.
हरविजयम्।
पञ्चाशः सर्गः।
भग्नेष्वधोक्षजपितामहवासवेषु
दैत्याधिपेन सकलैः सह लोकपालौः।
पञ्चाक्षमित्यभिदधे भगवान्सरोष-
मास्फाल्य निष्ठुरमथोन्नतकोटिचापम् ॥ 50.1 ॥
पश्याधुनामुमुरगाशनकेतुमत्र
भग्नं विरुग्णरणरागमितोऽन्धकेन।
यस्य व्यधायिषत चन्द्रमरीचिशुभ्रैः
साधारणांशुकभृतः ककुभो यशोभिः ॥ 50.2 ॥
दैत्यैन्द्रमार्गणगणाभिहतस्य पश्य
रत्नच्छटारुणितमात्मभुवः शरीरम्।
निद्राविमुक्तमधुसूदननाभिपद्म-
निष्पन्दिसान्द्रमधुदिग्धमिवाधुनापि ॥ 50.3 ॥
पश्याततायिकठिनास्थिशिलाविभेद-
कुण्ठीकृताश्रि कुलिशं युधि निर्जितस्य।
दैत्यैः करे शतमखस्य भयोदयोत्थ-
घर्माम्बुसिक्तमिव संतनुते न तेजः ॥ 50.4 ॥
दैत्यास्थिवज्रकषकुण्ठतरारचक्रं
चक्रं त्रपापरिचयच्युतचण्डचर्यम्।
विष्णोर्भयाकुलतया वयपलीनवह्नि-
धूमायमानमवलोकय पाणिलग्नम् ॥ 50.5 ॥
आबद्धुकोपदितिजाधिपबाहुचक्र-
चक्रीकृतातनुशरासनबाणपातैः।
भङ्गीशतैः प्रकटरन्ध्रपरीतमध्य-
मापूर्णमेति विततश्रियमर्कबिम्बम् ॥ 50.6 ॥
नाराचनिर्दलितबिम्बतयैष भग्न-
सङ्ग्रामदुर्ललितदुर्धरधैर्यबन्धः।
अध्यास्यमानहृदयो हरिणेन पश्य
संक्रान्तकातरददीयमना इवेन्दुः ॥ 50.7 ॥
पश्यास्तपर्वतमिवाभ्रकपङ्कनील-
मासाद्य दानवचमूपतिमेतदग्रे।
पर्याकुलोऽधिकमनूष्मतया रणेऽत्र
भग्नः प्रतापविभवेन सहैव भानुः ॥ 50.8 ॥
बिभ्रद्गदां विदलितारिकपालगुर्वीं
लीलाविलम्बितमनोहरशङ्खपद्मः।
व्यापारितायुधशतोऽन्धकबाणवर्षै-
र्नाभाति शौरिरिव जर्जरितोऽर्थनाथः ॥ 50.9 ॥
पश्यै, निर्जयकृतभ्रुकुटीविभङ्ग-
च्छायोपबृंहितनवाञ्जनपुञ्जवर्णाम्।
वक्त्रश्रियं घटितनीलपटां ह्नियेव
धत्ते यमः परिहरन्मम दृष्टिमार्गम् ॥ 50.10 ॥
धत्ते मुखेषु वरुणो रिपुरोषवह्नि-
ज्वालारुणां तनुमसावसमाप्तकम्पः।
नित्यावबद्धमकरालयचवासलग्न-
दुर्वारवाडवकृशानुशिखामिवैताम् ॥ 50.11 ॥
उत्सृष्टदिग्गजगलन्मदवारिगण्ड-
पिण्डीकृतैरविरलं भ्रमरैः पतद्भिः।
पश्यैष किंशुकवनभ्रममोहमन्दै-
रन्वीयतेऽग्निरसुरैर्विहितोष्मभङ्गः ॥ 50.12 ॥
सान्द्रीभवत्यमलमेचकखड्गमेघ-
घोरान्धकारनिकरः स्थगितान्तरिक्षः।
संत्रासविह्वलवलत्प्रतिपत्तिमूढ-
गाढानिलोच्छ्वसितधूमशिखासहस्रैः ॥ 50.13 ॥
यत्कीर्तनादपि निजेषु निकेतनेषु
भीतैर्मरुद्भिरुदविज्यत बद्धकम्पम्।
उद्यच्छमानमवलोक्य तमाहवाग्रे
संभ्रेमुषा सुरगणेन यतोऽपसस्ने ॥ 50.14 ॥
तत्स्यन्दनं सपदि चोदय दर्पमूढ-
दैत्याधिपाभिमुखमूर्जितसिहवाहम्।
ऊष्माणमेतमधुना विषमेषुवर्षं
संत्याजयामि युधि शैलमिवात्र यावत् ॥ 50.15 ॥
इत्यूचुषि स्मररिपौ तरसा मुमोच
सूतोऽन्धकं प्रतिरथं कृतमेरुकम्पम्।
दैत्याधिपस्य न चचाल रथोऽपि यन्तृ-
संचोदितः किमपि भावि भियेव पश्यन् ॥ 50.16 ॥
व्यस्यन्निवाशु भुवनत्रितयाधिराज्य-
लक्ष्मीं पतत्त्रमरुताथ सुमेरुकुञ्जात्।
जृध्रः परेतपतिदूत इव ध्वजाग्र-
मध्यास्त तस्य रभसादरुणोत्तमाङ्गः ॥ 50.17 ॥
सस्यन्दिरे जलभृतो भुवनारविन्द-
कोषप्रतिष्ठमकरन्दरसायमानम्।
सानन्दगृध्रकुलषट्पदचक्रवाल-
वाच्छाविपूरणमनर्गलमस्त्रवर्षम् ॥ 50.18 ॥
खड्गाजुघू करणघाञ्जुघुरु(?)र्घनौघा
निर्घातघोरघटनास्तितिमाप पृथ्वी।
वज्राभिघातपरूषं पिशिताशिनश्च
चक्रुर्महाप्रलयशंसिनमट्टहासम् ॥ 50.19 ॥
धैर्यावधीरितशुभेतरघोररूप-
चिह्नस्य दानवपतेः समराजिरोर्व्याम्।
शंभोश्च दृष्टजयलिङ्गनिराकुलस्य
वेगात्समीयतुरथातिरथौ तथा तौ ॥ 50.20 ॥
अह्नादि दुन्दुभिभिराहननादगुञ्जि
गुञ्जागणेन विधुरैर्मुखरैरभावि।
अक्वाणि गोमुखशतैः पणवैरराणि
तस्मिंस्तयोरथ रणे प्रविजृम्भमाणे ॥ 50.21 ॥
आहन्यमानकिखरानकगोमुखादि-
वादित्रघोषमुखराः ककुभो बभूवुः
दैत्याश्च शैलकुहरप्रतिशब्ददीर्घ-
घोरा त्रयेण (?) मुमुचुर्यधि सिंहनादम् ॥ 50.22 ॥
योधा युधे कृतधियो रभसेन वल्गुः।
पाणिस्तिताकृपकृपाणनिपातपीत-
मत्तद्विपाकृपकृपाणकृपीटपट्टाः ॥ 50.23 ॥
सङ्ग्राममङ्गलमुपेत्य जगुः सकम्प-
हस्ताङ्गुलीशिथिलकोणहता विपञ्चीः।
शंभोविंलोकननिरर्गलजृम्भमाण-
पीनध्वजाः सरसमप्सरसो दध्त्यः ॥ 50.24 ॥
तस्याथ मूर्ध्नि मदमन्थरितद्विरेफ-
पक्षानिलाभिहतकम्पितकेसराग्रा।
आनन्दनिर्भरनभश्चरचक्रहस्त-
मुक्ता पपात सुरपादपपुष्पवृष्टिः ॥ 50.25 ॥
आभादखेटखटकामुखहस्तदीर्घ-
रक्ताङ्गुलीनखमणिप्रतिबिम्बगर्भम्।
प्रत्युप्तदीप्ततररत्नमिवोच्छिखाच्छ-
रश्मिच्छटं कनकुण्डलमन्धकस्य ॥ 50.26 ॥
तस्मिन्दुधूवुषि धनुर्धरधैर्यबन्ध-
मायोधने धनदयोधजनेन सार्धम्।
सेनानका इव तदा गिरयो विनेदु-
र्मौर्वीनिनादमुखरीकृतरन्ध्रभागाः ॥ 50.27 ॥
कोदण्डकोटिघटितोरगराजमौर्वी-
वेल्लत्फणामणिगणप्रतिबिम्बगर्भम्।
माणिक्यशेखरमिवामृतरश्मिखण्ड-
भीषत्किरीटघटितं बिभरांचकार ॥ 50.28 ॥
तस्योर्मिभङ्गविषमोन्नतबाहुदम्ड-
खण्डान्दहन्धनुषि दानवसिन्धुनाथान्।
ज्वालाकरालितमुखस्तरसातिगाढ-
मौर्वीकृतास्तितिरराजत भोगिराजः ॥ 50.29 ॥
कोदण्डदण्डघटिताटनिगाढबन्ध-
तान्तेन तस्य विकसत्फणचक्रवालम्।
नागेश्वरेण पपिरे शिशिराः शिरः स्थ-
मन्दाकिनीजलतरङ्गघटासमीराः ॥ 50.30 ॥
शूत्कारिपक्षमरुतः स्फुरदग्निशात-
शल्पाः शराः शशिकलाङ्गितबाहुमध्यात्।
निश्चक्रमुर्दितिसुताभिमुखं हिमाद्रि-
कुञ्जान्तरालगहनादिव राजसंसाः ॥ 50.31 ॥
छायामयीं विजधतो भुवनेष्वकाण्ड-
कल्पावसानरजनीमिव तस्य संख्ये।
आकर्णकृष्टवलयीकृतचारुचाप-
चक्त्रच्युता भुवनमानशिरे शरौघाः ॥ 50.32 ॥
मौर्वीकृतस्य खटकामुखपाणिकृष्ट-
मध्यं क्रमेण फणिनः फणचक्रवालम्।
फूत्कारपावकशिखा धनुषोऽथ तस्य
चक्रीकृतादिषुगणाश्च समं निपेतुः ॥ 50.33 ॥
रूढारुढं (षं) तदुरसि स्फुटकेकिपिच्छ-
पुङ्खाः शरा दितिजकार्मुकचक्रमुक्ताः।
कल्पद्रुमा इव महीध्रतटीविचित्र-
संफुल्लरत्नकुसुमस्तबका निपेतुः ॥ 50.34 ॥
कृत्तोवपीतभुजगाधिपमूर्धरत्न-
पुष्पोपकारकृतसंयुगवर्त्मशोभैः।
वक्षःस्थले पुररिपोरसुरेन्द्रचाप-
चक्रच्युतैः शरशतैस्चतुरं निपेते ॥ 50.35 ॥
कल्लोलजालकलिला विवलत्कपाल-
कूर्मोदराः शिरसि तस्य शराश्रयाशैः।
मन्दाकिनीजलरयाः पपिरे पतद्भि-
रह्नाय सिन्धव इव प्रलयार्कपादैः ॥ 50.36 ॥
संघास्यमानकृतमार्गणसंधियोग-
चक्रीभवन्मणिशरासनबाहुजालः।
दैत्याधिपः स्पुरदनेकशशाङ्कशण्ड-
मार्तण्डमण्डल इवाम्बरमार्ग आसीत् ॥ 50.37 ॥
मन्ये च तस्य वलयीकृतकार्मुकस्य
सङ्ग्रामकर्मठकठोरकरालवाहोः।
प्रागाततायिपृतनासुभिरब्यपाति-
पश्चान्निशाततरशल्यमुखैर्विपाठैः ॥ 50.38 ॥
आबद्धकोपदितिजाधिपबाहुपण्ड-
मध्यान्निरीयुरथ संयुगवर्त्म बाणाः।
संहारमारुतपराहतसिन्धुवीचि-
चक्रादिवोज्जवलितवहिनिमुखा भुजंगाः ॥ 50.39 ॥
निष्ठ्यूततीव्रशिखिनः शितिकण्ठमौलि-
मालाकपालशकलेषु निशातशत्याः।
निष्पेतुरर्ककिरणा इव कर्कशेषु
कैलासशैलशिखरेषु सुरारिबाणाः ॥ 50.40 ॥
तत्पातनिर्दलितमौलिकपालपट्ट-
धूमच्छटामलिकलोचनमाविशन्तीम्।
सेवाविचक्षण इव श्वसितैर्निरास
कर्णावतंसभुजगः शशिखण्डमौलेः ॥ 50.41 ॥
उद्दामदाहपरिवर्तितजिह्मकोटि-
रुत्तंसचन्द्रकलिका शिरसि स्मरारे।
दत्याधिराजविशिखाग्निशिखासहस्र-
निर्यत्सुधास्रुतिरभूत्सविशेषतन्वी ॥ 50.42 ॥
तस्याहवे विकटपिच्छकलापभार-
शङ्कुच्छलस्पुटितचन्द्रविखण्ड्यमानाः।
उद्दामकोपदितिजाधिपचापचक्र-
मुक्ता शरा विषधरा इव संनिपेतुः ॥ 50.43 ॥
अभ्यापतन्मुदितखेचरचक्रवाल-
सामाजिकस्तिमिलतोचनचक्रदृष्टः।
दैत्याधिपोऽद्भुतविधायि विजृम्भमाण-
विश्लिष्टसंधिडिमडम्बरचारणोऽभूत् ॥ 50.44 ॥
आनेमुषो विजहता दधुषश्च दर्प-
मानिघ्नति जुहुवषोऽभिमुखं यतारात्।
तेनाखिला युधि पस्स्परमूयिरेऽथ
गाढं शरैर्दसदिशो दृढचापमुक्तैः ॥ 50.45 ॥
आकर्णकुण्डलितकर्कशकालदण्ड-
चक्रायमाणमणिकार्मुकनिर्गतेन।
बाणेन वक्षसि जघान मृगाङ्कमौलि-
माबद्धमत्सरमथावसरेऽसुरारिः ॥ 50.46 ॥
देवोऽपि दानवपतेः पृथुजत्रुसीम्नि
तिष्ठेत्युदीर्य शरघातविवृद्धमन्युः।
प्रेङ्खन्मुखाग्रशिखिनं निचखान बाण-
मुत्संख्यसंख्यकृतपुङ्गतयोरुपुङ्खम् ॥ 50.47 ॥
तावुत्तरोत्तरदुरुत्तरतारतम्य-
ताम्यद्दिनाकृशकृशानुपरीतबाणौ।
सङ्क्रामवर्त्मनि परस्पररन्ध्रलाभ-
बन्धाभिसंधि चिरमक्रमतामवन्ध्यम् ॥ 50.48 ॥
वक्षोऽन्धकस्य निजघान घनाघनत्वि-
डीशस्तडिन्निबिडचण्डकडारकाण्डैः।
कूलाद्रिसानुकटकं विकटैस्तरङ्ग-
भङ्गैः सवाडवशिखैरिव कूर्मकेतुः ॥ 50.49 ॥
प्रेङ्खच्चिखा विशिखसंहतिरन्धकेन
मुक्ता ततः शिरसि शूलभृतः शरारोः।
चूलावचूलफणिफूत्कृतिवह्निहेति-
संप्लुष्टपक्षतिपुटा विषमं न्यपप्तत् ॥ 50.50 ॥
कर्णावतंसितफणिस्पुरितस्पुलिङ्ग-
फूत्कारवह्नितपनातपदग्धपक्षः।
व्यम्नः पतन्दितिसुताधिपशैलमूर्ध्नि
संपातिविभ्रममधत्त वृषाङ्कबाणः ॥ 50.51 ॥
विस्तारिशल्यमुखनिर्गतरोहिदश्व-
शारीकृताम्बरतला भयमादधानाः।
तच्चापमण्डलविनिष्पतिताः प्रसस्रु-
रुल्कापिशाचनिचया इव दिक्षु बाणाः ॥ 50.52 ॥
दूरं दरिद्रिहि दरेण विदारटाद्री-
न्दर्पोद्दताञ्जहि जहीति नरानरातीन्।
इत्याहरन्प्रविजहार सकर्णजाह-
रक्तान्तनेत्रयुगलो विजहौ च खेदम् ॥ 50.53 ॥
गुञ्जद्गुणाविरलशब्दविमिश्रगाढ-
मौर्वीविरावमुखरोऽथ शिलीमुखौघः।
दूरादशिश्रियदिवाम्बरचारिचक्र-
मानन्दमस्य सुरवैरिवधाहगितं सः ॥ 50.54 ॥
वक्त्रामृतांशुपरिवेषपृषत्कपीठ-
निष्ठ्यूतनिष्ठुरविपाठविजर्जरांसः।
योधान्मुचोच रणमूर्ध्रनि मुमूर्षुषोऽथ
रन्ध्रेन जातु रिपुषु प्रहरन्ति धीराः ॥ 50.55 ॥
तत्पत्त्रिभिः सुररिपोः शकलीकृताना-
माकाश एव कलधौतशिलीमुखानाम्।
रेजुः पतत्प्रचुरचूर्णपरागदिग्ध-
बालार्करस्मिशबला इव शैलकूटाः ॥ 50.56 ॥
सङ्ग्रामनाटकविलोकनकौतुकात्त-
संचारखेचरसहस्रविमानपङ्क्तीः।
ऊर्ध्वंतरां तरणिमार्गरूधः प्रचण्ड-
कोदण्डनिर्गतशरामनयत्स्मरारेः (?) ॥ 50.57॥
तच्चापनिर्गतनिरर्गलमार्गणौघ-
पक्षानिलाहतिविजर्जरिताभ्रमासीत्।
व्यापार्यमाणविविधायुधघातरूढ-
गाढासितव्रणकिणाङ्कमिवान्तरिक्षम् ॥ 50.58 ॥
आपीयत स्थगितभास्करबिम्बबीज-
कोषैर्नवातपमधुस्फुटपत्त्रशोभैः।
ज्याघोषगीतिमुखरैर्भुवनारविन्द-
गर्भास्पदं सपदि दैत्यशिलीमुखौघैः ॥ 50.59 ॥
विस्तार्य चापमथ विस्फुरदग्निहेति
निःशङ्कहुंकृति निधानमहंकृतीनाम्।
दैत्याधिपः कुटिलितभ्रुकुटीविभङ्ग-
भास्वल्ललाट इति धूर्जटिमाबभाषे ॥ 50.60 ॥
तिष्ठाधुना क्व नु बटो मम दृष्टिमार्गा-
द्गन्तासि पुष्पविशिखोऽस्मि न मन्दवीर्यः।
कालोऽथवा न कृपणः कृमिकीटजन्तु-
जीवापहारचतुरो न गजासुरो वा ॥ 50.61 ॥
अन्या हि नृत्तरभसोत्थितदत्तताल-
वेतालमालिततला पितृमन्दिरोर्वी।
सङ्ग्रामभूमिरपरा भटचण्डचक्र-
दोर्दण्डदर्पनिकषोपलपट्टिकाश्रीः ॥ 50.62 ॥
इत्यूचिवान्निरभिनत्स्मयमान एव
तं पञ्चभिर्ज्विलितवह्निशिखैः पृषत्कैः।
किंचित्तदीयविशिखाशनिपातभिन्न-
वक्षश्चचाल च शशाङ्ककलावचूलः ॥ 50.63 ॥
तस्मिन्मनाक्चलति षण्मुखदत्तदृष्टि-
दृष्टार्तिलेशसदपत्रपलम्बवक्ते।
आमर्दकस्त्वरितमन्धकमभ्यधाव-
दुत्पाटितस्तगितभानुसुमेरुकूटः ॥ 50.64 ॥
दैत्यादिपस्तमथ संमुखमापतन्त-
मालोक्य कोपविवशो विशिखैररौत्सीत्।
तच्चोदितं शिखरमुच्छिखरत्नसार-
मस्याभिनत्तिलतुलामधिरूढमन्यैः ॥ 50.65 ॥
तस्मै रथाङ्गमकिरन्मुरजिन्महाजि-
हेलो हली हरितसप्तिसुतश्च दण्डम्।
संस्तभ्य तानथ शरैः स सहस्रसंख्यैः
संख्ये जघान लघु पञ्चभिरिन्दुमौलिम् ॥ 50.66 ॥
कोदण्डदण्डशिखरस्थफलासहस्र-
फूत्कारवह्निकणतारकितान्तरिक्षम्।
चिच्छेद वासुकिगुणं किरतः पृषत्का-
नासाद्य रन्ध्रमथ तस्य शरैः सुरारिः ॥ 50.67
प्रत्युप्तदीप्तमणिदीघितिचक्रवाल-
संकीर्यमाणविकटोन्नतकोटिदण्डम्।
विच्चिन्नपन्नगगुणं धनुरिन्दुमौले-
रिन्द्रायुधश्रियमदीघरदन्तरिक्षे ॥ 50.68 ॥
स च्छिन्नवासुकिगुणो जयलाभलिङ्ग-
मालिङ्गिताम्बरशिखाग्रशिखास्पुलिङ्गम्।
जग्राह कोपकुटिलभ्रुकुटीविभह्ग-
पिङ्गेक्षणाननदुरीक्ष्यवपुस्त्रिशूलम् ॥ 50.69 ॥
निःशेषलोककवलग्रहणाय वल्ग-
दालोलहेतिरसनस्तरसोत्पतिष्यन्।
तस्याभिवादयितुमौर्वमिवाग्निमाशु
हुंकारवह्निरुदधौक झगिति न्यपप्तत् ॥ 50.70 ॥
तेनाथ शंकरकरभ्रमितेन तूर्ण-
मक्षुण्णमेव घनवर्त्मनि घर्मरश्मेः।
आबध्तयत त्रिगुणमाशु विवृत्तिलोल-
साखात्रयानलशिखापरिवेषचक्रम् ॥ 50.71 ॥
आकृष्टशैलशिखरं तरलीकृतार्क-
चन्द्रं समुद्रसलिलप्लुतनाकमार्गम्।
पुञ्जीकृतोडु दलितक्षितिपीठपृष्ठ-
मासीदनुभ्रमणलोलममुष्य बिम्बम् ॥ 50.72 ॥
शूलाग्नितापदलितोपलमूलसंधि-
भागानि भग्नतटकल्पतरूणि तूर्णम्।
पेतुर्विमुक्तिविकटीकृतदूरदृश्य-
पृष्ठप्रतिष्ठितनभांसि शिरांसि मेरोः ॥ 50.73 ॥
तस्मिश्च धूर्जटिकरभ्रमिते विदूत-
सिन्धूर्मिसंहतिपरिप्लुतनाकष्टष्ठे।
पुस्फोर तद्दहनपीवरविस्पुलिङ्ग-
विश्लिष्टबेदमहिमांशुमरीचिबिम्बम् ॥ 50.74 ॥
ऊहुः पिनाकशिखितापविलीयमान-
विस्तीर्णकाञ्चनशिलाशिखरप्रवृत्ताः।
रत्नोपलस्खलनभिन्नजलाः सुमेरोः
कूलंकषाः कटकभूमिषु निर्झरिण्यः ॥ 50.75 ॥
शाखान्तरालपरिवर्तविलोलवह्नि-
ज्वालाकलापविकटाञ्जलिभिस्तदानीम्।
तेनोदपीयत परिभ्रमणानुबन्ध-
संजातदुर्धरदशेव सुरस्रवन्ती ॥ 50.76 ॥
ज्वालाकलापकवलीकृतसप्तसिन्धुं
तापस्फुरद्विकटटांकृति शैलकूटम्।
चण्डालिकज्वलनमूर्जितमुत्ससर्ज
संवर्तकाल इव वक्त्रतलेन शंभुः ॥ 50.77 ॥
तेनान्धकस्य विकटोन्नतचापचक्र-
मुक्ताः शराः स्थगितदिक्तटमापतन्तः।
निर्देहिरे जरठहेतिशतैः सरीढ-
मौर्वान्निनेव मकराकरवीचिभङ्गाः ॥ 50.78 ॥
तं शूलशक्तिमुसलाशनिपट्टिशासि-
पट्टैर्निहत्य पुरजिद्दितिजं जुघोर।
घोरास्त्रवृष्टिभिरथार्दिददन्धकोऽपि
तस्मिन्पुनः स ववृधे सविसेषमाग्निः ॥ 50.79 ॥
कोदण्डमण्डलविनिर्गतमस्य बाण-
जालं युधि प्रसभमिन्दुधरो निहत्य।
वेगाद्रथं प्रति ससार तमाजघान
दैत्याधिपोऽपि गदया गुरुशूलहस्तम् ॥ 50.80 ॥
दैत्याधिपेरितगदादलितोत्तमाङ्ग-
विष्पन्दिसान्द्ररुधिरोक्षितदन्तुरार्चिः।
जज्वाल धूर्जटिमुखाग्निरुवोष चाथ
तत्स्न्दनं सतुरगध्वजसूतचक्रम् ॥ 50.81 ॥
कपिशितदशदिग्भिर्वह्निना हेतिचक्रै-
स्त्रिपुर इव तदानीं स्यन्दने तेन दग्धे।
शिशिरकरकिरीटं दैत्यनाथो जिघृक्षुः
सरभसमथ दर्पादुत्पपातान्तरीक्षम् ॥ 50.82 ॥
स्मितविकसितगण्डभित्तिभागस्तमभिमुखं गुरुवेगमापतन्तम्।
सममभिनदशेषदैत्यकान्ताजनहृदयैस्त्रिशिखेन शूलपाणिः ॥ 50.83 ॥
तद्वक्षः स्फुरितकृशानुशूलकोटिं झंकारारवबधिरीकृतान्तरिक्षम्।
सस्यन्दे रुदिरमकारि येन संध्याताम्रांशुच्छरितमिवाब्रचक्रवालम् ॥ 50.84 ॥
दितिजरुधिरधारासिक्तशूलाश्रिभाग-
ज्वलनजनितधूमश्यामलं सूर्यबिम्बम्।
विगलितरुचिटङ्काघातसंसक्तमूल-
क्षतजमिव तदानीमन्तरीक्षे रुरोच ॥ 50.85 ॥
सस्यन्दे त्रिशिखविदारितात्सुरारेर्यद्वक्षः कटकतटादसृक्छटाम्भः।
विश्वेषामकुरुत तत्प्रतापवह्निप्लुष्टानामपि जगतां तदेव शान्तिम् ॥ 50.86 ॥
त्रिशिखमुखविभेदादञ्जनक्षोदपुञ्ज-
च्छविरवनिममुञ्चद्व्योमसीम्न्यर्द्यमानः (?)।
गगनभुवि स एवालोक्यतारतिसैन्यै-
र्दितिसुतकुललक्ष्मीसंक्षयोत्पातमेघः ॥ 50.87 ॥
तद्वक्षः कटकादसृङ्निपतितं सान्द्रं कपालोदरे
पीत्वा तत्परिणामपाटलमिवाताम्रं वपुर्बिभ्रती।
चामुण्डाङ्गुलिकोटिभागमलनात्तद्वीर्यबीजाङ्कुरा-
नच्चिन्नाखिलसंततीन्सरभसं चक्रे प्रतिच्छन्दकान् ॥ 50.88 ॥
त्रिशिखदहनज्वपालातापक्वथद्बहलासृजः
सपदि वपुषस्तस्याशेषात्कृतादथ भस्मसात्।
स्तिमितनयनव्रातैर्दृष्टं सुरासुरमण्डलैः
शशिधरकलामौलेर्ज्योतिः शरीरमथाविशत् ॥ 50.89 ॥
ग्रासीकृतार्दितसुरासुरचक्रवाल-
सङ्ग्रामसागरगतान्धककालकूटः।
निर्धूतचामरमरुत्परिवीजितांस-
पीठे दिदेश हरयेऽथ स राज्यलक्ष्मीम् ॥ 50.90 ॥
उन्मूलिताखिलविपक्षगणासु तूर्ण-
मस्याज्ञया पुर इवामरलोकपालाः।
दिक्षु क्रमादथ यथायथमेव गुप्ति-
हेतोः स्थितिं प्रमदफुल्लदृसो बबन्धुः ॥ 50.91 ॥
निपतितमरिसैन्याभ्याहतं संयुगोर्व्या
निजकरपरिमर्शान्निष्प्रहारव्रणं सः।
शशिशकलकिरीटस्यन्दमानामृताम्भः
स्रुतिकृतपरिषेकं जीवयामास सैन्यम् ॥ 50.92 ॥
दिशि दिशि मकरन्दस्यन्दमाद्यद्धिरेफाः
सुरभितघनमार्गाः पुष्पवृष्टीः किरन्तः।
प्रतिनवमुखरागानेकवादित्रघोषा-
स्तमहितवधतुष्टस्तुष्टुवुः सिद्धसाध्याः ॥ 50.93 ॥
जगुरमरतरुण्यो मङ्गलं तारमन्द्र-
क्रमतरलितहारोत्कम्पिपीनस्तनाग्राः।
अविरतविविधभ्रूभङ्गसंलक्ष्यमाण-
स्फुटतरगुरुचेतोवासना नाकमार्गे ॥ 50.94 ॥
त्रिदशगणपतिंस्तान्विश्लथन्मौलिरत्न-
प्रणतिनतशिरस्कान्संयुगे दृष्टभक्तीन्।
अभिमतवरलाभैः सोऽथ संभाव्य देव्या
सह सुखमनुभावत्खां पुरीमध्यतिष्ठत् ॥ 50.95 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागी श्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये देवदेवप्रतिष्ठापनं नाम पञ्चाशः सर्गः।
———***———