.
हरविजयम्।
सप्तचत्वारिंशः सर्गः।
सङ्ग्राममूर्ध्नि दलितासुरचक्रवाला-
मालोक्य तत्र विकसत्पुलकप्रबन्धाः।
आबद्धगोचरपरिष्ठितवाक्प्रपञ्चं
संतुष्टुवुर्भगवतीमिति सिद्धसाध्याः ॥ 47.1 ॥
किं चित्रमत्र दलितं रिपुचक्रवाल-
मेतत्त्वया जननि यत्प्रसभं रणाग्रे।
निर्भिन्दती भवनवर्तिनिशान्धकार-
माश्चर्यधाम नहि दीपशइखा कदाचित् ॥ 47.2 ॥
दोर्दण्डदृप्तमनसः सुभटा विपक्ष-
मन्येऽपि यद्रणमुखेषु पराजयन्ते।
तच्छक्तिरूपमनघस्थितं सं…….
……सभागपरमाणुवपिजृम्भितं ते ॥ 47.3 ॥
दैत्यैः पुरा सुरचमूसु विनर्जितासु
तद्गुप्तिकारणवशादसमाप्तशक्तिः।
ध्यात्वासनातनपदं किल शंकरेण
सृष्टासि नान्यजितजीवनिबन्धवृत्तिः (?) ॥ 47.4 ॥
निस्त्रिंशमुद्वहसि संप्रति नीलकण्ठ-
कण्ठप्रभासदृश हिअयनुरागहेतोः।
हुंकारसंभ्रमचलत्सकलाततायि-
चक्रा न जातु रणलालसया पुनस्त्वम् ॥ 47.5 ॥
आयोदनेषु सकलामरचक्रवालै-
रालोकिता त्वमसुराधिप…..।
विस्तारिदर्पणमिवोदरदेशलग्न-
मभ्रंकषोष्णकरमण्डलगमुद्वहन्ती ॥ 47.6 ॥
कार्कश्यमश्मनिकरादिव संयुगेषु
दूर्वाप्रवालकलया(कवला) दिव…रङ्गे (रङ्गमङ्गे)।
संक्रान्तिमापदिव देवि हिमस्थलीम्यो
हासच्छविस्तव तुषारगिरेर्विपाण्डुः ॥ 47.7 ॥
मार्गं पुरा किल सहस्ररुचो रुरुत्सु-
रुद्यन्नगस्त्यमुनिनापि निषिद्धवृत्तिः।
विन्द्याचलस्त्वयि गुहागृहभाजि सप्त-
लोकाधिकं ध्रुवमवाप समुन्नतत्वम् ॥ 47.8 ॥
संचिन्त्य रूपमतुलं तव पुष्पकेतु-
दाहानुतापवशतः श्वसितोष्णवातान्।
आकृष्टकण्ठकुरहास्पदकालकूट-
कूटानलानिव मुमोच मृगाङ्कमौलिः ॥ 47.9 ॥
सद्माजिरं तवल नभश्चरचक्रवाल-
पुष्पोपकारनिपतन्मधुपावलीकम्।
विच्छन्नभक्तभवबनधनलोहपाश-
जालावकीर्णमिव राजति मेकलाद्रौ ॥ 47.10 ॥
निस्त्रिंशघातविनिकृत्तपशूपहार-
जीवा इवाप्य सुगतिं परिदीप्यमानाः।
विन्ध्याद्रिकंदरजुषो भुवनान्धकार-
निर्भेदिनोऽन्तिकगतास्तव भान्ति दीपाः ॥ 47.11 ॥
ब्रह्मण्डशङ्कमुपपादितकण्ठभाग-
रन्ध्नं विनिःश्वसितमारुतपूर्णगर्भम्।
संहाररात्रिषु विपूरयसि त्वमेत-
मालम्बय भैरववपुः प्रसभं कराम्याम् ॥ 47.12 ॥
आविष्कृतप्रलयदुर्धरकालरात्त्रि-
मूर्तेरुदग्रविकटावयवान्तरेषु।
पर्याप्तिमेति तव संहृतसप्तलोक-
लोकास्थिसंभृतिशतैरपि मण्डनं किम् ॥ 47.13 ॥
निर्मांसताधवलराहुशिरः कपाल-
कांस्याग्रपीतभुवनक्षतजासवश्रीः।
विश्राणयस्यतनुतत्पिशितावदंश-
लेशानुविद्धदशनाम्ब न कस्य भीतिम् ॥ 47.14 ॥
आहन्यमानकनकाचललाडनोत्थ-
नादानुबनधबधिरीकृतसप्तलोकम्।
कल्याणि वादयसि कालविभावरीषु
पद्मासनाण्डविकटोर्ध्वकवाटघण्टाम् ॥ 47.15 ॥
हेलाविनिःश्वसितपीतकठोरकण्ठ-
नाडीनिरर्गलगलत्क्षयसागराम्भः।
रूपं बिभर्षि वलयीकृतसप्तसंख्य-
द्वीपोष्णरश्मिकिरणावधिशैलचक्रम् ॥ 47.16 ॥
संहारकालरभसोत्थितधूमकेतु-
निर्दग्धसप्तभुवनेन्धनजो न मातः।
मन्ये ललाटतटपुण्ड्रकमात्रकेऽपि
पर्याप्तिमेति तव भस्मपरागपुञ्जः ॥ 47.17 ॥
और्वो निरर्गलकरालशिखासहस्र-
भसमीकृतार्णवजलस्तव जाठरोऽग्निः।
श्वासास्तवैव मरुतः प्रलयागमेषु
हेलानिपातितकुलाचलचक्रवालाः ॥ 47.18 ॥
वक्षःस्थलीविनिमितामरशैलदण्ड-
लग्नेन्दुखण्डनवभास्वदलाबुपात्राम्।
आश्रावयस्यतनुशेषशरीरतन्त्र-
तन्त्रीगुणां प्रलयरात्रिषु काण्डवीणाम् ॥ 47.19 ॥
संकल्पकल्पितविशङ्कटकण्ठभाग-
मन्तःस्थसप्तजलशेवधिवारिपूर्णम्।
ब्रह्माण्डमेव सहसा विदधासि चण्डि
लीलाकमण्डलुमिमं प्रलयागमेषु । 47.20 ॥
वैकुण्ठचक्रपरिकल्पितशङ्खपत्त्र-
संरुद्धरन्ध्रविकरालविलम्बिपाशम्।
कर्णं बिभर्षि भगवत्यभिराममेक-
मन्यं च हेमगिरिकञ्चनतालपत्त्रम् ॥ 47.21 ॥
अभ्युच्छ्वसत्फणपलाशकरालजिह्व-
प्रत्यगुपक्ष्मनिकुरुम्बशरीरनालम्।
कर्णेऽवतंसयकसि पाण्डुरपुण्डरीक-
शोभं भवानि भुजगाधिपमप्यनन्तम् ॥ 47.22 ॥
अस्तोदयाद्रिनमितोन्नमितार्कचन्द्र-
विस्तीर्णबिम्बमणिकन्दुककीर्णहस्ता।
चिक्रीडिथ त्वमिह चण्डि कुमारभाव-
मातस्थुषी भुवनविस्मयनीयमूर्तिः ॥ 47.23 ॥
तारक्वणड्डमरुका करुसीषु चण्डि
संहारकालमुदिता विचरस्यमन्दम्।
स्कन्धाधिरोपितविटङ्कविरञ्चिकाय-
कङ्कालभागनिनदत्समवर्तिघण्टा ॥ 47.24 ॥
एषा विभाति तव देवि कपालपङ्क्ति-
रुत्त्सिता दलितशङ्खविपाडुरत्विट्।
संवर्तकालकलितोत्कटवह्निहेति-
भस्मोकृताखिलकुलाचलमण्डलश्रीः ॥ 47.25 ॥
रक्तच्छटाशवलकुञ्जरराजकृत्ति-
संछादितस्तनतटाम्ब बिभासि काली।
पौरन्दरी दिगिव बालदिवाकरांशु-
भिन्नान्तरालतिमिरस्थगितोदयाद्रिः ॥ 47.26 ॥
आभीलतां ब्रजसि पाणिनखाग्रशुक्ति-
लीलागृहीतसकलोद्धतसप्तसिन्धुः।
पादाङ्गदीकृतकरालसहस्ररस्मि-
धामावधिक्षितितला-प्रलयागमेषु ॥ 47.27 ॥
योगेश्वरीरुचिरचक्रकरालनाभि-
बद्धास्थबैरवहृदङ्कगतां जनस्त्वाम्।
ध्यायन्नसंकलितसंकटशोकशङ्कु-
शङ्कः शशाङ्कुमुखि शंकरतामुपैति ॥ 47.28 ॥
ब्रह्मप्रपञ्चपरिनिष्ठितभेदसाम
गायन्त्यविप्लुतमनाः प्रलयोत्सवाग्रे।
शर्वाणि वादयसि दीधितिचक्रवाल-
तन्त्रीगुणाञ्चितशशाङ्ककलाविपञ्चीम् ॥ 47.29 ॥
विस्पष्टपाटलदलप्रकरायमाण-
माणिक्यदीधितिविटङ्कतलाङ्गुलीकः।
अभ्युद्वहन्भुवनपङ्कजमेष भाति
हस्तस्तवैव भुजगाधिपभोगदीर्घः ॥ 47.30 ॥
क्लेशप्रतानगहनाप्रतिपन्नपार-
संसारकाननकठोरकुठारधारा।
स्फूर्जत्यनुत्तरतिरस्कृततापवर्त्म-
मैधामृतस्रुतिरहो त्वयि भक्तिरेका ॥ 47.31 ॥
संस्पृश्यमानपभितस्तुहिनोत्करेणे
यद्युत्सृजेन्न कमलं कमलाक्षि लक्ष्मीम्।
तेन स्फुरन्नखमणिप्रभयावलीढः।
संप्राप्नुयाच्चरण एष तवोपमानम् ॥ 47.32 ॥
संदेहितारुणदलाङ्गुलिपादपद्म-
पीठोत्थसौरभभराकुलितं विभाति।
संभाव्य कृष्णरजनीति समागतं त्वां
सेवारसात्तम इवातनु भृङ्गचक्रम् ॥ 47.33 ॥
संवादिबिम्बफलमुज्ज्वलकम्बुकण्ठि
ताम्बूलरागपरिपाटलमोष्ठयुग्म्म।
आभासि तत्क्षणनिपीतपशूपहार-
विष्यन्दिशोणितरसार्द्रमिवोद्वहन्ती ॥ 47.34 ॥
अर्धं शशाङ्कशकलाभरणेन गाढ-
रागोपगूढमनसा वपुषोऽर्पितं ते।
निःशेषमेव हृदयं पुनरव्यलीक-
मानोपघातघटनं दिदिशे त्वयास्मै ॥ 47.35 ॥
प्रेङ्खत्फणामणिमयूखशिखाभिलक्ष्य-
प्रालम्बकम्बु रशानास्पदमेचकाहिः।
काली विभासि भगवत्युपहारपीतद-
धूपोत्थधूमपरिणामवशादिव त्वम् ॥ 47.36 ॥
उष्णीषबन्धदृढपीडितकण्ठपीठ-
फुल्लत्फणाफलकवासुकिफूत्कृतोत्थाः।
त्वां चण्डिपावकशिखाः परितोषयन्ति
संशोषिताभ्रसरितः शिरसि स्मरारेः ॥ 47.37 ॥
भासि त्वमम्ब रजनी शशलक्ष्मशार-
मध्यं दधत्यसकलामृतरश्मिबिम्बम्।
विस्पष्टपङ्कपटलाविलरन्ध्रमार्ग-
तिर्यक्स्थितस्फुरदरण्यकपालकल्पम् । 47.38 ॥
प्रेङ्खज्जपाकुसुमकोमलचन्दनाम्बु-
चर्चाङ्कपीनपरिणाहिपयोधरश्रीः।
शोभां बिभर्षि भगवत्युपगूढसाध्य-
रागेव कृष्णरजनीत्वमुपागता त्वम् ॥ 47.39 ॥
सेवाश्रितोज्जवलकराम्बुरुहाश्रयं ते
तत्संश्रयान्परिजनत्वमिवोपनेतुम्।
छायान्धकारितगुहागृहगर्भभागा
वीराः करालकरवाललता दिशन्ति ॥ 47.40 ॥
आलिङ्गिता इवच वीरनिखातखङ्ग-
पट्टांशुभिर्जननि विन्ध्यगुहानिकेतात्।
लक्ष्मीं वहन्ति शबराः सजलाम्बुवाह-
च्छायाः कृतार्घविधयस्तव निष्पतन्तः ॥ 47.41 ॥
अङ्काधिरूढगुहचन्द्रकिणस्तवाम्ब
नृत्तोपहारसविकासशिखण्डखण्डाः।
विन्ध्याद्रिकंदरगुहागृहसंनिवेश-
भाजो वहन्ति शिखिनः परिवारलीलाम् ॥ 47.42 ॥
निस्त्रिंशघातविनिकृत्तपशूपहार-
रक्तच्छटाच्छुरणशोभि गृहाजिरं ते।
धत्ते हरप्रणतिरोषगृहीतसंध्या-
बन्दीशतान्वितमिवानिशमम्ब लक्ष्मीम् ॥ 47.43 ॥
त्वत्तः प्रभावमहिता भुवनत्रयस्य
नानाफलप्रसवसंभृतिहेतुभूताः।
विद्याः प्रसूतिमसमामधिजग्मुरम्ब
हेमाद्रिसानुसरणेरिव कल्पवल्ल्यः ॥ 47.44 ॥
तत्त्वत्रयीकृतपदाष्टविभेदवर्ग-
निःशेषवाङ्भयनिबन्धनवर्णराशिम्।
स्वर्गापवर्गफलसंपदनन्यहेतु-
माम्नायमातरमुशन्ति पुराविदस्त्वाम् ॥ 47.45 ॥
सर्वप्रपञ्चपरिवर्जितनिर्विकार-
शान्तातिवृत्तपरतत्त्वशिवात्मवृत्तिः।
सूक्ष्मातिसूक्ष्मगहनप्रकतिः शिखेति
सौषुप्तमण्डलगता परिदीप्यसे त्वम् ॥ 47.46 ॥
लोकान्सिसृक्षुरधितिष्ठति यामभीक्ष्ण-
मीशस्त्वया प्रकृतिकारणतां दधत्या।
ग्रन्थौ स्थितं पुटपरम्परया त्वयादि-
मध्यावसानरहितां स्तितिमीयिवत्या ॥ 47.47 ॥
विस्पष्टसप्तदशकस्थिति गौरि लिङ्ग-
माश्रित्य तिष्ठसि विभिः फलभोक्तृशाक्तिः।
ज्ञानामनस्त्वमखिलेषु च विग्रहेषु
चिद्रूपतामुप्गता किल भौतिकेषु ॥ 47.48 ॥
क्लेशेन्धनोत्करनिरर्गलदाववह्नि-
ज्वालाहतावतमसा किल भावना त्वम्।
अभ्यासयोगवशतो जननी जिनाना-
मालोकहेतुरुदिता जिनशासनस्थैः ॥ 47.49 ॥
बोधिप्रकर्षमधिरूढवतो जिनस्य
सोपानपङ्क्तिरुदिता मुदितादिभूमिः।
स्पष्टप्रकारयुगलाधिमुखं समाधे-
रभ्रंशभाग्भुवनधारिणि धारणी त्वम् ॥ 47.50 ॥
क्लेशेन्धनौघघटनास्रववर्त्मवह्नि-
ज्वाला जिन्स्य जननीत्वमुपोढमोहा।
प्रज्ञा त्वमेव हतसंतमसाम्ब तस्य
जैनैरभीक्ष्णमुदिता भवभङ्गहेतुः ॥ 47.51 ॥
अक्षुण्णमार्गयुगभङ्गदशाव्यतीत-
विस्पष्टमार्गगतिवर्त्मरथाधिरूढैः।
त्वं कीर्तिताभयनिरात्मकतावलग्न-
रूपा भवानि मतिपारमितेति बौद्धैः ॥ 47.52 ॥
क्लेशप्रतानहगनप्रतिबन्धशून्य-
स्कन्धप्रवाहपरिहारिनिमित्तमेकः।
अष्टाङ्ग एष परिनिर्वृतये त्वयैव
संदर्शितोऽतिगहनः सुगतस्य मार्गः ॥ 47.53 ॥
गर्भीकृतावधुतसंतमसानुबन्ध-
संवित्प्रकाशविषमीकृतयानमार्गैः।
आर्यावलोकभुवि लोकितसंभवा च
तारा त्वमम्ब कथिताब्जकुलप्रसूतिः ॥ 47.54 ॥
प्राप्ताभिसंधिपरतामनुवृत्तिलग्न-
गौणस्थितिः स्थितसितातिशयादभीक्ष्णम्।
विद्येति सर्वबहुलाखिलदृष्टिसंज्ञा
संकर्षणी निगदिता किल शासने त्वम् ॥ 47.55 ॥
आबध्य यत्र नतिमुत्तमयोगयोग-
भाजि व्रजन्ति प(य)तयोऽधिपतेः सयुक्त्वम्।
साधारणा त्वमपवर्गफलैकहेतु-
रेकायनैरभिहिता भगवत्यलिङ्गि ॥ 47.56 ॥
शीर्षैः सहस्रशिरसा पुरुषेण साम-
गीतिर्विभेदगहनप्रतिपन्नशाखा।
त्वं गीयसे श्रुतिसुखा रुचिरप्रपञ्च-
पञ्चप्रकारपरिनिष्ठितचारुभक्तिः ॥ 47.57 ॥
भोगापवर्गसुखसाधनसप्तकोटि-
संख्यानमन्त्रगणनायकतां दधत्या।
कृत्स्नं त्वयैव गगनामृतधारयैत-
दाप्याय्यते जगदनेकगुणप्रपञ्चम् ॥ 47.58 ॥
शान्ता शिवागमपदं परमीशितुस्त्व-
माद्या कला किल कलात्रितयैकहेतुः।
तत्त्वं व्यतीत्य भवतीं स्थितिमभ्युपेत्य
दीर्घाजवञ्जवजुषो न भवन्ति युक्ताः ॥ 47.59 ॥
ब्रह्माननेभ्य उदिता किल पञ्चधा त्वं
पञ्चभ्य एव भुवनत्रयसिद्धिहेतुः।
विद्याविभावितविचित्रपवित्रमन्त्र-
स्तोत्रप्रपञ्चरुचिरस्तितिरञ्चितश्रीः ॥ 47.60 ॥
यं ज्ञानलिङ्गमतिवृत्तिविकल्पचक्र-
मुत्क्रान्तमुत्तमधियः सकलार्थचित्राः।
उद्गीथमाहुरभितोऽभिविधाय विश्व-
मेकं स्थितं सकलसाधनधर्मशून्यम् ॥ 47.61 ॥
व्याप्य स्थितो जगति यः सकला गिरश्च
यश्च प्रविश्य किल ता अपि धातुरीड्यम्।
यं सर्वतोमुखमथर्वगिरश्च हेतु-
मालम्बमूलमवदातधियो वदन्ति ॥ 47.62 ॥
निर्भिद्य गण्डतटमात्मभुवः किलाशु
येनोदयाय जगतामुदियायि पूर्वम्।
यद्रूपमाश्रितविवर्तविकारभेदं
ब्रह्मद्विधास्तितमुशन्ति परावरज्ञाः ॥ 47.63 ॥
यद्द्वारमुष्णकिरणस्य वदन्ति सौर-
मौदुम्बरं च कवयः किल तालुसाह्वम्।
यस्त्रिप्रकारकलनासुभगत्वमेति
योगाभियुक्तमनसां पदमव्यवस्थम् ॥ 47.64 ॥
व्यापीति हंस इति तार इति स्म शुक्र
इत्युच्यते य इह वैद्युत इत्यनन्तः।
त्रिस्थानतादि विषयं च यमामनन्ति
ब्रह्मामलं त्रिविधभेदविवर्ति युक्ताः ॥ 47.65 ॥
ब्रह्मा महेश्वरगुरुश्च पुरा किलैत-
दाकाशवत्स्वकृतसंनिधिमेत्य साङ्गम्।
वेदं प्रजापतय ऊचतुरेकमेव
तस्यापि यो मुखमिति प्रथितः पृथिव्याम् ॥ 47.66 ॥
निर्दिश्यते जगति यः किल शब्दतत्त्व-
भावार्थनामसुगुणप्रणिधानदृश्यः।
यस्मिन्निलीनमनसः सुखदुःखमोह-
संवेदनेन रहिताश्च भवन्ति युक्ताः ॥ 47.67 ॥
यः कीर्त्यते श्रुतिषु चोपनिषत्खशेष-
विद्यान्तरेषु च फलद्वयहेतुरेकः।
उत्थापितप्रगुणसंस्कृतयश्च येन
तद्वाच्यतामुपगताः किल सन्ति वेदाः ॥ 47.68 ॥
ब्रह्मादिदैवतमयं परमं पवित्र-
मिच्छन्ति यं सुतपसामयनं द्विजेन्द्राः।
आरुह्य यं सपदि कूबरिणं व्रजन्ति
मार्गं सुदुर्गममनर्गलमेव युक्ताः ॥ 47.69 ॥
यं संविदादिमयमाहुरनेकभेदं
यश्चाक्षुषः पुरुष इत्यभिधीयते च।
यं तैत्तिरीयक उशन्ति रसादिकोष-
चक्रस्य हेतुमवदातधियश्च कोषम् ॥ 47.70 ॥
अस्पष्टवैकृतविविक्तविकारचक्र-
हेतोर्नियम्य न कदाचिदतादवस्त्यम्।
कृच्छ्रेण नाभिहृदयाम्बुजकोटरस्थं
पश्यन्त्यविप्लुतसमाधिदृसो यमार्याः ॥ 47.71 ॥
विस्पष्टमात्मनिरताः सुधियो विकल्प-
शून्यं समाधिमवलम्ब्यसमूढसत्त्वाः।
विन्दन्ति यं वितमसः किल निस्तरङ्ग-
भङ्गोदधिप्रतिनिधिस्थितमात्मसत्त्वम् ॥ 47.72 ॥
स्वर्गोपभोगसुखदाननिरर्गलं य-
मिच्छन्ति यज्ञपुरुषं मुनयः षडङ्गम्।
क्षिप्ताहुतिः शिखिमुखे किल यस्य सम्य-
गुत्सृष्टवृष्टिमुपतिष्ठत उष्णरश्मिम् ॥ 47.73 ॥
स्यात्कारणं यदि न शाश्वतिकत्वयुक्त-
मुच्येत नित्यमिति चेन्नहि कारणं तत्।
आक्षेपयुग्ममिति बाधकमानशून्यं
शूक्तिष्वभीष्णमविरोपितवृत्ति यस्य ॥ 47.74 ॥
तादात्म्यफभेदरहितावनिचन्द्रभास्व-
दात्मानिलानलनभःसलिलेन देहे।
व्याप्याखिलं स्तितवता परमेश्वरेण
येन न्यषेधि जगतोऽपरकर्तृभावः ॥ 47.75 ॥
ब्रह्मप्रतिष्ठपरमाणुशरीरगर्भ-
बद्धास्पदोन्नतकुशेशयकार्णिकाङ्के।
विश्रान्तमुच्छिखनिपातगतप्रदीप-
दीप्राकृतिप्रतिममप्रतिकृत्यवस्तम् ॥ 47.76 ॥
घोषाक्षरस्वरनिराकृतमप्यकण्ठ्य-
तालव्यमव्ययमनासिकमप्रतिष्ठम्।
निःसंचरव्यतिकरप्रतिसंचरात्म-
देहप्रभञ्जनविशाललथाधिरूढम् ॥ 47.77 ॥
प्रज्ञाघनं स्थिरचतुश्चरणत्वमाप्त-
मद्वैततासमरसं परिमृष्टकूटम्।
ज्योतिः परं यदमृतं हृदि चाकशीति
नेदिष्ठमप्यविगलत्तमसां दविष्ठम् ॥ 47.78 ॥
स्थित्यर्थमस्य जगतः कथमप्युपाधि-
भेदादभिन्नमपि यत्प्रतिपन्नभेदम्।
यच्चापि सत्यमनिशं हृदयप्रतिष्ठ-
मानन्दरुपममृतं मुनयो गृणन्ति ॥ 47.79 ॥
नो ताम्यते दिशि दिवाकरपावकैर्य-
द्भासा च यस्य सकलं व्यवभास्यतेऽदः।
विद्यासतत्त्वमिति च प्रकृतिः परैति
शक्तिश्च यस्य भगवानरविन्दनाभः ॥ 47.80 ॥
वर्णेषु वाचकतया रहितेषु सत्सु
वाक्तत्वमक्रममपाकृतभेदरूपम्।
स्फोटाभिधानमिति यं कथयन्ति शाब्दाः
प्रत्यक्षताविकलवस्तुसतत्त्वयोगाः ॥ 47.81 ॥
द्रव्यादिभेदपरिकल्पनया प्रमाण-
सूत्रैर्विभज्य भुवि षोडशबेदभिन्नम्।
व्याख्यातवान्कणचरश्च समक्षमक्ष-
पादश्च यस्य भगवांस्तनुमप्रकम्प्याम् ॥ 47.82 ॥
यस्माज्जलादिव च बुद्बुदचक्रवाल-
मेतज्जगत्समुदपादि विभिन्नरूपम्।
निःशेषबीजनिकरान्तरलब्धशक्ति-
र्वागीश्वरीं च विनिवर्तत एव यस्मात् ॥ 47.83 ॥
यस्योदपादि मनसः किल शीतरश्मि-
रक्षणोंऽशुमानकटितटादपि चान्तरिक्षम्।
अव्याकृतो विकुरुते भगवानविद्या-
ग्रन्थिं च यो विनिहितं पुरुषो गुहायाम् ॥ 47.84 ॥
ज्ञानाग्निविप्रुष इमाः किल यन्मुखोत्था
यश्चाक्षरः क्षणमथ क्षरतामुपेतः।
संयोगतो जगति भावगताद्वलिभाति
यद्रूपसून्यमपि संहितसर्वरूपम् ॥ 47.85 ॥
ह्रस्वं न दीर्घमथ न प्लुतमप्यलिङ्ग-
मेकं विभक्तिवचनप्रतिभागशून्यम्।
संतर्पिताखिलजगत्परमेण धाम्ना
यच्चास्तितारहितभावविकारशून्यम् ॥ 47.86 ॥
व्यावृत्तिरस्तिन कुतश्चिदपीह यस्य
यस्मादवस्तुविषयस्थितिविप्रलब्धाः।
आविर्भवन्ति विविधस्तितिहेतुकार्य-
चक्रप्रपञ्चपरिणामयुजः पदार्थाः ॥ 47.87 ॥
भोगापवर्गफलसाधनहेतुभाव-
मभ्यागता भुवनसाधनतां दधानाः।
यस्माच्च बिनधुसरसः किल सप्तमन्त्र-
कोट्योऽभ्रसिन्धव इवास्खलिताक निरीयुः ॥ 47.88 ॥
आत्मान्तरावगमवत्त्रितयाप्रतीतौ
वागात्मनि स्थित इहातिशयेन सूक्ष्मे।
रूपस्य यः प्रकटनाय निजस्य शब्द-
भावेन भावितजगत्परिवर्तते स्म ॥ 47.89 ॥
प्राप्तानिमान्प्रकृतिजानखिलान्विकारा-
न्योऽलंकरोत्यनिशमप्रविभागिरूपः।
तीर्थप्रवाहगहनेषु पृथग्विधेषु
यद्दृष्टिबेदविनिबन्धनमामनन्ति ॥ 47.90 ॥
त्रिस्तानतादियुतमादिविराशून्यं
विस्वस्य नाभिमचरं चरतो ध्रुवस्य।
निष्ठ्यूतवाङ्भयमजो हरिरात्मभूश्च
शंसन्ति यं कृतधियो गुरुधारणार्ध्यम् ॥ 47.91 ॥
ॐतत्सदित्यमिततत्परमं तृतीय-
कायावमर्शगहनागमबोधिसंवित्।
आवेदवन्ध्यधृतिधूतघनानुपाशो
वागीश्वरो जननि स प्रणवो मुखं ते ॥ 47.92 ॥ (द्वात्रिंशद्भिः कुलकम्)
नाडीसहस्रसशिराम्बरगर्भवर्त्म-
संचारचातुर(?)करी त्दृदि संनिविष्टा।
शक्तिस्त्वमेव परमात्मपरापरार्थ-
ब्रह्मार्कमण्डलगमागमगूढगुप्तिः ॥ 47.93 ॥
स्पष्टीभवद्गगनगञ्जचितिप्रकर्ष-
मात्मीकृताखिलसतत्त्वगतिप्रपञ्चम्।
कापि त्वमेव ननु दाशवलावबोध(?)-
सत्त्वानुभावपरमेश्वरदेवताद्या ॥ 47.94 ॥
जिह्वा त्रिविष्टपसदाममृतस्य मार्ग-
माज्यं द्विजाञ्जुहुवुषः शिखिनि प्रदीप्ते।
यत्तिग्मरश्मिकिरणाः परमस्य पुंसः
स्तानं नयन्ति तदसौ तव शक्तिजृम्भा ॥ 47.95 ॥
ज्योतिर्मयीमकरणेन्द्रियवृत्तिमाद्य-
हंसाक्षरस्तितिमयीं विहितामयार्घ्याम्।
श्रीकण्ठमुख्यगुरुषोडशवीरमूर्ति-
मुत्फुल्लशक्तिकमलासनतामुपेताम् ॥ 47.96 ॥
शक्तित्रयप्रिथितशूलकरां शिवाय
धाम्ना जगन्ति सकलान्यवभासयन्तीम्।
कल्लोलसंकुलपरामृतसंपदं त्वां
ध्यायन्ति भैरवतनुं किल कौलिकास्थाः ॥ 47.97 ॥
प्रत्यङ्गसंगतपतङ्गकराभिभावि-
कोटित्रयोन्नतविशह्कटतिग्महेतिः।
सूक्ष्मा सनातनतनुश्च ननु त्वमेव
मायाकलासु शकलीकरणैकहेतुः ॥ 47.98 ॥
चक्राश्रितत्रिशिखकोटिगतारविन्द-
सत्कर्णिकासनगतामिह कौलिकस्त्वाम्।
ध्यात्वैति शक्तिपतितां स्थिरभैरवाङ्क-
वृत्तिं परापरविभेदवतीं जनोऽयम् ॥ 47.99 ॥
आतस्थुषः षडवधिस्थितवर्त्ममातृ-
चक्रस्य चण्डिपृथुसूक्ष्मशरीरवृत्तिः।
ख्याता त्वमेव जगति प्रतिपन्नविश्व-
रूपा किलाक्षरमयी परमेशशक्तिः ॥ 47.100 ॥
आस्थाय रुद्धबुवना वसुधादिकाश्च
सर्वादिविग्रहतयानवमाः स्फुरन्तीः।
तास्ताः क्रिया विदधतो जनताहिताय
शक्तिः किलाप्रतिहता परमेशितुस्त्वम् ॥ 47.101 ॥
त्वं कारणस्य जननीति भवानि शक्ति-
रुक्तात्मवीर्यगतयाखिलबीजमात्रा।
विश्व क्रमेण जननात्मिकया विचित्र-
मेतत्सृजत्यविहतप्रसरं त्वया तत् ॥ 47.102॥
ब्रह्मा प्रजापतिरवक्षदृगादिवर्त्म
यद्वह्निवाततरणीः किल यज्ञसिद्ध्यै।
तस्मिन्नुशन्ति भवतीं भुवनस्य हेतु-
मेकामजां जननि लोहितशुक्लकृष्णाम् ॥ 47.103 ॥
शक्तिस्त्वमप्रतिहता ननु मानसीति
वागीश्वरी निगदिता सितबिन्दुचित्रा।
त्वां नाभिमाहुरमृताममृतस्य सप्त-
कौमारिकं किमपि चक्रमुपाश्रितां तु ॥ 47.104॥
संदर्शिताखिलजगद्गतगोचरा तु
तत्त्वप्रकशननिरर्गलदीपिका त्वम्।
विद्या परापरविभेदवती भवानि
भोगापवर्गसुखहेतुरविप्लुताणोः ॥ 47.105 ॥
भिन्नप्रकारसमवायविविक्तवर्ण-
संफुल्लशक्तिकुसुमस्तबकार्चितश्रीः।
ब्रह्मोत्तमद्रुमलतामलनाभिराम-
विस्तारिमूर्तिरपवर्गफलप्रदा त्वम् ॥ 47.106 ॥
मायानिशान्धतमसस्तिमितांशुराशि-
मद्राण्डमण्डलमलं परिदीप्यते यत्।
तस्य प्रभासि भगवत्यतिवृत्तसूर्य-
कोटीसहस्ररुचिरस्तमितान्धकारा ॥ 47.107 ॥
नाकोपबोगसुखसाधनहेतुरम्ब
पुंशस्त्वमेव विदिताष्टविधा भवन्ती।
सूक्ष्मं प्रधानपुरुषान्तरमप्यलक्ष्य-
मेका त्वमेव विशिनष्टि समाधिभाजः ॥ 47.108 ॥
सद्वृत्तिसंस्तितिरविप्लुतवर्णबीज-
गर्भा गृहीतहृदया कलधौतगौरी।
ब्रह्मासनस्य वरवर्णिनि कर्णिका त्व-
मभ्युन्नता सकलवाङ्भयपङ्कजस्य ॥ 47.109 ॥
येषां जगत्प्रविचयाधिगमादुपैति
सालोक्यमाशु मतिमत्यनघश्रुतीनाम्।
त्वं छन्दसां किल जगत्यधिदेवता त्वं
तेषामघौघशमहेतुरुपाजिहीथाः ॥ 47.110 ॥
ख्याता महेश्वरनिरञ्जनतां दधाना-
स्तारादिका जगति याः किल शक्तयोऽष्टौ।
तन्मध्यवृत्तिरमला परिदीप्यचसे त्व-
मेकापवर्गसुखदा शिवशक्तिराद्या ॥ 47.111 ॥
तत्त्वं भवानि नरशक्तिशिवात्मकं य-
देतत्त्रिधा स्थितमुशन्ति परावरज्ञाः।
तत्राण्डमण्डलमलं समबोबुधस्त्व-
माद्या मतिः समनुवर्तितकारणेच्छा ॥ 47.112 ॥
निःश्रेणिरीशितुरनुग्रहसौष्ठवेन
विश्लेषितत्रिविधबन्धनविप्लवानाम्।
प्राप्त्यै सनातनपदस्यच षट्प्रकार-
सोपानपद्धतिरसि प्रथिता त्वमूर्ध्वम् ॥ 47.113 ॥
लोकेष्वनादिनिधनं परिवर्ततेऽर्थ-
तत्त्वेन यत्प्रकृतिकारणशब्दतत्त्वम्।
ब्रह्माक्षरं शिवमयं गुणगौरि तस्य
निर्जग्मिषा(?)ननतलात्किल मातृका त्वम् ॥ 47.114 ॥
योगाभियोगपटवोऽधिसमाधि……….
मूर्छद्धनस्थितिरणत्कृतितारदीर्घम्।
उद्गीथमोमिति यदक्षरमामनन्ति
तस्य त्वमेव निरुपप्लुतिरीरयित्री ॥ 47.115 ॥
ज्योतिर्मुखं वितरणादिषु पञ्चभेद-
विस्पष्टकारकतयाम्ब विवर्तसे यत्।
ब्रह्म स्वतन्त्रमिह केवलमप्यकर्तृ
तस्य क्रिया फलवती त्वममोघशक्तिः ॥ 47.116 ॥
यस्य क्षितिश्च चरणौ गगनं न नाभिः
श्रोत्रे दिशस्तरणिरीक्षणमग्निरास्यम्।
द्यौरुत्तमाङ्गमपि तस्य विभोः किल त्व-
मुत्तंसितोडुकुसुमस्तबकोज्ज्वलस्रक् ॥ 47.117 ॥
पञ्चाशदञ्चिततराक्षरचक्रवाल-
संपूरितोदरगुहा ननु माकृका त्वम्।
तान्येव वाङ्भयनिबन्धनतां गतानि
शिम्बीव गौरि फलकानि पुरः प्रसूषे ॥ 47.118 ॥
शक्तिः स्थितोपरिपथः किल षड्विधस्य
भेदत्रयस्थितिमती परमेष्ठिनस्त्वम्।
निर्विप्लवा विकलमन्त्रगणप्ररोह-
हेतुर्नमस्कृतिरिति प्रणवादिरुक्ता ॥ 47.119 ॥
अत्यग्निभग्नतिमिरप्रसरां भवानि
विप्राः पठन्ति भवतीमिह सामिधेनीम्।
धेनुस्त्वमप्रतिघकामदुघानगा च
निःशेषनिर्जरमयी प्रथिता मधुश्च्युत् ॥ 47.120 ॥
पीत्वाशु दिव्यममृतं सुखिनो भवन्ति
योगाभियोगमनसो यदपोढदुःखाः।
त्वं तन्मयी भगवति क्षयमीयिवांस-
माप्याययस्यनिशमेव हिमांशुमेका ॥ 47.121 ॥
शक्त्या त्वयानवमया किल शंकरस्य
निष्कृष्य पुद्गलगणान्भवबनधसिन्धोः।
दीक्षाविरुग्णनिबिरीसदुरन्तपाश-
चक्रान्नयत्यनिशमूर्ध्वमनन्तनाथः ॥ 47.122 ॥
भ्रूमध्यवर्ति भगवत्युपधानयोग-
शक्तिः किल स्फुटिकवत्स्फुटचित्रवर्णम्।
ध्यातं नृणां फलति तत्त्वमनेकधा य-
त्तस्यामला शिवपदस्य शिखा त्वमेका ॥ 47.123 ॥
एकाधिकस्पुरदशीतिपदा त्वमेव
विद्यावितानजननी परमेशशक्तिः।
बोगापवर्गसुखदा भुवनत्रयस्य
त्वत्येव मन्त्रनिचया रचितप्रतिष्ठाः ॥ 47.124 ॥
यत्सूत्रमस्य जगतो बहुधागमं च
सांक्यैरनादिपरिकल्पितमम्ब तत्त्वम्।
तस्योत्थिता परमकारणतः किलात्म-
लाभैकहेतुरुदिता शिवशासने त्वम् ॥ 47.125 ॥
आनन्दरूपममृतं निरुपाख्यमूर्मि-
पङ्कातिगं स्तिमितवारिधिवारिकल्पम्।
यन्नेति नेत्युपनिषत्स्वभिधीयते च
विज्ञप्तिमात्रमनुपाधि निरीहमन्यैः ॥ 47.126 ॥
तस्येशितुः सकलधर्मविनाकृतत्व-
मव्याकृतेः श्रितवतोऽद्भुतवृत्तिरेका।
व्यापारशक्तिरनघा वसुधादिषु त्व-
मेकैव तिष्ठसि विभोर्जगतो नियन्त्री ॥ 47.127 ॥
स्थूलात्मनातिशयसूक्ष्मतया च गौरि
ब्रह्म स्थितं सकलमेकमपि द्विधा यत्।
ज्योतिर्मयं जननि तस्य वपुर्विगाह्य
बाह्यं त्वमन्तरमथ श्रियमेषि शक्तिः ॥ 47.128 ॥
सूक्ष्मा कलामृतकलामृतसंभवा त्व-
मेकेन्द्रियाभिपतितस्थितियोगदृश्या।
शीतांशुभास्करहुताशसमुत्थिता च
देदीप्यसेऽन्धतिमिरच्छिदुरामलार्चिः ॥ 47.129 ॥
छन्दोधिदैवतमतिप्रथिता किल त्व-
माध्यात्मिकी हलहलाम्ब सरस्वतीति।
बाह्यापरा तु पृथुपीननितम्बबिम्ब-
केशस्तनाधरयुगादिमनोरमश्रीः ॥ 47.130 ॥
आसेदुषीश्रुतिमुखत्वमनेकभिन्न-
संख्याक्षरप्रकृतिरप्रकृतिव्यवस्ता।
त्वं ब्रह्मवर्चसमयी च विकासितेजः
प्राप्ता किल द्विजमुखाम्बुजराजहंसी ॥ 47.131 ॥
भास्वत्सहस्रकरकौस्तुभकालकृष्णा-
वक्षःस्तलप्रणयदुर्ललिता विभासि।
लक्ष्मीस्त्वमेव करपल्लवसंनिविष्ट-
पद्मासनाण्कडनवविभ्रमपुण्डरीका ॥ 47.132 ॥
रात्रिस्त्वमेव नवविभ्रममण्कडलाच्छ-
रत्नायमानमुडुमण्डलमुन्मयूखम्।
मातर्व्यधाः पृथुकपालकवाटसंधि-
बन्धाभिरामभुवनाण्डसमुद्गकस्य ॥ 47.133 ॥
विस्तारशालिशशिमण्डलकर्णिकाङ्क-
तारापथाम्बुरुहमध्यकृतप्रतिष्ठाम्।
त्वां चिन्तयन्नमृतवृष्टिमिवाकिरन्ती-
मत्येति साधकजनः सहसैव मृत्युम् ॥ 47.134 ॥
ये वा पिबन्ति सुरभेस्तव तालुदेश-
मध्यस्थितेः स्तनमधीश्वरी लम्बमानम्।
आप्यायितास्तदमृतेन विमुक्तिमार्ग-
मायान्ति ते सकलभावविकारशून्याः ॥ 47.135 ॥
संवर्तवारिदघटासु शतह्रदात्व-
मासाद्य विस्पुरसि काञ्चनकाषगौरी।
अर्चिस्त्वमेव वडवामुखपावकस्य
भस्मीकरोषि सकलानपि सिन्धुनाथान् ॥ 47.136 ॥
संकोचशक्तिशिथिलीकृतपत्त्रसंधि-
रन्ध्रोत्थितप्रचुरकेसरसौरभाणाम्।
नैशान्धकारभिदुरारुणधाम्नि बोध-
बन्धुस्त्वमेव रुचिराम्बुरुहाकराणाम् ॥ 47.137 ॥
त्वं चन्द्रिका कुमुदकाननचक्रवाल-
निद्रानुबन्धशिथिलत्वनिमित्तमिन्दोः।
लक्ष्मीस्त्वमेव नवकौस्तुभरश्मिशार-
वक्षःस्थलप्रणयदुर्ललिता मुरारेः ॥ 47.138 ॥
ब्राह्मीत्वमुच्छ्वसितपङ्कजविष्टरस्थ-
मूर्तिर्विमानरचितास्पदराजहंसा।
विस्पष्टसामघटनैर्वदनैस्चतुर्भि-
राभासि नीतिरिव चारुगुणाभ्युपायैः ॥ 47.139 ॥
ताम्बूलपङ्करसरागमिवोष्ठबिम्ब-
मुद्रानिवेशघटिताविरतप्रवेशम्।
शङ्खेन गौरि दधता हृदयेऽनुराग-
माभासि संयुगमुखेषु च वैष्णवी त्वम् ॥ 47.140 ॥
क्रोधाभिताम्रनयनत्रयजृम्भमाण-
ज्वालाजडीकृतपिनाकशिखाकृशानुः।
माहेश्वरी त्वमसि मौलिमृगाङ्करश्मि-
संदेहितामंरसरिज्जलधौतजूटा ॥ 47.141 ॥
शोभां बिभर्षि शिखिवाहनदेवता त्व-
मम्भोजकोमलकराग्रगृहीतशक्तिः।
लीलेव सिन्धुमथनस्य भुजंगभोग-
काषाहितक्रशिममध्यमहीध्रमूर्तिः ॥ 47.142 ॥
ज्वालाकलापविकटाञ्जलिपरीतदैत्य-
सेनाशतक्षतजवह्निकरालधारम्।
वज्रं त्वमेव दधती नयनैर्विभासि
नीलोत्पलैरिव शरद्विकसद्भिरैन्द्री ॥ 47.143 ॥
चामुण्कडया विरचिताञ्जलि बद्धहस्त-
शाखानखांशुभरनिह्नुतमौलिचन्द्रः।
मातस्त्वया नतशिराः क्रियतेऽस्तिभस्म
भाजा श्मसानगृहदेवतयेव शंभुः ॥ 47.144 ॥
विस्तारिपोत्रपिहितार्कविजृम्भमाण-
दंष्ट्रांशुभिन्नतिमिराम्बरदिङ्भुखश्रीः।
छायाछलेन भगवत्यवगाढसिनधु-
मध्ये विराजसि वराहमुखी त्वमेव ॥ 47.145 ॥
स्वर्गापवर्गफलसाधनहेतुभाव-
मातस्थुषो मुखमधीश्वरि वेदराशेः।
गायत्र्यसि द्विजननाननपुण्डरीक-
खण्डाभिरामविनिकेतनराजहंसी ॥ 47.146 ॥
सावित्र्यपि स्फुरितवक्त्रमृगाङ्कबिम्ब-
च्छायानिमीलितविलोचनपङ्कजश्रीः।
रत्नाक्षसूत्रवलयं परिवर्तयन्ती
ताराकुलं जननि नरात्रिरिवावभासि ॥ 47.147 ॥
आपीय सप्तभुवनोपहितोपहार-
निर्दग्धधूपपटलोत्थितमम्ब भूयः।
आच्छादितार्ककरमुद्गिरसीव धूम-
मूर्ध्वेक्षमानलशिखाविलिकज्जलौघम् ॥ 47.148 ॥
संचिन्त्य कासरसुरारिवधं पठोर-
मुत्पश्यति त्रिदशदैत्यगणे कृतान्ते।
आत्मीयसैरिभविनाशभियेव चण्डि
संयच्छति स्म न यमस्त्वयि भक्तिनम्रान् ॥ 47.149 ॥
पादानतास्तव भवानि नखात्मदर्श-
बिम्बाधिरूढतनुदेहतया प्रपन्नाः।
सद्यः प्रणामसुकृताहितवालखिल्य-
रूपा इव श्रियमुदञ्जलयो भजन्ते ॥ 47.150 ॥
फूत्कारमुक्तहुतभुग्भुजगेन्द्रहार-
संसक्तश्रृङ्खलपयोधरकुम्भभागा।
शोभां बिभर्षि गुरुनिश्चययोगसिद्धि-
रुत्कृष्टमन्त्रगणरत्ननिधानभूस्त्वम् ॥ 47.151 ॥
वीक्ष्याग्रतः शबरकृत्तपशूपहार-
रक्तच्छटार्द्रपिशिताशनशौण्डतां ते।
जातास्थिशेषवपुरुज्झितमांसदेह-
यन्त्रा भयादिव विराजति रेवतीयम् ॥ 47.152 ॥
शोभां बिभर्ति तव निर्मलदन्तपङ्क्ति-
निर्यन्मयूखनिकुरुम्बतयाम्ब वक्त्रम्।
लीलागृहीतकवलीकृतभांसकुन्द-
गौरास्थिदण्डमिव लोलकरालजिह्वम् ॥ 47.153 ॥
पादाग्रकोणहतदुन्दुभितारनाद-
माकर्ण्य संयुगमुखे तव वज्रापाणेः।
अन्यानकाहतिपराङ्भुखतां जगाम
नूनं विपक्षरहिता पुनरम्ब सेना ॥ 47.154 ॥
अन्योन्ययुद्धरभसाहतिरुग्णचूडा-
विष्यन्दिशोणितरसैरिव लङ्घयन्ति।
संसक्तविन्ध्यगिरिकंदरमन्दिराग्र-
भागा न शासनविधिं तव ताम्रचूडाः ॥ 47.155 ॥
प्रेङ्कत्कपालकुसुमस्रगपोढभोगि-
हारं भयानकमधीश्वरि रूपमेतत्।
चेतः पुरस्तव दयामृदु सप्तलोक-
भोगापवर्गफलसाधनबद्धकक्षम् ॥ 47.156 ॥
पादारविन्दयुगसंस्मरणाभिलाष-
पूतात्मनां तव सुरेश्वरी मानवानाम्।
उत्सृज्य लोहनिगडा निजरूपमाशु
माणिक्यपादकटकश्रियमाश्रयन्ते ॥ 47.157 ॥
वेलातटाचलनितम्बशिलाभिघात-
संशीर्यमाणविकटोर्मिघटासंहस्रः।
त्वां ध्यायतामनुदिनं प्लवभह्गसेतु-
मभ्येति नीलमणिकुट्टिमतां पयोधिः ॥ 47.158 ॥
त्वत्पादयुग्ममनिशं स्मरतां कराल-
धूमावलीशबलितस्फुरदुद्धतार्चिः।
विष्यन्दिसान्द्रमकरन्दहृतालिवृन्द-
मन्दारकाननतलत्वमुपैति वह्निः ॥ 47.159 ॥
विष्यन्दमानमददुर्दिनगण्डभित्ति-
भागास्तवाम्ब विपिनेष्वपि विद्रवन्ति।
स्तम्बेरमाश्चरणसंस्मरणेन सिंह-
संघातरौद्ररवजातभया इवारात् ॥ 47.160 ॥
दंष्ट्राकरालवदनाः स्पुरदग्निहेति-
पिङ्गोर्ध्वकेशरुचयोऽरुणरौद्रनेत्राः।
अत्यन्तहिंश्रमनसोऽपि तवानतानां
नक्तंचरा जगति गौरि वहन्ति मैत्त्रीम् ॥ 47.161 ॥
त्वत्संश्रयान्गिरिनदीकुहारान्तराल-
वृत्तिः सुरञ्जितमुखो न हिनस्ति नूनम्।
उद्दामदनजलकुञ्जरकुम्भकूट-
कुट्टाककोटिकरजक्रकजोऽपि सिंहः ॥ 47.162 ॥
फूत्कारमुक्तदहना विदिदङ्क्षवोऽपि
रोषारुणेक्षणरुचस्त्वयि भक्तिभाजाम्।
आशीविषाः स्फुरितकेसररूपघेर-
जिह्वा वहन्ति विकचोत्पलदामलीलाम् ॥ 47.163 ॥
उत्खातशातकरवाललताः कराल-
कोदण्डदण्डविसरा विजिघांसवोऽपि।
बन्धुत्वमेत्य विनतास्तव तारयन्ति
कान्तारदुर्गपतितान्ध्रुवमम्ब चौराः ॥ 47.164 ॥
इत्थं प्रमाविषयलङ्घि लघुत्वमुक्त-
माहात्म्यमोहितविबोधितविष्टपायै।
तुभ्यं नमः प्रतिबलावलितामरेनन्द्र-
दृष्टिप्रसादनकृते ननु चण्डिकायै ॥ 47.165 ॥
इत्थं स्तुतेस्तव वयं विरतः स्वशक्ति-
शून्यत्वतो न भगवत्यभिलाषभङ्गात्।
आस्वादयन्त्यमृतशीकरबिन्दुवर्ष-
मभ्येति कस्य रसना विरसामवस्ताम् ॥ 47.166 ॥
इति तव गुणवादतः किलास्माज्जननि यदर्जितमस्ति पुण्यजातम्।
प्रतिसमयमियं त्वदङ्घ्रिपूजाभिरतिफला त्वयि तेन नोऽस्तु भक्तिः ॥ 47.167 ॥
प्रशमय महामोहातङ्कं विधत्स्व सुनिर्मलां
दृशमनुदिनं कूटीभूतं तिरस्कुरु किल्बिषम्।
विघटय दृढान्पाशग्रन्तीन्भवव्यतिषङ्गिणो
न तव विफला पादम्बोजस्मृतचिः प्रणतात्मनाम् ॥ 47.168 ॥
इत्थं नाकिनिकायनिर्मितनुतिप्राञ्चत्प्रपञ्चश्रुति-
प्रौढीबूतशुभप्रसादविशदश्रीमण्डनाचण्डिका।
साहंकारहुताशहुंकृतकृतत्रासा त्रिलोकीसदां
सादं सा दितिजेन्द्रदानवघटां निन्येतरामायुधैः ॥ 47.169 ॥
तत्तत्कालं कालरात्रिप्रकोपक्रूरारम्भोत्तम्भनं वर्जयद्भिः।
आसेदेऽन्यैर्दैन्यमप्राप्तदैत्यै(?) शौरेः सूरैरन्तिकं रत्नसानौ ॥ 47.170 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये चण्डीस्तोत्रं नाम सप्तचत्वारिंशः सर्गः।