.
हरविजयम्।
पञ्चचत्वारिंशः सर्गः।
अवलोक्य दानवचमूपतीनथो विमुखान्रणआद्गिरिशमार्गणार्दितान्।
स्मितदीधितिस्फुरितगण्डमण्डलो निजगाद दैत्यपतिरित्थमूर्जितम् ॥ 45.1 ॥
तस्योत्सिसाहयिषतो द्विषतां वधाय
संरम्भिणो दितिसुतान्समरान्पराचः।
वक्त्रादनभ्यवहृतोऽपि विनिर्जगाम
सान्द्रः सुधौघ इव दन्तमरीचिराशिः ॥ 45.2 ॥
हे दैत्याः कथमभिमानशालिनोऽपि व्यारुग्णाहवरसमाशु विद्रवन्तः।
नेक्षध्वे पृथुनिजवंशवैजयन्तीमाक्षिप्तां धवलरुचिं परेण कीर्तिम् ॥ 45.3 ॥
सेना विलोकयति जिह्मसौ सहास-
मायोधनात्सपदि वः प्रपलायमानान्।
शुलायुधेन कृतसंनिधिरप्यभीक्ष्ण-
मारादखण्डपरशूरचिताञ्चितश्रीः ॥ 45.4 ॥
अनल्पपक्षप्रसरं पतद्भिर्विपक्षनाराचपतङ्गचक्रैः।
समिद्धतां संदधती कथं वो निर्वापिता दीपशिखेन शक्तिः ॥ 45.5 ॥
कल्माषितांसशिखरैर्भुजमण्डलीषु
रत्नाङ्गदैः किमिव शंसत भारभूतैः।
एता भवन्तु रणनिर्वरवैरिवर्ग-
दोर्दण्डदर्पदलनोज्ज्वलमण्डना वः ॥ 45.6 ॥
कालरात्रिभुजसंहतीरिमाः प्रेतनाथपुरपद्धतीर्गदाः।
बिभ्रतोऽपि भयकातरेक्षणं न ह्रियं व्रजत किं पराङ्भुखाः ॥ 45.7 ॥
लेघीयसापि द्विषतो भयेन हतत्रपं विद्रवतामिदानीम्।
न मुद्गरा भान्ति कृतान्तहर्म्यस्तम्भा अमी पाणितलस्तिता वः ॥ 45.8 ॥
नोत्पादयेत्कथमुपेक्षितदुर्विपक्ष-
हेलानिकारकलुषा विरसत्वमित्थम्।
उद्धूयमानधवलाञ्चितचामरौघा
तद्दुःखसंभृतजराधलेव लक्ष्मीः ॥ 45.9 ॥
हेलानिपातहतसंहतहस्तिहस्त-
हेतिः सहेत सहसानिलवेल्ल्यमानाः।
सिंहः सटा अपि कथं गुरुरोषगाढ-
गम्भीरगर्जितनिनादितशैलकुञ्जः ॥ 45.10 ॥
अरातिशस्त्रव्रणरोहकर्मणे वधूजनस्यार्पयतां चिराय वः।
सरुञ्जि पृष्ठानि भविष्यति स्फुटं विरूढलज्जाभरमन्थरं मनः ॥ 45.11 ॥
हेतिव्रणाभरहमशून्यविशङ्गटांस-
कूटाः कथं नु भवतां बत बाहुदण्डाः।
गण्डोपधानपदवीं दयिताजनस्य
नीता भवेयुरधुना बहुमानपात्रम् ॥ 45.12 ॥
प्रायेण कार्यकरणं प्रतिविस्फुरन्ति
तेजस्विनो न बहुसाधनसव्यपेयक्षाः।
लोकान्विनिर्दहति सप्तभिरेवसप्त
संहारकालमुदितो दहनः शिखाभिः ॥ 45.13 ॥
क्षतौजसामपि रिपुणालघीयसा पलायनोन्मुखमनसामितोऽधुना।
करश्रया निजकिरणच्छलेन वः समुद्वमन्त्ययश इवासियष्टयः ॥ 45.14 ॥
क्लिष्टं मलेन न कदाचिदहेमबद्ध-
माबन्ध्यताविरहितं स्पृहणीयरूपम्।
निर्व्याजमाहुरिह भूषणमार्यवृत्ताः
शौर्यप्रतापजनितं यश एव पुंसः ॥ 45.15 ॥
तावद्व्रजन्ति गुरुतां यशसैव याव-
दध्यासिता हिमविपाण्डुरुचा महान्तः।
लूने विकासिकुसुमे च शिखाग्रभागा-
त्कस्यादरो भवति शंसत तस्य वृन्ते ॥ 45.16 ॥
श्च्योतत्प्रफुल्लनवचूतसुगन्धिदान-
गण्डालिमण्डलसडिण्डिमडम्बरेभ्यः।
स्तम्बेरमेभ्य इव केसरिणां न भीतिः
संभाव्यतेऽत्रभवतां भवतां रिपुभ्यः ॥ 45.17 ॥
हेलानिरस्तपवना गुरुसंप्रहार-
जृम्भा महासुरभटाः पटुतां व्रजन्ती।
नूनं समीकभुवि शीतलतां करोति
फूत्केव वक्त्रविसृतोष्मजुषां द्विषां वः ॥ 45.18 ॥
न प्राप्नुवन्ति हि पराङ्भुखतामुदार-
सत्त्वा रिपो रणमुखेष्वपि हन्यमानाः।
दह्यन्त एव जलधेर्वडवानलेन
तस्य व्रजनत्यभिमुखं च तरङ्गभङ्गाः ॥ 45.19 ॥
प्रत्यक्षमेव भवतामविरुग्णमौर्वी-
शाखाकृतास्पदविचित्रपतत्त्रिचक्राः।
कोदण्डतालतरवोऽप्यधुना दिशन्ति
यच्छ्रीफलं रिपुजनस्य महाद्भुतं तत् ॥ 45.20 ॥
निशितमायुधमञ्जलिसंपुचः पुलक एव भिया च तनुच्छदः।
ननु भवज्जयसाधनमाहवे प्रगतिरेव शिरस्त्रमिह द्विषाम् ॥ 45.21 ॥
कण्ठे भिया विनिहितः करवाल एव
कण्ठत्रतामुपगतः शतशः सुराणाम्।
आलोक्यतां भटजनेन सहस्तताल-
हासस्फुरद्दशनदीधितिमण्डलेन ॥ 45.22 ॥
पृथ्वी वराहवपुषा खगकेतनेन
योत्तम्भिता फणिनिकेतनतऋः कथंचित्।
सा तर्जनीतुलितविस्तृतसंनिवेशा
शक्यं विदातुमतिवेलबलैर्भवद्भिः ॥ 45.23 ॥
विश्लिष्टदीर्घभुजगाधिपभोगबन्ध-
दिङ्भण्डलाभिमुखधावदानार्गलाश्वाम्।
शक्ताः स्थ कर्तुमवरुग्णखलीनपाश-
भीतारुणां तरणिकूवरिणोऽपि संस्थाम् ॥ 45.24 ॥
वक्षःस्थलीविगलितैर्घनघर्मवारि-
लेशैः समीकजनितैर्नभसि स्थितानाम्।
शक्यं क्षणान्मकरमन्दिरघस्मरोऽपि
ज्वालाकुलः शमयितुं वडवानलो वः ॥ 45.25 ॥
तेजस्विनोऽतिमहतः क्वचनापि नूनं
तीक्ष्णे मृदौ चन न विहन्यत एव शक्तिः।
उत्थाय नागनगराद्वडवाग्निनैव
सार्धं विनिर्दहति सिन्धुपतिं क्षयाग्निः ॥ 45.26 ॥
ज्वालाकलापकवलीकृतकूर्मकेतु-
मौर्वं किल ज्वलनमुरुजमाहुरार्याः।
दग्धारिकाननममुं तु रणौघशूर-
कोपानलप्रभवमेव विसालसत्त्वाः ॥ 45.27 ॥
संख्यानशून्यमधिसंख्यमखण्डवृत्ति
धैर्यं परामृशति यो भवतामिदानीम्।
आकाशमुत्खनति नूनमसावखिन्न-
चेता नखाटनिखनित्रमुखेन सद्यः ॥ 45.28 ॥
दीप्तार्धचन्द्रकरिकर्णपरश्वधाग्र-
पातद्विधाकृतमतङ्गजदन्तदण्डे।
्व्याहतत्रिविधपातकृतात्मयोध-
सिंहानुकर्षविनिपातिततोमरौघे ॥ 45.29 ॥
चेतोहराञ्चितविविक्तधनुर्विकल्प-
शिक्षाविशेषशुचिसौष्ठवधन्विचक्रे।
नानाप्रकारफलपुष्पपलाशकल्प-
संकल्पितप्रचुरसुन्दरभिन्दिपाले ॥ 45.30 ॥
सुस्लिष्टमुष्टिविनिवेशसुखग्रहाश्रि-
संपन्नबर्हिणपतत्त्रिणि दिग्धशङ्कौ।
आकर्षसौष्ठवसुनिष्ठुरवीतनिष्ठ-
टांकारचण्डगुणनर्तितचापचक्रे ॥ 45.31 ॥
दुःखं न किंचिदपरं पुरुषत्वहाने-
र्युद्धे मुधा समुदयोऽत्र चमूचराणाम्।
मार्गोऽयमेव भवतां ननु शान्तिहेतु-
र्योऽरेर्जयश्रिय इव क्रियतेऽवरोधः ॥ 45.32 ॥ (चक्कलकम्)
तेजस्विनो न खलु काचिदपीह शक्ति-
राप्नोति कार्यकरणे क्वचनोपघातम्।
एकापि सास्ति न शिखा वडवानलस्य
या निर्दहत्यनिशमेव न सिन्धुतोयम् ॥ 45.33 ॥
प्राप्तामधिप्रधनमञ्चितदोहदत्वं
सेना विधाय सुरभर्तुरनुत्तमाङ्गाम्।
प्राजंय यशः पिबतु वो भटचत्कवाल-
मव्याहतं पय इवेन्दुमरीचिगौरम् ॥ 45.34 ॥
एते त एव निजकुङ्कुमपङ्कपिङ्ग-
सङ्ग्रामरागविलसत्पुलकाः स्तिता वः।
अद्यापि कम्पितपितामहपुण्डरीक-
संसक्तकेसरशिखा इव बाहुदण्डाः ॥ 45.35 ॥
सङ्ग्रामकाननतमाललतावलीषु
सेनाकलिन्दतययाजलवेणिकासु।
संवर्तकालरजनीषु भयानकासु
निस्त्रिंशयष्टिषु कथं भवतामनास्था ॥ 45.36 ॥
अभ्यागमान्मरणसंभ्रमतः किलाशु
यूयं पलायनपरायणतामुपेताः।
तच्चोष्मणा विरहिताः प्रतिपन्नमेव
युष्माभिरित्यपुनरुक्तमिदं कुरुध्वम् ॥ 45.37 ॥
सङ्ग्रामादरिभयविप्लताः पराञ्चो निर्ह्रीका ननु वि,मीकुरुध्वमेतामअ।
विस्तीर्णां किमिति मुधा कृतान्तलीलावाह्यालीमसुरभटा ललाटभित्तिम् ॥ 45.38 ॥
शौरेः पदातय इमे रणमर्धि वल्गु-
व्यावल्गितैः किमिति वो न रुजन्ति चेतः।
तीक्ष्णाग्रतुण्डविहगाधिपकङ्कवक्त्र-
लीलोद्भृतासुरपराभवशत्लकल्पाः ॥ 45.39 ॥
लीलागृहीतकुटिलेन्दुकला कुशाग्र-
संरुद्धकुम्भतटदिग्गजवाहिकाभिः।
आकम्पितत्रिभुवना तरसा विहार-
हेला सुरैः सभयविस्मयमीक्षिता वः ॥ 45.40 ॥
हेलाविनिर्धुतरजःसुमनःप्रतान-
पर्याकुलाकुलशिलीमुखचक्रवाले।
सङ्ग्रामकाननतलेऽत्र भवद्भिरेव
भग्ना गदाशु हरिचन्दनशाखिवल्ली ॥ 45.41 ॥
उल्लासि दूरतरमस्खलितत्वमाप्त-
मुल्लङ्घिताखिलजगत्प्रतिबन्धशून्यम्।
श्लाघ्यं दुरावतरया भुजशालिनां हि
पूर्वं यशस्तदनु विस्फुरतीह तेजः ॥ 45.42 ॥
अवरुग्णकम्बुमणिहारमेखलं नखकोटिपाटितकपोलमण्डलम्।
पतिनाशदुःखमचिराद्विजृम्भतां सुरतायमानमसुरारियोषिताम् ॥ 45.43 ॥
अवश्यमायोधनमूर्ध्नि धूर्जटेर्मया जितस्य प्रमथप्रमाथिना।
ध्वजाग्रसंवेल्लितकृष्णचामरा विमुक्तकेशीव पुरी विभाव्यते ॥ 45.44 ॥
पश्यत्यमन्दकरघातविमूढरक्त-
श्यामच्छवि स्तनयुगं मयि बद्धकोपे।
शत्रुस्त्रियाः परिजनो न चिरात्पिनद्ध-
व्यालीनकञ्चुकमिवाहितदीनदृष्टिः ॥ 45.45 ॥
आनन्दशून्यहृदयत्वमुपेयुषीणा-
मीर्ष्यापरिग्रहविनाकृतमानसानाम्।
विष्यन्दतामनिशमार्तिजमेव बाष्प-
तोयं भटा भवदारातिनितम्बिनीनाम् ॥ 45.46 ॥
शोभाभङ्गादानकृद्वो महार्घो येयं श्लिष्टा श्यामिका शौर्यरत्ने।
सङ्ग्रामोर्वीविद्रवाख्या कृपाणप्रेङ्खद्धारावारिभिः क्षाल्यतां सा ॥ 45.47 ॥
यावन्न संयुगयुगान्तसहस्ररश्मि-
रेणोऽस्तमेति करवालकरैः करालः
तावद्भवद्भिरयशस्तिमिरैररुद्ध
उल्लङ्घ्यतां लघुतरं रणशौण्डमार्गः ॥ 45.48 ॥
विध्यन्त्यङ्गममूर्यथा स्मितरुचो मुक्ता रणप्रेक्षकै-
र्नैवं पत्त्रिपरम्परा कटुरणत्कोदण्डखण्डच्युताः।
संप्रस्तौत्ययशो यथा च नितरामन्धं तमश्चक्षुषो-
र्नौवं वाजिखुराग्रखण्डितरणक्षोणीसमुत्थं रजः ॥ 45.49 ॥
वार्ताभङ्गः प्रथयति यथा मूर्छनामिन्द्रियाणां
सान्द्रोऽप्येवं न खलु सुभटप्रेरितोऽस्त्रप्रहारः।
त्यक्ताः प्राणैर्भृशमशुचितां नैवमायान्ति काया
यद्वद्व्रीडां गुणमणिखनिं लङ्घयन्तो लघीयः ॥ 45.50 ॥
अद्याप्येतासु गन्धद्विरदकुलनगोद्दण्डगण्डोपलेभ्यो
निर्यान्तीषु प्रलीनभ्रमरशितिसरोजन्मखण्डास्वखण्डम्।
दानाम्भोनिम्नगासु प्रकटितविकटासक्तयो वः कृपाणाः
कुर्वन्तूद्वृत्तकृष्णोरगकुलवलनाडम्बराणां विडम्बम् ॥ 45.51 ॥
इत्युत्साहसमृद्धिसागरपयः पालीमृगाङ्कप्रभां
क्रूरामर्षकृशानुदीपनदसाकल्पान्तवातावलीम्।
श्रुत्वा दैत्यपतेः पराक्रमगुणोदाराग्र्यगुर्वीं गिरं
ते भूयोऽप्यसुराः सुराहवविपद्दीक्षासु दाक्ष्यं दधः ॥ 45.52 ॥
ग्लानिग्रस्तगजं जितोग्रतुरगं सीदत्पदातिव्रजं
मन्दस्यन्दनचारमस्रसरितां पूरैः परिप्लावितम्।
मायाकोविददैत्यमुष्टिनिपतस्खर्वासिसर्वायुधं
योधैर्दैत्यपतेरकारि करुणास्वादानिभिज्ञैर्मृधम् ॥ 45.53 ॥
क्रन्दत्संक्रन्दनानां प्रमथमथनकृन्मत्तदैत्याधिपानां
विद्राणैरावणानामशरणवरुणारब्धदिक्संग्रहाणाम्।
ग्लानिग्राहिग्रहाणां गहनरणधरानिश्चरत्खेचराणां
सैन्यं दैन्यात्सुराणामनिशमशरणं दैत्यचक्रेण चक्रे ॥ 45.54 ॥
पीलूनां खड्गलूनैर्बहु बहुमकरैः कीर्णमन्तःकरौघै-
र्वाहानां शश्त्रघातस्थपुटितवपुषां नक्रवद्व्याप्तमङ्गैः।
लब्धास्थैः स्थूलमत्स्यैरिव हतपरितैर्युद्धभाजां भुजौघै-
रस्रस्रोतखिनीनामजनि कुलमथाकुण्ठकं कण्ठदघ्नम् ॥ 45.55 ॥
उद्भूतेषु कबन्धकण्ठकुहराभोगाद्भरेणासृजा-
मुत्पीडेष्वथ पद्मरागमुसलस्थूलाकृतिस्पर्धिषु।
बिभ्राणा भ्रमिविभ्रमं भृतमहायूथा विहंगावली
लिलोल्लासितकालरात्रिपृथुलच्छत्त्राकृतिं प्राकरोत् ॥ 45.56 ॥
क्रव्याशिनिष्कुशितकुञ्जरकुक्षिकूप-
निर्मग्ननिर्यदतनूद्भवविद्धसिद्धम्।
दिग्दन्तिकुम्भतटदघ्नभटास्रकुल्या-
गर्भब्रुडद्विबुधमाहववर्त्म जज्ञे । 45.57 ॥
इत्थं निर्मथ्य दैत्याधिपधुतविबुदानीकिनीनैकपात-
प्राप्तप्रौढावसादानतसुरशिखरिक्लिष्टरत्नाङ्गश्रृङ्गे।
जाते दुर्जातजन्मज्वरविधुरगणग्रामकामे प्रकामं
सङ्ग्रामेऽत्युग्रमुग्रालिकभुवि भृकुटिः कूटबन्धं बबन्ध ॥ 45.58 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सुभटसंदीपनं नाम पञ्चचत्वारिंशः सर्गः।