.
हरविजयम्।
एकोनपञ्चाशः सर्गः।
तीक्षणैः शिलीमुखनखैरथ संप्रहार-
कण्डूविनोदनमरातिजनस्य तूर्णम्।
कुर्वन्तमन्तकपुरीपृथुसालचाप-
चक्रोऽभयुङ्क्त मयमाहवमूर्ध्नि शौरिः ॥ 49.1 ॥
वक्त्रारविन्दनिमितं करगाढरूदध-
पार्श्वद्वयं युधि बभार स पाञ्चजन्यम्।
वैरिञ्चमण्डमिव निःश्वसितानिलोर्ध्व-
पर्यस्यमानमुदरान्तरतो विनिर्यत् ॥ 49.2 ॥
आबद्धकङ्कटकपाणिनिरुद्धपार्श्व-
भागः सुगन्धिवदनानिलपूर्णरन्ध्रः।
तेनानिमीलितविलोचनपक्ष्मबन्ध-
माध्मायि संयुगरसादथ पाञ्चजन्यः ॥ 49.3 ॥
सेनाभिरस्य विजितस्तनयित्नुघोष-
मस्ताततायि युधितस्तनुषीभिरुच्चैः।
मस्ताततायि युधितस्तनुषीभिरुच्चैः।
स्रस्तांशुमण्डलविहस्तगभस्तिमालि-
विस्तारिणीभिरवतस्तरिरे दशाशाः ॥ 49.4 ॥
अक्ष्मायि तस्य शिथिलीकृतनागनाथ-
विस्तारिभोगनिबिडं भरखर्वितं सत्।
क्ष्मामण्डलं जलधिलङ्घिततीरलेख-
माजह्रुषीभिरभितः ककुभश्चूभिः ॥ 49.5 ॥
तार्क्ष्योऽथ चञ्चुपुटदष्टचभुजंगमूर्ति-
राकाशमुड्डिडयिषुस्तरसा धरित्र्याः।
पृष्ठेन विग्रहभरं मधुसूदनस्य
जग्राह दानवचमूसरिदुष्णरश्मेः ॥ 49.6 ॥
उद्गच्छता गगनवर्त्म जवेन तेन
दूरावगाढदृढभिन्नरसातलाग्राः।
आकृष्टिमुक्तवसुधाः क्षमविघ्नखेद-
मुद्दध्रिरे नखरसंहतयः कथंचित् ॥ 49.7 ॥
तत्पक्षभागरचितास्पदनागनाथ-
भास्वत्फणामणिवितानपरीयमाणम्।
संध्यातपारुणिततारकचक्रवाल-
कल्माषतामिव जगाम तदान्तरिक्षम् ॥ 49.8 ॥
ज्याकृष्टिमण्डलितकर्कशदण्डचण्ड-
कोदण्डमण्डलतया रणकाननोर्व्याम्।
शौरेर्जितोर्जितरिपुस्त्रिदशैर्व्यलोकि
बद्दालवाल इव कोमलकीर्तिवल्ल्याः ॥ 49.9 ॥
सेना जुधूनयिषतो द्विषताममुष्य
दोर्दण्कडमण्डलितकार्मुकमध्यमूक्तैः।
काण्डैरकाण्डनिबिडोड्डमरप्रचण्ड-
नैशान्धकारविधुरा विदधे धरित्री ॥ 49.10 ॥
तच्चापनिर्धुतविरुग्णशिरस्त्रबनध-
पुङ्खावशेषविनिमग्नशरैः शिरोभिः।
नाकद्रुहां द्रुतमभाजि रणाजिरोर्व्यां
लीलावनद्धनवपत्त्रपिशाचिकाश्रीः ॥ 49.11 ॥
पक्षानिलावधुतनाकसरित्तरङ्ग-
भह्गच्छटामलितनामनिविष्टकर्णैः । (?)
तेनाशु जिह्मगतिभैरपजुह्नुवेऽर्क-
तेजो विकास्यथ दशस्वपि दिक्षु बाणैः ॥ 49.12 ॥
अन्योन्यपृष्ठपरिरक्षितचापचक्र-
निर्मुक्तशाततरशल्यशराभिघातैः।
सैन्यैरजिग्रहदसावसुराधिपस्य
दिक्चक्रवालमसकृत्प्रलयप्रचण्डैः ॥ 49.13 ॥
क्रीडत्कृतान्तभटमुष्टिदुरोदरैक-
लीलावराटकगणैः समराङ्गणोर्व्याम्।
शुभ्रैरशीशरदसौ शरदार्यमाण-
सेनामतङ्गजशिरश्च्युतमौक्तिकौघाः ॥ 49.14 ॥
अभ्यर्णमृत्युकृतसंनिधिपाशपाणि-
निःशङ्कहुंकृतिभयंकरकिंकराङ्कम्।
आयोधनं सुररिपोः प्रसरत्पतत्त्र-
मास्तानमण्डपमिवाभवदन्तकस्य ॥ 49.15 ॥
तस्योत्पतत्त्रमरुतः क्षणमम्बराग्र-
संचारिणो मुखरतां दधथः पृषत्काः।
दैत्याधिपक्षतजशोणमुखा बभूवु-
र्मन्दाकिनीतटनिकेतनराजहंसाः ॥ 49.16 ॥
शौरेर्निशाततरशल्यशतैररति-
सेनाशिरांसि युधि चिच्छिदिवद्भिरारात्।
दिक्चक्रमौयततरां तरसा वहद्भि-
रन्योन्यमाहवमुखेषु शिलीमुखैघैः ॥ 49.17 ॥
संकूणितेक्षममुखैः प्रविभागदृश्य-
नाडीनिरोकगलितक्षतजाक्तकण्ठैः।
आश्यामिकाग्रदशनैस्तदपास्तबाण-
कृत्तैरलोठि युधि दैत्यचमूतुर्ङ्गैः ॥ 49.18 ॥
उत्क्षिप्तमूलकुटिलभ्रुविजृम्भमाण-
रोषारुणां यदभवत्सुभटस्य वक्त्रम्।
वैलक्ष्यतो नु परिपाण्डुरतामवाप
तत्कृत्तकण्ठगलितक्षतजप्रवाहम् ॥ 49.19 ॥
त्रैलोक्यमर्चिचयिपो धवलैर्यशोबि-
रानञ्जुषः समरचञ्चुरतां मुरारेः।
बाणाः प्रसस्रुरभितः कमलासनाण्ड-
वल्मीककूटविकटोदरदन्दशूकाः ॥ 49.20 ॥
तच्चापचक्रनिपतन्निशितार्धचन्द्र-
निर्लूनितेन्दुकरगौरलसत्पताकाः।
विच्चिन्नकीर्तय इवावनता न रेजु-
रायोधनेषु भटकूबरिकेतुदण्डाः ॥ 49.21 ॥
देदीप्यमानवपुषा दलितान्धकार-
कूटा निवृत्तपुनरागतयो विशुद्धाः।
तेनाभवन्वलयिनोन्नतकार्मुकेण
मुक्ताः शरास्तरणिम्णडलभेददक्षाः ॥ 49.22 ॥
तस्तम्भिरे प्रतिदिशं तरसा विमान-
वीथ्योऽभ्युपेत्य रणवर्त्मदिदृक्षमाणाः।
तन्मार्गणैः सभयकौतुकनाकिभीरु-
मुक्ताहितास्पदनिशान्तगवाक्षमार्गाः ॥ 49.23 ॥
आदध्मिरे प्रतिरवप्रतिपन्नदैर्घ्यैः
शैलाधिराजकुहराण्यभितस्तदानीम्।
तच्चापचक्रविवरानघघातपात-
निर्यातशातशरसंभृततारनादैः ॥ 49.24 ॥
माणित्कष्मिषतसोड्झिचनातषत्क-(?)
चापाकृतीष्वसनमुक्तशरौघभिन्नाः।
शार्ङ्गायुधः सपदि नानुबबन्ध दैत्य-
सेना दिशः समिति शिश्रियुषीर्भयार्ताः ॥ 49.25 ॥
तस्याशु विव्रणयिषो द्विषतां वपूंषि
कर्णान्तकृष्टिवलयीकृतचापमुक्ताः।
सारावमेत्य तरसा तनुपुङ्खपक्ष-
पातावधूतजलदा विशिखा निपेतुः ॥ 49.26 ॥
तस्याहवातिरभसादधिशिश्रिवांसि
सैन्यानि निर्जयदशाविधूरत्वमारात्।
नाभ्यूहिरे निशितशल्यशिलीमुखौघ-
घोरानधकारविदुरानथ दिग्विभागान् ॥ 49.27 ॥
उत्खातनन्दकविकृत्तविपक्षकण्ठ-
नाडीनिरोकगलितेन निराकुलात्मा।
विष्वकससंभ्रमपरिप्लवमानसैन्य-
मापिप्लवत्क्षितितलं क्षतिजेन शौरिः ॥ 49.28 ॥
शौरेरमन्दमुदडीयत पक्षपात-
वाताभिघातविधुताभ्रपलाशखण्डम्।
संख्ये शिलीमुखगणेन विमुक्तसंख्य-
मानिन्युषा तु गगनोत्पलमाकुलत्वम् ॥ 49.29 ॥
तेन न्यवारिषत भिन्नघनाघनौघ-
सौदामनीक्षणपरीतकृशानुशल्यैः।
दैत्याधिराजपृतनाः कृतनाकिलोक-
कम्पैः शनैरशनिशाततरैः शरौघैः ॥ 49.30 ॥
प्रत्यग्रपांसुपरुषाः प्रतिपन्नदिक्क-
मुद्भूतपत्त्रपटला वियदुत्पतन्त्यः।
भ्रेमुस्तरां भयकृतो भुवनावसान-
वात्या इव प्रतिदिशं सुरदैत्यसैनाः ॥ 49.31 ॥
प्रेङ्खद्दवानलपरीतविटङ्ककूट-
विनध्याचलावयवविभ्रममूहिवद्भिः।
पिङ्गोर्ध्वकेशनिवहैर्नवनीलभाभिः
सङ्ग्रामवर्त्म तदयायत यातुधानैः ॥ 49.32 ॥
सङ्ग्रामसीम्नि पतितः सुभटप्रहार-
मूर्छाकुलः सपदि रात्रिमटो मुमूर्षुः।
खङ्गावकृत्तनिपतत्करिकर्णताल-
वृन्तानिलेन समवीज्यत यातुधान्या ॥ 49.33 ॥
निस्त्रिंशगातविनिकृत्तभटोत्तमाङ्ग-
पीनांसचक्ररचितास्पदपीनजह्घाः।
चक्रुः कृतान्तपुरुषा इव तत्र भीति-
मावृत्य सैनिकजनस्य रणे कबन्धाः ॥ 49.34 ॥
सङ्ग्रामसीम्नि करवालविलूनवीर-
सेनामतङ्गजसहस्रकरप्रकाण्डैः।
तार्क्ष्यीयतुण्डपरिखण्डितभोगिभोग-
पातालतालुललितत्विषिरन्वरोधि (?) ॥ 49.35 ॥
कम्पानुबन्धिहृदयं प्रतिपन्नशोष-
बिम्बाधरं सुभटदर्शनतोऽत्र नार्याः।
पुष्पायुधाङ्कललितं वलिताङ्गभङ्ग-
निःसङ्गमन्थरविजृम्भिकमाविरासीत् ॥ 49.36 ॥
रोचिष्णुरत्ननिकुरुम्बविषङ्गपिङ्ग-
कीलालकङ्कटितवीचिभुजास्तदानीम्।
अम्बोधयो दितिजनायकचक्रवाल-
मायोधयन्प्रहरणीकृतनक्रचक्राः ॥ 49.37 ॥
संवीतलोहकवचाभिरिवोदभार-
संभारनीलरुचिभिर्हरिचापभाग्भिः।
अभ्यागमाय सतडित्करवालिकाभि-
रभ्यायये जलदजालवरूथिनीभिः ॥ 49.38
तीक्ष्णार्धचन्द्रशरदारितमाहवाग्र-
लक्ष्मीपयोधरभरं करिकुम्भयुग्म्म।
उत्तुङ्गपीवरमलिप्ततरामभीक-
क्लृप्तार्द्रशोणरुचिशोणितकुङ्कुमेन ॥ 49.39 ॥
रोमाञ्चपीनतनुता च सकम्पता च
दार्ढ्यानुबन्धि च सखीष्वपि लोठनत्वम्।
स्वेदोदबिन्दुनिकरश्च समन्मथाया
दृष्टे भभूव सुभटे सुरलोकनार्याः ॥ 49.40 ॥
सङ्ग्रामभूः स्फुरितखड्गतरङ्गभङ्ग-
वल्गन्निरर्गलतयोद्धतवाहिनीका।
आपाण्डुकेतुवसनामलनिर्झराङ्क-
विस्तारिकूबरिकुलाचलमण्डलासीत् ॥ 49.41 ॥
चैतन्यमाप्य मुखरानकतूर्यशङ्ख-
शब्देन दिक्षु सपदि व्रजता विकासम्।
उत्तिष्ठति स्म विषदष्ट इव प्रहार-
मूर्छाकुलः प्रपतितः सुभटो रणोर्व्याम् ॥ 49.42 ॥
ज्योत्स्नावदातरुचिरूर्जितगर्जिताभि-
रावर्जितः क्षयघनाघनमण्डलीभिः।
स्रस्तः क्षितौ च करिकुम्भविभेदमुक्त-
मुक्ताफलश्रियमवात्करकणौघः ॥ 49.43 ॥
मेघावलीभिरभितोऽप्यपिनेहुषीभिः
संवर्धिताभिरिव तोयमलीमसत्वात्।
व्यापारिताः पृथुलपीलुशिरःस्थलीषु
विद्युत्कृपाणलतिकास्तरसा निपेतुः ॥ 49.44 ॥
फूत्कारमुक्तशिखिचूर्णतयाथ ताम्र-
दंष्ट्राविडम्बितससंध्यशशाङ्कलेखैः।
वक्त्रैर्घनाघनघटाघनघोरघोष-
संघट्टमट्टहसितं दनुजैर्निरासे ॥ 49.45 ॥
योधं नृसिंहनखकोटिनिशातशल्य-
नाराचभिन्नरुधिरोक्षितदेहयन्त्रम्।
संहारभास्करसहस्रदुरीक्षमूर्ति-
मारान्निरीक्षितुमपि व्यथिता न शेकुः ॥ 49.46 ॥
तावद्वियोगभयविह्वलचक्रवाक-
संघातकातरतरेक्षमपातपीतः।
क्षीणेऽह्नि पुण्य इव नाकतलात्पतिष्य-
न्भास्वानुपाम्बुनिधि कीर्णकरो ललम्बे ॥ 49.47 ॥
अस्ताचलव्यवहितो विरलान्धकार-
च्छायानुविद्धमभितो धृतसौकुमार्यम्।
आकृष्टदीर्धदिवसं करजालमर्कः
स्पष्टाभिलक्ष्यकिणलेखमिवोद्बबर्ह ॥ 49.48 ॥
देवोऽपि शीतकिरणाभरणस्तदानी-
मालोक्य वत्सरसहस्रमथ व्यतीतम्।
संध्यासमाधिविनिविष्टमना जजाप
किंचिन्निमीलितविलोचनमात्मतत्त्वम् ॥ 49.49 ॥
विस्रस्तसान्द्रकिरणो विकटास्तशैल-
कूटावलम्बि विदधे सहसोष्णरश्मिः।
बिम्बं विलम्बमनुपेत्य चकार चोर्ध्वं
संध्यासमाधिमवधूय हरोऽनुकारम् ॥ 49.50 ॥
तस्मिन्प्रनृत्यति ददीयविलोचनाग्नि-
ज्वालाशिखाहतमिवाहिमरश्मिबिम्बम्।
निर्वापणार्थमिव दाहदशोदयस्य
प्रोच्चैः पराचि न चिराज्जलधौ ममज्ज ॥ 49.51 ॥
शोभां बभार दिनभङ्गविगाढरग-
रक्ताम्बरं स्मररिपावथ ताण्डवस्थे।
तद्बाहुयन्त्रपरिधूर्णितनागकृत्ति-
विष्यन्दिसान्द्ररुधिराङ्कमिवान्तरिक्षम् ॥ 49.52 ॥
निर्दग्धदुर्मतिदशे समयानिलेन
नीते प्रदीप इव निर्वृतिमर्कबिम्बे।
आविर्बभूव घमकज्जलजालकल्प-
मन्धंतमः पटलमाविलयंस्त्रिलोकीम् ॥ 49.53 ॥
आलिङ्गितो जलनिधेरथ रत्नकम्बु-
शोभाधरातनुतरङ्गभुजावलीभिः।
लेखाङ्गनाभिरुदयाचलमारुरुक्षु-
रुत्तिष्ठति स्म शयनादिव शीतरश्मिः ॥ 49.54 ॥
ज्योत्स्नाङ्कुरावलिरिवाविरभूद्द्युवल्ल्या
रेजेऽग्रपल्लव इवातनुसांध्यरागः।
पुस्फोर पुष्पनिकुरुम्ब इव ग्रहौघः
पीनत्वमाप फलबन्ध इवामृतांशुः ॥ 49.55 ॥
दधतेव रसातलान्तलग्नं सपदि क्षालितशेषमूर्मिभङ्गैः।
स्फुटलक्ष्मनिभेन पङ्कजालं शशिनौदैयत तोयराशिमध्यात् ॥ 49.56 ॥
अभ्युत्थिते शशभृति क्रमभिन्नपीन-
नैशान्धकारमवलोक्य परस्परं ते।
आस्फालितस्फुरितदीधितिरत्नदण्ड-
चापाः पुनर्ययुधिरे सुरदैत्ययोदाः ॥ 49.57 ॥
इति निशितकृपाणप्रासनाराचचक्र
व्रणितविबुधसेनासंकटचे दैत्यलोके।
प्रसृतरुधिरसिन्धुक्षोभनिर्भिन्नरत्न-
द्रुमसरणिनितम्बा मेरुभित्तिस्तदाभूत् ॥ 49.58 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सुरासुरविमर्दो नामैकोनपञ्चाशः सर्गः।