.
हरविजयम्।
षट्चत्वारिंशः सर्गः
सकालकूटं वहतीव यो गलं कलिन्दकन्यासहितं सहार्यया।
सुरस्रवन्त्याश्च जलं समीरयन्कलिंदकन्यासहितं सहार्यया ॥ 46.1 ॥
रविबिम्बमिवाभिनिर्यदंशुच्छुरिताकाशमथामुना रणाग्ने।
धनुराचकृषे रिपुक्षयाय स्फुटटङ्कारचितां श्रियं दधानम् ॥ 46.2 ॥ (युगलकम्)
सोऽभ्रमद्विततकार्मुको रणे मानशेवधिरुदारवाजिभिः।
तच्छरैश्च गिरिरर्कतेजसामानशेऽवधिरुदारवाजिभिः ॥ 46.3 ॥
क्षयार्कवैवस्वतकालवह्निभिः कथैव का संहरणक्रमोद्यतैः।
वभूव नात्माप्युपमानमाहवे दुरासदत्वेन कपालमालिनः ॥ 46.4 ॥
गणसेनया प्रतिदिशं तरसा प्रथमानया सममया च ततम्।
अभयं सुरारिपृतना समिति प्रथमानया सममयाचत तम् ॥ 46.5 ॥
रणवर्त्म हिमाद्रिजापताववतेरुष्यथ मङ्गलेच्छया।
सुरसद्मभुवेव रम्भया रुचिराखण्डलयज्ञया जगे ॥ 46.6 ॥
शशिलेखया शिरसि यस्य मुग्धया न वशस्य मानसमरंस्त नद्धया।
तमवाप्य वैरिपृतना ननाश सा नवशस्यमानसमरं स्तनद्धया ॥ 46.7 ॥
विष्यन्दिसान्द्ररुधिरारुणधातुराग-
रक्तानि तस्य विशिखैर्विशिखासनास्तैः
कृत्तान्यलोपिषत दैत्यशिरांसि गण्ड-
शैलश्रियं दधति काञ्चनशैलश्रृङ्गे ॥ 46.8 ॥
नतलोकहितक्रियासमानानवमा यस्य तितांसतां सदस्त्रः।
युधि शक्तिमसौ द्विषां स्म हर्तुं नवमायस्यति तां सतां सदस्त्रः ॥ 46.9 ॥
तुरगखुरशिखानिपातपिष्टत्रिदशमहीघ्रनितम्बधूलिपुञ्जैः।
कपिशबलमथामरारिचक्रं स्फुटमिव जाम्बवदृक्षसैन्यमासीत् ॥ 46.10 ॥
सेनाभिरस्याक्रियतारिचक्रमहासमाजावनिशं सिताभिः।
यशश्छटाभिर्दधतोऽथ लक्ष्मीं महासमाजावनिशंसिताभिः ॥ 46.11 ॥
ससृजे शरवृष्टिरन्धकाद्यैर्दितिजैस्तत्र विचित्रहेमपुङ्खा।
विमुखीक्रियते स्म सा पतन्ती पटुहुंकाररवैः स्वयंप्रभेण ॥ 46.12 ॥
गीर्वाणवृन्दमसुरानधिसंयुगोर्वि-
नाशक्रमेण सममर्दयतः समायान्।
मत्तो मतङ्गज इवाशु सरोजखण्ड-
नाशक्रमेण स ममर्द यतः समायान् ॥ 46.13 ॥
तद्गुप्त्यै रणभुवि नन्दिषेणमुख्या दैत्येन्द्रं प्रतिमुमुचुर्महास्त्रवृष्टीः।
श्रृङ्गीवातनुकुलिशाश्रिभिन्नसंधिस्ताभिः स द्रुतमथ भङ्गरत्वमापत् ॥ 46.14 ॥
युधि भान्निहतेन वैरिणा स हि डिम्बेन जटासुराजितः।
अथ भीम इवाभ्ययुङ्क्त तान्सहिडिम्बेन जटासुराजितः ॥ 46.15 ॥
आजघ्रुरत्रावसरेऽथ दैत्यगणाधिपाः संगररागभाजः।
कोदण्डसंवर्तकमेघचक्रक्रेंकारगर्जारवपूरिताशाः ॥ 46.16 ॥
जघान तांश्त्रिदिवभिदोऽरिपौरुषं स हारवानकलयतोऽवधानतः।
जिगाय च स्तनितमथाम्बुवाहिनां सहारवानकलयतोऽवधानतः ॥ 46.17 ॥
श्रियमाप स चन्द्रशालिकान्तां चिरमासेवितभस्मपाण्डुरां सः।
स्फुटसौधतलस्थितां तदानीं दधदायोधनवर्तिवीक्षितश्रीः ॥ 46.18 ॥
निजघान नासुरवरूथिनीं जवान्न बतायमानकि रणं समाश्रिताम्।
श्रियमस्य शूलमतनोच्च संदधन्नवतायमानकिरणं समाश्रिताम् ॥ 46.19 ॥
शेषः किमेष न किनस्य फणासहस्र-
मालोक्यते हिमगिरिर्ननु निश्चलः किम्।
इत्याहवाभिमुखमिन्दुकलावतंस-
मायान्तमीक्ष्य समशेरत दैत्ययोधाः ॥ 46.20 ॥
रणमूर्ध्निं विनचित्रशस्त्रजालैर्व्यधमन्दानवसादिनोऽभियातान्।
प्रमथा रभसेन युध्यमाना व्यधमन्दानवसादिनो भिया तान् ॥ 46.21 ॥
घटितपरिकरोऽथ नालिकाभिः प्रकटितविस्तृतकालखण्डनाभिः।
दिवस इव निपत्य गृध्रचक्रैर्युधि पिदधे मृतविग्रहः स तेषाम् ॥ 46.22 ॥
स प्रांशुरोजस्यसुरान्स्म हन्तुं न हस्तिरोधी यतते नवेऽगात्।
सेनारजोभिः समरे च तस्मिन्नहस्तिरोधीयत तेन वेगात् ॥ 46.23 ॥
सुरारिबाणैरथ हन्यमानस्तदा चकम्पे न मृगाङ्कमौलिः।
भुजंगभीमैः क्षुभिताम्बुराशेस्तरङ्गभङ्गैरिव तीरशैलः ॥ 46.24 ॥
स सुरयुवतिभिर्मृधे विवल्गन्नवशवलन्नयनाभिरभ्रमाभिः।
विदधदसकृदैक्ष्यत स्वकान्त्या नवशबलं नयनाभिरभ्रमाभिः ॥ 46.25 ॥
वक्षः शिलाघनमथेषुभिरुल्लिलेख
तस्यान्धकोऽधिरणसिन्धु विवर्तमानः।
श्रृङ्गाग्रकोटिभिरधोक्षजबाहुयन्त्र-
मन्दीरचक्रमिव मन्दरभूधरेन्द्रः ॥ 46.26 ॥
अभाजि सक्रेङ्कितमस्य कार्मुकं नमत्सरेणावहितस्य सादिनः।
रणे पृषत्कान्किरतोऽथ शंभुना न मत्सरेणावहितस्य सादिनः ॥ 46.27 ॥
तं जघान रिपुमत्तकाशिनीवक्त्रपङ्कजवनक्षपाकृता।
अर्धचन्द्रविशिखेन दानवो मणअडलीकृतधनुश्च्युतेन सः ॥ 46.28 ॥
कीर्तिष्ववस्थइतमना भयदो भुवाथ
सद्योगजासु रवधूनितया समांसः।
कीर्तिश्रिया समुदितः समरे चचार
सद्योऽगजासुरवधूनितयासमां सः ॥ 46.29 ॥
प्रह्लादादिभिरथ सैन्यभङ्गमाजौ पश्यद्भिस्त्वरितमुपेत्य दैत्यनाथैः।
जघ्ने सं त्रिशिखकृपाणबाणवृष्ट्या कालभ्रैरिव शिखरी सघोरगर्जैः ॥ 46.30 ॥
रमभुवमजितोऽवतीर्य धाम्ना समरवि मर्दनतां ततां तदापत्।
त्रिदशगिरिरपि स्मरारिसेनासमरविमर्दनतान्ततां तदापत् ॥ 46.31 ॥
प्रसृतवह्निशिखासरलाङ्गुलिं स यमहस्तमिवाथ शिलीमुखम्।
युधि ससर्ज रुषा सुरविद्विषे स वपुरस्य निनाय कबन्धताम् ॥ 46.32 ॥
स गुणै रणेष्वपि यशःपटं ततोऽमृदुवायसेषु समदो रसं गतः।
रुचिमान्धनुर्मुखरयन्द्विषच्चमूमृदुवाय सेषु समदोरसङ्गतः ॥ 46.33 ॥
एकत्र त्रिदसगणैरभिद्रुतानामन्यत्र प्रमथबलैश्च दानवानाम्।
कीर्त्यैवाहवभुवमुज्झतामशेषां पर्याप्ता दश ककुभोऽपि नो बभूवुः ॥ 46.34 ॥
नाकद्विषामथ गणं युधि चकृवांस-
मायामभाजमहितान्तकरंहसं तम्।
तुष्टाव साम्बरसदां मुदितावरुग्ण-
माया सभाजमहितान्तकरं हसन्तम् ॥ 46.35 ॥
दैत्यानिकेष्वायससंनाहनिपातादाकर्ण्योच्चैस्तारखणत्कारमसीनाम्।
सस्मारौघो नाकसदां पर्वतपालीपक्षच्छेदक्रूरविरूक्षघ्वनितानाम् ॥ 46.36 ॥
स मानयामास दृशासमानया समानया संयति भासमानया।
समानयोद्रेः सुतयासमानया समानयोतोऽविरहं समानया ॥ 46.37 ॥
दितिजसमितिनायकेन तस्मिन्नथ रणवासगृहे विलुप्तमाना।
कुसुमशररिपोः प्रियेव भेजेनवनखराजिविदारितोरुदण्डा ॥ 46.38 ॥
स मानसीमात्तसमानसीमा निन्धोर्विधायारिजनस्य पीडाम्।
हसन्निवेशं सहसन्निवेशं स्फुरत्कपोलामलकान्तिरस्थात् ॥ 46.39 ॥
निरास तं बाणगणैर्गणाधिपस्ततोऽस्त तेनाप्रतिमेन कर्मणा।
जगाम वैलक्ष्यगृहीततन्मुखत्विषेव सार्धं परिपाण्डुतां यशः ॥ 46.40 ॥
अकृत युधि विनायको विद्विषां न च कमतनुतापदावं चितम्।
मृतममरवधूः श्रिता विभ्रमानचकमत नुतापदा वञ्चितम् ॥ 46.41 ॥
भोगीन्द्रभोगायतबद्धशोभप्रवेष्टनाभिः स रणाजिरोर्व्याम् ।
व्यराजत क्षीरसमुद्रमन्थसरम्भसज्जीकृतमन्दरश्रीः ॥ 46.42 ॥
मुखश्रियं बिभ्रदसौ विनिर्जितस्वरुं तु दन्तेन समाननागताम्।
जघान मेघान्व्यतिपेतिवान्रणे स्वरुंतुदं तेन समानना गताम् ॥ 46.43 ॥
स्तम्बेरमा विनिहिताञ्चितचीनपिष्ट-
विस्पष्टपाटलिमसंभृतकुम्भशोभाः।
संभाविताः प्रधनमूर्ध्नि दधुर्मदाम्भः-
संभारिणो गणपतदेः परिवारलीलाम् ॥ 46.44 ॥
कथमपि सानकपटहा रणभूमीः प्राप्य वर्चसा न कपटहा।
स्थगिताशोऽभनगण्डं द्रुहिणस्य दधन्मुखं स शोभनगण्डम् ॥ 46.45 ॥
व्यचरत्तरसाथ षण्मुखो युधि खक्त्योभयरूपया श्रितः।
असमार्चिरिवारहुतीर्वहन्स्फुटसंपन्नवषट्पदाः स्रजः ॥ 46.46 ॥
सुरयुवतिजनस्य तत्र नानासुरभिदि विपब्रमदक्षतामलासीत्।
श्रियमतनुयशश्च तस्य शुभ्रं सुरभि दिवि भ्रमदक्षतामलासीत् ॥ 46.47 ॥
संवर्तमेघमलिना दधतोऽथ तैक्ष्ण्य-
मक्षुण्णापटावजुषः प्रतिपक्षभेदे।
तस्योदघानिषत दैत्यभटाः कृपाण-
कट्टाश्च गाढपरिवारगणाः स्वसैन्यैः ॥ 46.48 ॥
रणाङ्गनोर्वीं दधदाहितोन्मदद्विपक्षयो धाम स कृत्तदानवैः।
चकार बाणैर्बहुलासुतः स्खलद्विपक्षयोधामसकृत्तदा नवैः ॥ 46.49 ॥
निःशेषां सकनककम्बुनेत्रशोभः सङ्ग्रामावनिकलशीं विलोड्य शत्रोः।
रीढाभिः प्रकटितसार एक उच्चैर्वैशाखः सपदि बभूव बाहुदण्डः ॥ 46.50 ॥
दैत्यानहिमहिम हिमतरोऽद्वा रोद्धा दलयति यतिभयत्दृद्यः।
त्दृद्यः स जगति गतित्दृदसंख्ये संख्ये कृतरतिरतिगुरुरासीत् ॥ 46.51 ॥
महाजिगोष्ठीप्रतिबद्धसौष्ठवैर्विदग्धलोकैरिव कर्णशालिभिः।
तदाहवे सत्कविकाव्यपायिभिर्दधे मुखश्रीः पृतनातुरङ्गमैः ॥ 46.52 ॥
स सेनया जगन्मनोमृदुर्वशीकया जित।
अविस्खलंस्तदा रुषामृदुर्वशी कयाजितः ॥ 46.53 ॥
गुरुमुष्टिघातपरिपीडितं जवाद्विनिपात्य वृत्रमथ कुञ्जराननः।
परशुप्रहारविकटव्रणोरसं स सहस्रमायमकरोत्पराङ्भुखम् ॥ 46.54 ॥
केदारयन्तं समदान्तमालमरातिलोकं शरलाङ्गलानाम्।
के दारयन्तं समदं तमालनीलं हरिं जेतुमलं बभूवुः ॥ 46.55 ॥
सविसरासुरसारवसासवे सुरवरो विवरासुरसास्रवः।
स वरवीरवसावुरुवैरिसूरवसरे विरसं विररास सः ॥ 46.56 ॥ (त्र्यक्षकरः)
मणिशतकरभासुराङ्गनानां दितिजचमूघटमानसंसदं सः।
अकृत च समरं सुराङ्गनानामतनु दधच्छुचिमानसं सदंसः ॥ 46.57 ॥
जेता वेगांस्तीव्रबा वायवीयान्वृत्रारातेर्बद्धभावा यवीयान्।
श्रुत्वात्दृष्यत्तत्र चाणूरपीडाः प्राक्कर्तासौ दृप्तचाणूरपीडाः ॥ 46.58 ॥
बात्याकाशश्यामले यस्य देहे वासश्छाया सन्नवा पीतरङ्गा।
पर्यष्कारि द्वारिका येन पूर्वं नानाहर्म्यासन्नवापीतरङ्गा ॥ 46.59 ॥
रणे नता येन रिपोर्वरूथिनी सहासमासन्नवधेऽनुकम्पिता।
शशंस यः सीरिणमाहवक्रियासहासमासन्नवधेनुकं पिता ॥ 46.60 ॥
संप्रत्यरातिपृतनाः सहसा विजित्य
ता रक्ष वीर समरे चकिताः समायाः।
इत्यर्थिवाग्भिरजहात्स तु तास्ततीर्न
तारक्षवीरसमरेचकिताः समायाः ॥ 46.61 ॥
वहति करतलेन बद्धरागं रणदलि तामरसं च यः सहासम्।
युधि मयतनयोऽनुना निजघ्ने रणदलितामरसंचयः सहासम् ॥ 46.62 ॥
नाकौकसां विदधतीः पृतनास्तदानीं
व्यापार्यमाणकरवाललता निकृत्ताः।
सेनाः शरैर्दनुभुवोऽनुगतो बलेन
व्यापार्यमाणकरवाललता निकृत्ताः ॥ 46.63 ॥
दिशि दिशि शमयद्भिर्दूरमन्वीयमानं
दिवसकरमरीणां चामरैर्वीज्यमानम्।
समिति रिपुगणोऽन्यैर्नातिसंरम्भवेगा-
दिव सकरमरीणा चामरैर्वीज्यमानम् ॥ 46.64 ॥
स्थितवति तत्र गोप्तरि भटैस्त्रिदशाङ्गनाब्जिनी-
सवितरि तुङ्गतोदयमनेकपराजयोर्जिताः।
दितिजगणस्य भीतिमतिदुर्धरतां दधौ क्रियाः
स वितरितुं गतोऽदयमनेकपराजयोर्जिता ॥ 46.65 ॥
बिभ्रद्भुजौ मुररिपुः प्रतिपक्षभानु-
राहू तदा नवचमूरवधूयमानाः।
आशिश्वसत्सुमनसां पृतनाश्चमूभि-
राहूतदानवचमूरवधूयमानाः ॥ 46.66 ॥
त्रिदिववर्त्म घटितान्सहसीहितकम्पया
समदनागमतया तरसा रथिनो दधौ।
रणमयगहने वलिना रुरुचे श्रिया
मसदानागमतयातरसारथिनोदधौ ॥ 46.67 ॥
पुरोपवनपद्धतीर्वसतिरम्बरस्त्रीश्रिया-
मधूनितरसापपावनतमानसानुत्तमाः।
प्रविश्य च रतोत्सुका नवतमालवल्लीगृहं
मधूनि तरसा पपावनतमानसानुत्तमाः ॥ 46.68 ॥
स संयति पतत्त्रिणां निजरुचारिकान्तीर्जय-
न्नमन्दरसमांसदोर्जितमदः समायोजयन्।
व्यथामगमदुद्धतो दितिजमण्डलं मृत्युना
नमन्दरसमांसदोर्जितमदः समायोजयन् ॥46.69॥
दिशि दिशि वीरभद्र उचितान्निवेश्य पृतनाभटान्विदलय-
न्प्रमथनवस्तुतोऽत्र समतासखेदमकरोदरातिगजवान्।
विगलितसंप्रहाररभसं दधानममरारिसैन्यमतनु
प्रमथनवस्तुतोत्रसमतासखेदमकरो दरातिगजवान् ॥ 46.70 ॥
सश्रीमानमृदुर्निसर्गगहने दर्पान्निकृत्तद्विषो
वंश्यश्चारुयशस्तदा दधदधः सद्यो हृतश्रीरिपोः।
दत्तार्घो नयमार्गगोचरगुणः पुष्टीभवन्मारणे
सेवानम्रससत्कराञ्जलिपुटैर्वीतारिशङ्कं सुरैः ॥ 46.71 ॥
इत्थं दुर्घरदर्पदोर्द्रमतया मृद्गंश्चमूरातता
भाश्वान्सानुमति क्षपा इव तदा सूदारशोभानुगः।
टांकारैर्व्यथितारिसंहति धनुर्वित्या(र्व्राता) त्कतकीर्ती रणे
यत्नासञ्जितशिञ्जिनीसकरटः कामं तमव्यंसयत् ॥ 46.72 ॥ (युगलकम्)
`श्रीदुर्गदत्तवंश्यः सहृदयगोष्ठीरसेन ललिताङ्कम्।
इदममृतभानुसूनुर्व्यधत्त रत्नाकरः काव्यम् ॥’ (इत्येतदुत्थार्या)
सन्रणे विदलिताः करिणां यशांसि
मन्दा रदा महति भीरुचितेऽनपेते।
रागाम्बुधौ मुदितदेववधूकृताभि-
र्मन्दारदामहतिभी रुचितेन पेते ॥ 46.73 ॥
रणभुवमधुना झयाशंसयां दोर्द्रुमालम्बनो दारयन्विद्विषोऽत्यूर्जिता
ननु विकशलिकापदोसन्नया संगरक्षोभया नुत्तमोहेति भीरूढया।
ननु विकशलिकापदोशन्नयासंगरक्षोभया नुत्तमोहेतिभीरूढया
किमिव बत भियेतिबेरीरवैरभ्यधायीव कोणाहतिप्रस्तुतैर्युद्भुवा ॥ 46.74 ॥ (चण्डवृष्टिप्रपातदण्डकेन गर्भयमकम्)
इत्थं वीराहतसुरचमूर्दत्तहस्तावलम्ब-
स्वर्गारोहिप्रमुदितभटास्तस्य नाकारिसैन्यैः।
श्च्योतद्दानासवसरभसापानलोलालिमाला-
सान्द्रच्छायासितमुखपटोद्दामदिक्कुञ्जरश्रीः ॥ 46.75 ॥
नानाधुत्यागपक्षे सभरसरभसक्षेपगत्या धुनाना।
नादासक्तारणत्राविरलबलवित्राणरक्ता सदाना।
नाधावत्सादिपक्षेतरसरसरतक्षेपदित्सावधाना
नाहासक्तारिरुग्भीमुदसरसदमुग्भीरुरिक्ता सहाना ॥ 46.76 ॥
(स्रग्धरयानुलोमप्रतिलोमाभ्यां चक्रचतुष्टयम्)
तावच्च शंभुभृकुटी निभृतैकमुख्या
सङ्ग्रामकाननकरालतमालवल्ल्या।
चामुण्डया विकटविक्रमसिन्धुवीच्या
प्रास्तावि दैत्यदलने युधि कोऽपि कोपः ॥ 46.77 ॥
विगलितदानवसार्थं भयशुष्ककरीन्द्रकरटदानवसार्थम्।
चक्रेऽन्धितान्धकबलं तया समीकं यमस्य बाहुकवलम् ॥ 46.78 ॥
चण्डीदोर्दण्डचण्डप्रसरसरभसोत्तम्भितास्त्रप्रबन्ध-
व्यापारापारसीदद्दितिदनुतनुजानीकसंकीर्णमध्या।
जज्ञे सा तत्क्षणेन क्षतजनदनदीमग्नसूद्विग्नलग्न-
प्रांशुस्तम्बेरमाश्वा समरवसुमती क्रीडनं कालरात्र्याः ॥ 46.79 ॥
सारावि,्टाभिसारा जनितततनिजक्रोधदीप्रावसारा
सारावप्रासिशूराहरहरणरहः स्वर्गकन्या विशालाः।
शालाविन्यायकश्रीरनमममनरव्रातयुक्ता समासा
सामासक्ता यदासीदमतशतपदच्छेदवृष्टाविरासा ॥ 46.80 ॥ (षोडशदलपद्मबन्धः)
रत्नाद्रौ चण्कडिकाया विकटकरिकटाट्टालकुट्टाककोटि-
त्रुट्यट्टांकारिटङ्कक्रकचकरकरारावगुर्वी रणोर्वी।
प्रेङ्खत्खड्गाग्रकृत्तप्रकटभटशिरः पीवरस्कन्धचक्र-
क्रीडान्यञ्चत्कबनदक्रमविधुरधराधारिबन्दा तदाभूत् ॥ 46.81 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये चण्डिकासमरक्षेपो नाम षट्चत्वारिंशः सर्गः।