४३

.

हरविजयम्।

त्रयश्चत्वारिंशः सर्गः।

यस्यामरवधूर्दध्रे मदनानृजुहावताम्।
सुमीली सोऽथ सङ्ग्रामे रिपुसेनां जुहाव ताम् ॥ 43.1 ॥
सङ्ग्रामकाननोत्तालतालनिस्त्रिंशमण्डले।
विद्याधरगणे दर्पादवसानं सुरद्विषाम् ॥ 43.2 ॥
ततोऽततीतितोत्तातीनाना नाना न नूनना।
स सुसांसोऽसुसासासिरिरारोरारिरैरिरत् ॥ 43.3 ॥ (एकाक्षरपादः । युग्मम्)
सारामर्षिनिकृत्तारिकण्ठरक्तह्रदाकुला।
समन्तपञअचकोर्वीव बभूव रणपद्धतिः ॥ 43.4 ॥
नाद्यानिषत तेनाजौ के तुच्छत्रपता कया।
तत्सेनया दधे भग्नकेतुच्छत्त्रपताकया ॥ 43.5 ॥
सोऽथ नन्दी दधच्चक्रं रणश्रीनाभिमणअडलम्।
एकोऽप्यनेक इत्याजौ विचरन्नैक्ष्यतारिभिः ॥ 43.6 ॥
भेदेनैभं रणे तस्मिन्नवसाय कटं कया।
नारोचि सेनया तस्य नवसायकटङ्क्या ॥ 43.7 ॥
दैत्या दैत्या इवोद्दामदोर्दण्डबलशालिनः।
सुराः सुरा इवान्योन्यं व्यतिजघ्रुर्महाहवे ॥ 43.8 ॥
विषाणमुसलैर्नूनमभिनन्दन्ति नो रसाम्।
व्यूढत्वं के स्म दैत्यानामभिन्दन्दन्तिनोरसाम् ॥ 43.9 ॥
प्रत्यज्ञायि प्रसरता वीरेणाजावदन्तता।
नैर्गण्यमासु भजतः पिबेरिव विषाणिनः ॥ 43.10 ॥
रणे शिवाभिरम नागमितं चकले वरम्।
अदृश्यतास्थिसेषत्वं गमितं च कलेवरम् ॥ 43.11 ॥
बभुः श्रीवृक्षखर्जूरीसंनिवेशमनोरमाः।
तुरगाः काननच्छायाः पर्याप्तवटवर्णकाः ॥ 43.12 ॥
अभावि रभसान्नाकस्त्रिया मानवतां तया।
रणधूत्या दधे तस्यास्त्रियामा नवतान्तया ॥ 43.13 ॥
पुष्पदन्तोऽपरत्राथ भ्रमन्दिङ्नागविभ्रमः।
दैत्यान्सीमन्तयामास सागरोर्मीनिवोद्धतः ॥ 43.14 ॥
युधि निघ्रञ्जयावाप्तिकाङ्क्षिणोऽतिस्मयाचितः।
अभयं तैरसो सेनां कां क्षिणोति स्म याचितः ॥ 43.15 ॥
स प्रज्ञाततमोऽप्येकस्तदानाहतलक्षणः।
भीष्मोऽप्यशान्तनवतां विदधार नदन्रणे ॥ 43.16 ॥
सोऽभूत्स्वनश्रियाब्दोत्कमयूरागमकृत्तया।
इच्छयास्य भटा योद्दुमयू रागमकृत्तया ॥ 43.17 ॥
प्रभञ्जनोऽरिसेनासु तदासावच्युतो रणे।
भास्वान्वपुषि चाभासीत्पिंशन्नमरविद्विषाम् ॥ 43.18 ॥
सालांसः सलिलोल्लोललोलासिः सूल्लसोंऽसलः।
लीलालसं ललासासौ सासोऽसल्लालसासुलूः ॥ 43.19 ॥ (द्व्यक्षरः)
य एकस्तरसा दैत्यान्वंशानिव सुपर्वणः।
क्ष्माभृत्कटकसंचारी बभञ्ज सुरकुञ्जरः ॥ 43.20 ॥
सादितानवती सेना संयुगं रभसादिता।
सादिता युध्यमानेन तेनारेः सहसा दिता ॥ 43.21 ॥ (संदष्टयमकम्)
घनसंतमसच्चाया नीलवज्रवरूथिनी।
तीक्ष्णवर्त्मभिराकीर्णा पातलोर्वीव भोगिभिः ॥ 43.22 ॥
साराभाशु शुभारासा सारताममतारसा।
यान्यानघघनन्याया सा मतातततामसां ॥ 43.23 ॥ (अनुलोमप्रतिलोमपादः । युगलकम्)
स कार्तान्तिकसिद्दान्तप्रक्रियामिव तां जवात्।
तदा विलुप्तज्याकेन्द्रामवदीदवधानतः ॥ 43.24 ॥
बभूवुर्नन्दिनो रोषादसृगालोहिता दृशः।
न यस्य प्रतिभात्यारादसृगालो हि तादृशः ॥ 43.25 ॥
स तस्य वल्गतो देहादसिनापातयच्चिरः।
दिनात्यय इवास्ताद्रेः स्फुरदर्कस्य मण्डलम् ॥ 43.26 ॥
बलं विस्मायि शैलादेरुरु धुर्यतयोभयम्।
तेनास्त दिव्याः खं द्रष्टुं रुरुधुर्यतयोऽभयम् ॥ 43.27 ॥
अभ्रंकषत्वं दधतः कटकच्छाययान्विताः।
विबभुः सुभटास्तस्य सेनोर्वीकुलपर्वताः ॥ 43.28 ॥
दिक्चक्रं प्रणताभीतिदानवाचा रुरुत्सताम्।
कीर्तिस्तेषामगाद्भग्नदानवा चारुरुत्सताम् ॥ 43.29 ॥
आस्फाल्य निक्वणन्मौर्वीतन्त्रीकाश्चापवल्लकीः।
गन्धर्वपृतना दैत्यैः सार्धं रणरलीं व्यधात् ॥ 43.30 ॥
तेजोऽहृत सुरारीणामनृज्वालाभिधावताम्।
स्थितिर्गत्या रणे येषामनृज्वालाभि धावताम् ॥ 43.31 ॥
स्फुटार्धचन्द्रमुद्दामवाहिनीपातसंकुलम्।
महेश्वरशिरश्छायं श्वसन्नागं रणाङ्गनम्॥ 43.32 ॥
विवेश विश्वशावेशः शशीव शिवशैशवः।
शैवः शवांशाशावेशिशिवावंशं वशी विशाम् ॥ 43.33 ॥ (द्व्यक्षरः। युग्मम्)
दधत्कराङ्गलिव्रातबोगीन्द्रकृतवेष्टनाम्।
स शक्तिमसुराम्भोधिमाथिमन्दरविभ्रमाम् ॥ 43.34 ॥
सङ्ग्रामभूमिं करुणामदधत्तामसावृतः।
यशो निघ्नन्रिपुचमूमदधत्तामसावृतः ॥ 43.35 ॥
तमभीयुस्तनुच्छायतिमिरावृतदिङ्भुखाः।
सतारक वरूथिन्यः क्षयकालनिशा इव ॥ 43.36 ॥
स व्यधादक्षताशस्ताः सन्नयो धामहासिना।
सव्यधा दक्षताशस्ताः सन्नयोधा महासिना ॥ 43.37 ॥ (समुद्गयमककाञ्चीगोमूत्रिकामुरजजालबन्धाः।)
कृतान्तनगरीसालवलयं चक्रितं धनुः।
दधत्तेनाथ युयुधे तारकाक्षो महाहवे ॥ 43.38 ॥
शुभदाता तदा दैत्यानवस्यन्दनवे गतः।
तत्सङ्ग्रामाङ्गनं रेजे नवस्यन्दनवेगतः ॥ 43.39 ॥
तत्सैनिकान्समीके स चमूरचितसच्छ्रियः।
क्षेप्तुं जगत्त्रयापायसमीरण इवाचलान् ॥ 43.40 ॥
शशिकेशांशकोऽशोककौशिकीके शिशुः शुकी।
शं शशाकैकशोऽशूककेकीशाकाशकौरिकः ॥ 43.41 ॥ (द्व्यक्षरः। युगलकम्)
लक्ष्मीः षट्चरणच्छायाशोभीन्यसुरसैनिकैः।
ददृशे तस्य वक्त्राणि पद्मानीवाधितस्थुषी ॥ 43.42 ॥
मन्वानास्तं शरैः संख्ये ते पुरसताद्रिषुं जितम्।
तेजोऽर्कमिव बिभ्राणं तेपुरस्ताद्रि पुञ्जितम् ॥ 43.43 ॥
सुदर्शनश्रीद्विषतां स चक्रिभुजमाश्रितः।
शिरांसि पीवरच्छेदस्कन्धचक्राणि शातयन् ॥ 43.44 ॥
शूरीशशिसुराशाश्रीरोरांशुराररौ।
शशीराशी शरैः शारा रेशिशीररिशः शशन् ॥ 43.45 ॥ (द्व्यक्षरः। युगलकम्)
उपसरल्गा इव गताः क्रियायोगेन शून्यताम्।
आसंस्तस्य हता बाणैरप्राप्तगतिसंज्ञकाः ॥ 43.46 ॥
स्पृहां केनाकरोत्तस्मै सज्जातीयाय सारवान्।
तच्चमूस्च द्विषः संख्ये सज्जातीयाय सा रवान् ॥ 43.47 ॥
तमभ्यैत्केतुमालीति नवाञ्जनमलीमसैः।
अन्वीयमानो दितिजैः प्रावृट्काल इवाम्बुदेः ॥ 43.48 ॥
क्षुण्णं तेन समिद्वर्त्म तदीये दानवर्तिभिः।
व्यरोचि च गजैः संख्ये तदीये दानवर्तिभिः ॥ 43.49 ॥
तदासौ वीरकोपात्तशुभलक्ष्मीपरिग्रहः।
षड्जन्यासतया बिभ्रन्मुखानि गयमभ्ययात् । 43.50 ॥
विदधे निघ्नता तेन तमस्तारातिनादया।
तत्सेनया शरैश्चक्रे तमस्तारातिनादया ॥ 43.51 ॥
उदसाहि स संहारसहस्रकरभास्वरः।
युयुत्सासाहसोत्साहशालिभिः सहसासुरेः ॥ 43.52 ॥
केकीरकोऽकुकाराकः करकाकारकारिरुक्।
कैराकेकरकैराकोररोकैरुरुकोरुकैः ॥ 43.53 ॥ (द्व्यक्षरः। युगलकम्)
तारकान्तस्थितिस्पष्टदृष्टदृष्टतरौजसा।
स शक्त्या दीप्रया हारलतयेव श्रियं दधौ ॥ 43.54 ॥
चेतसा बद्धरोषेण मानिनागगनानिमा।
ततो रणभुवं चण्डी तामिता ममतामिता ॥ 43.55 ॥ (युक्पादप्रतिलोमः)
तन्निकृत्तविपर्यासनिविष्टग्रीवतां गतः।
अदृष्टचरमाजौ स्वं भटः पृष्ठमिवैक्षत ॥ 43.56 ॥
नाभाच्छ्रुतिरिवाहीना सदोंकारतया न या।
अगाहि भर्तुः सङ्ग्रामसदोऽङ्कारतयानया ॥ 43.57 ॥
सा प्रमाणपानिष्णातैरशून्या भटमण्डलैः।
निषद्येव तदा मृत्योः स्फुटदंष्ट्रा चकासती ॥ 43.58 ॥
रेणुरोरोरुणार्णोररणारणिरणीरणूरणैः।
रराणैणारिणा रीणा रणेरां रीरणारिणा ॥ 43.59 ॥ (द्व्यक्षरः । युगलकम्। षड्भिः कुलकम्)
अवारवाणतां वैरिरमणीकुचमण्डलैः।
सार्धं दधाना दैत्योघानवेत्य सदृशात्मनः ॥ 43.60 ॥
सारतारहिताध्यासा सा ध्याता क्षतसाध्वसा।
साध्वसाधर्म्यधीरासा सारधीतिरता रसा ॥ 43.61 (सप्तदशाक्षरं पद्मम्)
रणसिन्धुं सुमनसां तदानीमुत्तितीर्षताम्।
सारित्रासकृदुत्कृष्टकर्णान्ता नौरिवाभवत् ॥ 43.62 ॥ (त्रिभिः कु(ति)लकम्)
वादिता तरसा भीमा भेरीणां सकला ततिः।
सादिता तत्र सायामा सारीणां सबला गतिः ॥ 43.63 ॥ (गोमूत्रिकाजालबन्धः)
तया कृतस्य सङ्ग्रामे वज्रनाभस्य भस्मसात्।
उदात्त एव तत्रासीद्दर्पस्यान्तः सुरद्रहाम् ॥ 43.64 ॥
रथमर्दो भुवस्तस्या नतस्थावरतामदात्।
अनिर्जितरिपुः सापि न तस्थावरता मदात् ॥ 43.65 ॥
अम्भोधरच्छवीन्धाराशोभां च युधि बिभ्रतः
वाजिनो वाहयांचक्रुः कृपाणांश्चाम्बिकाभटाः ॥ 43.66 ॥
तायमानघन्छाया याच्छानघनसायता।
नाल्पकप्रतिमास्थासु सुस्थामातिप्रकल्पना ॥ 43.67 ॥ (अनुलोमप्रतिलोमपादः)
संयुगेऽनर्गलस्थामपातितग्रहतारकैः।
युगान्तोत्पातदेशीयैर्न सासह्यत दानवैः ॥ 43.68 ॥ (युगलकम्)
क्षतार्करुक्तया दध्रे तदाश्वसितिमा नवः।
तद्रूपं वीक्ष्य को न स्म तदाश्वसिति मानवः ॥ 43.69 ॥
जयश्रीरभसाकृष्टिप्रसारितकरोपमैः।
सव्यापसव्यविक्षिप्तैर्निघ्नती विद्विषः शरैः ॥ 43.70 ॥
या हतारिगणाजस्रमवदाता न सुन्दरान्।
याता गजमदानन्दहरिणास्रवतासुरान् ॥ 43.71 ॥ (समञ्जसबन्धो गूढार्धश्लोकः)
तयाघानि रुषा वज्रकेतुः केतुर्दिवौकसाम्।
विकिरन्त्या रणे दृष्टिं क्षयोल्कापुञ्जविभ्रमाम् ॥ 43.72 ॥ (तिलकम्)
मायामूर्तिर्द्विषः संख्ये सास्राक्षीदमितायुधा।
तत्सेना च तया चक्रे सास्राक्षी दमिता युधा ॥ 43.73 ॥
दोर्दण्डदर्पोद्रेकेण सावज्ञं चरतो युधि।
प्रमथान्दानवानिके पारिप्लवतया स्कृत् ॥ 43.74 ॥
सशीः सशंसा शिशुसूः साशसाशु शशीशशित्।
शशासाशासु सेशासु सांशुः शं शशशाशिसूः ॥ 43.75 ॥ (द्व्यक्षरः। युगलकम्)
सहस्रधा विमज्यापि स्थितमात्मानमाहवे।
निनाय पञ्चतामेव द्विषं मायाशताकुलम् ॥ 43.76 ॥
सा संख्ये स्वःसकदां शश्वदेव तारा धनायते।
तेन चक्रुर्मतिं नान्यदेवताराधनाय ते ॥ 43.77 ॥
तत्सङ्ग्रामान्तरिक्षं च वीथीमार्गपरिष्कृतम्।
विचित्रमण्डलतया विदधारतारं श्रियम् ॥ 43.78 ॥
गजः परिणमन्दन्ध्रे दन्तकोशमनङ्गदम्।
द्विषां युधि व्यचधत्तारादन्तकोऽशमनं गदम् ॥ 43.79 ॥
तिग्मांशुकरसंपर्कात्स्फुरन्ती करवालिका।
कुब्जाप्येकस्य सङ्ग्रामे चतुरस्रां श्रियं दधौ ॥ 43.80 ॥
जघ्रे सिंहतनुश्चण्ड्याः सरुञ्जितरवारिभिः।
तत्सैन्यानि सुराश्चक्रुः सरुञ्जि तरवारिभिः ॥ 43.81 ॥
कोदण्डास्फालनोत्तालरवकातरितद्बिषः।
योधास्तत्पुरुषत्वेऽपि विस्पष्टद्वन्द्वतां ययुः ॥ 43.82 ॥
चण्डी सेनासु कुप्यन्ती सादीपिष्टासु राहवे।
श्रियमैक्षिष्ट तत्खड्गे सादी पिष्टासुराहवे ॥ 43.83 ॥
शरदंष्ट्राकरालत्वं दधद्भिर्दानवान्रणे।
नानानीकाननैः किं नु पृतनासु न भूभृतः ॥ 43.84 ॥
भासितानु(रु)तिमात्रासु युन्यासैकरता सुता।
नाङ्गनाशरसस्तासु सा याता कृत्तिवाससा ॥ 43.85 ॥
सासवात्तिकृतायासा सुस्था सरशनाङ्गना।
तासु तारकसैन्यासु सुत्रामातिनु(रु)तासिभा ॥ 43.86 ॥ (प्रतिलोमानुलोमाभ्यां श्लोकद्वयम्। तिलकम्)
तत्र स्फुटरसैश्चित्रैः सुश्लोकविनिबन्धनैः।
अनेकसर्गैः सङ्ग्रामे महाकाव्यायितं भटैः ॥ 43.87 ॥
राजितानुमतावाररवा तामसकायसा।
सायकासरसाराधधरा सारनुताजिरा ॥ 43.88 ॥ (असंयोगाक्षरानेकपाठनन्दिकवर्तनः (?))
केतनांशुकसीताङ्क रथप्लवकृतास्पदम्।
सङ्ग्रामजलधेः पारं पृतनास्वरिमण्डलम् ॥ 43.89 ॥
सायासासु ससेयासु सायसासु यियासु सत्।
सासिः सासूययेयासु सेयायासुसुसूः सुयुत् ॥ 43.90 ॥ (द्व्यक्षरः। तिलकम्)
तया कार्मुकमाकृष्टं नाशारम्भे सुरद्विषाम्।
उदचारयदोंकारमिव क्रेंकारमाहवे ॥ 43.91 ॥
योऽनुकुर्वन्मृधे वर्धमानं दामोदरं जितः।
न केनचिद्द्विषाभीक्ष्णमानन्दामोदरञ्जितः ॥ 43.92 ॥
स तया नागमारूढो विपाठैर्विरसीकृतः।
बभ्राम गहनागाधे ग्रन्थतत्त्व इवाहवे ॥ 43.93 ॥ (युगलकम्)
नैष्ठुर्येण रण चण्डी समग्रावा सवाजिभिः।
नासद्यतारिभिः शक्त्या समग्रा वासवाजिभिः ॥ 43.94 ॥
अन्योन्यायोधनस्पर्धादुर्धरप्रसरोद्धुराः।
तामभीयुस्तमस्काण्डकल्लोला इव ते द्विषः ॥ 43.95 ॥
ताञ्छितासरवित्रासा मससात्राविरसताञ्छिता।
साध्वसावहतायासं संयाता ह वसाध्वसा ॥ 43.96 ॥ (अनुलोमप्रतिलोमपादः पादाद्यन्तयमकं च)
श्रियं चित्रीयमाणेन चरितेन दधत्यसौ।
सज्जतिरेकानंशेति सुरेरस्तूयताहवे ॥ 43.97 ॥
जयजायुयुजा युज्जिज्जयायो योज्यज्ययेज्यया।
याज्यया युयुजे येयेऽजेयया याजजायया ॥ 43.98 ॥ (द्व्यक्षरः)
बिभ्रती हेतिसंदोहनक्रौघाकुलतां द्विषः।
वेलेव पृतना विश्वक्षयोद्वृत्तस्य तोयधेः ॥ 43.99 ॥
सा दधत्याननं तुल्यमघानि विधुनानया।
प्रणेमुषामविच्छिन्नमघानि विदुनानया ॥ 43.100 ॥ (युगलकम्)
पराचीनं विधायाशु सैन्यचं समरदुर्मदम्।
साञ्जसौजसिकस्याराद्धूम्राक्षस्योदजासयत् ॥ 43.101 ॥
सारभा विविभारासा राजितागगताजिरा।
भाताजिते तेजिताभा विगतेन नते गवि ॥ 43.102 ॥ (सर्वतोभद्रः)
नतानामनतानां च समं व्यवजहार सा।
निनायौर्जित्यमेकेषामन्येषां जीवितं क्षयम् ॥ 43.103 ॥
अहन्यत बलं तेषां सदा नगजया तया।
रेजे वीरवरूथिन्या सहानगजयातया ॥ 43.104 ॥
बिभ्रती सुभटेनोच्चैराकल्पस्थितिचारुताम्।
आलिङ्ग्यत रणे कीर्तिः स्वर्गनारी च तत्क्षणम् ॥ 43.105 ॥
तांस्तथाविश्लथन्मौलिबन्धानाहितवेपथून्।
वीरानासन्नपातत्वादसारान्साकृताहवे ॥ 43.106 ॥
तारोत्तारतरी तीरतरुतारीतिरुत्तरा।
तीरितारातिरातोरु तरतारातिरुत्तिरः ॥ 43.107 ॥ (एकान्तरितद्व्यक्षरः)
वैष्णवी समरक्रीडाविहारैकवयस्यया।
गदया दैत्यलोकस्य शिरांसि युधि भिन्दती ॥ 43.108 ॥
द्विषतः सुरसैन्यानि पराञ्चि त्रायते स्म या।
सा बभार श्रियं संख्ये परां चित्रायतेऽस्मया ॥ 43.109 ॥ (तिलकम्)
कालरात्रिर्जवेनास्त्रपर्यस्तकुलपर्वता।
वपुषाभ्रंकषेणाथ भीतिदा सुरविद्विषाम् ॥ 43.110 ॥
जानुजेनानुजननी जानानाजजनैजनम्।
निजाजिनेनानिजजौ जनानूनानजीजनत् ॥ 43.111 ॥ (द्व्यक्षरः। युगलकम्)
भ्रमयन्त्या ज्वलच्छूलं माहेश्वर्यास्तदाभवत्।
नभः पुरत्रयप्लोषशिखिनेव पिशङ्गितम् ॥ 43.112 ॥
अदभ्रभीतिदेऽनिन्द्ये दक्षमानच्छसादिनि।
भ्रमागतगमासादे भीमतत्त्वमगच्छति ॥ 43.113 ॥ (अर्धभ्रमः)
समरे लक्ष्यभद्राश्वकेतुमाले निरर्गलम्।
तस्मिन्नवनिनिर्माणविभाग इव दुर्गमे ॥ 43.114 ॥
रत्नाक्षमालां बिभ्राणा रणश्रीमणिमेखलाम्।
ब्राह्मी सरणसंरम्भविभ्रमा श्रियमासदत् ॥ 43.115 ॥ (तिलकम्)
अप्राप्ता संयुगे प्रांशुकेतुदन्तिनि शान्तताम्।
कुर्वतीं विशिखैस्तां स्म के तुदन्ति निशां तताम् ॥ 43.116
अन्यथा युध्यमानैन्द्री दैत्यानां हृदयाविधा।
कृतमार्गणकृत्यासीत्सहस्रेणैव चक्षुषाम् ॥ 43.117 ॥
गीर्वाणजनताम्भेत्य तुष्टावसरतोऽनु ताम्।
द्विषो वीक्ष्य रणाद्भीत्या तुष्टव सरतो नुताम् ॥ 43.118 ॥
बिभ्रती रत्नकोदण्डपरिवेषविभीषणम्।
सोद्वृत्तारिकुलोत्पातचन्द्रबिम्बमिवाननम् ॥ 43.119 ॥
रलीलोलारिरल्लाली लीलालूरैरिरल्ललाः।
रोलोल्लोलैररालैलीरुररोरोररीरलम् ॥ 43.120 ॥ (द्व्यक्षरः । युगलकम्)
शिखण्डजितपिच्छश्रीर्नम्रवक्त्रेण केकिना।
उह्यमाना ज्वलच्छक्तिः कौमरी रणमासदत् ॥ 43.121 ॥
विनिर्धूतरविद्योतामह्नोष्टाशान्तरेणुना।
गणसैन्येन सा लक्ष्मीमह्नोऽष्टशान्तरेऽणुना ॥ 43.122 ॥
बिभ्रती संयुगोत्पातमहोल्कामतनुं गदाम्।
सशङ्खपद्मा कौबेरी वैष्णव्याः श्रियमासदत् ॥ 43.123 ॥
द्विषच्छिरः कन्दुकौघैः सारंस्त न न तापदम्।
नयन्त्यरिकुलं स्थेयःसारं स्तननतापदम् ॥ 43.124 ॥
सान्धकारा दिशः सर्वाः कुर्वती रणरेणुभिः।
तामभीयाय गर्जन्ती या तदा वृषपर्वणः ॥ 43.125 ॥
नतया सेनया तत्र यातया नुत्तया तनु।
नुत्तयात्तरयान्विष्टपातया सेनयेक्षिता ॥ 43.126 ॥ (मुरजबन्धः। युगलकम्)
कृतानुबन्धामुत्पश्यन्नाग्नेयीं धारणामिव।
जगत्कृतमवैल्लोकः सर्वमेवात्र भस्मसात् ॥ 43.127 ॥
करिसिन्धुततिश्चारु कटकच्छा ययाधिकम्।
भिन्नारेर्या तदा रेजे कटकच्छाययाधिकम् ॥ 43.128 ॥
कृतपुङ्खोऽपि सङ्ग्रामे दैत्यलोको निरर्गलम्।
संप्राप्य न न्यवर्तिष्ट याम्यां यमपुरीमिव ॥ 43.129 ॥ (युगलकम्)
कीर्तिर्जज्ञे समीकेषु नवैव स्वतया तया।
भ्रुकुट्या मुमुचे चासौ न वैवस्वतयातया ॥ 43.130॥
युधि क्षयघनस्येव विद्युज्जिह्वस्य गर्जतः।
प्रतिनादच्चलेनाशा भीता इव विचुक्रुशुः ॥ 43.131 ॥
दधौ धिया सपत्नेषु यया वैरावतंसताम्।
विगर्ह्यः स तमारूढो ययावैरावतं सताम् ॥ 43.132 ॥
तेजस्विमण्डलस्यारात्कुर्वन्नन्तर्धिमाहवे।
अभ्रंकषवपुः श्रीमान्स तदास्ताचलोऽभवत् ॥ 43.133 ॥
तं चिरेण गतायासा समायापक्षपातिनी।
नीतिपा क्षपयामास सा याता गणरेचितम् ॥ 43.134 ॥ (अनुलोमप्रतिलोमार्धोऽयम्)
अनारोपितबाणेन बारुणी धनुषा क्षणम्।
निजमण्डलसंस्तानचारुणा विरराज सा ॥ 43.135॥
लालितैलीलतालाता लीलाललिततातता।
तालोत्ताला तिलतुलालोलितालुलितालिता ॥ 43.136 ॥ (द्व्यक्षरः। युगलकम्)
विस्पष्टसुन्दरसिता दैत्यसेनाकुमुद्वतीः।
तीक्षणैरंशुशरव्रातैः सौरी च समचूकुचम् ॥ 43.137 ॥
शातटङ्काः प्रमादेन हीयमाना रणाजिरे।
चापटंकारनादेन साभिमाना रराजिरे ॥ 43.138 ॥ (काञ्चीबन्धः)
चापमाहवसंरम्भकर्णान्ताकृष्टिचक्रितम्।
वायव्या बिभरामास निजमण्डलविभ्रमम् ॥ 43.139 ॥
विषेहे सेनया संख्यसहा सा शातटङ्कया ।
रुन्धानया रिपोर्भूम्ना सहासाशातटं कया ॥ 43. 140 ॥
विडम्बयन्ती सार्धेन्दुमण्डलामष्टमीनिशाम् ।
सा दीप्रपरशुः संख्ये श्रियं वैनायकी दधौ ॥ 43.141 ॥
सार्धचन्द्रशरव्रातैः शरीराणि सुरद्रुहाम्।
चकारानलकान्याजौ वदनानि च योषिताम् ॥ 43.142 ॥
स्वनश्रिया ध्वनद्योधैः सा गरीयस्ययमा यया।
सा जिगाय ध्वनेः क्रौर्यं सागरीयस्य मायया ॥ 43.143 ॥
तामभ्ययुङ्क्त यासंख्यसंख्यावद्भिर्वृता भटैः।
सूचिरोम्णश्चमूर्नादैः सूचितप्रलयागमा ॥ 43.144 ॥
बासेद्धाहाततनना सादिमायादसेविता।
सासहस्ततयाशान्तसारा हितसमिद्युता । 43.145 ॥ (प्रस्तार श्लोकः)
सहसा दितसेनाशा तयासे साहितद्युता।
यातावित्रस्तरासाद्धा सभामा तदनन्तसित् ॥ 43.146 ॥ (चतुरङ्गाश्वपदपूरणश्लोकः । तिलकम्)
रुन्धत्या कुकुभः सर्वा विकर्णैरप्यजिह्मगैः।
सेनया वृषसेनस्य सङ्ग्रामाग्रभुवस्तदा ॥ 43.147 ॥
लीलीयायिययूल्लोलयेयया लायलोलया।
लायिलोलूययालीय लुलायायिलयं यये ॥ 43.148 ॥ (द्व्यक्षरः। युगलकम्)
सराक्षसपुरीदारहलग्नमारुतिविभ्रमः।
अजृम्भत सुरारीणां पादपातिततोरणः ॥ 43.149 ॥
शक्तीर्वहन्तो यशसा नवा युयुधिरे चिताः।
चक्लमुश्चासुरा भीत्या न वायुयुधि रेचिताः ॥ 43.150 ॥
दिवौकसामथोद्दामवेगदण्डहता भृशम्।
विनेदुः परुषं भेर्यो वरूथिन्यश्च संयुगे ॥ 43.151 ॥
ससार पृतना नाना धुनानारिं ससाहसा।
सतर्जनगुणास्फोटधीरयोधगणासुरी ॥ 43.152 ॥ (शक्तिबन्धः)
दिवोऽवतीर्णेव भुवं जगत्प्रलयकालिका।
वाराही मलिनच्छाया प्रभां भानोरतस्तरत् ॥ 43.153 ॥
युधि चक्रं द्विषामाशु नीरन्ध्रसमयं वियत्।
अकृताम्बोदनिर्मुक्तनीरं ध्रसमयं वियत् ॥ 43.154 ॥
सा ररास सरारासा साराराससरारसा।
साररा ससरारासासारा राससरा रसा ॥ 43.155 ॥
स्थिराजिरप्यस्तिराजिसाराप्रतिमया रुचा।
चामुण्डा बद्धवैरा सा जितारातिर्मृधे बभौ ॥ 43.156 ॥ (मुसलबन्धः)
रणे सुरद्रुरां सैन्‌यं तदास मरुतां गणम्।
रणस्य च शिवा भेजे तदासमरुताङ्गणम् ॥ 43.157 ॥
कृतान्तवेश्मपदवीविभ्रमाभिर्महाहवे।
सुरासुरगणा जघ्रुर्गदाभिरितरेतरम् ॥ 43.158 ॥
सेनापर्यस्तनाराचचक्रासाराजितासुरा।
राजराजस्य दानाम्बुविष्यन्दिकटकुञ्जरा ॥ 43.159 ॥
रासभिन्ननभोरन्ध्रदिह्भुखा सा रणाजिरे।
रेजेऽस्त्रसारे सानन्दहारश्रियमुपाश्रिता ॥ 43.160 ॥ (श्लोकाभ्यां खड्गबन्धः)
आलिङ्गिता युधि प्राज्यसार्वरागतया श्रिया।
गौरीव युद्ध्यमानासीदपर्णा स्वामिनश्चमूः ॥ 43.161 ॥
संयुगेऽतिसहस्रांशुनवधामर्षितापिभिः।
संयुगेऽतिसहस्रांशुनवधामर्षितापिभिः।
नादीप्यतासुरैस्तत्र न वधामर्षितापिभिः ॥ 43.162 ॥
वाह्नज्वालापिशङ्गोर्ध्वकेशैर्यातुभिरन्विता।
लङ्केव नैर्ऋती रेजे युधि त्रासकरी द्विषाम् ॥ 43.163 ॥
तद्रणं रेणुरूपेण नामोचि तमसा वरम्।
यत्राकृततरां शूरो नामोचितमसावरम् ॥ 43.164 ॥
उरोमणिश्रिया शौरिविभ्रमं युधि बिभ्रतः।
अविपन्नपुरस्कारा रेजिरे गुरवो गजाः ॥ 43.165 ॥
विद्विषः समरेऽनन्यसमायासयमानया।
अघानि रौरवी सेना समाया सयमानया ॥ 43.166 ॥
कलापशोभां बिभ्राणमथासाद्य शिखण्डिनम् ।
नागैरिव रणाद्भीतैर्विनेशे दानवाहिभिः ॥ 43.167 ॥
स्पुरत्कुण्डलरत्नौघतडित्किरणकर्बुरः।
मेघनीलोऽथ सङ्ग्रामे प्रावृट्कालवदाबभौ ॥ 43.168 ॥ (अतालव्यः)
शरव्याप्तिप्रवणतां दधतो रणमूर्धनि।
कृतपुङ्खा भटास्तस्य मार्गणाश्च विरेजिरे ॥ 43.169 ॥
येन व्यधायि स्वर्गो न नाशक्रो धानुषं गतः।
स क्रौर्यं शब्दमतनोन्नाशक्रोधानुषङ्गतः ॥ 43.170 ॥
तीक्ष्णशल्यनखाग्राभिर्मार्गणाङ्गुलिभिः क्रमात्।
युधि गीर्वाणसेनायाः पत्त्रभङ्गं व्यधत्त सः ॥ 43.171 ॥
आकृष्टा धनुषो दूरं ज्या यस्य ध्वनितानवम्।
तेनाजेर्द्विट्चमूर्निन्ये ज्यायस्यध्वनि तानवम् ॥ 43.172 ॥
संख्ये बलिभुजं तत्र नवायसमपि क्रुधा।
अभ्यापतन्तं तं वैरिपृततना न विषेहिरे ॥ 43.173 ॥
संरम्भः स बभूवास्य सारवैरिवधे नवः।
वल्गितैस्तत्रसुः सेना सारवैरिव धेनवः ॥ 43.174 ॥
असह्योऽपि महीभृत्त्वं बलभद्रोऽप्यसीरिताम्।
अकूटात्मापि तुङ्गत्वमधत्ताद्भुतवृत्ति यः ॥ 43.175 ॥
नानेनानिललोलेन लीलोल्लोलेन लोलिना।
नुन्नानूनानलेनैलीलूनानानलेन नो ॥ 43.176 ॥ (द्व्यक्षरः)
अर्धचन्द्रनखन्यासैरभियोगपटीयसा।
अभाजि भूम्नाभीकगेन सेनासीमन्तिनी द्विषः ॥ 43.177 ॥ (तिलकम्)
खड्गस्यानुकृतक्रूरपातालातस्य साधुता।
क्ष्मा चासीदिषभिर्भिन्नपालाला तस्यसा धुता ॥ 43.178 ॥
सप्रस्तारे रणे तस्य कराग्रैः प्रतिहारिभिः।
सामजत्वस्य सदृशं व्यधीयत विषाणिभिः ॥ 43. 179
सुरस्त्रीणां दृशो भग्नकलावतिकलावति।
निपेतुस्तत्र तिग्मांशुविभासिनिविभासिनि ॥ 43.180 ॥
अनेकमुखतां बिभ्रत्कर्तात्र युगपद्धतेः।
द्विषतां संप्रहारेऽसावेककः कमलासनः ॥ 43.181 ॥
वायवीयाय वायव्यययुयाय्यव्ययाय यः।
व्येयो वयोव्ययायैव ययाववयवी युवा ॥ 43.182 ॥ (द्व्यक्षरः)
सिसङ्ग्रामयिषुस्तेन बद्दामर्षारिमण्डली।
संगराङ्गनमुद्रूर्णशस्त्रच्छायान्धकारितम् ॥ 43.183 ॥
याजरापत्तदाक्षोददक्षोदात्तपराजया।
साञ्जनामगताघानि निघातागमनाञ्जसा ॥ 43. 184 ॥ (प्रतिलोमानुलोमार्धः। युगलकम्)
चित्रमक्षणिकस्यापि तत्क्रियां प्रतिसंयुगे।
पर्याप्तयौगपद्याभ्यां यद्विरोधोऽस्य नाभवत् ॥ 43.185 ॥
रणोऽभूत्स्पष्टसंघट्टरथदानवनायकः।
स्पृहयामास नैवालिरथ दानवनाय कः ॥ 43.186 ॥
वीरभद्रस्य सङ्ग्रामे युद्ध्यमानस्य निर्भरम्।
सेहे न प्रसरे दैत्यैः क्षयवायोरिवाद्रिभिः ॥ 43.187 ॥
विदधुस्तत्र संरम्भं शूरतापिनि तापिनि।
द्विषन्तो युधि साटोपं दानवर्तिनिवर्तिनि ॥ 43.188 ॥
ददृशेऽन्यत्र चण्डीशः शूलं रणरसोल्लसः
भ्रमयन्ननलज्वालातापसंशोषिताम्बुधि ॥ 43. 189 ॥
यो हन्तुं समरे भीतानपलालसमानसः।
पश्यत्यरिचमूर्दग्धुं न पलालसमा न सः ॥ 43.190 ॥
चक्षुर्विक्षिप्य रूक्षाग्रपक्ष्मपर्यन्तपाटलम्।
तस्तावखण्डकोदण्डचण्डदोर्दण्डमण्डलः ॥ 43.191 ॥
स चकार चमूर्युद्धे मतिमानवमा यया।
विसिस्मिये तया विस्वमतिमानवमायया ॥ 43.192 ॥
दधत्या स्थितिमारूढभोगिभद्रश्रियाकुलाम्।
संप्रहारभुवा तस्य मलयाधित्यकायितम् ॥ 43.193 ॥
स दिक्षु यशसा लोकानवाच्योऽष्टासु रञ्जयन्।
न चक्लाम मृधे धैर्यान्न वाच्योष्टासुरं जयन् ॥ 43.194 ॥
विप्रचित्तेः समीके यत्सैन्यमभ्यापतत्क्रुधा।
दधन्मूर्तीः सदृक्तिस्रस्त्रिमूर्ति परमेष्ठिना ॥ 43.195 ॥
मदमेदोदुदुद्दामदामामोदमुदं ददत्।
ममादिमददो दुद्दमदमोदददीदमत् ॥ 43.196 ॥ (द्व्यक्षरः। युगलकम्)
प्रह्लादपृतनाचक्रं ह्नादैर्मुखरयद्दिशः।
स तारकगणेनोच्चैः संप्रहारे हिमत्विषा ॥ 43.197 ॥
ततो रसादशान्तेन दसान्तेन कलापिना।
कलापिना तदासेवि तदासे विततोरसा ॥ 43.198 ॥ (संदष्टयमकम्। युगलकम्)
करे परिव्राज इव प्रधनेऽधिकमण्डलौ।
निशाकरसहस्रांशू दैत्यान्क्रोधान्निजघ्नतुः ॥ 32.199 ॥
दैत्यचक्रमभूद्भग्नप्रभावरणमश्वि तत्।
इन्दोश्च मण्डलं सान्द्रप्रभावरणमश्वितत् ॥ 32.200 ॥
अपूर्यन्त दिशः स्पष्टसंयुगोत्कर्षभैरवैः।
ककुभः प्रावृषीवाथ त्रिदशासुरमण्डलैः ॥ 43.201 ॥
श्रियं दैत्याधिपाः सैन्यैरासदण्डामरोचितैः।
दधद्भिस्तस्तृणतां चोच्चैरासदण्डामरोचि तैः ॥ 43.202 ॥
तरसामलकीनाशसून्यां शरभदानवः
सङ्ग्रामोर्वीं व्यधत्ताथ हिमशैलतटीमिव ॥ 43.203 ॥
सर्वात्मना रणे तस्मिन्नवतामसमञ्जसा।
तेनावेशि द्विषां सेना नवतामसमञ्जसा ॥ 43.204 ॥
आमर्दकस्तमभ्यागान्नवाञ्जनमलीमसैः.
अन्वीयमानो दितिजेः प्रावृट्काल इवाम्बुदैः ॥ 43.205 ॥
स मार्गणगणं दूरमस्तं भीदस्य तोत्रताम्।
सङ्ग्रामकरिणः प्राप्तमस्तम्भीदस्यतोऽत्र ताम् ॥ 43.206 ॥
पारिप्लवहरिव्रातो वैजयन्त्यच्छनिर्झरः
रराज कूबरी केतोर्मन्दराद्रिरिवाहवे ॥ 43.207 ॥
सोऽवैत्क्षतिं द्विषां तस्मिन्नवाचामन्तिके स्तिताम्।
प्राप्तं योधं शिवौघाः स्म नवाचामन्ति केऽस्थितम् ॥ 43.208 ॥
पिंषन्गज्घटा गुर्वीरुर्वीधरसुरून्नताः।
बभार कालमुसलो रणमूर्ध्नि यथार्थताम् ॥ 43. 209 ॥
ललाटोनान्वयंस्तुङ्गनासोऽष्टचचापदमायताम्।
स रणोर्वीमरातीनां नासोष्टापदमायताम् ॥ 43.210 ॥
ततः क्रौर्योदधेर्दीर्घैः स्रोतोभिरिव मानिनाम्।
निस्त्रिंशैर्व्याप्तदिक्चक्रमभ्यैद्भूर्जटिराहवम् ॥ 43. 211 ॥

दुरुत्सहत्वं सङ्ग्रामे न वाहिन्या स कृच्छ्रयन्।
विररामासुरव्यूहं नवाहिन्यासकृच्छ्रयन् ॥ 43.212 ॥
कृताट्टहासास्तत्सैन्ये विरूपाक्षतयान्विताः।
सक्ष्वेडकण्ठाः प्रथमास्तद्वैदग्धीं समासदन् ॥ 43.213 ॥
संसारारिः ससारोरुः स सूरिरसिसाररुत्।
ससारौरससीरीरां ससिरं राससूररम् ॥ 43.214 ॥ (द्व्यक्षरः)
नित्याञअजनोपयोगेन नयनानीव विद्विषाम्।
निर्जितानामनर्माणि येन स्त्रैणानि चक्रिरे ॥ 43.215 ॥
स पुरेव जटानद्धसारवासुकिरातताम्।
बभारारातिसेनासु सारवासु किरातताम् ॥ 43.216 ॥
वह्नगर्भचमूर्याच सप्तलोकाभिभाविनी।
त्रिलोकीसरसीक्षोभकरेण हरहस्तिना ॥ 43.217 ॥
हरिणैरिह साकं सा सायासा विगता गवि।
विबुना भुवि सारासा दुङ्गा तु निहताहनि ॥ 43.218 ॥ (प्रातिलोम्येन स एवार्थः। युगलकम्)
लीलालुङ्खितपुङ्खस्थपतत्त्रमरुताहवे।
संधुक्षयद्भिर्विशिखैः प्रतापाग्निमिवोद्धतम् ॥ 43. 219 ॥
शिशुना शशिनानंशुनाशोऽनूनो निशोऽनिशम्।
नाशाननानि नानांशो नेशानो नानशे शनैः ॥ 43.220 ॥ (द्व्यक्षरः। युगलकम्)
सन्मात्राच्युतकं तस्यसंप्रहारमहीतलम्।
स्पष्टान्धकश्रियं बिभ्रत्क्रीडाकाव्यमिवाबभौ ॥ 43.221 ॥
मुष्णन्तं जीवितधनं स व्यंसकुसुमालकम्।
जघान भर्ता देहार्धं सव्यं सकुसुमालकम् ॥ 43.222 ॥
त्रैलोक्यप्रलयोत्पातदशा इव निरर्गलाः।
युधि केतुमतीर्दूरादापतन्तीः सुरद्विषाम् ॥ 43.223 ॥
तैः शातिताशोऽतीताशीः शिशुशीतांशुताततः।
तोत्तेशिताशिताशातैः सतशोऽतुत्त ताः शितैः ॥ 43.224 ॥ (द्वयक्षरः। युगलकम्)
समवर्तिपुरीवाथ विशिखावलिशोभिनी।
व्यशीर्यताशु नं प्राप्य वज्रबाहुवरूथिनी ॥ 43.225 ॥
तदा क्षणेन वीर्यस्य समदः सहितः पदम्।
रेजे स्तुतनयः साक्षान्नयवेदी क्षतामतः ॥ 43.226 ॥
मात्त्रापहारदानाभ्यां यथेष्टाभ्यां श्लोकद्वयम्—
तदाक्षणेन वर्यस्य समिदः सहतः पदम्।
रेजेऽस्ततनयः साक्षान्नयवेदे क्षतामतिः ॥ 43.227 ॥
तदेक्षणेन वर्यस्य सामदः सहतिः पदम्।
रेजे स्तुतिनयः साक्षान्नयवादोक्षितामृतः ॥ 43.228 ॥
मनोरथं सुरारीणां विशिष्टनडकूबरम्।
श्लथचक्रं चकाराजौ वज्रनाभं रुषोत्तितम् ॥ 43.229 ॥
मयमायामयायाममायी मममयोऽयमः।
येयोऽमायमियायामुममेययमयोमया ॥ 43. 230 ॥ (द्व्याक्षरः)
तस्य वेणीलता तेन सङ्ग्रामादपसर्पतः।
अयशः पदवीवाथ ददृशे पृष्ठवर्तिनी ॥ 43.231 ॥
तत्रसुर्मण्डलीबन्धैस्तस्मिंश्चरति तद्भटाः।
ते कृपापाकृते ध्यानिनिध्याते निर्दितार्दिनि ॥ 43. 232 ॥ (शूलबन्धः)
त्रिशिखेन पुरप्लोषवह्निनेवायुधेन सः।
सूचिलोमानमायान्तं प्रतिलोमगतिं द्विषाम् ॥ 43.233 ॥

विविधादिवधे धीवा विधिवेधा धवावधिः।
धीधावी वीवधी वध्वा विवैधी विधुधोऽवधीत् ॥ 43.234 ॥ (द्व्यक्षरः। युगलकम्)
निजघान रेण सेनास्वसौ दुश्च्यवनो बलम्।
अशेषसुरनाथोऽपि विपुलोमात्मजादरः ॥ 43.235 ॥
यश्चकार द्विषे कुप्यन्नवक्त्रासवतां सभाः।
नासौ न तिष्ठते न्यायानवक्त्रासवतांसभाः ॥ 43.236 ॥
प्रहारमूर्छया बिभ्रदाकुलत्वं तमन्यतः।
केतुबाहो रणे सैन्यमपश्यन्नीललोहितम् ॥ 43. 237 ॥
गरागारोरगोग्रोरा गौरीरागी गुरुर्गिराम्।
गौरागुरुगिरीरागो गौररेर्गुरुरोगरुक् ॥ 43.238 ॥ (द्व्यक्षरः)
सनागराजकटकः सगुहस्तुहिनोज्ज्वलः।
तुषाराद्रिरिवाभाति योहिमानीशतास्पदम् ॥ 43. 239 ॥
यो भाति प्रत्ययोत्कर्षादक्षयज्ञानलाभया।
दृशा च सरुषा ध्वस्तदक्षयज्ञानलाभया ॥ 43.240 ॥ (चक्कलकम्)
नानादेवकुलाकीर्णं सद्धर्म्यस्तिति तद्रणम्।
चित्ररथ्याकुलं भेजे कृतान्तनगरश्रियम् ॥ 43.241 ॥
दुर्भेद्यया चमूस्तस्य माययावसितोषिता।
रणे शौर्यगृहे क्रौर्यमाययावसितोषिता ॥ 43.242 ॥
तस्योच्चैः संगरे तस्मिन्नवारिदमनो रथः।
शरत्काल इवाभासीद्दलयन्नमरद्विषः ॥ 43.243 ॥
सोमासोमः समांसांसःक सोममासोऽसमोऽसिमान्।
ममासेसु समीमासमासामास सुसामसूः ॥ 43.244 ॥ (द्व्यक्षरः)
सन्मण्डलाग्रतामेकपिङ्गलानुगतो दधत्।
स भास्वांस्त्रिदशारातीञ्जघानोल्लाघवान्रणे ॥ 43.245 ॥
संचरिष्णुः ससंरम्भं स ना तनयशोभितः।
शौर्यमप्रथयत्संख्ये सनातनयशोऽभितः ॥ 43.246 ॥
क्षयानिलैरिवाशेषविवर्तनसहैरुरोः।
सैनिकैस्तस्य काक्षेण सावहेलं विलोकितैः ॥ 43.247 ॥
भीरोरैररिभिर्भासै रभारीरा भरेरिभिः।
रुरुरीभिरुरभ्राभा भाभारिभिरुरूरुभिः ॥ 43.248 ॥ (युगलकम् । द्व्यक्षरः)
स धीरमुरजोद्दामगर्जाः शीकरवर्षिणाः।
गजघारागृहा रेजुस्तस्याशून्याः कलापिभिः ॥ 43.248 ॥
रणे संकुलतां प्राप्ते सज्जटङ्करवपारिभिः।
तद्वपुः करिणासेचि सज्जटं करवारिभिः ॥ 43.250 ॥
दानवानां रुषा सैन्यं दैत्यानां च युयुत्सु तत्।
सेनयानुगतः संख्येसरस्वानिव वेलया ॥ 43.251 ॥
भूयेयोऽभययायीम्भो भूयो योऽभीभयोऽभयम्।
ययाभिभूय भूयोऽयं भाभोऽभीयाय भाययन् ॥ 43.252 ॥ (द्व्यक्षरः)
सास्य संहारवेलेव दलयन्ती क्षमाभृतः।
नासह्यतासकुरैः सेना बाहुशालिभिरप्यलम् ॥ 43. 253 ॥ (तिलकम्)
यस्य सेना दिशो दैत्यानविभ्रमदशोचिता।
येनारिनारी विदधे न विभ्रमदशोचिता ॥ 43. 254 ॥
त्रिविधस्यापि हर्ताथ स ध्वान्तस्य गरीयसः।
सङ्ग्रामगगने भास्वांस्तेजसाति दुरुत्सहः ॥ 43.255 ॥
दशाशादेशदादेशः शशिदंशदशाशिदोः।
देशी शंदददाशूदैदुदंशुशशिदः शदी ॥ 43. 256 ॥ (द्व्यक्षरः। तिलकम्)
तेन संजघटे सार्धं तत्सेनायुगपद्धाती।
विवर्तयन्कालकेतुः कालचक्रवदन्यतः ॥ 43. 257 ॥
पिदधुर्मार्गणास्तस्य तमीशं काञ्चनोचिताः।
छायया न व्यधुर्व्योम्नि तमीशङ्कां च नो चिताः॥ 43. 258 ॥
दधता शून्यतां शश्वत्सैन्येन प्रतियोगिनाम्।
असङ्गरवियातेन तस्य नाकतलायितम् । 43. 259 ॥

शरवृष्टिं द्विषः प्राप्तां स विषेहे तु तामितः।
श्यामलत्वं दधत्कण्ठे सविषे हेतुतामितः ॥ 43. 260 ॥
स्फुरन्मौर्वीतडिद्दण्डस्तत्कोदण्डघनाघनः।
सपृषत्कः प्रणादेन राजहंसानविव्यथत् ॥ 43.261 ॥
नग्नानुगेनानूनाग्निगुना नेनानुगानिना।
नूनं नागान्नगेनेन गगनं गां नगानागान् ॥ 43.262 ॥ (द्व्यक्षरः)
शरैः पूरयता गुप्ता विभुना हरिवाहिनी।
व्यश्नुवाना दिशः सर्वास्तरसैत्य सुकेतुना ॥ 43.263 ॥
समारणे समग्रासेऽसमग्रासेऽसमा रणे।
सुरारिणा समानेभासमाने भासुरारिणा ॥ 43.264 ॥ (तिलकम्)
स संगराङ्गने भङ्गपराचीनमतङ्गजे।
अनङ्गकेतुनारब्धसुरमङ्गलगीतिना ॥ 43.265 ॥
नादिनादीननोदेन निदानोनेन नादिना।
नादि नादौ न नुनुदे नूनं नानौदनादिना ॥ 43.266 ॥
(युगमम्। द्व्यक्षरः। पादाद्यन्तयमकं च)
तेनानायि प्रतिस्रोतः शरौघैस्तिमिराशिभिः।
वाहिनी विस्फुरत्कूलकुञ्जराजिः सुपर्वणः ॥ 43.267 ॥
जघान च विनिघ्नं तं विनिघ्नन्तं स भासुरम्।
सभासु रञ्जयन्नाकं जयन्नाकम्पिविग्रहम् ॥ 43.268 ॥
दुर्गसालमिवारातिं सच्छेदक्रमशीर्षकम्।
कुर्वंस्तस्य भटान्संख्ये जवादापतितोऽथ सः ॥ 43.269 ॥
जुजूरे राजराजाजिरोरुजार्जिरुजो रुजन्।
रराजाजो रुरूर्जाजूरोजोऽरे रुरुरार्जिजत् ॥ 43. 270 ॥
तत्सेनायाः प्रहणनैश्चेतोहारि सुरद्रुहाम्।
रणं तदासीत्कृतिभिः परीतं रतसंनिभम् ॥ 43. 271 ॥
निर्यान्त्या ज्वालया हेतेः स भयानयाश्रितः
दिवौकसां द्विषद्बीत्या सभया न कयाश्रितः ॥ 43. 272 ॥
प्रत्यस्त्रसंदोहयोधी योधाभिनन्दितः।
शिक्षाविशेषमक्षुण्णं दर्शयन्नाहवाङ्गने ॥ 43. 273 ॥
हारिहाराहिरंहोरिराहो रंहोरिहा हरेः।
हरो हरहराराहो रोरुहोरुरुहोऽहही ॥ 43.274 ॥ (तिलकम्। द्व्क्षरः)
तदा क्रूरबलोपेतं रराज भटमण्डलम्
युधि शौर्याचितां बिभ्रल्लक्ष्मीं वृष्णिकुलोपमाम् ॥ 43.275 ॥
समदानागजामर्दी समदा नगजामतः।
वैरिराजपामर्शी स रराज परामयः ॥ 43.276 ॥ (तूणीबन्धः)
उत्सृज्य समरं सार्धमभिमानेन दानवाः।
अमान्तो दिक्षु भूयस्त्वादथ काञ्चनभूभृतः ॥ 43.277 ॥
दुर्दारदोर्द्रूदरदुद्दूरोदाररदीरदाः।
दुद्दारिरोदरा रुद्रदरादददिरे दरीः ॥ 43.278 ॥ (युग्मम्। द्व्यक्षरः)
अवामदक्षिणस्थेन ललाटतटवर्तिना।
विद्विषोऽक्ष्ण दहन्नारात्स्यन्दने रणे भ्रमन् ॥ 43.279 ॥
सकैटभारौ तत्राजिलालसः सवसौ तदा।
बलिभोमोऽर्कसच्छायः स कैलासवदाबभौ ॥ 43. 280 ॥ (युगलकम्। समञ्जसबन्धो गूढचतुर्थः)
संवर्तकघटाघोरघर्घरोर्जितगर्जितैः।
कृते तदानीं सङ्गामे सहसा दानवाधिपैः ॥ 43. 281 ॥
सा गणापक्ष्ये क्षअमा च स्तावराविरतातिभीः।
भीतितारविरावस्ता चक्ष्माये क्षपणागसा ॥ 43.282 ॥ (अनुलोमप्रतिलोमार्धः। युग्मम्)
सुरवैरिचमूं श्लिष्यन्विधूमाश्लेषशोभिना।
लोचनज्वलनेनाराद्वपुषा च विराजितः ॥ 43. 283 ॥
युधि येयायुधीयायां ध्येयाध्येयो धियाधिधूः।
योधाधायी धयो योध्यं धाय्याधेयोऽध्ययूयुधत् ॥ 43. 284 ॥ (द्व्यक्षरः)
स मार्गमर्गलादण्डो जयद्वारस्य विद्विषाम्।
अवाप्तशलभच्छायं शरैश्चक्रे विहायसः ॥ 43. 285 ॥ (तिलकम्)
तस्मिन्कुर्वति तान्वैरिनक्रेऽङ्कारोपितापदः।
योधैस्तद्धनुषः सेहे न क्रेंकारोऽपि तापदः ॥ 43. 286 ॥
संप्रहारतलोर्व्या च सुभटं सुरविद्विषः।
नित्ये न तरसा योगं भूमिवर्धनतां गतम् ॥ 43. 287 ॥
कया कुकाकुकायायकाकीकाकौककाकया।
कुकैकैकिकया कं यः काकी काकोऽककाकया ॥ 43. 288 ॥ (द्व्यक्षरो युक्पादयमकश्च)
प्रणतं स विभुः शत्रुमुत्ससर्जाकुलं रणे।
हिमवानिव सन्नागविदारीरचितस्तितिः ॥ 43. 289 ॥ (तिलकम्)
सासासासुपिपासासी सोऽपिपासः सपापसूः।
सपंसासोऽसिपापासी सोपासः स पपौ सुपात् ॥ 43. 290 ॥ (द्व्यक्षरः)
सत्पुङ्खदृढमुष्टित्वं दधद्भिर्मार्गणासिभिः।
विभिन्नच्चिन्नहृत्कण्ठाश्चक्रिरे तद्भटैर्भटाः ॥ 43. 291 ॥
कृतकामोऽथ गोभर्ता सव्यूढकमलासनः।
भूतिधाम परं भेजे शंभुः शंभुरिवापरः ॥ 43. 292 ॥ (अर्थत्रयवाची)
धत्ते मनोभवाकारं करं यः शम्बराजितम्।
क्षोभितो भुवनापाये वीचिमानिव दुर्धरः ॥ 43. 293 ॥
सवसासवसेवासु सासावासासु सौववान्।
सुवासोंसः सवासेवी वासवः सवसावसौ ॥ 43. 294 ॥ (द्व्यक्षरः)
वरूथिनीषु समरे दैत्यराजक्षमाभृताम्।
वज्राहतिभिरत्युच्चैः शौर्यश्रृङ्गाण्यशातयत् ॥ 43. 295 ॥(तिलकम्)
ननृते सुतरां सूर्त्याकाबन्ध्यासमरेचकैः।
शरश्रेणिर्विचकरे का वन्ध्या समरे च कैः ॥ 43. 296 ॥
तदा जिन इव स्पष्टवज्रासनरुचिर्मृधे।
क्षमाधरगुरुर्दैत्यस्कन्धमाराज्जिगाय सः ॥ 43. 297 ॥
दधुषी जघनं प्राप्तं काञ्चीरवसनाथताम्।
यस्यारिस्त्री दशां नाप कां चीरवसनाथ ताम् ॥ 43. 298 ॥
सिसङ्ग्रामयिषुस्तेन दष्टदन्तच्छदः क्रुधा।
अभ्यैदभ्यागमारम्भसंरम्भादशनिप्रभः ॥ 43. 299 ॥ (युग्मम्)
शौर्यानलशिखाजाले कौशिकसंय हताहिनि।
निपेते तेन निर्मृष्टसारतातापनिर्मृधम् ॥ 43.300 ॥ (शरबन्धः)
सुकेतोरथ सङ्ग्रामे करालकुटिलभ्रुवः।
पृतना भूरिभूरेणुधूसरापि स्फुरन्त्यलम् ॥ 43. 301 ॥
नुन्ननानाघनौघेन निघानघघनाघनाः।
घनाघनेन नाघानि नाघ्नाना नुन्ननिघ्ननौः ॥ 43. 302 ॥ (द्व्यक्षरः। युगमम्)
ललाटतटगां दृष्टिं धूर्जटेरनुकुर्वती।
सदानलक्ष्मा शुशुभे तत्कुञ्जरघटारणे ॥ 43. 303 ॥
संप्रहारे स पर्यस्तनानाशम्बहुलोहितम्।
व्यधादतनुसंरम्भो नानाशं बहुलोऽहितम् ॥ 43. 304 ॥
कपर्दीवासुरामर्दी स हालाहलविभ्रमः।
तदा संजघटे सार्धं सीरपाणिः सुकेतुना ॥ 43. 305 ॥
बिभ्रद्वपुः सरक्तौघविस्रं सीरक्षतोऽदयम्।
तेनाकारि स नागांसविस्रंसी रक्षतोदयम् ॥ 43. 306 ॥
वराहलीलाञ्छितया श्रिया हरिरिवाश्रितः।
पुष्पवर्षैः क्रियास्तन्वन्समभाव्यत खेचरैः ॥ 43. 307 ॥ (गुढकर्तृकः)
यस्याम्भः प्रणतो नैव नरके सरितामधात्।
विभिन्नदैत्यां यश्चैको नरकेसरितामधात् ॥ 43. 308 ॥
आपूर्य दशनज्योत्स्नासविशेषविपाण्डुरम्।
पाञ्चजन्यं रवाध्मातब्रह्मस्तम्बान्तरं रणे ॥ 43. 309 ॥
सकाककाकसाकेऽसौ कौकसैकोऽकुकाकुसूः।
सकासूकैः स कंसासी साकं सासासिकोऽकसत् ॥ 43. 310 ॥ (द्व्यक्षरः। तिलकम्)
अकृतारिकुलक्षोभा लम्बना एव वाहवः।
इत्यवेत्य व्यधत्तासौ रणेऽरिकदनं महत् ॥ 43. 311 ॥
दोष्णि दृष्टिं ददौ पीने कंसहा यमतोरणे।
द्विषो हन्तुमपैक्षिष्ट कं सहायमतो रणे ॥ 43. 312 ॥
शिरोभिरमरारीणां नाराचच्छिन्नकंधरैः।
निपेतिवद्बिस्तस्याजौ शौर्यद्रुमफलायितम् ॥ 43.313 ॥
स शरान्दिक्षु चिक्षेप सचक्रोऽष्टासु रक्षिता।
द्विषन्नवेदि तेनाथ स च क्रोष्टासुरक्षिता ॥ 43. 314 ॥
व्यापारयन्ससंरम्भं स नन्दकपरश्वधम्।
सङ्ग्रामकानने सेनां सुरारेः पत्त्रशोभिनीम् ॥ 43. 315 ॥
वल्लवो वालिलीलैला वल्लीलावो वलावलिम्।
लुलाव लीवो लोलवां (लोलवांल्लीवो) ल्लवलीं वोललोलुवः ॥ 43.316 ॥ (द्व्यक्षरः युग्म्म)
कौस्तुभाम्भोरुहं वक्षःसरसि द्योतकेसरम्।
दधल्लक्ष्मीनिवासैकरागेणेव विपाटलम् ॥ 43. 317 ॥
दिदेवादिविदुद्दैवो दवदेव ददद्दिवम्।
वेदवादविदां विद्वदावेदी देवदीदिविः ॥ 43.318 ॥ (द्व्यक्षरः। युग्मम्)
तत्सङ्गामसदस्याराद्गान्धर्वं च कलेवरम्।
धृष्टमासाद्य तरसा काकी वैरस्यमानयत् ॥ 43. 319 ॥
बद्धकक्ष्यो हरिर्भास्वदाननो दीनतारणे।
जहावरिचमूर्नागदाननोदी नता रणे ॥ 43. 320 ॥
समत्सरो विधायासावास्थामनधिकस्वनौ।
युयुत्सू संयुगे तारसुतारावधिपौ द्विषाम् ॥ 43. 321 ॥
भूभावाभावभीभावावुभौ भौवाववीभवत्।
भावीव विभवावेव भावे वा वैभवे भवन् ॥ 43. 322 ॥ (द्व्यक्षरः। युग्मम्)
सङ्ग्रामस्तस्य ताभ्यां च सार्धं स शरदुर्दिनः।
पर्यायविजयोत्फुल्लनेत्रदेवासुरोऽभवत् ॥ 43. 323 ॥
दधतौ पौरुषच्छायाममृषातान्तदोर्जितौ।
तौ युध्यमानौ तेनालममृषातां तदोर्जितौ ॥ 43. 324 ॥
तयोरुरूरुनिष्पेषान्मधुकैटभयोरिव।
पतत्त्रिकेतनं तुष्टा तुष्टाव सुरसंहतिः ॥ 43.325 ॥
तद्वरूथवतीं कोपाद्विपदन्तकरः सताम्।
जघानासिलतालूनद्विपदन्तकरः स ताम् ॥ 43. 326 ॥
तत्सङ्ग्रामे ससंरम्भाः सुरस्त्रीभिर्विलोकिताः।
मृताः स्वर्गामिनोऽभूवन्सजीवाश्चोभये भटाः ॥ 43. 327 ॥
साभासासु सभासांसः साभीभासु स सौभभित्।
साभः सभासु भूभासी सासिभाःसु सभासु भान् ॥ 43. 328 ॥ (द्व्यक्षरः)
अस्तूयत सुरैः संख्ये संचरिष्णुरनर्गलम्।
संवादिलक्षणग्नन्थः सकृत्तद्धिततां दधत् ॥ 43. 329 ॥ (युग्मम्)
अभ्रष्टः संयुगेऽरीणामपाययतनाददः।
रक्षःकुलं स रक्तौघमपाययत नाददः ॥ 43. 330 ॥
दलयन्पृतनाः शत्रो रुषाक्रान्तमना मृधे।
अवार्यवीर्यातिशयः सोऽनिरुद्धस्तदाभवत् ॥ 43. 331 ॥
तेन चक्राभिघातेन निघ्नतारेर्विनिघ्नता।
कृता नानाहवकृता साध्वसंश्रितसाध्वसम् ॥ 43. 332 ॥
स्थगिताकाशदिक्चक्रः स महान्तैः शरैर्द्विषाम्।
शइरांसि पीवरच्छेदस्कन्धचक्राण्यजीहरत् ॥ 43. 333 ॥ (अपशब्दाभासः)
कावेकोऽवी कविः कंवः केकिवैकोऽकुकाकुवाक्।
कविकाकुकवोऽवीकावाविकं वाविवेकवत् ॥ 43. 334 ॥ (द्व्यक्षरः)
स निहत्य ततो दैत्यौ युध्यमानावसंभ्रमम्।
चचार प्रलयोष्णांशुदुर्निरीक्ष्यवपू रणे ॥ 43. 335 ॥ (युग्गम्)
शुशुभे तेन सक्तेन मानिना यमताकृतौ।
तत्र दृष्टिं जनः प्रीतिमानिनाय मताकृतौ ॥ 43. 336 ॥
अथ व्युत्थानसंस्कारः संस्कारानिव योगजान्।
बबाधे विबुधान्धर्पात्कालान्तकमहासुरः ॥ 43.337 ॥
निजघानोर्जितैर्बाणै रजस्तमसितोऽत्रिणा।
स्तुतः सोऽप्यमुना नुन्नो रजस्तमसि तोत्रिणा ॥ 43. 338 ॥
समवर्तिपुरद्वारपरिघं मुद्गरं जवात्।
उद्गूर्य तमुभाहस्ति हस्ती हन्तुमथाभ्यगात् ॥ 43.339 ॥
अभग्नप्रसरोद्दामतरसादी प्रतापिभिः।
सैनिकैः स जघानामुं तरसा दीप्रतापिभिः ॥ 43. 340 ॥
अभानि नायकेनारेः प्रतिकर्मकृतस्तितिः।
वेश्येव दधती सेना स्पुटकैतवसारताम् ॥ 43. 341 ॥
सोऽवैत्क्षतिं द्विषां तस्मिन्न वाचामन्तिके स्तिताम्।
प्राप्तं योधं शिवौघा स्म न वाचामन्ति केऽस्थिताम् ॥ 43. 342 ॥
तेजस्विमण्डलस्यारात्कुर्वन्नन्तर्दिमाहवे।
अभ्रंकषवपुः श्रीमान्स तदास्ताचलोऽभवत् ॥ 43.343 ॥
बिभ्रतः सांयुगीमुच्चैरपरे धुरमत्र ताम्।
प्राप्ताः प्रभुभ्यः किं कीर्तेरपरेधुरमत्रताम् ॥ 43. 344 ॥
कृतान्तनगरीसालवलयं चक्रितं धनुः
दधत्तेनाथ युयुधे ज्वालाजिह्वः समत्सरम् ॥ 43. 345 ॥
निर्धौतकनकच्छायाः सच्छदाः शीघ्रगामिनः।
तार्क्ष्येण सदृशास्तस्य सायका रेजिरे रणे ॥ 43. 346 ॥ (निरोष्ठयः)
बभौ तस्य द्विषः सेना निघ्नती व्रश्चनादिभिः।
सैन्यैः स जनितामर्षनिघ्नतीव्रश्च नादिभिः ॥ 43. 347 ॥
सप्तलोकोपसंहार दृष्टसारः सुरासुरैः।
समरे युध्यमानोऽसौ नालिङ्ग्यत जयश्रिया ॥ 43. 348 ॥
कुकुदी दकदूदोऽकोऽकूदकौकाः कदैककः।
केकादकेकिकेऽदूककुककाकादिकेऽकुकुत ॥ 43. 349 ॥ (द्व्यक्षरः)
सपुरस्कारमक्षुण्णप्रसरं समराङ्गने।
साडम्बरमरेः सैन्यं हास्तिकं च खगाधिपः ॥ 43. 350 ॥
विनिहत्य मदापानचञ्चुरभ्रमरं जयत्।
पतत्त्रच्छायया तीक्ष्णचञ्चुरभ्रमरञ्जयत् ॥ 43. 351 ॥ (तिलकम्)
कृतापदानः सङ्ग्रामसीम्नि दोर्दर्पतो भटः।
उदात्ततामेव दधत्केवलां स्वरितोऽभवत् ॥ 43. 352 ॥
स्तितोऽरिर्यस्य वेषेण कुशचीवरतापि ना।
जग्ले च हरिणाक्रन्दकुशचीरवतापिना ॥ 43. 353 ॥
स्फुर्जावताथ सङ्ग्रामे येनवल्गी निरर्गलम्।
वज्रकेतुमसौ दर्पादर्पितातनुसंभ्रमम् ॥ 43. 354 ॥
ममारिमारी रामोरुरंरमो मर्मरे मरौ।
मुमारिरमुमारामी रुरुमारममीमरत् ॥ 43. 355 ॥ (द्वक्षरः। युग्म्म)
अनेकपापहरणे व्यग्रः सपदि विद्विषाम्।
प्रणतानां च विश्लिष्टभवचारकपञ्चरः ॥ 43. 356 ॥
स कर्ताप्सरसं संख्ये सज्जहातिस्मरक्षताम्।
सजीवं किं द्विषां सैन्यं सज्जहाति स्म रक्षताम् ॥ 43.357 ॥
दैत्याधिपैः सुतीक्ष्णैश्च मेघाभैर्दृढमुष्टिभिः।
निस्त्रिंशैर्बाध्यमानोऽपि न चकम्पे स्तिरस्तितिः ॥ 43. 358 ॥ (तिलकम्)
स दावैरिव धेनूनां सेनानां ज्वलितैः शरैः।
सदा वैरिवधेऽनूनां शक्तिं बिभ्रद्भयं ददौ ॥ 43. 359 ॥ (अयुग्यमकम्)
तदैवासुरयाधानां हतशेषत्वमीयुषाम्।
चक्रे हृदि पदं नो भीः कुर्वतामभयाञ्जलिम् ॥ 43. 360 ॥
यदाययायी युद्दोऽयं देयदायी दियं ददत्।
यदुदायादयादोदुदुदयाय दयां ययौ ॥ 43. 361 ॥ (द्व्यक्षरः। युग्मम्)
आमोदधामभिस्तस्य सुमनोभिः कृतस्तितिः।
कबन्धयोग्या शुशुभे नवशेषा रणक्षितिः ॥ 43.362 ॥
द्विषो रणेऽपरामृष्टः स ततक्ष त्रियामया।
रामस्येव क्रियास्यासीत्सततक्षत्त्रियामया ॥ 43. 363 ॥
भर्तुः संप्रतिपत्तीनां स्मरंश्चिरमविक्लवः।
सांयुगीं सहसा योद्भुं नैल तत्र कुमारकः ॥ 43. 364 ॥ (गूढक्रियाकर्मकर्तृकः)
तेनाहतानां सङ्ग्रामेऽनवमेऽघासि तैरसौ।
क्रव्यकूटः क्षपाटैस्तु नवमेघासितैरसौ ॥ 43.365 ॥
पश्यतो युधि तद्रंहो गरुडानिलभास्वताम्।
मन्थरत्वं गतेस्तत्र कस्य चेतसि नास्पुरत् ॥ 43. 366 ॥
रणभूमिषु दैत्यानां सचमूकासु रङ्गताम्
जहार पौरुषच्छायां स च मूकासुरं गताम् ॥ 43. 367 ॥
तारकाख्यं स शङ्ग्रामे शितशल्यैः शिलीमुखैः।
पुञ्जीकृत इवाशेषलोकसंवर्तपावकः ॥ 43. 368 ॥
यशः शय्याशयः शंयुः शशीशाशयशाय्यशान्।
ययुयाय्याशया शं शंयेयोऽशायाय्यशाययत् ॥ 43. 369॥ (द्व्यक्षरः। युग्मम्)
स कालदमनस्याथय युधि निघ्नन्वरूथिनीः।
दधद्ध्व्रुवमिव भ्रेजे चक्रं भ्रमिततारकम् ॥ 43. 370 ॥
तं सुराण्डजवीतंसं वीतं संपदमुज्ज्वलाम्।
निजघान च विधअयन्तं विद्यन्तं च जगाम सः ॥ 43. 371 ॥
स कृशानुरिवोद्दीप्तः प्रभञ्जनसहायताम्।
दधच्चक्तिं ज्वलद्धेतिं दितिजानीककानने ॥ 43. 372 ॥
पिप्पोदपादी दीपोऽपि पाददादौ दददापदम्।
दिदीपे पददोऽपादिपादपं दुददीदिपत् ॥ 43. 373 ॥ (द्व्यक्षरः । युग्मम्)
वर्णस्थितिमतीमर्थ्या दधद्रुचिरभास्वराम्।
गिरं च पादपच्छायां श्रियश्च चतुरस्रताम् ॥ 43. 374 ॥
समानानि समानानि स संयति ससंयति।
सदाहानि सदाहानिपलानि चपलानि च ॥ 43. 375 ॥ (आवलिबन्धः)
प्रगल्भं वल्गमानानि भुजदर्पादतर्पयत्।
निकृत्तारातिकण्ठोत्थै रक्षांसि क्षतजासवैः ॥ 43. 376 ॥ (तिलकम्)
उत्सृज्य वक्षः श्रीर्यस्य न परा चिकुरं गता।
द्विषामासीद्रणात्तस्मिन्नपराचि कुरङ्गता ॥ 43. 377 ॥
स भिन्दन्द्विषतः सेनाः सपत्त्राकृतवारणैः (वैरिभिः)।
रणाजिरोर्वीमखिलामसृजोच्छलता गिरौ ॥ 43.378 ॥
पीलूपलाल्पपालीपे लोलालापालिपिप्पले।
पाली पापोलपालोपी लीलापी लोलुपोऽलिपत् ॥ 43. 379 ॥ (द्व्यक्षरः। तिलकम्)
तार्क्ष्यपक्षानलव्यस्तसरत्नशिखरोत्करम्।
संप्रहाररसाध्मातपादातोन्मूलितद्रुमम् ॥ 43. 380 ॥
स व्यधत्त तथादीर्घसूत्रस्तमगमन्यथा।
तत्टीः खेचरास्त्यक्त्वा सूत्रस्तमगमन्यथा ॥ 43. 381 ॥ (युग्मम्)
कृतहेमोज्ज्वलच्छायपत्त्रभङ्गान्सुपर्वणः।
सोऽकिरद्दधते बाणान्मयदानवविभ्रमम् ॥ 43. 382 ॥
शरीरीशोऽशरीराशीरंशोंऽशः शिशिरांशुरुक्।
शारैराशाः शरैराश शूरश्रीश्रः शरारुशूः ॥ 43. 383 ॥ (द्व्यक्षरः)
अङ्गे वृद्धिगुणाश्लिष्टा धातवः प्रत्ययैरिव।
रुपाभिव्यक्तिमन्वीता विवव्रुरसुरैः सुराः ॥ 43. 384 ॥
इति भटभृकुटीनां कोपनी यापनीया
कृतिभिरुदसिधारावारमत्तारिमत्ता।
द्युयुवतिरतरत्नाबोगसारागसारा-
दजनि समरसंपत्सासुराणां सुराणाम् ॥ 43. 385 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये चित्रयुद्धवर्णनोद्धातो नाम त्रयश्चत्वारिंशः सर्गः।