.
हरविजयम्।
चतुश्चत्वारिंशः सर्गः।
तेषां क्रियाफलवतां रणमूर्ध्नि सिद्धि-
मावाञ्छतामथ निरर्गलचेष्टितानाम्।
उत्तस्थुरप्रतिमतत्प्रतिबन्धहेतु-
भूता विनायकगणा इव मत्तनागाः ॥ 44. 1 ॥
योधं निहन्तुमरिमुत्पतितं विषाण-
दण्डप्रतिष्ठचरणं करिणः सखड्गम्।
आनर्च सिद्धजनतोत्परलदामचक्रै-
र्दीर्घोत्कटैः सुरवधूश्च कटाक्षमोक्षैः ॥ 44.2 ॥
आदीपिता कुलिशकर्कशदन्तदण्ड-
संघट्टजेन शिखिनोत्पतता शराली।
लग्ना दृढं द्विरदकुम्भते रराज
दावाग्निसंहतिरिवाञ्जनशैलश्रृङ्गे ॥ 44.3 ॥
रेजे गजेन्द्रगुरुसंगरघट्यमान-
दन्ताग्रकोषकटकैः क्षतजोक्षितैः क्ष्मा।
अप्राप्तवीरकृतशोककृशामरस्त्री-
वेल्लद्भुजागलितकाञ्चनकम्बुशोभैः ॥ 44.4 ॥
वल्गात्प्रवीरविनिपातितखड्गयष्टि-
धारानिकृत्तकरनिर्गतरक्तवर्तिः।
धातुच्छटारुणितनिर्झरवारिपूर-
संचारलग्नगिरिविभ्रममाप नागः ॥ 44.5 ॥
ज्याकृष्टिमण्डलितकार्मुकमुक्तहेम-
नाराचराजिविकरालशिराः करीन्द्रः।
दध्रे तटान्तरिततिग्मकरोर्ध्वरश्मि-
रेखावकीर्णखिखरोदयशैललीलाम् ॥ 44.6 ॥
आघ्रातुमन्यकरिमण्डलदानगन्ध-
मूर्ध्वीकृतातनुकरार्गलदण्ड एकः।
शूरग्रहाय नभसोऽवतरीतुमिच्छो-
र्हस्तावलम्बनमदादिव दिव्यनार्याः ॥ 44.7 ॥
तस्तार वारणपतिर्वपुषाजिवर्त्म
विन्ध्यावनीध्र इव जङ्गमतामुपेतः।
आदीर्घपुष्करकरोन्नतवंशदण्ड-
रन्ध्रोत्थितप्रचुरशीकरनर्मदाम्भाः ॥ 44.8 ॥
वक्षोमणिस्तितिभृतः स्फुटबिन्दुकर्प-
पिञ्जूषसंधिसवलित्रयकण्ठभागाः।
सत्त्ल्पला बृहदवग्रहताम्रतालु-
हर्यल्पपेचकमधुच्छविदन्तवेष्टाः ॥ 44.9 ॥
आस्रस्तकुक्षिकलविङ्कदृशः सुगन्धि-
निःश्वासबिन्दुकणकीर्णकरार्गलाग्नाः।
सखस्तिकस्थितिविभक्तविदुप्रतिष्ठ-
कुम्भेत्तमाङ्गपृथुसान्द्रसमुद्गपादाः ॥ 44.10 ॥
सुस्निगधबिन्दुनिचितच्छवयो विभक्त-
निर्याणदीर्घकरपुष्करबालपुच्छाः।
शूरा वराहजघनाः परयुग्मरोम-
सान्द्रत्वचो नतनिरायतशूक्ष्मकेशाः ॥ 44.11 ॥
भग्नामरद्विरदमुत्पलसप्तपर्ण-
चूतातिमुक्तकसुगन्धि शरन्मधूत्थम्।
संवादितां नयदहर्गणमञ्जनेन
सेनामतङ्गजगणा मुमुचुर्मदाम्भः ॥ 44.12 ॥ (चक्कलकम्)
माणिक्यदीघितिसिखाकपिशप्रकाश-
मायोधने सुभटहस्ततलव्यपास्तम्।
चक्रं पपात परिणाहिनि नागकुम्भ-
भागोऽस्तशैलशिरसीव सितांशुबिम्बम् ॥ 44.13
मातङ्गकर्णपवनाहतकुम्भकूट-
सिन्दूरधूलिकपिलस्फुरदभ्रपङ्क्तिः।
व्यापार्यमाणकरवालनिकृत्तरक्त-
सिक्तश्लथत्वगिव दूरमदृश्यत द्यौः ॥ 44.14 ॥
अभ्येत्य मत्सरविपाटलदृष्टिवल्ग-
दुल्कालता युयुधिरे कृतमेरुकम्पम्।
दानाम्बुपातशमितोन्नतदन्तदण्ड-
संघट्टपावकशिखानिकराः करीन्द्राः ॥ 44.15 ॥
तारापथं गजपतिः पृथुकर्णताल-
निर्धूतकुम्भतटगैरिकधूलिदिग्धैः।
शारीचकार करशीकरबिन्धुवृन्दैः
संध्यारुणैर्नभ इवोडुगणैः प्रदोषः ॥ 44.16 ॥
नाराचभिन्नकटकूटविमुक्तरक्त-
लाक्षारुणश्रवणचामरभूषणोऽन्यः।
दध्रे दरीमुखविनिर्गतदाववह्नि-
ज्वालाकलापविकटाञ्जनशैलशोभाम् ॥ 44.17 ॥
चक्रुर्गजाः श्रवणतालसमीरधूत-
कुम्भस्थलस्खलितगैरिकरेणुदिग्धाः।
सिद्धाङ्गनाकरकुशेशयकीर्यमाण-
मन्दारकेसरपरागहता इवाशाः ॥ 44.18 ॥
सौदामिनीभिरिव खड्गलतावलीभि-
रम्भोधरैरिव गजैः स्फुटपङ्कनीलैः।
रेजे शिखण्डिबिरिवोच्छिखपिच्छभार-
शोभाधरैरिषुभिराजिघनर्तुवृत्तिः ॥ 44.19 ॥
विस्तारिदन्तपरिघोत्प्लुतवीरयोध-
भास्वत्करालकरवालविलूनमूलः।
स्तम्बेरमस्य रणमूर्धनि कालताल-
वृन्तश्रियं निपतितो विदधार कर्णः ॥ 44.20 ॥
हस्तेन शातशरकल्पितमुत्तमाङ्ग-
मस्रच्छटारुणशिरोरुहपल्लवाङ्कम्।
नाकप्रवेशगुरुमङ्गलरत्नकुम्भ-
मूर्ध्वीचकार मृतवीरजनस्य नागः ॥ 44.21 ॥
उल्लासिवीरकरमुक्तविलोलबर्हि-
शङ्कुद्रुमस्पुरितकाननचक्रवालम्।
अस्ताद्रिश्रृङ्गमिव निष्पतदर्धचन्द्र-
नक्षत्रमालमभवत्करिकुम्भपीठम् ॥ 44. 22 ॥
हस्तार्गलाभिरभितः परिपीवराभि-
रास्फालिता सकृदभूत्सुरकुञ्जराणाम्।
पातालरन्ध्रपतितेव विधूतधूलि-
जालान्धकारपिहिताखिलदिग्धरित्री ॥ 44.23 ॥
स्तम्बेरमो दशनकोषकरालरश्मि-
तन्त्रीगुणां शिथिलकुञ्चितपुष्कराग्राम्।
हस्तार्गलामभृत तूर्यनिनादहृष्ट-
नृत्यत्कबन्धसमराङ्गनरङ्गवीणाम् ॥ 44.24 ॥
आलक्ष्यमाणविवृतारुणतालुमूल-
मुत्तम्भिताङ्कुशनिरुद्धकरालकुम्मम्।
आघ्रासिषुः प्रतिमतङ्गजदानगन्ध-
मामीलितेक्षणयुगं पृतनागजौघाः ॥ 44.25 ॥
गण्डस्थलैःक श्रवणतालविधूतकुम्भ-
सिन्दूरधूलिपरिपाटलितं मदाम्भः।
मेघा इव क्षतजमक्षतपक्षदैत्य-
सेनाविनाशपिशुनं ववृषुर्गजेन्द्राः ॥ 44.26 ॥
सीमन्तितारिभटमण्डलमश्ववार-
मुक्तस्य संश्रितसुवर्णगिरेस्तदानीम्।
लक्ष्मीभृतः समरमूर्ध्नि हरेरहारि
चेतः क्षणादिव सुदर्शनधारयारात् ॥ 44.27॥
भूमेर्धिवश्च पृथुकुक्षिपुटात्तदानीं
निर्दारिता निशितपत्त्रशरैर्निपेतुः।
वल्गत्पदातिकरवालविलूयमानाः
स्थूलान्त्रतन्त्र्य इव काञ्चनकार्मुकज्याः ॥ 44.28 ॥
नानाशिरस्त्रविनिपातविरुग्णखड्ग-
धारारजः कलुषितोष्णकरप्रकाशम्।
व्यापारिता युधि भियेव गृहीतदिक्क-
मालक्ष्यताम्बरमपि प्रपलायमानम् ॥ 44.29 ॥
आतेनुषां शिशिरदीधितिधामपाण्डु-
माश्चर्यकर्मठतया प्रमदोद्धतानाम्।
सङ्ग्रामबूमिरसिपत्त्रवनावृतापि
नाकोपभोगसुखहेतुरभूद्भटानाम् ॥ 44.30 ॥
सेनामतङ्गजगणस्य कठोरकुम्भ-
भागास्पदासु रणमङ्गलमालिकासु
प्रेङ्खत्पत्त्रमरुतस्तरसा निपेतु-
रेके सिलीमुखगणा अपरे व्युदस्थुः ॥ 44.31 ॥
छिन्नाः कथंचिदधिबूमिगतप्रतिष्ठाः
प्रेङ्खन्मयूखनिकुरम्बकृतप्रकाशाः।
आसन्समीकनिकषोपलपट्टहेम-
लेखाः सुरौघगजताकलधौतकक्ष्याः ॥ 44.32 ॥
तीक्ष्णार्धचन्द्रशरदीरितमाहवाग्र-
लक्ष्मीपयोधरयुगं करिकुम्भयुग्मम्।
उत्तुङ्गपीवरमलिप्ततरामभीक-
क्लृप्तेन शोणरुचिशोणितकुङ्कुमेन ॥ 44.33 ॥
क्लृप्ता (कृत्ता) वचूलमणिदण्डशिखावलग्नः
केतोः पटो विगलित स्म समीकलक्ष्म्याः।
अह्नाय पट्टक इवेन्दुमरीचिपाण्डु-
रुत्तुङ्गपीनकरिकुम्भकुचास्पदश्रीः ॥ 44.34 ॥
सन्मत्तवारणविटङ्ककरालशोभ-
सङ्ग्रामहर्म्यशिखिनो दधति स्म लक्ष्मीम्।
शङ्कुव्रजाः खचितचन्द्रकचक्रवाल-
कल्माषिताम्बुदपथाः सुभटैर्विमुक्ताः ॥ 44.35 ॥
माद्यन्मतङ्गजसरोषविमृद्यमान-
योधोच्छ्वसत्क्षतजकुह्कुमपङ्कचर्चाः।
व्यातेनुरर्चिचयिषन्त्य इवादरेण
चक्रेषु कूबरिगणस्य रणाङ्कनोर्व्यः ॥ 44.36 ॥
वीक्ष्याग्रतो निपतितं युधि नागराज-
मुत्तम्भितं समरमूर्ध्रि रदार्गलाभ्याम्।
आलोलपुल्करपुटाञ्जलिना सशोकः
संभावयन्निव गजः सुभटैर्व्यलोकि ॥ 44.37 ॥
आपाण्डुरश्रवणचामरराजहंस-
सङ्ग्रामसिन्धुपुलिनद्विरदाधिरूढः।
वैकुण्ठमप्यतिशयालुरनेकचक्र-
कृत्तारिमण्डलशिराः श्रियमाप योधः ॥ 44.38 ॥
प्रेङ्कत्करालकरपुष्करबिन्दुजाल-
पर्युच्छ्वसद्दशनमण्डलचारुशोभाः।
व्यापारिता युधि भटैर्द्विषतां वधाय
खड्गा मतङ्गजगणाश्च समं विरेजुः ॥ 44.39 ॥
मातङ्गकुम्भयुगलं समवर्तिपाद-
पीटद्वयाकृति निशातकृपाणबाहुः।
उत्प्लुत्य कश्चिदहितस्य गुरुप्रहार-
मूर्छाकुलस्य सुभटोऽच्छिनदुत्तमाङ्गम् ॥ 44.40 ॥
मन्युं व्यनेषत न संयति नापि दर्पा
दच्योषताजिहत नाजिहतेश्च भीतिम्।
शौर्यात्तथात्रपिषत स्फुरतासिनापि
नाकद्विषोऽपणिषतासुभिरेव संख्ये ॥ 44.41 ॥
अन्योन्यमाजुहुवुषां विषमेषु धैर्य-
बन्धाद्विश्रृङ्गलमचस्खलुषां च तेषाम्।
प्रावर्ततातिरभसेन तिरोहितार्क-
तारापथः शशपथो रणसंप्रहारः ॥ 44.42 ॥
योधाः परस्परमपारपरम्पराक-
पर्याकुलाः शरपरम्परया तदानीम्।
कम्पानुकम्प्यभयकातरसंपराय-
पारायणप्रणयिनस्त्वरया परीयुः ॥ 44.43 ॥
उत्पुप्लवे सपदि मण्डलमम्यधाव-
दस्थाद्विचित्ररचनैः करणप्रपञ्चैः।
शङ्ग्रामरङ्गभुवि योधजनो गृहीत-
चर्मासियष्टिरिति नृत्तमिव व्यतानीत् ॥ 44.44 ॥
संस्कारहानिरहिता दधतो विशुद्धि-
मासादितश्रुतिपथाः स्पुटसंधियोगाः।
शब्दा इवातनुफला घटितप्रबन्धा-
स्चक्रुर्महोदयजुषो विशिखाः प्रयोक्तॄन् ॥ 44.45 ॥
वल्गत्सु वाजिषु चलत्सु रथेष्वमन्दं
दावत्सु कुञ्जरकुलेषु सुरापगासीत्।
निर्धूतनिर्दलितमेरुनितम्बधूलि-
सान्द्रीभवत्कनकवालुककूलकच्छा ॥ 44.46 ॥
सेनातुरङ्गखुरकोटिविपाट्यमान-
हेमाचलासितशिलोद्धतधूलिदिग्धाः।
आसञ्जगत्प्रलयकालनिशावतार-
घोरान्धकारकलुषा इव दिग्विपभागाः ॥ 44.47 ॥
सावर्ण्यनिह्नुततया दलितेन्द्रनील-
धूलिच्छटापिहितदिग्विदिशि त्रिलोक्याम्।
आसन्प्रवीरकरपङ्कजसंनिविष्टाः
खड्गाः करालमणिमण्डितमुष्टिमेयाः ॥ 44.48 ॥
सेनाविमर्ददलितक्षितिधूतधूलि-
जालान्धकारपिहिताखिलविग्रहाणाम्।
लीनं कटेषु मदसौरभल्लुप्यमान-
संदेहमोहघनैः करिणां द्विरेफैः ॥ 44.49 ॥
सेनाविमर्दविदलन्मणिचक्रवाल-
चूर्णोत्थितैः सितसितेतररक्तपीतैः।
शैलस्य धातुनिकरैरिव नाकमार्ग-
मासेदिवद्भिरुदसेचितरां रजोबिः ॥ 44.50 ॥
तस्मिन्रजस्तमसि तिग्ममरीचिबिम्ब-
माच्छाद्य तस्थुषि दिशः सकलाश्च सान्द्रे।
अन्योन्यमौहिषत हेषितघोरघोष-
बृंहारवानुमितवाजिगजा भटौघाः ॥ 44.51 ॥
आकाशसिन्धुमकरी नगनागदान-
पङ्कच्छटावनिवधूत्पलमङ्गलस्रक्।
दिक्कामिनीसरलसंगतचारुदीर्घ-
वेणीलता समरदुर्दिनमेघराजिः ॥ 44.52 ॥
पिङ्गप्रभाविकटहेतिहिरण्मयाद्रि-
स्कन्धाग्निधूमपटली वियदुत्पपात।
सेनातुरङ्गखुरवज्रशिखाभिघात-
पिष्टेन्द्रनीलमणिमण्डलधूलिलेखा ॥ 44. 53 ॥ (युगलकम्)
उत्तिष्ठति स्म दलितारुणरत्नरेणु-
राशिर्विचित्रमणिचूर्णकणावकीर्णः।
विन्ध्यावनीध्र इव वर्म्म रुरुत्सुरुष्ण-
रश्मेः पुनर्विविधदातुसतानुविद्धः ॥ 44.54 ॥
वल्गत्तुरङ्गखुरकोटिनिपातपिष्ट-
सत्पद्मरगमणिरेणुकरालितश्रीः ।
रेजे तरां तरुणविद्रुमरागदिग्ध-
दुग्धोदधिप्रतिमितः स्फटिकाश्मरेणुः ॥ 44.55 ॥
व्योमोदपप्तदुपतप्तमरीचिदीप्तिः
सावर्ण्यनिह्नुततयानुपलक्षितश्रीः।
संदर्शयञ्जलमयीमिव सृष्टिमासु
वैदूर्यरेणुनिकरः स्थगिताखिलाशः ॥ 44.56 ॥
दिङ्भण्डलं नवविदूरजरत्नराशि-
रेणूत्करैर्नभसि संतमसीभवद्भिः।
आचक्रमे तरणिकूबरिचक्रनेमि-
निष्पिष्टनाकपरमाणुगणायमानैः ॥ 44.57 ॥
निःश्वासमारुतसमीरणकोटरस्थ-
सेनातुरङ्गखुरपिष्टमहीरजस्कान्।
आध्यमासिषु कथमपि त्रिदशामरारि-
योधा जडीकृतरवान्समराय शङ्खान् ॥ 44.58 ॥
संवीतकृत्स्नभुवनत्रितयान्तराल-
सान्द्रीभवत्क्षितिरजःस्थगितप्रकाशाः
आह्वासताधिरणवर्त्म परस्परं ते
भोगावलीभिरुपलक्षितनामधेयाः ॥ 44.59 ॥
उत्थाय चावनितलात्कमलासनाण्ड-
पर्यन्तदर्शनकुतूहलिनेव दूरम्।
स्कन्धेष्वकारि मरुतां पदमोघलेप-
लुप्तांशुमालिमहसा रजसोद्धतेन ॥ 44.60 ॥
संशिश्रिये विदलितासितरत्नहेम-
पट्टोत्तितातनुरजःपटलावगाढैः।
धूम्रीभवद्भिरभितो धवलातपत्र-
खण्डैरुपप्लुतनिशाकरमण्डलश्रीः ॥ 44.61 ॥
छत्त्रैर्न्यपाति शितशल्यशराभिघात-
रुग्णाभिरामकलधौतमयोच्चदण्डैः।
आयोधनावनितलोद्धतपृष्ठलग्न-
धूलीवितानगुरुभारभरादिवोच्चैः ॥ 44.62 ॥
श्च्योतन्भरादयमपह्नुतवासरश्रीः
शान्तिं पुरा नयति दानजलप्लवो माम्।
इत्यौर्वरेम रजसा करिकर्णरन्ध्र-
द्रर्गेष्वनागतमिवाभिविचिन्त्य लित्ये ॥ 44.63 ॥
सङ्ग्रामवत्मनि रजःपटलावकीणें
निर्मन्नवेगपरिवर्तनशून्यचक्रम्।
कृच्छ्रेण कूबरिकुलं यमदार्ढ्यशालि
नैवेन्द्रियैरिव मनश्चकृषे तुरंगैः ॥ 44.64 ।
आकम्पितावनिनिरर्गलवेगपात-
निःस्पन्दमूकितविशङ्कटपार्श्वघण्टैः।
अन्योन्यामप्यनवलोक्य रजोन्धकारे
हस्तावमर्शघटितैर्युयुधे गजेन्द्रैः ॥ 44.65 ॥
प्रलयाभ्रमलीमसां दधानः श्रियमायोधनवर्त्मनि न्यरौत्सीत्।
अतनुर्गुरुसैन्यरेणुराशिर्ग्रहकल्लोल इवोष्णरश्मिबिम्बम् ॥ 44.66 ॥
सिक्तेन सक्तकट(तत्कटवि) निर्गतभूरिदान-
दाराप्रवाहकृतबंहिमभिस्तदानीम्।
सैन्ये न्यशामि तरसा रजसोद्धतेन
गम्भीरकुञ्जुरकरोज्झितवारिवर्षैः ॥ 44.67 ॥
अस्ते रजोविसरवाससि नागगण्ड-
विष्यन्दिभिर्मदजलैरपवास्त्रिताङ्ग्याः।
संविब्यिरे दश दिशः सुरचापचक्र-
निष्ठ्यूतनिष्ठुरशरातनुपुङ्खपक्षैः ॥ 44.68 ॥
कटविगलितदानाम्भोभिरावर्तमान-
प्रतिमपतितचक्रैः क्ष्मातले कुञ्जराणाम्।
नभसि च करमक्तैः शीकरैरुच्छलभ्दिः
क्षपितघनपरागो रत्नसानुस्तदासीत् ॥ 44.69 ॥
इत्थं दर्पान्धगन्धद्विरदकटतटीनिष्ठ्यनिष्ठ्यूतदान-
स्रोतःसंतानमिश्रीकृतविकृतकरप्रान्तवान्ताम्बुसेकैः।
शान्तेष्वाशान्तकान्तिव्युपरमपरमापारपूरेषु युद्ध-
क्षोणीक्षोदेषु रत्नाचलशिरसि पुनः संगरोऽभूद्भटानाम् ॥ 44.70 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागी श्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये गजाश्वसंमर्दो नाम चतुश्चत्वारिंशत्तमः सर्गः।