४२

.

हरविजयम्।

द्वाचत्वारिंशः सर्गः।

ज्वलिता भृशं तदभियोगरुषा विविधायुधा दितिसुताधिपत्तेः।
प्रहतानकाः समरलालसया सहसैनिकैर्जघटिरे पृतनाः ॥ 42.1 ॥
शितवर्त्मभिः करतलप्रहितैर्युधि शुष्मिणां विदलितान्नभसः।
मदतृष्णया करिकटेष्वलयः पतिता बभूः प्रचुरचूर्णनिबाः ॥ 42.2 ॥
क्षयकारिणः सपदिपीतविषा भुजगश्रियं प्रतिभया दधतः।
विभभुस्तरामसिचयाः समरे हरविभ्रमा रुचिरचन्द्ररुचः ॥ 42.3 ॥
भुजशालिनां करतलप्रहितैर्भ्रमणाकुलैररिभिरभ्यहितम्।
अनुचक्रेरे समररत्ननिधेः सलिलभ्रमाः सपदि मण्डलिभिः ॥ 42.4 ॥
कृतमूर्छनं प्रहरता द्विषता करशीकरै रणगतः शिखिरैः।
समशिश्वसत्करिपतिः सुभटं महतां स्तितिः परहितप्रवणा ॥ 42.5 ॥
रुधिरारुणैर्निशितखङ्गहता नवमौक्तिकैर्द्विरदकुम्भतटाः।
युधि दाडिमैः सदृशविभ्रमतां स्फुटितैर्दधुः प्रकटबीजशतैः ॥ 42.6 ॥
भटकामिनः प्रतिवरूथवतीं रभसाद्र घ्नतः समरवासगृहे।
प्रतिगुम्फिताः शितिसरोजदलैर्गलिता बभुः स्रज इवासिलताः ॥ 42.7 ॥
शुशुभेतरां मणिखिसस्त्रभृता भुजशालिना धृतसमुन्नतिना।
सदृशात्मतामुदयसानुमतः परिबिभ्रता शिखरवर्तिरवेः ॥ 42.8 ॥
उदरश्रितो विकटकुम्भभुवो नवमौक्तिकान्नभसयानुसृतैः।
सदृशश्रियः शुचिभिरंशुचयैः श्रुतिचामराः शुशुभिरे करिणाम् ॥ 42.9 ॥
प्रतिहारिभिः करिकरैरसकृत्परिपिण्डितैः समरभूमिरभात्।
लिपिसंहतेः सुभटनामजुषः प्रणवैरिव प्रथममालिखितैः ॥ 42.10 ॥
युधि धावतः प्रतिगजाभिमुखं पुनरप्यधाद्गजपतेः सरुषः।
दलिताश्रयः सपदि केतुपटः पतितो मुखे पृथुमुखच्छदताम् ॥ 42.11 ॥
करिमौक्तिकैर्विगलितैः शुचिभिः सुभटाश्रयाश्वमरतन्तुशतैः।
वरणस्रजो ग्रथयितुं रणभूः सुरयोषितां द्रुतमिवैच्चदसौ ॥ 42.12 ॥
सुरकुञ्जराः क्षितितलास्खलितैः प्रतिमाश्रयान्विदधुरूर्ध्वगतैः।
कटकान्करैः स्फुटचषालरुचः समराध्वरे विकटयूपगतैः (समैः) ॥ 42.13 ॥
स्पुरदुच्चकैर्विकचकुन्दरुचि श्रवणाश्रयं गजपतेर्जलजम्।
शशिमण्डलं तरलमन्वकरोत्प्रकटास्पदं गिरिगुहानिकटे ॥ 42.14 ॥
पतितोद्धृतैः श्रवणशङ्खशतैः समराङ्गणे शुशुभिरे करिणाम्।
सदृशाः कराः सरलतां दधतः स्फुटमौक्तिकैर्वकटवंशशतैः ॥ 42.15 ॥
युधि घूर्णितं सुभटमीक्ष्य पुरो दधती वपुः पुलककण्टकितम्।
स्मरगौरवात्सुरवधूरभवद्भृशदुर्वहा निजविमानभुवः ॥ 42.16 ॥
क्षितिमण्डले निमितजानुयुगो गुरुमत्सरस्त्रिकसमुन्नतिमान्।
स्थगितेक्षणो ध्वजपटेन मुहुर्भटविग्रहे परिणनाम करी ॥ 42.17 ॥
रणभूरसौ दलितवर्तनया मणिघण्टया हतकरिच्युतया।
समरश्रियो व्यरुचदाश्रितया सदृशीं श्रियं कमलकर्णिकया ॥ 42.18 ॥
कृतमूर्छनं व्यनुसृता सुभटं युधि जीवतो व्यपगता च ततः।
करिमौक्तिकैर्दशनपङ्क्तिनिभैर्जहसे भुवा स्पुटमिव द्युवधूः ॥ 42.19 ॥
श्रियमुच्चकैर्दधदलङ्घ्यतमां निजतेजसा क्षपितशत्रुतमाः।
अवगुण्ठितः समरधूलिकणैः सुभटोऽस्पुरद्विशदमेव तदा ॥ 42.20 ॥
रचितस्तितेः प्रविकटांसतटे श्रवणानिलैः परिवृढस्य पुरः।
वसुधारजः प्रबलभक्तिमना व्यकिरत्तरां रभसयेव करी ॥ 42.21 ॥
स्फुरिता बभौ गगननीलरुचिः सुभटश्रया वलिमलखङ्गलता।
समराम्बुधेर्नवतमालरुचा तटलेखया सदृशतां दधती ॥ 42.22 ॥
गजसंहतेर्दलयतो दशनात्प्रचूरं रजः शशिमरीचिसितम्।
द्रुतमुत्थितं यश इवाविरलं शबला दिशो व्यधित शुष्मवतः ॥ 42.23 ॥
मणिरञ्जिता शशिकलेव शनैः कुटिलोत्थिता समरसिन्धुपतेः।
श्रियमासदद्भटकराग्रगता करवालिका रुधिरताम्ररुचिः ॥ 42.23 ॥
रिपुदन्तिनां पृथुविषाणगता भुजशालिनो दलयतः प्रतिमाः।
घनमेचकं विषमिवोदभवत्प्रचुरं रजः प्रघनरत्ननिधेः ॥ 42.25 ॥
विदधज्जवात्कुलिशमुष्टिहतं करिणो रणे रदनदण्डयुगम्।
सुभटोऽकरोन्वरमप्रतिमं समभिष्टुतः स्वमपि योघजनैः ॥ 42.26 ॥
पुलकं दधौ सघनघर्मजला धृतवेपथुर्मुहुरजृम्भत च।
भटमीक्ष्य खे नहि तदस्ति न यद्विदधेऽप्सराः स्मरमयं ललितम् ॥ 42.27 ॥
गलरिताः क्षितौ शरशिखादलरिताः क्षतजोक्षिता द्विरदवालधयः।
नवलाक्षिकैः शुशुभिरे सहृशा युधि चामरैर्दिनकराङ्गभुवः ॥ 42.28 ॥
रचितास्पदा निहतसादितया तुरगासने सपदि शून्यतले।
दघतो मुदं रुधिरपानकृतां युधि बभ्रमुर्विकृतभूतगाणाः ॥ 42.29 ॥
भुजशालिना स्पुरदरि प्रधने स्थगितान्तरं शुचिमरीचिचयैः।
समरश्रियः सरसचाटुधिया मणिदर्पणं विधृतमन्वकरोत् ॥ 42.30 ॥
युधि कोटवीरभिविलोक्य तदा मुदितात्मनः प्रकृतनृत्तविधाः।
दलिताश्रयैर्धवलकेतुपटैस्तरितुं चुर्दुतमिवैच्छदसौ ॥ 42.31 ॥
परिघाहतात्पृथुविषाणमुखात्प्रतिमा बभौ निपतिता करिणः
शररधिश्रियं युधि परिभ्रमतः समवर्तिनो निजरुचिं दधती ॥ 42.32 ॥
क्षतपुष्करैरशिवया शइवया स तदानकैर्निपतितैरवनौ।
रणराक्षसो ग्रसितुमाशु चमूर्बहुभिर्मुकैः स्थित इव व्यरुचत् ॥ 42.33 ॥
असिभोगिभिः स्फुरितरत्नकणैः कृतगुप्तयः ससलिलाभ्रनिभैः।
समरक्षितौ स्पुरितभद्रघटाः श्रियमासदन्सुभटसन्निधयः ॥ 42.34 ॥
समणित्विषो-विकटचापलता भटनायकः प्रशभकृष्टिनताः।
गृहभृत्कला धवलपक्ष इव व्यनयत्क्रमादतनुमण्डलताम् ॥ 42.35 ॥
घनमुत्थितं युधिमिथोऽभिहतेः श्रियमाययौ सुभटखङ्गरजः।
सुरयोषितां प्रकृतसंवनने नवमञ्जनं द्रुतमिवाचरितम् ॥ 42.36 ॥
युधि शङ्कुभिर्भटकरप्रहितैर्दधुरुन्नताः स्पुटशिखण्डभरैः।
गिरिभिः क्षणं सदृशतां करिणः प्रचलाकिभिः शिरसि बद्धपदैः ॥ 42.37 ॥
समणित्विषा घटितमीलिकया पतितं भटात्समिति चक्रमधः।
कुटिलश्रिया शशभृतः कलया रविमण्डलं सहितमन्वकरोत् ॥ 42.38 ॥
भृशविक्लवाश्त्रिदशवैरिवधूस्त्रिदिवौकसां विदधता ववृधे।
अचलाधिपं दलयतेव जवाच्छरजन्मना युधि रवेण तदा ॥ 42.39 ॥
विकटोर्मयः समरसिन्धुपतेः समवर्तिनः स्फुटकराङ्गुलयः।
श्रियमासदन्विकटकुन्तलता भुजशालिभिः सरभसं भ्रमिताः ॥ 42.40 ॥
नवमौक्तिकैः करिशिरोघटितैर्गगनच्छविः सुभटखह्गलता।
युधि केशिनो दशनरत्नकणैः शबलीकृता हरिभुजेव बभौ ॥ 42.41॥
द्विरदः क्षणादसिविलूनतलान्प्रतिहीरिणः करिकरानवनौ।
भयपुञ्जितान्सपदि पत्त्रिपतिर्भुजगानिव व्यदलयत्समरे ॥ 42.42 ॥
भ्रमयञ्जवादतनुकुन्तलतां निजतेजसास्फुटमधःस्थमवैत्।
दशनोत्प्लुतः प्रतिगजांसगतं सुभटं भटः प्रहितहेतिशतम् ॥ 42.43 ॥
करिणि स्तितः प्रचुरभूतिसिते स्फटिकाचले द्रविणनाथ इव।
अमनुष्यगं तदपि धर्ममगात्सुभटोपरः क्षपितशत्रुगदः ॥ 42.44 ॥
मणिवर्त्मसु प्रधनवत्मगता विबभुर्भटाः स्पुरितचक्रचयाः।
विमलात्मभिः सदृशतां दधतः सलिलाशयैः प्रतिमितोष्णकरैः ॥ 42.45 ॥
गलितं तथा रदनिनां समरे प्लुतदिङ्मुखैर्बहलदानजलैः।
स्रुतनिर्झरानभिविशङ्क्य गिरीन्नभसो यथा घटितमम्बुधरैः ॥ 42.46 ॥
करिणां मिथो दशनघट्टनया विषमार्चिषा सपदि निष्पतता।
समराजिरे ज्वलितकुन्तलतः क्षितिभृद्बभौ प्रकटदाव इव ॥ 42.47 ॥
द्रुतपातिनः सजलमेघरुचो युधि वाहिताः प्रतिभटक्षतये।
निबिडौजसः शुशुभिरे तुरगाः शितिवर्मभिः सदृशतं दधतः ॥ 42.48 ॥
भुजशालिनो जिगमिषोस्त्रिदिवं समरश्रिया प्रकृतमङ्गलया।
कलशैरिव प्रतिदिशं निहितैर्भटमस्तकैः क्षितिरभात्पतितैः ॥ 42.49 ॥
रचितास्पदा दधति वारिमुचा समदेहतां गजपतौ समदे।
श्रियमासदत्तडिदिवारुणिता गलतासृजा समिति खड्गलता ॥ 42.50 ॥
इत्थं विजृम्भितरुषः कृतरत्नसानु-
कम्पाः परस्परजयावहितैर्मनोभिः।
गीर्वाणदैत्यपृतना बहुधा तदानीं
सद्वन्द्वसंगररसप्रवणा बभूवुः ॥ 42.51 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये समरोद्दातवर्णनं नाम द्वाचत्वारिंशः सर्गः।