥ १.१ ॥
नारदोऽभ्यर्च्य शैलेशे शङ्करं सङ्गमेश्वरे॥
हिरण्यगर्भे स्वर्लीने ह्यविमुक्ते महालये॥ १.२ ॥
रौद्रो गोप्रक्षके चैव श्रेष्ठे पाशुपते तथा॥
विघ्नेश्वरे च केदारे तथा गोमायुकेश्वरे॥ १.३ ॥
हिरण्यगर्भे चन्द्रेशे ईशान्ये च त्रिविष्टप॥
शुक्रेश्वरे यथान्यायं नैमिषं प्रययौ मुनिः॥ १.४ ॥
नैमिषेयास्तदा दृष्ट्वा नारदं हृष्टमानसाः॥
समभ्यर्च्यासनं तस्मै तद्योग्यं समकल्पयन्॥ १.५ ॥
सोपि हृष्टो मुनिवरैर्दत्तं भेजे तदासनम्॥
सम्पूज्यमानो मुनिभिः सुखासीनो वरासने॥ १.६ ॥
चक्रे कथां विचित्रार्थे लिङ्गमाहात्म्यामाश्रिताम्॥
एतस्मिन्नेव काले तु सूतः पौराणिकः स्वयम्॥ १.७ ॥
जगाम नैमिषं धीमान् प्रणामार्थ तपस्विनाम्॥
तस्मै साम च पूजां च यथावच्चक्रिरे तदा॥ १.८ ॥
नैमिषेयास्तु शिष्याय कृष्णद्वैपायनस्य तु॥
अथ तेषां पुराणस्य शुश्रूषा समपद्यत॥ १.९ ॥
दृष्ट्वा तमतिविश्वस्तं विद्वांसं रोमहर्षणम्॥
अपृच्छश्च ततः सूतमृषिं सर्वे तपोधनाः॥ १.१० ॥
पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम्॥
नैमिषेया ऊचुः॥
त्वयासूत महाबुद्धे कृष्णद्वैपायनो मुनिः॥ १.११ ॥
उपासितः पुराणार्थं लब्धा तस्माच्च संहिता॥
तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तम॥ १.१२ ॥
पुराणसंहितां दिव्यां लिङ्गमाहात्म्यसंयुताम्॥
नारदोप्यस्य देवस्य रुद्रस्य परमात्मनः॥ १.१३ ॥
क्षेत्राण्यासाद्य चाभ्यर्च्य लिङ्गानि मुनिपुङ्गवः॥
इह सन्निहितः श्रीमान् नारदो ब्रह्मणः सुतः॥ १.१४॥
भवभक्तो भवांश्चैव वयं वै नारदस्तथा॥
अस्याग्रतो मुनेः पुण्यं पुराणं वक्तुमर्हसि॥ १.१५ ॥
सफलं साधितं सर्वं भवता विदितं भवेत्॥
एवमुक्तः स हृष्टात्मा सूतः पौराणिकोत्तमः॥ १.१६ ॥
अभिवाद्याग्रतो धीमान्नारदं ब्रह्मणः सुतम्॥
नैमिषेयांश्च पुण्यात्मा पुराणं व्याजहार सः॥ १.१७ ॥
सूत उवाच॥
नमस्कृत्य महादेवं ब्रह्माणं च जनार्दनम्॥
मुनीश्वरं तथा व्यासं वक्तुं लिङ्गं स्मराम्यहम्॥ १.१८ ॥
शब्दब्रह्मतनुं साक्षाच्छब्दब्रह्मप्रकाशकम्॥
वर्णावयमव्यक्तलक्षणं बहुधा स्थितम्॥ १.१९ ॥
अकारोकारमकारं स्थूलं सूक्ष्मं परात्परम्॥
ओङ्काररूपमृग्वक्त्रं सामजिह्वासमन्वितम्॥ १.२० ॥
यजुर्वेदमहाग्रीवमथर्वहृदयं विभुम्॥
प्रधानपुरुषातीतं प्रलयोत्पत्तिवर्जितम्॥ १.२१ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम्॥
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्॥ १.२२ ॥
प्रधानावयवं व्याप्य सप्तधाधिष्ठितं क्रमात्॥
पुनः षोडशधा चैव षड्विंशकमजोद्भवम्॥ १.२३ ॥
सर्गप्रतिष्ठासंहार लीलार्थं लिङ्गरूपिणम्।
प्रणम्य च यथान्यायं वक्ष्ये लिङ्गोद्भवं शुभम्॥ १.२४॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गोद्भवप्रतिज्ञावर्णनं नाम प्रथमोऽध्यायः॥ १ ॥