४१

.

हरविजयम्।

एकचत्वारिंशःक सर्गः।

अथ कथमपि तस्याः संकटद्वारसीम्न-
स्त्रिदशगणवरिष्ठैरञ्जसान्वीयमानः।
श्रुतहरिजयशब्दः स्फीतवादित्रघोषै-
र्गिरिकटकतटान्तान्निर्जगामेन्दुमौलिः ॥ 41.1 ॥
क्वणितमुखरघण्टाचक्रवालध्वजाग्रं
रथवरमधिरुद्य प्रस्थितस्योत्पताकम्।
स्वथमवहितचेता मङ्गलं संविधित्सुः
सरभसमभिदध्यमौ वैष्णवी तस्य शङ्घम् ॥ 41.2 ॥
नवधवलदुकूलैः कल्पिताः सैनिकानां
शशिकरसितकीर्तिक्षीरसिन्धूर्मिभङ्गाः।
द्विरदघनबलाकाः कप्रोल्लसन्त्यस्तदानी-
मनिलबलविलोला वैजयन्त्यो विरेजुः ॥ 41.3 ॥
स्फुटमणिपरिणाहप्रस्फुरत्पुष्करश्री-
द्रुतमुपरि नियन्त्रा हन्तुमुत्क्षिप्यमाणः।
उदयचगिरिशिखाग्रादूरवर्त्यर्कबिम्ब-
श्रियमतनुमतानीडुण्डिमः कुञ्जरस्य ॥ 41.4 ॥
प्रतिगजमदगन्धाघ्राणहेलाव्युदस्तः
स्फुरदुदरनिविष्टस्पष्टरेखोऽग्नहस्तः।
श्रियमभृत करेणोर्नाकसंरोहणाय
द्रुतमिव सुभटानां बद्धसोपानपङ्क्तिः ॥ 41.5 ॥
दिशि दिशि मकरन्दं पुण्डरीकोदरेभ्यः
सरभसमपि पीत्वा हारिमाधुर्यमुच्चैः।
द्विरदपतिमदाम्भस्तिक्तमास्वादयन्तो
विरसरसनमन्तर्वक्त्रममूहुर्द्विरेफाः ॥ 41.6 ॥
प्रतिगजमधिकोपाद्धावतां कुञ्जराणां
सपदि मुखपटेनाच्छाद्यच वक्त्राण्यलीनाम्।
अविरलमदतोयापानगोष्ठीनिरासे
बहुगुणमपि मन्ये दोषहेतुं कदाचित् ॥ 41.7 ॥
श्रियमतनुत रक्षाभूतिविन्यासपाण्डुः
सपदि मदजलेन श्च्योतता सप्तधोर्व्याम् ।
द्विरदपतिरनीचैर्विस्फुरद्गण्डशौल-
स्त्रिदशनगरगङ्गास्रोतसेवार्कशैलः ॥ 41.8 ॥
दधुरभिनवलाक्षारञ्जितैस्चामरौघैः
श्रियमनुकृतवात्यारंहसः सैनिकानाम्।
खुरशिखरनिपातक्षुद्यमानाखिलोर्वी-
जनितशिखिशिखौघाश्लिष्टरूपा इवाश्वाः ॥ 41.9 ॥
स्थगितसकलदिक्कानेकसंख्यानसेना-
जनितगुरुभरोच्चैरन्वभूद्भूरि शंभोः।
क्रमविधृतविमुक्तोद्दामनिःश्वासताम्य-
त्फणिपतिफणदोलान्दोलनं भूतधात्री ॥ 41.10 ॥
करिहरिरथपत्तिव्रातनिर्धूनधूलि-
प्रकरजनितकार्श्यामन्वबध्नादधस्तात्।
लघुविदलनभीतिव्याकुलात्मा कथंचि-
त्फ्णनिगडसहस्रेणाहिनाथो धरित्रीम् ॥ 41.11 ॥
बलसमुदय ऐशेऽतीत्य गव्यूतिमात्रं
स्थितवति शिबिराग्रावासभूमीर्गृहीत्वा।
प्रथममिव तदानीं सौगतानां प्रमाणं
द्विरदकुलमनल्पं कल्पनापोढमासीत् ॥ 41.12 ॥
सुरबलमवलोक्यावासितं काननाग्रे
शकुनय उरुपक्षा दूरमुत्पत्य वेगात्।
द्रुमविटपशिखाग्राबद्धनीडप्रतिष्ठ-
स्वतनयगततृष्णश्चेरुराकाश एव ॥ 41.13 ॥
कृतगुरुतरकम्पान्दोलनव्याकुलायां
भुवि विनिमितपादं जङ्गमान्द्रीन्द्रकल्पैः।
अतिनिबिडनिबद्धैः कल्पवृक्षेषु सेना-
द्विरदपतिभिरपो न त्रिपद्या विलासः ॥ 41.14 ॥

दृढनियमितरज्जुस्कन्धसंदानितानां
स्रुतमदज्लगण्डाभोगकाषैर्गजानाम्।
त्वगपतदवरुग्णा काननानोकहेभ्यः
सहजमपि विमूढाः कं न विश्लेषयन्ति ॥ 41.15 ॥
स्रुतघनघनसारक्षोदसौगन्ध्यभाजो
मणितटकृतवीचिक्षोभमन्दाकिनीकाः।
द्रुमगहनविलुप्तार्कांशुसंतापशीताः
शिखरिकटकभूमीरध्यवात्सुर्ध्वजिन्यः ॥ 41.16 ॥
स्फुटितविकटगण्कडाबोगमाद्यद्द्विरेफा
विकसदविरलैलाकन्दलीकाननाढ्याः।
उपमणिगुहमद्रेः फुल्लकोशातकीका
युवतिभिरनुयाताः केचिदासेदुरुवीः ॥ 41.17 ॥
अथ शशधरमौलेः सैनिकाः सानुदेशे
दिशि दिशि विचरन्तः कल्पितैर्वाजिसैन्यैः
प्रतिभयतरलाक्षं दृश्यमाना मृगौघैः
स्थितिरिति चिरमासन्दर्शिताच्छोदनेच्छाः ॥ 41.18 ॥
सरभसमनुविद्धा केनचित्सादिनोच्चैः
स्फुरिततरलतारा श्यामलांशुच्छटाभिः।
व्यवधिमिव विधातुं भीतिपारिप्लवाक्षी
हरिणयुवतिरैच्छत्संभ्रमादात्ममूर्तेः ॥ 41.19 ॥
द्रुततरमपि नष्टा सादिसैन्यावमर्दा-
त्तनयमनवलोक्य क्वापि तत्रैव यातम्।
पुनरसुनिरपेक्षं कृष्णसाराङ्गनागा-
त्पदमिह न विपत्तेः कस्य तृष्णाथवा स्यात् ॥ 41.20 ॥
श्रवणघटितमौर्वीमण्डलीभूतचाप-
च्युतिचतुरतरश्रीर्धन्विनान्वीयमानम्।
हरिणमनपराधं मार्गणो मङ्क्षु भित्त्वा
त्वरित्मिव विलक्षोऽलक्षितः क्ष्मावविक्षत् ॥ 41.21 ॥
क्षितितलगतपुङ्खेनेषुणोत्तम्भ्यमान-
स्फुटतरगलनालः कश्चिदुद्ग्रीव एव।
द्रुतमिव चलितानां वल्लभानां तदानीं
हरिणशिशुरसूनामूर्धमैक्षिष्ट मार्गम् ॥ 41.22 ॥
न खलु जगति शून्यं किंचिदस्तीह धाम्ना
युवतिमनुसरन्तं गर्भभारालसां यत्।
विकटकुटिलश्रृङ्गाघातपातेन कंचि-
द्वनभूवि हरिणोऽपि स्वैरमाहन्तुमैच्छत् ॥ 41.23 ॥
विकटगुरुविषाणादभ्रबाराण्यवाञ्चि
प्रसभमभिहतानामुत्तमाङ्गानि पूर्वम्।
गिरिभुवि हरिणानामाशु पश्चाद्वपूंषि
स्रुतरुधिरलघूनि व्योममार्गान्निपेतुः ॥ 41.24 ॥
प्रकटविकटश्रृङ्गैः काननं मन्दराद्रे-
र्दधत इव निवासप्रीतियोगाच्चिरोभिः।
नभसि पृषतयूथा दूरमुत्प्लुत्य पेतु-
र्दशनखुरविरुग्णालग्ननाराचपुङ्खाः ॥ 41.25 ॥
उपगतमवलोक्यावज्ञया सैन्यमुच्चै-
रगणितगुरुभीतिर्मुक्तसंरम्भमग्रे।
हरिणपरिवृढोऽस्थादन्यथा सत्त्वभाजः
कथमिव गुरुधैर्यस्योजसास्योपमा स्यात् ॥ 41.26 ॥
व्यपगतघृणमारान्मन्दरस्याङ्कवर्ति
घ्नति सुरगणसैन्ये द्वीपि सिंहादिसत्त्वम्।
प्रतिककुभमुदस्थुर्मन्युमन्तस्तदानीं
तदनु वरवराहाः प्रत्यनीकायमानाः ॥ 41.27 ॥
चमरहरिणवृन्दं वालभाराक्षिपातै-
रनुकृतनिजनारीकेशहस्तेक्षणत्विट्।
क्वचिदपि परिहृत्याधावतां सैनिकानां
हरिशरभवरहद्वीपि हन्तव्यमासीत् ॥ 41.28 ॥
सुरभिकुसुमभाजो रुपशोभां दधत्या-
स्तरलहरिणदृष्टेः काननोर्वीरमण्याः।
सुरत इव मृगव्याविब्रमेऽन्योऽर्धचन्द्र-
स्फुटकरजनिपातैः पाटयामास गण्डम् ॥ 41.29 ॥
शिखरिभुवि शिखण्डी वल्गुबर्हातिभारा-
दलसितगतिराराद्धन्विनान्वीयमानः।
त्वरिततरमशक्नोन्न घ्नतो नंष्टुमस्मा-
द्विपदि भवति काचिद्दोषरूपा गुणश्रीः ॥ 41.30 ॥
इति विहितमृगव्यैर्मुक्तपर्याणपट्टा
ववलुरवनिपीठे सादिभिः कृष्टवल्गाः।
श्रमजलकणजालाश्लिष्टजाम्बूनदोर्वी-
विधुतघनपरागालिङ्गिताङ्गास्तुरंगाः ॥ 41.31 ॥
रयततुरतरह्गक्षोभशीतैर्मरुद्भि-
र्धुतकपिलसटाग्राः सैकते नाकसिन्धोः।
अधिजलमवतेरुर्मङ्क्तुमुत्प्रोथघोणाः
खरखुरशिखराग्रक्षुण्णपाठीनचक्राः ॥ 41.32 ॥
विघटितदलमुद्रान्पङ्कजौघान्विहाय
प्रमदविधुतपक्षास्तोय एव द्विरेफाः।
अपि मदजलबिन्दून्दूरमन्वीयुरेला-
स्तबकसुरभिगन्धीन्मज्जतां वारणानाम् ॥ 41.33 ॥
सुरसरिति न यावल्लक्ष्यमाणाध्वखेदाः
सरभसमवतेरुर्मज्जनायामरौघाः।
द्रुतमसिचत तावच्छीकरैरग्रतस्ता-
न्करकलितलवङ्गामोददृद्यैर्गजेन्द्रः ॥ 41.34 ॥
द्विरदपतिसहस्रैः स्रोतसोऽन्तर्निमग्न-
क्षितिधरगुरुदेहालक्ष्यवक्त्राग्रहस्तैः।
त्रिदशसरिदनेकोद्दामगर्भाभिनिर्य-
द्गणपतिरिव दूरात्सैनिकैरालुलेकि ॥ 41.35 ॥
कृतगुरुमदगण्डाभोगभूषं गजानं
भ्रमरकुलमपोहुः शीकरा हस्तमुक्ताः।
किमपरमथवा स्यादश्रितानां जलेभ्यः
सपदि मदभरान्धैर्दूरमारोपितेभ्यः ॥ 41.36 ॥
प्लुतिसुखमनुभूय प्राज्यसिन्दूररेणु-
च्छुरणकपिशितोर्मेः सिन्धुगर्बाद्गजेन्द्राः।
क्षितिभृत इव पक्षच्छेदिनो वज्रपाणेः
पुनरभयमवाप्याप्युज्जिहाना विरेजुः ॥ 41.37 ॥
सलिलगुरुसटाग्रा विभ्रतो रुग्णमूलाः
खुरखिखरविलग्ना हेमशेवालवल्लीः।
त्रिदशसरित उच्चैस्तीरमुत्प्रोथघोणाः
श्वंसिततरलितोर्मिव्रातमुत्तेरुरश्वाः ॥ 41.38 ॥
श्रमशिथिलितकण्ठष्ठ्यूतनिःश्वासवात-
व्यतिकरधुतसेनाधूलिरुद्धान्तरालाः।
तरलसरलपुच्छं चेरुरश्वाः स्थलीभ्यो
मरकतमणिसूचीकोमलाञ्शष्पखण्डान् ॥ 41.39 ॥
विदधति गुरुपक्षोत्सेकमज्ञा जलानां
स्फुटमिह मलिनानामाशये वर्तमानाः।
यदमरगणसेनारेणुपट्टा (ङ्का) विलासु
प्रतिककुभममाद्यन्निम्नगास्वेव मत्स्याः ॥ 41.40 ॥
क्षितिधरपतिभूमिं दूरमुल्लङ्घ्य वेगा-
दथ हरिकरिपत्तिस्यन्दनं कल्पितं सत्।
द्रुततरमुडुवीथीमार्गमब्याहताभ्रं
सरभसमुदपप्तद्व्याप्तविश्वं स्मरारेः ॥ 41.41 ॥
प्रतिककुभमुदस्थात्सामि यत्सैनिकाना-
मगमदथ समाप्ति तेन सर्वं विहायः
अपरमपि यदर्धं दूरमुत्पेतुषीणाम्।
दिनकरकरतापोपप्लवादाकुलाना-
वभवदवनिपृष्ठं तेन निष्ठाप्रतिष्ठम् ॥ 41.42 ॥
दिशि दिशि परिशुष्यद्दानतोयस्रुतीनां
त्रिदशगजघटानां दूरमुत्पेतुषीणाम्।
दिनकरकरतोपोपप्लवादाकुलाना-
मतिनिकटतयोच्चैः पुस्फुंटुः कर्णशङ्खाः ॥ 41.43 ॥
पुनरुपगतपक्षोड्डीननिःशेषशैल-
स्पुटशिखरशिंखाम्भःस्यन्दसंदेहमुग्धैः।
दिशि दिशि घनवृन्दैः पीयते स्म द्विपानां
विकटकरटभित्तिभ्रमष्टमारान्मदाम्भः ॥ 41.44 ॥
अतनुसलिलगर्भाः कज्जलश्यामभासो
नभसि जलदलेखा वेल्ल्यमाना मरुद्भिः
क्षणपलनविलोला वारणानां नवान्दु-
निबिडनिगडलीलां पादलग्ना वितेनुः ॥ 41.45 ॥
अनुकृतगिरिश्रृङ्गाभोगगण्डस्थलाग्र-
स्खलितविकटभास्वत्तारनक्षत्रमाला
स्रुतमदजललेखाबिम्बिता वारणानां
श्रियमतनुत तारापङ्क्तिरारात्फुरन्ती ॥ 41.46 ॥
श्रवणशिखरभूषाचामरान्मा स्म धाक्षी-
दिदमविदितविद्युद्दामसप्तार्चिषारात्।
जलदकुलमितीवानुद्यतोच्चैः पुरस्ता-
द्दिशि दिश गजताभिश्चण्कडशूत्कारवातैः ॥ 41.47 ॥
छुरितसुरपथासुत्तुङ्गकुम्भस्थलीषु
श्रवणधुतिहताभिश्चीनपिष्टच्छटाभिः।
क्षणघटनविलोला नाकनक्षत्रमालाः
श्रियमननृतमय्यस्तेनिरे वारणानाम् ॥ 41.48 ॥
विकटकनककक्ष्यादामसौदामिनीकं
द्विरदकुलमभासीदन्यदासीनमुर्व्याम्।
सुरगणपतिसेनारुद्धनाकावकाश-
व्यतिकरगुरुखेदस्रस्तमेघौघकल्पम् ॥ 41.49 ॥
अरुणमणिकिरीटच्छयया लङ्घ्यमाना
गलितमदजलार्द्रे बिम्बिता गण्डभागे।
शिशिरकिरणलेखा लक्ष्यते स्म द्विपानां
नभसि विकटकुम्भस्रस्तहेमाङ्कुशश्रीः ॥ 41.50 ॥
अकलितगुरुविद्युद्दामबभिः श्यामिताशै-
रसलिलगुरुगर्भैरुन्नमद्भिः सलीलम्।
द्विरदपतिभिरुच्चैस्तस्तरे नाकमार्गः
प्रतिदिशमवरुग्णालोकमक्षुण्णमेघैः ॥ 41.51 ॥
ग्लपितपवनवेगं व्योम्नि पश्चार्धभाग-
स्थिरखुरशिखराग्रैरप्यनालम्बमेव।
गिरितटविकटोरः प्रेरितामन्नतारं
तटुलचरणकोटिन्यासमश्वैः प्रसखे ॥ 41.52 ॥
नभसि तुरगसैन्यं दूरमुत्कर्णघोण-
स्फुरितमुखमनीचैरुत्प्लुतीरादधानम्।
रहिणकुलमिवासीद्विस्फुरच्चित्ररत्न-
व्यतिकरशबलाभिर्भ्राजमानं गुडाभिः ॥ 41.53 ॥
जवनपवनधूतैर्वेल्लिता विस्फुरद्भि-
र्नभसि विबभूरश्वा लाक्षिकैश्चामरौघाः।
विकटखुरशिखाग्रक्षोभभिन्नाभ्रगर्भ-
स्खलितचटुलशम्पाश्लिष्टरूपा इवोच्चैः ॥ 41.54 ॥
रविकरपरिमर्शाद्विस्पुरद्भिस्तदानी-
मपनतघनपङ्कं नाकमीलीसहस्रैः।
सरभसपरिवर्तालक्ष्यपाण्डूदरार्धैः
सर इव शफरौघैर्घूर्णमानैरभासीत् ॥ 41.55 ॥
विकटशिखरलग्नाः केतुदण्डावलीषु
स्फुरितविविधरत्नच्छायकल्माषभासः।
नवजलघरखण्डाः केकिपिच्छातपत्र-
श्रियमदधुरधस्ताद्गच्छतां सैनिकानाम् ॥ 41.56 ॥
स्फुरितमणिकिरीटग्रन्थिगर्भान्तराल-
प्रतिमितमहिमांशोर्मण्डलं व्योम्नि तेषाम्।
प्रतिफलदमलांशुव्रातमाशामुखेषु
स्फुटकनकशिरस्राभिन्नरूपं तदासीत् ॥ 41.57 ॥
रथतुरगखुराग्रक्षुद्यमानात्पुरसता-
त्प्रतिपदमुडुचक्रादुत्थइता धूलिलेखा।
श्रियमतनुत णुक्तावालुकायास्तदानीं
गगनमकरसद्मन्यश्नुवाना दिगन्तान् ॥ 41.58 ॥
स्फुरदतनुतडित्का वेल्ल्यमाना मरुद्भि-
र्धधुरविरलनीलश्यामभासोऽभ्रलेखाः।
कृतकवलनलीलारम्भलग्नौर्ववह्नि-
स्फुटविकटतरार्चिः सिन्धुभह्गीविलासम् ॥ 41.59 ॥
सपरुषरसितस्याम्भोधरस्योपरिष्टा-
त्सरुषमभिपतन्तं सिंहमालोक्य चण्ड्याः।
जगति विफलमेव प्रज्ञया शून्यमुच्चैः
स्फुटममनुत तेजस्तादृशां सैनिकौघः ॥ 41.60 ॥
प्रमथपतिरयासीद्दानतोयार्द्रगण्ड-
प्रतिमितमणिचित्रच्छायवैकुण्ठशार्ङ्गः।
विकटशिखरभागालक्ष्यवृत्रारिचाप-
क्षितिधरपतिलीलां बिभ्रदभ्रंकषश्रीः ॥ 41.61 ॥
श्रियमभृत पुरस्तादिन्दुमौलेस्तदानीं
गणपतिरतिवेगात्प्रस्थितो नाकमार्गम्।
दघदपरमिवेन्दोर्भागमुष्णीषभाजः
परशुमुखममन्दोल्लासनाशारिताभ्रम् ॥ 41.62 ॥
द्विरदमदनदीभिः सैन्यमेतत्पुरस्ता-
त्कलुषयति पुरा मे चन्द्रिकागौरमम्भः।
सचकितमिति मार्गाद्भीतयेवापसस्रे
खगपतिगुरुवेगव्यस्तया नाकनद्या ॥ 41.63 ॥
स्फुटमिह विमलानां स्वच्छता श्लाध्यरूपा
विसदृशमुपधानं तत्र दोषाय नूनम्।
प्रतिमितममरौधानं तत्र दोषाय नूनम्।
प्रतिमितममरौगा मेनिरे यन्निरीक्ष्य
क्षितितलमपि शीताभीशुबिम्बे कलङ्कम् ॥ 41.64 ॥
इत्थं सेना स्मरारेर्जलघरपदवीं दूरमुल्लङ्घ्य वेगा-
दासीना रत्नसानोस्तटभुवि विविधव्यूहविस्तारभाजः।
तस्युर्गव्यूतिमात्रं धृतगुरुमरारम्भदैत्येन्द्रसेना-
निर्याणापेक्षमुच्चैर्दिशि दिशि विकसच्चित्रवादित्रघोषाः ॥ 41.65 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सैन्यप्रस्थानं नामैकचत्वारिंशः सर्गः।