.
हरविजयम्।
एकोनचत्वारिंशः सर्गः।
निष्क्रम्य काञ्चनगिरेरथ नाकसिन्धु-
कल्लोलशीकरकणक्षपिताध्वखेदः।
मज्जन्नमर्षभुवि पार्षदपुंगवोऽसा-
वभ्याजगाम शशिशेखरराजघानीम् ॥ 39.1 ॥
तस्मै सभातलगताय कृतप्रणाम-
सर्वं न्यवदयदरातिविचेष्टितं तत्।
तस्याज्ञयाथ समरप्रवणस्य दध्यौ
नन्दी जगत्त्रयजुषां प्रमथाधिपानाम् ॥ 39.2 ॥
अभ्येयिवांस्यथ गणाधिपसाधनानि
पातालशैलजलधित्रिदिवालयेभ्यः।
संदर्शयन्नसकलेन्दुभृतो दिदृक्षो-
रित्यग्रतः प्रणतमौलिरसाववोचत् ॥ 39.3 ॥
आलोकयोत्कलकलानि रणोत्कचित्त-
वृत्तीनि नाथ गणनाथबलान्यमूनि।
निःशेषदैत्यपृतनादलनोत्सुकानां
तुल्यानुभावबलता भवतैव येषाम् ॥ 39.4 ॥
बिभ्रज्जटाः कणिशशूकशिखापिशङ्गी-
राकाशयानगुरुवेगविलोलबन्धाः।
वैकुणअठनाभिसरसीरुहकेसराग्र-
संक्रान्तधूलिकपिला इव दैर्घ्यभाजः ॥ 39.5 ॥
एकेन मासमिव दर्शितपर्वसंधि-
माषाढमाकलयता करपल्लवेन।
अन्येन विष्टरसरोरुहखण्डनार्थि-
हंसोपमास्पदकमण्डलुना विराजन् ॥ 39.6 ॥
पुञ्जीकृताच्छशुभबीजमनोहरेण
रत्नाक्षसूत्रवलयेन विराजमानः।
अंसावलमम्बि शबलं मृगचर्म बिभ्र-
दाकाशदेशमिव लग्नमुदंशुतारम् ॥ 39.7 ॥
अच्छाङ्गुलीयकशिखासिखरस्थहारि-
हारीतदेहहरिताश्ममरीचिचक्रः।
अम्भोजिनीवनमिवासनपुण्डरीक-
खण्डान्तरप्रसवकारणमुद्वहंस्तम् ॥ 39.8 ॥
वेधाः स्वयं स विधुतासनपुण्डरीक-
पक्ष्मच्छटाविकटकोटिपरागपिङ्गाः।
आसन्नदैत्यदलनोत्सवविप्रकीर्ण-
पिष्टातका इवदिशः समुपैति कुर्विन् ॥ 39.9 ॥ (पञ्चभिः कुलकम्)
शार्ङ्गं नदत्यधिविरोपितकोटिलग्न-
कल्पक्षयानलशिखोज्ज्वलशिञ्जिनीकम्।
शौरेःक प्रवालवलयप्रभयावलीढ
उल्लोलमण्डलमिव क्षुभितस्य सिन्धोः ॥ 39.10 ॥
वक्षःस्थलाम्बरकृतास्पदकौस्तुभार्क-
विस्पष्टपाटलमयूखशिखावमृष्टम्
नीलोत्पलाकरमिव स्वयमेष मुक्त-
कोपं समीकरभसेन बिभर्ति खड्गम् ॥ 39.11 ॥
अस्यातसीकुसुमदामरुचः कृपाण-
पट्टेन निर्मलकरालकरेण बाहुः।
सङ्ग्रामभूमिषु भयंकरतां कलिन्द
कन्याजलौग इव कालियभोगिनापत् ॥ 39.12 ॥
आताम्रकौस्तुभमरीचिशिखावलीढं
युद्धोन्मुखी मुकमपावृतमुद्वहन्ती।
दैत्येन्द्रशोणितरसासवपानगोष्ठी-
योग्यामिवास्य सुरनाथ गदा विधत्ते ॥ 39.13 ॥
अस्याधिपाणि रचितस्थितिरेष लक्ष्मी-
मीषद्विनिद्रमुखकैरवकोरकश्रीः।
कुन्दत्विषा दशनचन्द्रिकयावकीर्ण-
मूर्तिर्बिभर्ति शशिशेखर पाञ्चजन्यः ॥ 39.14 ॥
वक्षःस्थकौस्तुभमरीचिविलङ्घ्यमान-
मस्याश्चकास्ति करपङ्कजवर्ति चक्रम्।
प्रत्यग्रटङ्कविनिकुट्टनमुक्तरक्त-
धारारुणीकृतमिवाहिमरश्मिबिम्बम् ॥ 39.15 ॥
दैत्यास्रविस्रविकटाश्रिशिखासहस्र-
निष्ठ्यूतधूसरितद्भ्भुखवर्ति(ह्नि) धुमम्।
वज्रं पुलोमतनयापतिरप्यमुक्त-
नीलाभ्रगर्भमिव बिभ्रदसावुपेतः ॥ 39.16 ॥
हेलाधुतश्रवणतालपलाशकोटि-
भागाधिरूढधवलच्छविसङ्खहंसम्।
आभाति भासुररुचिर्दहनोऽधिरुह्य-
सूर्यप्रकाश इव पाण्डुरपुण्डरीकम् ॥ 39.17 ॥
एषोऽञ्जनद्विरदमूर्जितदानवारि-
धारान्धकारभरनिह्नुतभास्करांशुम्।
पश्याञ्जनाचलमिवोन्नतगण्डशैल-
मारुह्य संयुगरसान्मरुदब्युपेतः ॥ 39.18 ॥
मेराविवस्फुरितकाञ्चनगौरभासि
संहारधूमनिकराञ्जनमेचकार्चिः।
स्तम्बेरमे कृतपदस्ततपदस्तरसा परैति
पश्यामरेश यम एष गृहीतदण्डः ॥ 39.19 ॥
श्मश्रुप्ररोहजटिलं भुवनत्रयैक-
ग्रासस्पृहाविवृतमूर्ध्वपिशङ्गकेशम्।
वक्त्रं दधद्विकटमादिवराहघोर-
घोणाभिघातदलितावनिरन्ध्ररौद्रम् ॥ 39.20 ॥
निःशेषवध्यजनताकरवीरपुष्प-
शेषामिवेक्षणरुचिं दधदस्रताम्राम्।
आरुह्य कासरमखण्डितदण्डचण्ड-
हस्तः पुरोऽस्य रमसादुपयाति मृत्युः ॥ 39.21 ॥ (युगलकम्)
संध्यानुबन्धि गगनं चटुलीकडार-
चूडातडिद्भिरिव पश्य विदर्शयन्तः।
आयान्ति वज्जलमलीमसदेहदीप्ति-
लुप्तातपप्रसरमीश्वर यातुधानाः ॥ 39.22 ॥
पाशी स्पृशन्स्पशमिवान्तकरस्य पाश-
मारुह्य नागमुपगच्छति सुप्ततीक्म्।
आलोलकर्णशिखरानिलवेगकृष्ट-
कुम्भस्थलस्खलितमौक्तिकतारहारम् ॥ 39.23 ॥
पश्यार्थनाथमवलम्बितशङ्खपद्म-
मग्रे गदादलितदैत्यचमूत्तमाङ्गम्।
शार्ङ्गायुधं जवववतात्र गरुत्मतेव
पद्मप्रभेण करिणान्तिकमापतन्तम् ॥ 39.24 ॥
सिंहाजिनानि परिधारभसव्युदास-
संदष्टतारकतया घटितान्युरःसु।
निर्भिन्नगन्धगजकुम्भटताटावसक्त-
मुक्ताफलैरिव नखैः प्रविभान्ति येषाम् ॥ 39.25 ॥
तन्वन्ति वीतवसनेषु वपुःषु मौलि-
मुग्धामृतांशुकलिका रभसेन येषाम्।
ज्योत्स्नातपाम्बरमलं विमलं स्वकान्ति-
संतानसंशयितभूतिपरागलेखम् ॥ 39.26 ॥
अम्यापतन्ति त इमे विकटोन्नतानि
रुद्राः सुरेश फणिकङ्कणिभिः कराग्रैः।
आस्फाल्य विस्फुरदरातिरुषा निजांस-
कूटैः सहैव ककुदानि ककुद्मतां वः ॥ 39.27 ॥ (तिलकम्)
दानाम्बुवृष्टिमभितो विकटैः किरन्तः
संवर्तदुर्दिनघनैरिव गण्डभागैः।
विन्यस्तपादभरबन्धुरितावनीघ्र-
मेतेऽधिरूढवसवः करिणोऽभ्युपेताः ॥ 39.28 ॥
निःशेषशात्रवकुलप्रलयाग्निधूम-
दण्डायमानकरकृष्टकृपाणपट्टाः।
विद्याधराधिपतयः शिबिरं विशन्ति
पारिप्लवश्रवणकुण्डलगण्डभागाः ॥ 39.29 ॥
आसज्य सज्जसमरा विशिखान्धनुःषु
हस्ताङ्गुलीलघुविवर्तनतारनादान्।
एते विशन्ति शिबिरं शिवशेवधेस्ते
विश्वेऽश्विनौ च तुषिताश्च ससिद्धसाध्याः ॥ 39.30 ॥
निष्ठ्यूतनाकनगरप्रतिबद्धसिन्धौ
बिमबोदरे शबलिमानमुपादधाना।
छाया च यस्य शशलक्ष्ममयी विभाति
विष्यन्दमानयमुनाजलनिर्झरश्रीः ॥ 39.31 ॥
स श्वेतदिग्गजपतेरधिरुद्य पृष्ठ-
मब्येति दीर्घविकटैः पृतनाङ्गनानाम्।
नेत्रोत्करैरमृतवर्षिभिरिन्दुरेष
दत्ताञ्जनैर्निजकरैरिव दृश्यमानः ॥ 39.32 ॥ (युगलकम्)
योक्त्रीकृतैः फणिगणैरतिगाढबन्ध-
तीव्रार्तिसीत्कृतिसमीरनिभेन शीतान्।
स्कन्धानिलानिव निपीय पुनर्वमद्भि-
राबद्धवाजिनि रथे रचितप्रतिष्ठः ॥ 39.33 ॥
कल्माषिताम्बरतलोन्नतपक्ष्मभार-
निर्धूयमानसितचामरमण्डलीकः।
संकोचबन्धपरिहारधिया सलील-
मन्वीयमान इव नाथ कुमुद्वतीभिः ॥ 39.34 ॥
योगाश्रितापरवपुर्जरठप्रताप-
संपत्तिरेष हरितच्छविसप्तपत्त्रः।
भानुः शरत्समयविभ्रम एति पश्य
रिक्तीकृतावजितवासववासरश्रीः ॥ 39.35 ॥ (तिलकम्)
आरूढगूढचरणोल्बणमार्गणानि
कल्लोलचापवलयानि विनिर्धुवन्तः।
सप्ताप्यमी कलकलाकुलितान्तरिक्ष-
मभ्यागता जलधयः सतरङ्गिणीकाः ॥ 39.36 ॥
क्षोणीभृतोऽप्युपगताः शिबिरं नवाभ्र-
कारागृहान्कटकभूमिषु बिभ्रतस्ते।
बन्दीकृतक्षपितपक्षतिदृष्टसार-
वज्रार्भकानिव च गर्भगताचिरांशून् ॥ 39.37 ॥
संवर्तवारिदघटापि गभिरघोर-
घोषानुबन्धबधिरीकृतसप्तलोका।
अभ्येति वः समरदुन्दुभितां चिकीर्षु-
रेषां तडित्किरणकोणकृताञ्चितश्रीः ॥ 39.38 ॥
अभ्यापतन्ति विकसत्फणचक्रवाल-
रत्नोत्करैः किरणपल्लवितान्तरिक्षाः।
दिक्पद्मिनीर्विकचपाटलपुण्डरीक-
खण्डा इवोरगबलानि विदर्शयन्ति ॥ 39.39 ॥
उद्धूतचन्द्रकरपाण्डुरचामरौघ-
मोजस्वितां दधदधःकृतवातरहः।
आभाति कर्कशबलं सुरराजसैन्य-
मश्वीयमञ्चिततरं च रसत्खलीनम् ॥ 39.40 ॥
सव्यालभूषणतयोन्नतकायमान-
सोभा नितान्तमलगर्दभरासभीका।
चण्डी नरेन्द्रशिबिरक्षितिनिर्विशेष-
रूपा करालकरभा रभसादुपैति … 39.41 ॥
रत्नाक्षसूत्रवलयं परिवर्तयन्ती
नक्षत्रमण्डलमिव क्षणदातितारम्।
ब्राह्मी कराकलितदण्डकमण्डलुश्री-
रेषा शिवात्र शिबिरे कृतसंनिधिर्वः ॥ 39.42 ॥
आभात्यसौ सरलमुग्धमृणालकाण्ड-
कन्दावलीकवलनाकुलतां दधानैः।
कुन्दच्छदच्छविभिरच्छतदीयगर्भ-
दुग्घच्चटापरिणतेरिव वाहहंसैः ॥ 39.43 ॥ (युगलकम्)
उद्वृत्तदानवचमूपतिकण्ठपीठ-
निष्ठ्यूतशोणितमलीमसशातधारम्।
प्राचीवदिक्तपनबिम्बमुदंशुराशि
चक्रं दधत्युपनतानघ वैष्णवीयम् ॥ 39.44 ॥
त्रैयम्बकी कटकमेति विजिह्मकोटि-
मेषा किरीटघटितां दधतीन्दुलेखाम्।
बास्वत्तृतीयनयनभ्रुकुटिव्युदस्त-
विन्यस्तभास्मनपरागललाटिकाभाम् ॥ 39.45 ॥
चामुण्डया परुषभस्मपरागपूर्ण-
माकीर्णमस्तिशकलैः सकपालखण्डम्।
बिभ्राणया वपुरधिष्ठितमीश दूर-
मेतच्छ्भशानगृहदेवतयेव सैनन्यम् ॥ 39.46 ॥
चन्द्रस्य च प्रतिकृतिठः कृतरागभङ्ग-
चेतःप्रसादघवलांशुसुधामरीचिः।
आगच्छति च्छुरितदिक्छिविरं तवाच्छ-
हासच्छटाभिरियमुच्छलिताम्बुराशिः ॥ 39.47 ॥
प्रेङ्खत्कपालरशनागुणरासभीय-
चर्माम्बराङ्कितभयंकरमूर्तिरेषा।
याम्या तवैति शिबिरं शिव शावहस्त-
कर्णावतंसकलनाकुलिताननश्रीः ॥ 39.48 ॥
आकस्मिकप्रलयघस्मरवङ्निहेति-
भस्मीकृताखिलकुलाचलनिर्विशैषैः।
शेषां निबध्य धवलैरपि लोकपाल-
पालीकपालपटचलैरियमुत्तमाङ्गे ॥ 39.49 ॥
गङ्गातरङ्गपरिमृष्टविटङ्ककोटि-
खट्वाङ्गसऱङ्गिपरमेष्ठिजटानिकुञ्जा।
प्रेङ्खत्परेतपतिपत्त्रविषाणगर्भ-
निष्पीतसप्तभुवनक्षतजासवश्रीः ॥ 39.50 ॥
अध्यास्य रासभसभाधिपतिं त्रिलोकी-
संहाररागरभसेन सभीति सैन्यम्।
संरमम्भभास्वरमुखी बिसभङ्गगौर-
दन्तांशुरेति शिबिरं तव कालरात्रिः ॥ 39.51 ॥ (तिलकम्)
काली च कोकिलकलापरुचिः कराल-
दंष्ट्राङ्कुरैति समरोत्कलिकाकुलैषा।
निर्दग्धकाल कलिकालकलऱङ्ककेतु-
रुद्भिन्नरत्नकलिकेव विदूरभूमिः ॥ 39.52 ॥
इति गिरमुपकर्ण्योदीरितां नन्दिनाग्रे
सकलसमरसेनाचक्रवालं स्मरारिः।
निजशिबिरनिवेशावासभूमीः प्रणाम-
स्लथविकटकिरीटं प्राहिणोत्तन्मुखेन ॥ 39.53 ॥
तिग्मांशुस्यन्दनाश्वद्रुतखुरदलितव्योमवैदूर्यरत्न-
क्षोदच्छयेऽथ सायं मलिनयति तमः पङ्कपूरे धरित्रीम्।
रुद्धालोकाः कुलायग्रहरभसरसत्पत्त्रिनादानुबन्धै-
रन्योन्यालापमाराद्विदधुरिव निशि व्याकुला दिग्वयस्याः ॥ 39.54 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सैन्य्संभारो नामैकोनचत्वारिंशः सर्गः।