४०

.

हरविजयम्।

चत्वारिंशः सर्गः।

प्राप्ते प्रभातसमयेऽथ शशाङ्कमौलि-
रुद्बोधितो विविधमागधसूतवाग्भिः।
अभ्याहतानकशतध्वनिदत्तसंज्ञः
सेनासरिद्भरितमैक्षत सैन्यसिन्धुम् ॥ 40.1 ॥
तस्याथ संभ्रमवलत्फणचक्रवाल-
मुर्वीतलेऽधिपतिना फणिमण्डलीनाम्।
संस्तम्भितश्रवणतालमुदञअचिताक्ष-
माकर्णितो विधुरितस्तिति दिग्गजेन्द्रैः ॥ 40.2 ॥
ब्रह्मण्डखण्डतलवारणखर्व्यमाण-
मूर्तिदिगन्तरगुरुप्रतिफालदीर्घः।
पुञ्जीकृतः क्षितितले घनतामवाप्य
भिन्दन्रसातलमिवातिभरेण भूयः ॥ 40.3 ॥
कम्पाकुलीकृतससंभ्रमलोकपाल-
पालीपुरंध्रिहृदयो बिभरांचकार।
प्रस्थानदुन्दुभिरवः क्षयकालवल्ग-
दुत्तालकालकरतालनिनादलीलाम् ॥ 40.4 ॥ (तिलकम्)
उत्सृज्य संयुगरसादथ तस्य देह-
भागार्धसंधिघटनां निरियाय गौरी।
तच्चित्तभागगतसत्त्वविधूतभीरु-
वैक्लव्ययोगमिवमानसमुद्वहन्ती ॥ 40.5 ॥
उन्निद्रकर्णशिखरार्पितपारिजात-
लीलावतंसगलितैर्मधुशीकरौघैः।
संसिच्यमानमिव कुङ्कुमपत्त्रपङ्क-
लेखाङ्कितं शुचि कपोलतलं वहन्ती ॥ 40.6 ॥
लीलानतेन सकलां करपल्लवेन
लावण्यकान्तिममलामिव संप्रमार्ष्टुम्।
प्रेङ्खत्पिनाकिमुकुटास्पदचन्द्ररश्मि-
धूलिच्छटामलिनितच्छविमीहमाना ॥ 40.7 ॥
एकावली विरचिता कुचमण्डलेऽत्र
तुङ्गत्वमीयुषि परस्परपीडनेन।
तत्स्पर्धयेव सवलीत्रयतामवाप्तं
मुष्टिग्रहेऽपि शिथिलं दधतीति मद्यम् ॥ 40.8 ॥
प्रत्यग्रयावकरसस्फुरणारुणाग्र
भास्वन्नकेन्दुकिरणप्रकरापदशात्।
संध्यां प्रसादनपरां मलिताभ्यसूया-
मारब्धपादपतनामिव धारयन्ती ॥ 40.9 ॥ (पञ्चभिः कुलकम्)
तस्या मुखं सरभसार्पितकान्तदृष्टि-
र्दृष्ट्वा चिरादथ शशाङ्ककलावतंसः
संदर्शनेषु नयनत्रितयं निमेष-
दोषोपघातघटनोज्झितमभ्यनन्दत् ॥ 40.10 ॥
निर्याय तस्य वपुषः सुचिरादवाप्त-
गाढोपगूहनसोत्पुलकानुबन्धः।
प्रस्थानमङ्गलविधिर्विदधे तयाथ
सेवोत्सवप्रवणमातृगणोपनीतः ॥ 40.11 ॥
तस्यापिनेहुरभिमन्त्रितमात्मनैव
वक्षःस्थले गणचमूपतयः कथंचित्।
कण्ठप्रभाशबलभासि पिनद्धलोह-
जालान्तरभ्रमविमुग्धधियस्तनुत्रम् ॥ 40.12 ॥
मन्दाकिनीसलिलनिर्झरसिच्यमान-
बास्वत्तृतीयनयनानलधूमदिग्धः।
तस्याततायिशरपातभियाधिमौलि
संवीतकङ्कट इवामृतरश्मिरासीत् ॥ 40.13 ॥
तत्काललोलसुरसिन्धुतरङ्गभङ्ग-
विस्रस्तबन्धलुलितं च जटाकलापम्।
उष्णीषभोगिपतिरेव बबन्ध तस्य
गाढं पुनः प्रतिदिशं फणमण्डलीभिः ॥ 40.14 ॥
छायान्धकारकलुषीकृतपीनकण्ठ-
पीठस्फुरद्भुजगराजफणामणीश्रीः।
तस्याजिमङ्गलनिबद्धनवेन्द्रनील-
कण्ठत्रविभ्रममधत्त च कालकूटः ॥ 40.15 ॥
दंष्ट्राकरालमुखकंदरनिर्यदग्नि-
ज्वालावलीदुरुपलक्ष्यकरालजिह्वम्।
शूलं रुषारिरुधिरासवपानगोष्ठी-
संरम्भलोलविकटौष्ठपुटं जजृम्भे ॥ 40.16 ॥
भोगीन्द्रबोगकषणप्रतिपन्नमध्य-
कार्श्यें पुरा जलनिदेर्मथनप्रसह्गे।
तस्याथ मन्दरमिवाहिपतिश्चकार
कोदण्डदण्डमधिरुद्य सनाथकोटिम् ॥ 40.17 ॥
सङ्घ्रामदोहदरसादिति शीतरश्मि-
मौलौ पिनद्धकवचे वचसाथ तस्य।
प्रत्युप्तरत्नशकलच्छविशारितानि
वर्माणि भर्मघटचितानि गणाः पिनेहुः ॥ 40.18 ॥
संवितलोहमयवर्मवपुर्बभार
बभ्रोरुपोढ रणमङ्गलरत्नमालम्।
अस्ताचलाभिमुखपातिनिबद्धपङ्क्ति-
नक्षत्रचक्रशबलाम्बरवर्त्मलीलाम् ॥ 40.19 ॥
प्रत्युप्तलोहितकरत्नकणांशुसार-
नीलाभ्रकच्छवितनुच्छदमूर्तिरुच्चैः।
सौदामिनीरुचिरदाममरीचिभिन्न-
लोलाब्रविभ्रममधत्त शिलादसूनुः ॥ 40.20 ॥
संहारधूममलिना कलधौतसानु-
भागान्तरे निपतिता रजनीव मेरोः।
वक्षःस्थले सरसकुङ्कुमपङ्कभाजि
भाति स्म कालमुसलस्य दृढाथ माढी ॥ 40.21 ॥
अब्युन्मिषन्मरकतांशुशिकासहस्र-
संलक्ष्यमाणपरभागतनुत्रबन्धा।
आबद्धशेबललवा नलिनीव नाग-
वक्त्रस्य मूर्तिररुचत्स्फुटपुष्करश्रीः ॥ 40.22 ॥
हौताशनेः कवचमेचकिता च मूर्ति-
रुद्दीप्तिरत्नघटितोरुशिरस्त्रबन्धा।
आभादनेकविकटोदयशैलश्रृङ्ग-
लग्नार्कबिम्बवलयेव युगक्षयद्यौः ॥ 40.23 ॥
उद्दामसंयुगरसस्फुटितव्रणोत्थ-
रक्तच्छटाविकटबिन्दुनिबद्धरन्ध्रम्।
प्रत्युप्तदीप्ततरनूतरपद्मराग-
मासीदिवातिगुरु दंसनमन्निकस्य ॥ 40.24 ॥
वक्षःस्थले बृहति हेतिशताभिघात-
रूढव्रणस्थपुटितस्फुटसंनिवेशम्।
चण्डेश्वरस्य शुशुभे शुभलोहवर्म-
सावर्तमम्भ इव सानुतटे हिमाद्रेः ॥ 40.25 ॥
दुर्वारवैरिवरवारणवीरभद्र-
वक्षःस्थलीवनिहिता विरराज माढी।
संवर्तमेघमलिनासुरसंप्रहार-
लक्षअमीवधूमुखविगुण्ठनजालिकाश्रीः ॥ 40.26 ॥
अभ्रंकषोल्लसितकेतनवैजयन्ती-
कल्माषिताम्बरतलाः प्रतिमा वहन्तः।
रक्षादिकारनवभूतिसुधोपलेप-
पाण्डुत्विषो रचितसंनिघयः सुरौघैः ॥ 40.27 ॥
स्तम्बेरमा मुखरिताम्बरशङ्खघण्टा-
ढक्कारवा घवलचामरचारुशोभाः।
विस्पष्टदन्तमणितोरणसंनिवेशाः
सैन्यैर्युधे विदधिरे सुरसद्मरूपाः ॥ 40.28 ॥ (युगलकम्)
प्रत्यग्रमौक्तिकविताननिधानकुम्भ-
रक्षाकुलाजगरविभ्रमहस्तदण्डाः।
रेजुर्गजा विकचकीचकयष्टिकोटि-
वेल्लद्विलोलकदलीविकरालपृष्ठाः ॥ 40.29 ॥
कुम्बस्थलीनिहितमङ्गलमालिकाग्र-
विष्यन्दमानमदुपङ्कनिलीनभृङ्गाः।
लक्ष्मीं दधुः शिखरलग्नदवाद्निधूम-
जलाकुलाः कुलनगा इव मत्तनागाः ॥ 40.30 ॥
उत्कर्णतालपवनेरितकुम्भकूट-
सिन्दूरधूलिपटलच्छुरणाबिरामम्।
उद्धूततामरसरेणुपिशह्ग्यमान-
दिक्चक्रवालमुषसीव बभूव विश्वम् ॥ 40.31 ॥
लीलाचलद्धवलचामरचक्रवाल-
शारीकृताखिलदिशोऽथ सहस्रसंख्याः।
उत्कीर्णपत्त्रमकरीशतशातकुम्भ-
पर्याणपट्टविनिवेशकरालपृष्ठाः ॥ 40.32 ॥
माणिक्यखण्डकचिताञ्चितहेमभास्व-
दायानदीधितिपिशङ्गितदिग्विभागाः।
उद्रश्मिरत्नकणशारितशातकुम्भ-
प्रेङ्खत्सखलीनसखणत्कृतिवक्त्रभागाः ॥ 40.33 ॥
साङ्ग्रामिकीषु कुशलैर्गमितास्तदानीं
वीथीष्वमन्दतरसः पृतनातुरंगाः।
स्वेदोदबिन्दुशबलस्तुवभागवक्त्र-
शोभाः सुधोद्गमनलग्नकणा इवासन् ॥ 40.34 ॥ (तिलकम्)
सानूकतां विदधतोऽप्युपमानशून्या
मन्दा अपि ग्लपितचण्डसमीरवेगाः।
आकुञ्चितोर्ध्वखुरदण्डविभक्तपाद-
विन्यासचारुगतयस्तुरगाः प्रसस्रुः ॥ 40.35 ॥
भाति स्म मूर्तिरनिलौघविघट्यमान-
माञअजिष्ठचामरतया चतुराञ्चितानाम्।
उत्पेतुषां किल पुरा शिखिनस्तदीय-
ज्वालाकलापनिचितेव तुरंगमाणाम् ॥ 40.36 ॥
लक्ष्मीं दधुर्विपुलकैर्गमनैरभीक्ष्ण-
मङ्गैश्च चारुशुचिभिश्चतुरस्रपुण्ड्राः।
पर्याणपट्टपटलैस्तुरगा निगाल-
बागैश्च देवमणिशोभितसंनिवेशैः ॥ 40.37 ॥
सङ्ग्रामनाटककुतूहलिनां तदानी-
मुत्थापकेन दधतो मुदमुत्तमानाम्।
विस्पष्टभाण्डरुचयोऽतिविचित्ररूपा
लक्ष्मीं दधुर्जवनिकामहितास्तुरंगाः ॥ 40.38 ॥
विस्तारशालि कृतिभिः कृतरूपवर्ण-
माविद्धगामिकरणप्रविभक्तशोभम्।
सव्यञ्जनक्रंममराजत धातुवाद्य-
लीलां दधानमनुपप्लुतमश्वसैन्यम् ॥ 40.39 ॥
निर्धूतकेसरसटावलिताञ्चिताग्र-
भागं पतद्भिरभितः पृतनातुरंगाः।
चक्रुस्तरां दिवि तदुत्पतनाभियोग-
योग्यामिव क्षणविलग्नपदैः खुराग्रैः ॥ 40.40 ॥
विस्ताररुद्धवसुधाः प्रतिबद्धकेतु-
सीतापटाञ्चलविवल्गनशारिताशाः।
सज्जाखिलोपकरणाः समराम्बुराशि-
पोतश्रियं सपदि शिश्रियिरे रथौघाः ॥ 40.41 ॥
आक्रान्तयानवरतं भटनायकेन
चीत्कारसीत्कृतिमनोरमतां दधत्या।
संदर्शितोरुयुगसज्जघनश्रियापि
तत्राभियोगसमये रथकट्यया श्रीः ॥ 40.42 ॥
आयोधनानुगुणवेषपरिग्रहाच्च
तेजस्विनस्तदपनुत्तय आविरासन्।
संहारभानव इवाखिललोकसर्ग-
नाशस्फुरत्किरणदन्तुरमण्डलाग्राः ॥ 40.43 ॥
शीतांशुमौलिरपि केसरिचक्रवाल-
योक्त्रीकृताहिपतिभोगसहस्रभीमम्।
अध्यारुरोह रथमग्निशिखापिशङ्ग-
मायोधनानुगुणवेषपरिग्रहश्रीः ॥ 40.44 ॥
उष्णीषबोगिफणफूत्कृतिवातघात-
पुञ्जीकृतत्रिपथगाजलवेणिशुभ्रम्।
तस्योष्णवारणमधार्यतच भागलग्न-
माणिक्यखण्डखचितोन्नतहेमदण्डम् ॥ 40.45 ॥
तस्य प्रकीर्णयुगलं शशिरश्मिसोभि
शब्दानुबन्दिमणिकम्बुभुजे तदानीम्।
पार्श्वस्तिते दुधुवुतुः स्वयमब्युपेत्य
मन्दाकिनी सरभसं यमुना च भक्त्या ॥ 40.46 ॥
येनाशु निर्धुतसटाभरमम्बराग्रृ-
मारोहता निशितपाणिजमण्डलेन
नक्तंमुखेषु शशभृत्प्रसभं व्यदायि
बिम्बावलम्बिशशदारणकान्दिशीकः ॥ 40.47 ॥
आकर्ण्य यस्य मदशोषविषण्णभृङ्ग-
गण्डस्थलाः सपदि रुञअजिततारनादम्।
अङ्गेषु भीतिभरसंकुचिता निजेषु
वाच्छन्ति दूरमिव दिक्करिणः प्रवेष्टुम् ॥ 40.48 ॥
श्रीकण्ठसेखरशशाङ्ककलाकराल-
वेल्लत्सटापटलधूननबद्धरोषः।
उत्प्लुत्य दारयितुमीहत एव वज्र-
सूचीशितैर्नखमुकैरपि मारुतं यः ॥ 40.49 ॥
तस्मिंस्तुषारनिकुरुम्बविपाण्डुभासि
सिंहीसुते विदलिताञ्जनमेचकार्चिः।
कात्यायनी कृतपदा श्रियमाससाद
प्रालेयशैलगतनूतनमेघवल्ल्याः ॥ 40.50 ॥ (चक्कलकम्)
शार्ङ्गयुधोऽपि भुवनक्षयकालवह्नि-
शङ्काकुलीकृतसुरासुरचक्रवालम्।
तार्क्ष्यं विधौतकलधौतपिशङ्गपक्ष-
मात्मीयदेहभरखर्वितमध्यरोहत् ॥ 40.51 ॥
तार्क्ष्योऽपि चञ्चुपुटदष्टभुजंगमूर्ति-
भास्वत्फणामणिरुचिच्छुरणारुणेन।
पृष्ठेन विग्रहभरं वसुदेवसूनो-
र्जग्राह दानवरणस्य च चेतसोच्चैः ॥ 40.52 ॥
क्षोणीव पक्षपवनोद्धृतशैलजाल-
मुक्तिष्ठतः शितनखाग्रविदष्टमूर्तिः।
तस्याधिनाकमतनुर्बिभराचकार
शोभां क्षणं चरणकोटिगताब्रलेखा ॥ 40.53 ॥
पिङ्गत्पिषं कवलितोरगचक्रवाल-
निर्यद्विषाग्निपरिणामवसादिवासौ।
विस्तारितां नभसि हेममयीं पतत्त्र-
पङ्क्तिं दधत्सरभसोड्डयनाय रेजे ॥ 40.54 ॥
उद्गच्छतो गगनवर्त्म गरुत्मतोऽथ
दूरावगाहदृढभिन्नरसातलाग्राः।
आकृष्टमुक्तवसुधाःक क्षणविघ्नखेद-
मातेनुरस्य गिरिसंहतयः कथंचित् ॥ 40.55 ॥
स्थूलास्थिगण्डशिखरोज्झितदानवारि
धारान्धकारितदिशः सुरलोकपालाः।
विन्यस्तसैलगुरुपादविरुग्णभूमि-
भागान्यथायथमथारुरुहुर्गजेन्द्रान् ॥ 40.56 ॥
तावत्प्रतीतमनसि प्रधनोत्सवाय
दर्पाद्विनिर्जितरिपौ भटचक्रवाले।
बालाजनो बलवदाकुलतां जगाम्
तत्कालसंब्रमविलोलविलोचनश्रीः ॥ 40.57 ॥
संस्तम्भिता अपि तु मङ्गलभह्गभीरो-
र्भीरोर्विषादवशशून्यधियस्तदाक्ष्णः।
निर्धौतकज्जलविधूसरिता निरीयु-
रिन्दीवरानमधुकरा इव बाष्पलेशाः ॥ 40.58 ॥
आदीयमानमतिसंभ्रमवेपमान-
विस्रस्तबाहुलतया बुबुधेन्तरायम्।
प्रस्थानमङ्गलविधानमपि प्रवीरः
सङ्ग्रामरागरभसोल्लसचित्तवृत्तिः ॥ 40.59 ॥
बद्धस्पृहं दयितया करवालयष्टि-
रालोकिता भटजनस्य करप्रतिष्ठा।
प्राप्ता शितित्वमधिकं तदपाङ्गभासा
धौतेव तत्क्षणमराजत विस्फुरन्ती ॥ 40.60 ॥
पत्यौ रणाय चलिते गुरुशोकवृत्ते-
र्वामब्रुवः सपदि कार्श्यदशां व्रजन्त्याः।
माणिक्यकम्बुरवनौ पतितः ककराग्रा-
ल्लावण्यचन्द्रपरिवेष इव व्यराजत् ॥ 40.61 ॥
वक्त्रं विलोकयितुमूढरसा चिराय
पत्युर्वधूर्निहितमह्गलरोचनार्द्रान्।
दोदूयमानहृदया सविशेषमेव
सिद्धार्थकान्रचयति स्म ललाटपट्टे ॥ 40.62 ॥
आलिङ्ग्य गाढमपरा परिचुम्बतोऽथ
वक्त्रं प्रियस्य समराय विनिर्यियासोः।
उष्णोष्णनिःश्वसिततत्क्षणगाढशुष्क-
ताम्बूलपङ्करसमोष्ठयुगं चकार ॥ 40.63 ॥
गुप्तिस्तनोरिति कृतादरबन्धमादौ
स्पर्शामृतव्यवधिरित्यपि साभ्यसूयम्।
भावद्वयाश्रयिमनाः परिरम्भ इत्थ-
मैक्षिष्ट वर्म दयितस्य वधूः पिनद्धम् ॥ 40.64 ॥
इति समरविमर्दौत्सुक्यभाजः प्रवीराः
कथमपि दयिताभिर्मुच्यमाना गृहेभ्यः।
सरभसमथ पुर्या निर्ययुः सोर्जगर्जं
रथतुरगविमर्दक्षोभिते रत्नसानौ ॥ 40.65 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सैन्यसंरम्बो नाम चत्वारिंशः सर्गः।