.
हरविजयम्।
अष्टचत्वारिंशः सर्गः।
अथ ज्वलत्काञ्चनराजिश्रृङ्गशैलोपमा दानवदैत्यनाथाः।
कृशानुपिङ्गभ्रुकुटीकरालललाटपट्टा हरिमभ्युपेयुः ॥ 48.1 ॥
युगान्तकालानलधूमराशिरिवाधिरुढः कलधौतशैलम्।
तार्क्ष्ये स्थितो मेघरुचिर्युयुत्सुर्विवल्गितो वल्गुवरूथिनीषु ॥ 48.2 ॥
सासी सुसासाससुसाससोऽसाववौववावेव विवो विवीवः।
नैनाननेनानुनना ननोनौ ररीरुरूरो ररिरार रोरम् ॥ 48.3 ॥ (एकाक्षरपादः)
तस्याथ निस्त्रिशनिपातलूनसौवर्णवर्मारुणरत्नचूडाः।
निरीयुरायोधनमूर्ध्नि कायादमर्षवह्नेरिव विस्फुलिङ्गाः ॥ 48.4 ॥
तेन द्विषां संयति देहलग्नपतत्त्रिकाश्वासकलालसानाम्।
व्यधायि सेना करवालकृत्तपतत्त्रिकाश्वासकलालसानाम् ॥ 48.5 ॥
सलीलमायोदनमूर्ध्नि दर्पात्संनाहमुत्सृष्टवतोऽपि तस्य।
सुरारिचक्रीकृतचापमुक्तैः शरैः शरीरं बिभिदे न धैर्यम् ॥ 48.6
अवाप्य तैः कर्कशमार्गलाभं शमार्गलाभङ्गकृतिप्रगल्भैः।
निन्ये न नूनं सरसातलाभै रसातलाभैकपरायणत्वम् ॥ 48.7 ॥
स वल्लकीवाद्यमिवारिसैन्यं तन्त्रीगुणोत्कर्णवदाहवाग्रे।
विस्तारिदैन्यं लघुभिः प्रहारैश्चिरं वशस्थं गुरुभिश्च चक्रे ॥ 48.8 ॥
अभूत्परीते सुभटैररातिविषादवद्भिर्न विषादवद्भिः।
असृङ्भयीनां प्रभवस्तदानीमपां च जन्ये समपाञ्चजन्ये ॥ 48.9 ॥
तार्क्ष्ये स्तितस्तत्कनकावदातपतत्त्ररश्मिच्छुरितोत्तरीयः।
सुरारिसेनादलितास्तदानीं चमूचरान्खानथ शार्ङ्गपाणिः ॥ 48.10 ॥
नवीननानानवनो विवोन्नं ववावनेना वनवान्विनैनान्।
वानाननान्नानुवनं न नुन्ना नवीनिवावन्नवनावविन्नः ॥ 48.11 ॥ (द्व्यक्षरः)
स्पुरत्किरीटास्पदपद्मरागमयूखरेखाच्छुरिता मुरारेः।
व्यापार्यमाणासिसरक्तधारामार्गाङ्कितेव श्रियमासदद्द्यौः ॥ 48.12 ॥
स साधुसंधो निधनान्धधुन्धुर्धनुर्धुनानो धुरि धीनिधीनाम्।
रुरोध रोधैर्मृधमार्गरागिमनाः समग्रासुरसारसेनाः ॥ 48.13 ॥ (सप्तव्यञ्जनबन्धः)
आतस्तरे मुद्गरघातभिन्नकरीन्द्रकुम्भस्खलितैः सरक्तैः।
सङ्ग्रामलक्ष्मीशबरीविभूषागुञ्जाफलैर्मौक्तिकमण्डलैः क्ष्मा ॥ 48.14 ॥
ससारसूः सारससारसारी ससार सूरिः ससुरासुरेऽसौ।
रसौरसारिः सरसं रिरंसुरासैः सुरासोऽरिसिरास्रसारे ॥ 48.15 ॥ (द्व्यक्षरः)
रत्नोज्ज्वलैश्चक्रमयैः पतद्भिः परिस्फुरद्दीधितिचक्रवालैः।
व्यराजतानेकसहस्रसंख्यैः क्षयार्कविम्बैरिव संयुगोर्वी ॥ 48.16॥
कुन्ताभिघाताद्रणमीयिवलद्भिस्तदाचकम्पे तुरगैररीणाम्।
घ्नन्तो न ते तत्र रुचिं दधाना तदा च कंपेतुरगैररीणाम् ॥ 48.17॥
स नीरभाराम्बुधराभिरामस्तडिच्छटापिङ्गतरोत्तरीयः।
श्रियं दधानः पृथुलाङ्गलीनां वर्षावतारप्रतिमो मुरारिः ॥ 48.18 ॥
करैरकारोऽरिकिरोऽकुकाकुराकेकरैरेककुकारकारुः।
किरेरकारि क्रकरैककारा कुरीरकारेक करारकौकाः ॥48.19 ॥ (द्व्यक्षरः)
तत्खड्गधाराविनिकृत्तमूला विषाणिनां पीवरहस्तदण्डा।
विधीयमानान्तकराजधानीस्तम्भाभिरामाः पतिता विरेजुः ॥ 48.20 ॥
योधस्य तस्मिन्समरे तदानीं विनिघ्नतोऽरातिचमूः स्वधाम्ना।
भाश्वानपि स्फारतरप्रतापो न साम्यमालम्बत चारुदोष्णः ॥ 48.21 ॥ मात्राच्युतकम्)
निपातितस्यारिशिरस्त्रबन्धे कृपाणपट्टस्य च तेन रोषात्।
तदास्पदश्रीमणिपारिहार्यनिनादलीलारणितेन तेन ॥ 48.22 ॥
रणं गंजैः सिन्धुमिवामराणां तदापराजैष्टतमन्तरङ्गैः।
विरोचनश्चानुगतोऽधिपत्यतदापराजैष्ट तमन्तरङ्गैः ॥ 48.23 ॥ (युगम्म्)
सुरारिनाथेन रणक्षपासु प्रभामयस्य ध्वजिनी तदानीम्।
युगान्तवेलेव सनीरभारगभीरतारस्तनयित्नुघोषा ॥ 48.24 ॥
परापनापक्षमनानतेन नवेन सापत्न्यपसा सुगासु।
जिताजिमाथिप्रथिमासुगासु शुभशु सारम्भरसा नगेन ॥ 48.25 ॥ (प्रातिलोम्येन स एवार्थः)
निपातितस्तेन दृढास्थिबन्धे तद्भङ्गतोषादिव तीक्ष्णधारः।
तेने दिगन्तप्रतिफालदीर्घं कृपाणपट्टः क्वणिताट्टहासम् ॥ 48.26
दीनाननेन्दूनदुनोदनुन्ना नानन्दनोदी दनुनन्दनादीन्।
नानन्दिनोऽनूननदीननादान्नन्दी ननन्दानु नदन्नदूनः ॥ 48.27 ॥ (द्व्यक्षरः)
नवोत्पलश्यामलकान्तिभास्वदनेकपारीहितचारुशोभाः।
स पानभूमीरिव संयुगोर्वीश्चकार नानावरवीरबाह्याः ॥ 48.28 ॥
व्यधायि तेन क्षपितास्त्रशस्त्रप्रपञ्चमायामवता सतारम्।
त्त्सैन्यमावर्जितशत्रुरक्तप्रपञ्चमायामवता सतारम् ॥ 48.29 ॥
तस्मिन्महारौ रवसंकटेऽपि निपातिताः संयुगमूर्ध्नि वीराः।
कृतापदानाः प्रसरद्विमानवीथीगताः स्वर्गनिवासमापुः ॥ 48.30 ॥
साम्भोभरैरञ्जनभेदभाभिः प्राप्तैः स्मरारेः समरानकत्वम्।
संहारकालक्षुभितस्य सिन्धोः समानशब्दैर्गगनं तदानीम् ॥ 48.31 ॥ (मात्रारहितो गूढक्रियाकर्तृकः)
सङ्ग्रामभागे सहसाभ्युपेत्य कृताभियोगान्सुभटांस्तदानीम्।
एका शिवा दूत्यपि चान्तरेण संयोजयामास सहाप्सरोभिः ॥ 48.32 ॥
संख्ये परासुं सुरलोकनारी प्रवीरमादाय सरागिचेताः।
सुमेरुकुञ्जं प्रविवेश चारुपियालसालं रमणाभिलाषात् ॥ 48.33 ॥ (अक्षरच्युतकम्)
कराललेखं सृणिघातधूतमूर्धा समुत्क्षिप्य करं करीन्द्रः।
अदर्शयन्नाकतलाधिरोहसोपानमालामिव योद्भुरग्रे ॥ 48.34 ॥
मारारिरामाममरैरमोमामुरोररार्मारिममूम्मरीराम्।
मरीममीरां मरुमा ममर्म मारामिरामारुरमीममोर्मिम् ॥ 48.35 ॥ (द्व्यक्षरः)
दैत्याधिपास्तत्र युयुत्सवो ये सरोषदष्टधररौद्रनेत्राः।
क्षताभिमानास्तरसा तयाथ ते वीततृष्णाः समरे बभूवुः ॥ 48.36 ॥
संसारसेतुः सुरसंस्तुतास्त्रैस्तस्तार सास्तारितराः सतारा।
सारास्तितारातिरसाः ससूताः सास्रोत्सरासाः सरसास्ततस्ताः ॥ 48.37 ॥ (त्र्यक्षरः)
वज्रप्रभं तत्पृतना तदानीं वेलेव कूलाचलमूर्मिभङ्गैः।
विश्वाप्यविश्वासकृदाहवेषु विव्याध संरम्भ वराहकर्णैः ॥ 48.38 ॥
निघ्नन्स शत्रोः पृतना रणेषु सेभा वरासप्रसरा बभासे।
संरम्भमम्भोधरधीरनादो हरोरुसारस्तरसा रुरोह ॥ 48.39 ॥ (प्रातिलोम्येनाभिन्नार्थपादः)
अभ्यापतन्ती स्थगितान्तरिक्षं सरोषचित्ता युधि विप्रचित्तेः।
टांकारिताशेषविमानघण्टैस्तदा विकर्णैर्भुजगैरिवारात् ॥ 48.40 ॥
सेना सभामा नवतीव्रतापे सेना सभा मानवती व्रतापे।
साधूर्जिता सन्नवधातुरागे सा धूर्जिता सन्नवधातुरागे ॥ 48.41 ॥ (समुद्गयमकम्)
दानारता सङ्गतमानदासा नानाधुरा वर्मवता वरासैः।
सैरावता वर्मवरा धुनाना सा दानमातङ्गसतारनादा ॥ 48.42 ॥ (अनुलोमप्रतिलोमार्धश्लोकः)
निपत्य संहारविभावरीव सुरारिसैन्येन समं युयुत्सुः।
छायान्धकारस्थगितार्कबिम्बदिगन्तरा दानवचक्रवालम् ॥ 48.43 ॥
कल्लोलिकीलालकुलाकुलाकुकाकोलकाकीकुलिकालिकैकैः।
काली कुकाकोकिलकालकैका लोलाककालोकि कलौ किलोल्का ॥ 48.44 ॥ (द्व्यक्षरः।तिलकम्)
कात्यायनी द्वादशभिस्तदानीमुदञ्चिताषाढतयाथ दोर्भिः।
व्यराजतायोधनमूर्ध्नि मासैः संवत्सरश्रीरिव जृम्भमाणा ॥ 48.45 ॥
तन्मार्गणैर्येऽभिहताः पतद्भिरवापतन्वीरतयाभियोगे।
तान्दिव्यनारीजनता धियार्घ्यैरवाप तन्वी रतयाभियोगे ॥ 48.46 ॥
चिरं निदध्यौ पुनरुक्तमूर्छागमागमेषु प्रविलोकितानाम्।
निमीलिताक्षः समिति प्रवीरः सुराङ्गनानामिव रूपलक्ष्मीम् ॥ 48.47 ॥
समुत्खनत्कश्चिदपास्तहेतिरजोततान्नेकपदं तदण्डम् ।
वैरिञ्चमप्यश्वखुरक्षतोत्थं रजोऽततानेकपदन्तदण्डम् ॥ 48.48 ॥
एकस्य संख्ये परिपूर्णचारुश्रृङ्गाररागस्य बभूव तस्मिन्।
ईहामृगाङ्कस्य सुराङ्गनाभिर्दृष्टस्य चेष्टारभटी प्रधाना ॥ 48.49 ॥
भयंकरैरावणदन्तदण्डसंघ**धूम्राविलमेरुकुञ्जा।
अमन्दरीढोरगबाणविद्भविटङ्कटङ्कासुरबाहुदण्डा ॥ 48.50 ॥ (भाषासमावेशः)
गभीरधीरारवरीणभीरुरणादरा दारुणवारणा सा।
अभङ्गुरा वीरविरूढहावसुराङ्गनादक्षकटाक्षमोक्षैः ॥ 48.51 ॥ (पादनिरवद्यः)
प्रभामयेनारिचमूस्तदानीं सलीलमास्फालितचापयचष्टिः।
विरूढसंरम्भसुरारिबाणसंभारसंरुद्धकरीरकुञ्जा ॥ 48.52 ॥ (प्रागर्धनिरवद्यः)
आरूढरीढामरबाणविद्धतुरंगमाला रणरागणूढा।
नीता विहस्तत्वभिभैः सहाथ सुवर्णसानोर्गहनान्यविक्षत् ॥ 48.53 ॥ (चरमार्धनिरवद्यः)
रुषा तमब्यैदथ वज्रबाहुवरूथिनी संगररागिचेताः।
दैत्यैरुपेता क्षयकालसिन्धुवेलेव कल्लोलघटासहस्रैः ॥ 48.54 ॥
संहारधीनर्दमदा समाभी रासादरातिस्थिरतारका च।
सातं वरासप्रकरोऽभियोज्या नामाहिताजित्वरसादिनामा ॥ 48.55 ॥ (प्रातिलोम्येनानन्तरश्लोकः)
मानादिसारत्वजिताहिमाना ज्यायोभिरेकप्रसरावतंसा।
चकार तारस्थितिरादसारा भीमा सदामर्दनधीरहासम् ॥ 48.56
दैत्यैरथाम्बेत्य कृतान्तमुख्या रयादयुध्यन्त रणे सुरौघाः।
तरङ्गिणीस्रोतसि संपतन्तस्तरङ्गभङ्गा इव गण्कडशैलैः ॥ 48.57 ॥
रक्षोदरक्षोदविपन्नदैत्यमानागमानागतभीतियोधाम्।
पत्त्रातपत्राततबद्धशोभां विस्वासविश्वासपदातिसैन्याम् ॥ 48.58 ॥
अभ्येत्य सङ्ग्रामभुवं विषाणप्रभाच्छलेनोदरधामपीतम्।
समुद्गिरन्गाङ्गमिव प्रवाहमयोधयन्नागमुखोऽभियातीन् ॥ 48.59 ॥
भानेन नूनाननिभाननुन्नानिभाननो भानुनिभान्नभोभित्।
नाभिन्ननाभीननिनाननौभानानाभिनोभानन्नननानुभूनुत् ॥ 48.60 ॥ (द्व्यक्षरः। विशेषकम्)
प्रकाशितायोधनसौष्ठवोऽथ मायासुरोऽन्यत्र विपक्षलोकम्।
विरूढ एकोऽधिरणं बबाधे प्रसह्य धात्वर्थमिवोपसर्गः ॥ 48.61 ॥
ददर्श सेना अथ दानवानामनुत्तमाः साध्यवसा यमस्ताः।
शरीरलग्नाश्च शिवा भटानामनुत्तमाः साध्यवसायमस्ताः ॥ 48.62 ॥
मूर्छापरीतं तरसा जगाम जहौ समाश्वासमुपेयिवांसम्।
कदर्थितेति स्म गतागताभ्यां भटेन नाकप्रमदाहवाग्रे ॥ 48.63 ॥
तेनाहतान्याहवदुर्मदेन द्वन्द्वे तदानीं तुमुले प्रवृत्ते।
ततः पदानीव बलानि पूर्वमभ्यर्हितानि द्विषतां निपेतुः ॥ 48.64 ॥
विशङ्कटं कण्ठविषं दधानः कुलाद्रिनिर्भेदविशङ्कटङ्कम्।
महानि कर्तुं समरे निरास्थदरातिलोकं समहानि कर्तुम् ॥ 48.65 ॥
भान्ति स्म संवीतगुडैर्वपुर्भिस्तुरङ्गमाः संततमापतन्तः।
आविष्कृतानेकसहस्रसंख्यैरिवेक्षितुं विक्रमामिन्दुमौलेः ॥ 48.66 ॥
शिरो वहन्बन्धुरमाजिषूच्च शिखण्डकान्तं शशिखण्डकान्तम्।
रराज लग्नः शुरशात्रवाणामनेकपालीदमने कपाली ॥ 48.67 ॥
छेत्तुं शिरः कुञ्जरपृष्टभाजः पर्यस्तमीशेन सधाम चक्रम्।
ददर्स राहुर्निजकण्ठपीठच्छिदां स्मरन्नुत्फलदन्तरिक्षे ॥ 48.68 ॥
सभामयानां प्रसभामयानां समिद्धरागाभिसमिद्धरागा।
चकार सेना न च का रसेनाः समाहितानामसमाहितानाम् ॥ 48.69 ॥
नभस्तलोद्यानतमालखणेडैर्भटप्रतापानलधूमदण्डैः।
सङ्ग्रामदुग्धोदधिकालकूटलेखाविभङ्गैः स्फुरितं कृपाणैः ॥ 48.70 ॥
तस्मिंस्तदा भास्वति चन्द्रचारुनिशातहेतौ युधि जृम्भमाणे।
विशीर्यमाणं ददृशे सुरारेः सैन्यान्धकारं त्रिदशाधिनाथैः ॥ 48.71 ॥ (बिन्धुच्युतकम्)
सारा मतापि क्षपितामरा सा मारा भिया चक्रचयाभिरामा।
नवेभरासप्रसरा भवेन सेना तु हेतिक्षतिहेतुनासे ॥ 48.72 ॥ (प्रातिलोम्येन स एवार्थः)
उत्तिष्ठमाना समरे सदर्फं संहारवेलेव जगत्त्रयस्य।
निस्त्रिंशकल्लोलकरालिताब्रसिन्धुर्नदन्ती घनघोरघोषम् ॥ 48.73 ॥
तेनाच्युताचारमृधाभिरामा मानानता गौरवधामरागात्।
सेनार्दिता साररुधा सुराणां नानाहिता वारयुधा परासीत् ॥ 48.74 ॥ (प्रतिपादं गोमूत्रिका मुरजबनधश्च)
रोमाञ्चमुच्चैर्बिभरां चकार चत्खङ्गघातैः सुभटस्य संख्ये।
सुराङ्गनादर्शनजृम्भमाणमनोभवस्येव शरीरयष्टिः ॥ 48.75 ॥
वज्रप्रभस्याथ युयुत्सु सैन्यं तदाशु शूरेण तदा शूशूरे।
शक्ता बभूवुः समरे विजेतुं महानटं केऽत्र महानटङ्के ॥ 48.76 ॥
विचूर्ण्यमानद्विपकर्णशङ्खपरागपाण्डूकृतमुद्धतस्य।
सचन्दनालेपमिवामरस्त्रीसमागमोत्कस्य वपुर्विरेजे ॥ 48.77 ॥
सामानितायुक्प्रसृता वरासि सिरावतासृक्प्रयुतानिमासा।
रावीभरासप्रतिघापरोपपरोपघातिप्रसरामवीरा ॥ 48.78 ॥ (अनुलोमप्रतिलोमपादः)
निशाननेनाहितहारिशोबं शैत्यस्य धामामलमुष्णरश्मेः।
दधत्तदानीं युधि मण्डलाग्रं तुषारधामा च जघान दैत्यान् ॥ 48.79 ॥
विमत्सरः पत्त्रिगणेन साकं सव्यापसव्यापदि दैत्यचक्रे।
व्यापार आसीच्च शरैर्भटानां संदेहसंदेहपरायणानाम् ॥ 48.80 ॥
स्मेरानाभ्यां समरे समेत्य सोल्लासनानासिलताललामाः।
ताब्यां ससंरम्भमरातिसेना निरासिरे सारतराभिरामाः ॥ 48.81 ॥
तथा दधानोऽतनुतां निधीनां धूताननोऽनूनधुनीननादः।
तेनैधितानं निधनं तदानीं नूनं न तेने न धनाधिनाथः ॥ 48.82 (तवर्गबन्धः)
चूर्णो दधौ तद्दृढवज्रमुष्टिनिष्पिष्टसौवर्णतनुत्रजन्मा।
मुक्तानिधानेषु करीन्द्रकुम्भस्थलेषु सिद्धार्थकराशिलालाम् ॥ 48.83 ॥
कङ्कालकार्यार्तिशिवासिलूनकं कालकारातिगणा रणोर्व्याम्।
कङ्कालका भासुरदेहलग्नकङ्कालकाधीशचमूर्न चक्रे ॥ 48.84 ॥
योधाः कलापैः कृतचारुशोभा विमुक्तसिंहध्वनितारकेकाः।
कोषोदरेब्यश्चकृषुः कृपणानहीन्मयूरा इव कोटरेभ्यः ॥ 48.85 ॥
प्रेङ्खन्नखांशूत्करमञ्जरीका कर्णान्तकृष्टोन्नतचापरयष्टिः।
संख्यावतोऽपि द्विषतो रणेषु जघान काली गणनाव्यतीतान् ॥ 48.86 ॥
जगत्त्रयेऽपि स्पृहणीयरूपा विलक्षणं रूपमुपाजिहीर्षुः।
लावण्यसौबाग्यगुणैरनिन्द्यैः पुरन्द्रिचूडामणितामुपेत्य ॥ 48.87 ॥
रोधोधरा रोध्रधरैरिराध्रैररोरूधा धूर्धरधूरुरूराः।
रुरोध रैधाधिरूधो रघाधिराधारधीरारुधीरा धरार्धम् ॥ 48.88 ॥ (द्व्यक्षरः । युग्मकम्)
क्षिप्तं करेणाथ तया विदूरमर्धार्धमग्नं विनिपत् तिर्यक्।
वबार चक्रं करिकुम्भभास्वदट्टालसालक्रमशीर्षकत्वम् ॥ 48.89 ॥
तस्यां रणारण्यभुवि प्रकृष्टकृपाणकृत्तारिभटा तदानीम्।
मारीचमायाकृततीव्रमोहा रघूद्वहस्येव चचार वृत्तिः ॥ 48.90 ॥
साम्बोभरैरञ्जनबेदभाभिः प्राप्तैः स्मरारेः समरान्कत्वम्।
संहारकालक्षुभितस्य सिन्धोः समानशब्दैर्गगनं तदानीम् ॥ 48.91 ॥ (मात्रारहितो गूढक्रियाकर्तृकः)
स्तनत्युपेतां पृतनां स्मरारेस्तदा न केयूरचितांसभाभिः।
सुरद्विषः संवलितार्कपादास्तदानकेऽयू रचितां सभाभिः ॥ 48.92 ॥
ततोऽत्यतीयाय तया युतातताय्यत्ययायायतितोतियत्तम्।
तुत्या ययौ तं यतियेयतायी तायीतयातो ययुयायितत्या ॥ 48.93 ॥ (द्व्यक्षरः)
कर्षन्धनुः संहतदीप्रबाणं ससज्जरासन्धवधो रणेन।
आवर्जितो भीम इवाबभासे ससज्जरासनधवदोरणेन ॥ 48.94 ॥
संख्ये वृषाङ्कः प्रसृतो न तेजस्तदास हन्तव्यवधायकस्य।
सह्ग्रामरागप्रसरेण दूरं तदासहन्त व्यवधायकस्य ॥ 48.95 ॥
सत्त्वप्रकाशप्रसरेण दूरं निर्मुच्यमानेष्वथ नाकसत्सु।
कोदण्डवल्लीस्तरसा धुनाना वरूथिनी शीतमरीचिमौलेः ॥ 48.96 ॥
सज्जा निनादानवतापितेषु साकं पताकाशतलाञ्छितेषु ।
सज्जानिना दानवतापितेषु साकम्पताकाशतलाञ्छितेषु ॥ 48.97 ॥ (समुद्गयमकम्)
शिलीमुखौघैः क्षयसप्तसप्तिमरीचिदीप्रैस्त्रिदशारिलोकः।
प्रसर्पतारात्सकलासु दिक्षु रजोन्धकारेण विजृम्भितासु ॥ 48.98 ॥
व्यापादयन्तं निशितैः स संख्ये समानचक्रव्यवहारतापे।
मदोर्जितानेकपदारि पातिसमिद्धरागश्चतुरंसकूटम् । 48.99 ॥
रणाङ्गने कैशिकमार्गचारा शिक्षारसाविष्कृतसौष्ठवानाम्।
तत्सैनिकानां धुतचर्मखण्डा व्यजृम्भत स्थानविशेषलक्ष्मीः ॥ 48.100 ॥
हीनोहिनीनां नहनेन नैना नीहोहनानोनहनाननेहा।
ही नुन्नहाना हनने हनेनानहानि नानाहननाननंहः ॥ 48.101 ॥ (द्व्यक्षरः)
तद्बाणनिर्भिन्नकपोलमुक्तरक्तच्छटापाटलकर्णशङ्खः।
गुहोपकण्ठास्पदनूतनेन्दुबिम्बोदयाद्रिश्रियमाप नागः ॥ 48.102 ॥
धीनां निधानं निधनान्धधुन्धूनदूननोऽनूनधुनीनधूनिः।
नुन्नाधिदेनूनधुनोन्ननैनाननिन्धनानाधि धनैधनोऽन्धान् ॥ 48.103 ॥
(द्व्यक्षरः)
मूर्छापरीतं रभसाज्जिघृक्षुः सुराङ्गना संगरमूर्ध्नि धीरम्।
उज्जीवयन्तं करशीकरौघैरमर्षजिह्मं गजमालुलोके ॥ 48.104 ॥
रेपे पुरुप्रीरपरोऽपि पापरिप्रोरुरूपारिपपीरपारम्।
पुरारि रापापरपिप्परार्पिरेपो रिपूरोररपूरिरोपः ॥ 48.105 । (द्व्यक्षरः)
मुक्तानिधेः कुञ्जरराजकुम्भकूटस्य पर्यङ्कतलेष्वशङ्कम्।
हुंकारमात्रैरभिजप्य योधः संसिद्धिकामो निचखान शङ्कून् ॥ 48.106 ॥
तेजोतताजो जजतोऽतिजेता ततो जितोजोतितजातिजातम्।
जातीति तोत्ते जितजित्तताजि जाजी जितातीतजितीतितत्तत् ॥ 48.107 ॥ (द्व्यक्षरः)
रोचिष्णुतच्चापविमुक्तचण्डनाराचचक्रास्तविरोचनार्चिः।
जज्ञे जगत्तत्क्षणमन्दकारसंधाननिर्धूतदिगन्तकान्ति ॥ 48.108 ॥
रोचेऽरिरोरो रुरुचे ररोच्चिच्चराचरार्चारुचिरोरुचर्चः।
चारीचरो रारिरुची रुचोच्चैरचूचुरच्चार्चिररेरचौरम् ॥ 48.109 ॥ (द्व्यक्षरः)
गीर्वाणभङ्गोद्धुरकंधरत्वमायोधनाग्रे दधतोऽभ्रलीना।
सरत्नचापाञ्जलदानिवारात्तडिद्गुणेनाशु विधूय दैत्यान् ॥ 48.110 ॥
लोलालिमालोल्ललमौलिमूलमीलल्ललामामलमामलेली।
मौलीममालालमिलां ललामलामाममोल्लोलममालिमीमः ॥ 48.111 ॥ (द्व्यक्षरः)
सकार्मुकज्यारवतारकेकानिनादसंपूरितदिग्विभागान्।
सुरद्विषो बद्धरुषः करालकपालशोभामभितो जिघांसुः ॥ 48.112 ॥
नुन्नैकनानानकनाकिनीकाननीकिनीकाननकेकिनोऽकान्।
कोनाकनन्नाकककानकानानकोककिङ्कानननूककाकुः ॥ 48.113 ॥ (युग्मम्। द्व्यक्षरः)
सैन्यं तदानीमशनिप्रभेण सुरद्विषः संयति रक्ष्यमाणम्।
युयुत्सु दूरादुपयत्पयोदेर्विमुक्तसीमेव विलोलमम्भः ॥ 48. 114 ॥
तदा तु दातैत ददातु तुत्तोतदीतितो दादितदुद्दतोदी।
तुतोद दातातिततादिदत्तदूतीति तातो दददेततुत्तीः ॥ 48. 115 ॥ (द्व्यक्षरः)
सङ्ग्राममूर्ध्नि त्रिदशारिचक्रमुद्गी (द्गू) र्णहेतिस्थगितान्तरिक्षम्।
जिघांसु यद्यद्वृषराजकेतुमभ्यागमन्मन्दरदुर्निरीक्ष्यम् ॥ 48.116 ॥
तत्तत्ततोतीतपतत्पतीति पितोत्ततापापि तुपूतपापः।
पीतातपोपापतितोपतापिपातोत्ततोत्तापितपत्तिपूतः ॥ 48. 117 ॥ (युग्मम्। द्व्यक्षरः)
विपाण्डुभिः केतुशिखांशुकौघैरनेकगङ्गामिव कुर्वती द्याम्।
निर्घातघोरानघचक्रनेमिरथाभ्रकेतोः शशिमौलिनारात् ॥ 48. 118 ॥
सेनासुसूनासुनसाननेन ससूनुनानेन ननून्निनंसुः।
सा नूननानासनिनैनसंसन्नुन्नैनसा सानुनी सासिनासे ॥ 48. 119 ॥ (द्व्यक्षरः)
चिच्छेदनो केवलमाहवेषु वल्गांजयाशामपि योद्धुरग्रे।
विहस्ततामेव न कुञ्जरस्य तत्स्वामिनोऽपि व्यधितेन्दुमौलिः ॥ 48. 120 ॥
नुन्नारिरेनोननरूर्नरान्ननानाररीरूरनृनैररीरान्।
रोनाननान्नोरुरनूननारीनीरारिरेनाननुनैरिरन्न ॥ 48. 121 ॥ (द्व्यक्षरः)
तत्खड्गधाराविनिपातकृत्तैरायोधनोर्वीसरसी पतद्भिः।
शिलीमुखानां विरराज शल्लैर्नीलोत्पलानामिव पत्त्रजालैः ॥ 48. 122 ॥
सूदाससासादिसदंसदोः सददोसदः सूदिसदः सदासम्।
स सादिसादं दददाससाद सदासुसूः सीददसौ सदंसम् ॥ 48. 123 ॥ (युग्मम्। द्व्यक्षरः)
ससत्त्वशाली समदत्त्वमाप्तो निबद्धमूलः स्थिरभूतिचर्चः।
उत्सेधवानस्खलितः शुचित्वात्सन्नागराजश्रियमाप गुर्वीम् ॥ 48. 124 ॥ (अर्थचतुष्टयवाची)
शस्त्रांशुभिर्भानुकराभिमर्षात्संमूर्छितैः सक्षितिशैलसानुम्।
उल्काकलापाकलितामिव द्यां सुकेतुसैन्यं विदधत्तमभ्यैत् ॥ 48. 125 ॥
ततातितातोतिततुत्तितोतितोत्तैतितातीतिततोत्तितुत्तिः।
तातोऽतितोऽतुत्त तु तत्ततोऽत्ता तुत्तोत्ततातातिततिं तु तोत्तुम् ॥ 48. 126 ॥ (एकाक्षरः)
समूलचक्राङ्कुशशक्तिबाणचक्रावचूलाभिरथाहवोर्व्याम्।
स्थितो जरत्कुञ्जरदन्तराजिविडम्बिनीभिर्नवरूथिनीभिः ॥ 48. 127 ॥
सदानवानामवधीरितानां सदानवानामवधीरितानाम्।
सदानवानामवधीरितानां सदानवानामवधीरितानाम् ॥ 48. 128 ॥ (पादाभ्यासः संपुटयमकं च)
धूलीवितानमभितः स्थगितान्तरिक्ष-
मायोधने सपदि पाकविपाकसंज्ञौ।
दैत्याधिपावधि युयुत्सुतया समेत्य
साम्यक्समीकमसमांसधरौ व्यधाताम् ॥ 48. 129 ॥
वेत्ता ततो विततवीतिततावतीत-
वातो ववाविति तु वित्तवता वितोत्ता।
वीतेति तुत्त्ति वततावति ताववेत-
तत्तवोतिवित्ततवति त्विति वीतितोत्ता ॥ 48. 130 ॥ (द्व्यक्षरः)
सैन्यानि यानि रणमूर्ध्नि कृपाणमेघ-
धारानिपातशमितोष्मलघूनि शत्रोः।
आयान्ति चक्रुरभितो गगनं विकीर्णैः
शस्त्रांशुनिह्नुतदिवाकरधाम् बाणैः ॥ 48. 131 ॥
तानीतानि ननून्नतानि तनितुं तुत्तिं नतोतीनि नो
तातेनातितताननेन नततातीतेन नुन्नेतिना।
तेनोत्तानितनूतनातिनुतिनानन्तेन नूनं ततो
नानानुत्तिनितान्ततान्ततनुना नीतानि तन्तूनताम् ॥ 49.132 ॥ (द्व्यक्षरः)
विस्रस्तकेसरकरालसटाकलाप-
संछादितांसशिखरो युधि पञ्चवक्त्रः।
तीक्षणाग्रमार्गणनखप्रकरावरुग्ण-
गन्धेभकुम्भकटकः सुरसिंह एकः ॥ 48.133 ॥
वव्रे विरावविवराविररौरवौर्व-
रेवा विवारवरवारिरकवेररूरा।
वीरारुराविरररूर्वरवैरिवीरै-
र्वैरी रुरोरिव विवी रविवार्वरौर्वः ॥ 48. 134 ॥ (द्व्यक्षरः)
सेना संख्ये [सा] वज्रमुष्टेस्तदानीं घोरा दिक्संधीन्दारयन्तीव नादैः।
प्राप्ता निश्चोतद्दन्तिदानप्रवाहव्यासङ्गेनोच्चैर्धौतसूर्यातपश्रीः ॥ 48. 135 ॥
तोत्ता तां मतिमत्तमो ममततातीतामतामुत्तमा
मात्तो मूममितामतामतितमां मीमातितोऽतुत्तिमान्।
मत्तामूतिमतीममातिममितामातीतिमत्तातता
मेतोऽत्तातितुमीतिमत्ततिमतां मातामिमीतातताम् ॥ 38. 136 ॥ (द्व्यक्षरः)
बिभ्रत्परिस्फुरितनिर्मलचन्द्रहास-
मुच्चैः शिरः करतलं च पिनाकपाणिः ॥ 38. 137 ॥
न्यूनानां नानुयायी ननु नयनयनानुन्नयन्नायिनो नु-
न्न्यायेनानायि नानायनययुनि नियानुन्नयानेन नूनम्।
यूनानूनाननेयाननययिनि ययानेयया यायिनोऽन्या-
नानाय्योऽयायिनेयानननुनयिनि नोन्नायिनोऽनन्ययुन्नौः ॥ 38. 138 ॥ (द्व्यक्षरः)
आयोधने दितिसुतक्षयजृम्भमाण
भीमैकरुद्रगहनेऽप्यपसंख्यरुद्रे।
गीर्वाणसैनिकजनैः सकलाभिबावि-
दोर्दण्डदृप्तमनसस्त्रिपुरेन्धनाग्नौ ॥ 38. 139 ॥
तोत्रारित्रैरतीतातुररति तरति त्रातरीरां ततोऽत्ति
रार्तिरे तोत्तरी तैरतरतरतरोरीरितैरुत्तरीतीः।
तत्रारात्तूर्तितोऽरं ततततितरितैरूरितारेरराते-
रुत्तेरे तारतूरैरित तरितरि तैरुत्तरीतुं तरित्रैः ॥ 38. 140 ॥ (द्व्यक्षरः)
सङ्ग्राममेघसमयेऽर्ककरावमृष्ट-
विद्युल्लतानिकरभासुरखड्ग लेखे।
अभ्यापतन्स सरिदोघ इव क्षणेन
चक्रे विपक्षजनताकुलकूलपातम् ॥ 38. 141 ॥
व्रातीभक्षोदपक्षे सुरतिहतिरसुक्षेपदक्षोभतीव्रा
स्थामासक्तारिचर्या विरतिरतिरविर्या च रिक्तासमास्था।
नामायस्तातिहव्यानलकशकलनव्याहतिस्तायमाना
कानाप्तव्या समस्तातिगसरसगतिस्तामसव्याप्तनाका ॥ 38.142 ॥ (प्रातिलोम्येन स एवार्थः)
सङ्ग्राममूर्ध्नि करवालविलूनपीन-
सेनामतङ्गजकरालकरार्गलाङ्के।
तार्क्ष्यीयतुण्डपरिखण्डितभोगिभोग-
पातालतालुसदृशश्रियि तेन शत्रोः ॥ 38. 143 ॥
सेनासर्वासनस्थानतसुरपतिनुत्सादिभिन्ना सशंसा
यापाकृत्या कृतज्ञाधियुतमदसरस्तानजन्येन माया।
शातासिर्वेगगत्या रवणगरभसत्रासचर्या धुनाना
सारानन्तासमग्रा जगति रसनुतस्ताममत्तानुनादा ॥ 38. 144 ॥
प्रातिलोम्येनानन्तर श्लोकः—-
दानानुत्ता ममस्था तनुसरतिगजग्रामसंतानरासा
नानाधुर्या च सत्रा सभरगणवरत्यागगर्वे सिताशा।
यामानन्ये जनस्था रसदमतयुधि ज्ञातकृत्याकृपा सा (या)
साशंसन्नाभिधि(दि)त्सा नुतिपरसुतनस्तानसर्वासनासे ॥ 48. 145 ॥
इति शशधरलेखासेखरः संप्रहारं
प्रहरणपरिसर्पद्वीरवारीद्धधामा।
असुरभटमयीनां कालवह्निः प्रजाना-
मिव कवललनलीलाजृम्भितोद्दामहेतिः ॥ 48. 146 ॥
सत्सूतोऽस्तातितासासितससुतसतीसूतिसासत्तिसीतः
सन्तासी सूत्तिसंसत्स्तुतसतिससितोतासतोत्तातिसासूः।
सेतुस्तुत्तीस्तितांसुस्ततसुतततितुत्सासितोत्तंसितासं-
स्तातोऽसातंससोत्सोऽतत सततसितः सत्सिसासुस्तुतासम् ॥ 48. 147 ॥ (द्व्यक्षरः)
इत्थं दानान्धगन्धद्विरदरदशिखाभिन्नमूर्छत्प्रवीर-
प्रेमाकृष्टाभिधावन्मुदितसुरवधूसार्थरुद्धाम्बरश्रीः।
योधानां रत्नसानौ सममसुरभटै रम्यसङ्ग्रामलीला-
पर्यायोपात्तहेलाजयमुदितभटीचक्रवाला जजृम्भे ॥ 48. 148 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागी श्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये चित्रयुद्धवर्णनं नामाष्टचत्वारिंशः सर्गः।