३८

.

हरविजयम्।

अष्टत्रिंसः सर्गः।

स्थितेऽथ तस्मिन्नथ जृम्भमाणसरम्भमुद्गीर्य वचः सुरारै।
उवाच दूतः पुनरेव वाक्यमोजस्वितादुर्धरधैर्यबन्धः ॥ 38.1 ॥
श्रुतिदीपतिरस्कृतान्धकारा प्रतिभासंपदमक्षतां वहन्ती।
जयति व्यवहारहेतुरेका मतिरेवार्थविनिर्णयं विधात्री ॥ 38.2 ॥
विशिनष्ट्यनिशं शरीरभाजां करणग्राममशेषमेव जिह्वा।
कृतधीरयथोद्गतानुमाना कुरुते यत्र सरस्वती प्रतिष्ठाम् ॥ 38.3 ॥
भक्त्यैकभावितमनाः प्रभवे त्रिकाल-
कल्याणि यत्कथयते हितभागिभृत्यः।
तस्याशु नूनमवधीरणमार्यवृत्ताः
पश्यन्त्यनर्थपरिणाममितोऽपि केचित् ॥ 38.4 ॥
दैत्योदधेरस्य च वाक्यरत्नैर्विशद्बिरन्तः श्रवणोदरेभ्यः।
तटचाचलानामिव कंदरभ्यो निरस्तमेषां घनमन्धकारम् ॥ 38.5 ॥
प्राप्ता सुवर्णघटनां शुभबीजसूति-
हेतुर्गृहीतत्दृदयातिसुवृत्तभावात्।
वाणी सतो मधुरतामनिशं वहन्ती
कं कर्णिका च न हरेदिह पङ्कजस्य ॥ 38.6 ॥
गम्भीरघोषपरिपूरितदिग्विभाग-
मस्मिन्पुरः स्फुरति वारिमुचीव तारम्।
दैत्याधिनाथ समरोत्कलिका भटाना-
मभ्युल्लसन्ति शिखिनामिव चन्द्रकोर्व्यः ॥ 38.7 ॥
विभिन्चित्तैः प्रविभिद्यमानमेभिर्वचः साध्विति मा मनिष्ठाः।
विवेकभाजो विरला हि लोके व्यतीतसंख्या ननु सन्ति मूर्खाः ॥ 38.8 ॥
प्रायः कृशेरपि गुणैर्बहुमानगुर्वीं
संभावनां विदधदात्मनि मूढचेताः।
बिभ्रन्मनो गुणमहत्स्वपि सावहेलं
हास्यत्वमेव लघुवृत्तिरुपैति लोकः ॥ 38.9 ॥
दूरव्यपोढचरितातिशयाः स्वशंसां
कुर्वन्ति नीचमतयो रसनासहहस्रैः।
श्लाघ्यात्मनां गुणगणग्रहणे तु नूनं
स्तम्बेरमा इव भवन्ति विवृत्तिजिह्वाः ॥ 38.10 ॥
सन्मण्डलस्तितिकृता तनुनापि नूनं
कोदण्कडदण्ड इव भाति गुणेन साधुः।
नीचस्तु तस्य सललोन्नतसाधुवृत्तेः
संभाव्यते कुणिरिव ग्रहणेऽप्ययोग्यः ॥ 38.11 ॥
यः सज्जनो जगति यश्च खलैकवृत्ति-
र्द्वावप्यलीकवचसावभिदध्यमहे तौ।
एको गुणानसत एव यतः परस्य
वक्तीरतः किल सतोऽपि विनिह्नुते तान् ॥ 38.12 ॥
आरोप्य दूरमसतोऽपि गुणान्ब्रवीतु
साधुः खलस्तु तदपह्नववृत्तिरास्ताम्।
चेतः समाश्वसिति यस्य पुनः प्रकर्ष-
पर्यन्तगेष्वपि न तेषु स सश्चिदेकः ॥ 38.13 ॥
आवर्ज्यतेऽवसर एव हि चित्तवृत्ति-
रत्यन्तदक्षिणतया सुजनस्य वाग्भिः।
प्राप्ते मधावविरतं नवचूतयष्टि-
रुल्लास्यते मलयमारुतवेल्लनाभिः ॥ 38.14 ॥
वक्त्रश्रियं वितनुते नवसिन्धुवार-
पुष्पप्रकाण्डलवलीव सतः सुचिश्रीः।
शूलं करोति शिरसो विष्मञ्जरीव
कर्णे कृता खलजनस्य तु वागभीक्ष्णम् ॥ 38.15 ॥
आबिभ्रतः खलु कलावति पक्षपात-
मुद्वृत्तकामजयिनो वृषयानभाजः।
वाक्यं मलीमसमपि प्रतनोति कण्ठ-
शोभां सतो विषमिव त्रिशिखायुधस्य ॥ 38.16 ॥
गाम्भीर्यशालि हृदयं महतामगाध-
धैर्यं भवत्यनुकृताखिलसागराम्भः।
प्राप्तं निसर्गलघुसत्त्वसमाश्रयत्व-
मन्ये तु तद्दधति तुल्यमुदुम्बरस्य ॥ 38.17 ॥
साधारणैरपि गुणैर्बहुमानमेति
भूयिष्ठमेव पुरुषो लघुचित्तवृत्तिः।
लोकेत्तरैरपि न तैरपरस्तु धत्ते
दोलायमानमतिरुद्धुरकंधरत्वम् ॥ 38.18 ॥
यस्मिन्परिस्फुरति शेषगुणप्रकाशो
मन्दायते शशभृतिव च तारकौघः।
संतोषिणो जगति सोऽपि गुणोऽस्तु नाम
तेनापिचतसि मदो धिगपत्रपत्वम् ॥ 38.19 ॥
रव्यातिं पुमानिति पुमान्भजते स एव
योऽलंकृतो गुणगणैः शिशिरांशुशुभ्रैः।
सोऽश्मैव संप्रति मणिः प्रथिताकरोऽपि
यस्य स्पुरन्ति न करा दलितान्धकाराः ॥ 38.20 ॥
आलम्बितेऽपि हि विकसविधौ निरर्थ-
मानावलेपपवनक्षतबुद्दिगन्धाः।
वृन्तावशेषकुसुमाकृतयो न लक्ष्मी-
मासादयन्ति पुरुषा गुणहीनरुपाः ॥ 38.21 ॥
स्वच्छन्दता खलगिरां न भवन्ति वस्तु-
तत्त्वस्पृशो जगति केचन तासु शब्दाः।
आत्मस्तुतिं सुजनसच्चरितापलाप-
पापं च तेन विदधीत कथं न मूढः ॥ 38.22 ॥
योग्योऽहमेव मम ये तु गुणा न सन्ति
तान्दूषयेदसत एव कथं ह्यसाधुः।
लोकापवादपरिधूसरतामवाप्तै-
र्दूयन्त एव गुणिनो ननु तैरभीक्ष्णम् ॥ 38.23 ॥
ये निर्गुणाः परगुणेषु दृढानुरागा-
स्तेब्यो नमः सकलसज्जनसेखरेभ्यः।
येषां पुनर्गुणवतामपि साभ्यसूयं
चेतोऽन्यदीयगुणसंपदि धिक्खलांस्तान् ॥ 38.24 ॥
शून्यात्मनस्त्वभवनिर्जगतीह तस्य
पुंसोऽनिशं परगुणग्रहणाभियोगे।
धत्तेतरां सदसि संयुगसंकटे च
जिह्वेन्द्रियं करतलं च न यः किणाङ्कम् ॥ 38.25 ॥
आश्चर्यवृत्ति हृदयं महतामहो नु
विस्तीर्णतालवकणान्वयिनाकमार्गम्।
आबद्ध्यते तनुभिरप्यखिलं गुणैर्य-
दक्रीतदासमनिशं विमलैः परेषाम् ॥ 38.26 ॥
न प्राप्नुवन्ति समतामखिलैर्मदीयै-
रेते गुणैः परगुणेष्विति यान्ति नेर्ष्याम्।
प्राप्ता च तैः सदृ-शताधिकताथवैषां
जातश्च साधुरपि मत्सरमूढचेताः ॥ 38.27 ॥
उद्दाममत्सरविमूढधियो भवामि
मा वा परे मलिनितच्छविवक्त्रशोभाः।
उद्भिन्नपीनपुलकाभरणो भवामि
यत्सत्यमन्यगुणकीर्तनतोऽहमेकः ॥ 38.28 ॥
शक्यो न तोषयितुमात्मनि यः कृतास्थैः
संख्यातिगैरपि गुणैर्गुरुतां दधद्भिः।
स्वल्पैरसौ परगतैः परितुष्यतीति
विस्मायि चेष्टतमहो महतस्तदेतत् ॥ 38.29 ॥
व्यक्तं खटुह्कजनतापिहितात्मनोऽपि
निर्मत्सराः सततमुन्नमयन्ति साधोः।
सन्तो गुणान्घनरसातलतालुपङ्क
मग्नान्मणीञ्जलनिधेरिव वीचिभङ्गाः ॥ 38.30 ॥
आत्माभिमानविषमग्रहनिघ्नचित्त-
वृत्तेः परस्य न गुणेषु कदाचिदास्था।
अन्योऽभिनन्दति तनूनपि तानवश्य-
मर्घ्यात्मनो जगति मङ्गलमौक्तिकाभान् ॥ 38.31 ॥
कुर्वन्तु नाम बहिरन्यगुणेषु केचि-
दत्यन्तमत्सरविमूढधियोऽभ्यसूयाम्।
तेषां पुनर्जगति ये दृदयान्यभीक्ष्णं
नावर्जयन्ति नितरां न गुणैर्गुणस्तैः ॥ 38.32 ॥
प्राप्ताः प्रकर्षपदवीममृतोर्मिभह्ग-
शीताःशशाङ्करुचयो घनमत्सराणाम्।
येषां सुखोपकरणं न गुणाः परेषा-
मात्मद्रुहो धिगधमान्हतजन्मनस्तान् ॥ 38.33 ॥
दत्त्वा बहिः परगुणेष्वपि साधुवाद-
मन्तस्तु मत्सरविषानलदह्यमानः।
निर्वाति मूढहृदयः स्वविकल्पशइल्प-
संकल्पितं कमपितेष्वधिरोप्य दोषम् ॥ 38.34 ॥
श्लाघ्यः स एव निजवंशसुमेरुकुञ्ज-
कल्पद्रुमः सुचरितातिशयेन यस्य।
वन्द्या गुणास्त्रिभुवनेऽपि न संभवन्ति
शौरेः क्रमा इव विनिर्गतकीर्तिगङ्गाः ॥ 38.35 ॥
तेजोदरिद्रा वरमस्तु बुद्धिः प्रज्ञाविहीनेन किमोजसा स्यात्।
किं वारिदे गर्जति दत्तझम्पः प्राप्नोति नाशं शरभो न तेन ॥ 38.36 ॥
चन्द्रप्रभाधवलचामरचक्रवाल-
लीलाविधूनननिभेन भयाकुलत्वात्।
येषां जगत्त्रयकचग्रहदुर्निवार-
रूपा विराजति जरेव पलायमाना ॥ 38.37 ॥
महिषं ममापि रणमूर्ध्रि मा वधीत्सुरपक्षपातरभसेन चण्डिका।
इति बिभ्रतेव समवर्तिना भयं परिझह्रिरे विजितमृत्यवोऽपि ये ॥ 38.38 ॥
तेऽपि त्रिविष्टपसदो विजिता भवद्भि-
र्यस्यानुभाववशतो विजितैरपि प्राक्।
कालो निरर्गलतया भुवनत्रयेऽत्र
क्रीडत्यहो जयपराजयलीलयासौ ॥ 38.39 ॥ (तिलकम्)
क्रूरस्य कालकरिणो दृढदीर्घहस्त-
पाशस्य नैव ससुरासुरचक्रवालम्।
पर्याप्तिमेति जगदेकविधानपिण्ड-
लीलावकीर्णकवलग्रहविभ्रमाणाम् ॥ 38.40 ॥
दैत्यधिपा दितिजकण्ठविवर्तमान-
फेनच्चटावलयसंभरणेन यस्य।
अद्यापि बिभ्यति वधूजनकण्ठलग्न-
मुक्ताफलग्रथितहारलतावलीभ्यः ॥ 38.41 ॥
आयोधनेषु निरजीयत सोऽपि येन
वज्रानलेन्धनधराधरपक्षलक्षः।
किं कथ्यते क इव वा जयनिश्चयोऽस्ति
क्रोडीकृतं जगदनित्यतया हि सर्वम् ॥ 38.42 ॥ (तिलकम्)
पृथ्वीविनाशाहितशोकदीनाः कल्लोलसंघट्टरवैर्दिगन्तान्।
आक्रन्दशब्दैरिव पूरयन्ति परस्परं संवलिताः समुद्राः ॥ 38.43 ॥
शेषस्य कुञ्चितकरालशिरावितान-
विस्तारशून्यपरिपीवरकण्ठपीठम्।
स्रस्तांसमन्थरविनिः श्वसितं बिभर्ति
विश्लिष्टभारलघुवृत्ति फणासहस्रम् ॥ 38.44 ॥
अपोढभारातिशयस्य शौरिकूर्मस्यविस्रस्तविकूणिताङ्घ्रेः।
नखाङ्कुशाघातविघट्टनोत्थां न दिग्गजेन्द्रा रुजमाप्नुवन्ति ॥ 38.45 ॥
पातालताललुतलमेत्य वनान्तवल्ली-
श्यामत्विषं कमठपृष्ठकृतास्पदो यः।
दोर्दण्डलाङ्गलमुखेन निनाय दूर-
मुर्वीं कलिन्दतनयामिव सीरपाणिः ॥ 38.46 ॥
क्वासौ हिरण्याक्षमहासुरेन्द्रः क्रोडाकृतिर्यं विनिहत्य शौरिः।
सुरेन्द्रलक्ष्म्या समजुज्जहार पातालमग्नां सहसा धरित्रीम् ॥ 38.47 ॥ (पञ्चभिः कुलकम्)
उत्तम्भितेऽवनितले सहसैव भिन्न-
पातालरन्ध्रगतसंतमसाः करौघाः।
शेषोत्तमाङ्गमणिदीधितिभिः सहोष्ण-
रश्मेः प्रतापितभुजंगगणा घटन्ते ॥ 38.48 ॥
कल्पादिकोलकलनाकुलितां सलील-
मुर्वीं दिदृक्षुरिव विस्मयमानचेताः।
विस्रस्तमूलशिथिलातनुकर्णशुक्ति-
रुत्कंधरीभवति कूर्मपतिः स्थिराङ्ग्रिः ॥ 38.49 ॥
दंष्ट्राटनिक्रकचनिर्दलितालगर्द-
मम्भोधिमध्यभुवि संचरतः सलीलम्।
लक्ष्यीभवत्यवनिरायतकर्णरन्ध्र-
निष्पीततत्सलिलदृश्यतया पुरस्तात् ॥ 38.50 ॥
घोणानिलेनाभिहता पतन्ती रसातलान्तः पुनरेव भूमिः।
आलम्बते गाढकरग्रहेन्दुमरीचिगौरच्चविमाशु दंष्ट्राम् ॥ 38.51 ॥
पोत्राभिघातदलिताचलचक्रवाल-
मुत्तम्भितातनुरसातलतालुनः क्ष्मा।
आभाति मुक्तपृथुशेषफणास्पदेव
गाढावलम्बितनिशाकरगौरदंष्ट्रा ॥ 38.52 ॥
वपूरलघु विधूर्णयन्विनिघ्नन्घुरुघुरुघर्घरघोरघोपघोणम्।
विघटयति सटानिलाभिघातैरनघघटाघटनान्घनाघनौघान् ॥ 38.53 ॥
पोत्रस्थलस्तगितवारिदवर्त्मरुद्ध-
विस्रम्भसंचरणसौष्ठवजिह्म्यमानाः।
आमन्वतेऽन्यभुवनोदरसंप्रवेश-
मुत्कीर्णकर्णकुहराश्रयिणः समीराः ॥ 38.54 ॥
तारागणैरभिमुखं तरसा पतद्भि-
रभ्यर्च्यते धुतसटानिलघट्यमानैः।
दिग्देवताकरतपप्रहितैर्धरित्री
मुक्ताफलाग्रनिकरैरिव पोत्रलग्नाः ॥ 38.55 ॥
निर्धौतामलकरवालनीलभासि ब्रह्माण्डं वपुषि समग्रमश्नुवाने।
आकाशं दधदवकाशशून्यतां च स्वच्छायाच्छलत इवाखिलं निलीनम् ॥ 38.56 ॥
पातालरन्ध्रतमसेव नवाभ्रनील-
मालिङ्गितं दुरुपलक्ष्यतया परीतम्।
पोत्रस्थलस्थगितभानुनिशान्धकारे
दंष्ट्रा व्.यनक्ति वपुरुत्थितमन्तरिक्षे ॥ 38.57 ॥
इत्युद्धृतक्षितितलस्य हरेर्वराह-
रूपस्य तत्पुर इवाम्बुदनीलमीक्षे।
शालूककन्दमिव कुन्दलतावदात-
दंष्ट्राटनिक्रकचकोटिविलम्बमानम् ॥ 38.58 ॥ (एकादशभिः कुलकम्)
भेदोन्मुखस्वच्छनखात्मदर्शविस्पष्टबिम्बोदयघोरवक्त्रे।
यथार्थतामेव चिरादुपैति पञ्चानत्वं करकालचक्रे ॥ 38.59 ॥
जृम्भाविकासिमुखकंदरनिर्गता च
जिह्वा समुद्वहति वह्निशिखापिशङ्गी।
निःश्वासमारुतविकम्पितगूढनाभि-
पद्मोच्छ्वसच्चिथिलपाटलपत्त्रलीलाम् ॥ 38.60 ॥
गम्भीरतारतरघर्घरघोरघोष-
शिक्षोपदेशरभसादिव नाकमार्गे।
संवर्तवारिदघटा घटिताभ्युदेति
संरम्बनिर्धुतसटानिलघट्टनाभिः ॥ 38.61 ॥
निपतति घनविस्फुलिङ्गचक्रो विकटमुखोदरकंदरात्कृशानुः।
सुरगिरिरिव कीर्णरत्नराशिः प्रलयनिरर्गलमारुतव्यपास्तः ॥ 38.62 ॥
छायाविडम्बिततडित्प्रचया विभाति
रोषारुणा दितिजवक्षसि संपतन्ती।
अन्तर्निगूढनिवसन्नवनाभिपद्म-
गर्भस्रवन्मधुमदाबिलितेव दृष्टिः ॥ 38.63 ॥
निर्धूतकेसरसटानिलघट्यमान-
मिन्दोः पुरः पतति मण्डलमन्तरिक्षात्।
तीक्ष्णाग्रकोटिनखदारणसंभ्रमेण
लक्षीकृतं सपदि रूपमिवोपहर्तुम् ॥ 38.64 ॥
विनिष्पतद्धोरहुताशवर्तिप्रकोपहुंकारविरावभीताः।
दिशो भवन्ति स्फुटिताचिरांशुरक्तच्छटाविच्चुरिताभ्रमार्गाः ॥ 38.65 ॥
आकर्ण्य रुञ्चितरवं जितवारिगर्भ-
संवर्तकालजलदस्तनितातिघोरम्।
अङ्गेषु भीतिभरसंकुचिता निजेषु
वाञ्छन्ति दूरमिव दिक्करिणः प्रवेष्टुम् ॥ 38.66 ॥
करकलितकरालचक्रधारापरिणतयेव नखाग्रकोटिभागाः।
विघटितविकटास्थिजत्रुवक्षो विदधति तीक्ष्णतया परीयमाणाः ॥ 38.67 ॥
अङ्के कुनाटक इवोत्तमनायकस्य
नाशं कविर्व्यधित यस्य मुरारिरित्यथम्।
आक्रान्तकृत्स्नभुवनः क्व गतः स दैत्य-
नाथो हिरण्यकशिपुः सह बन्धुभिर्वः ॥ 38.68 ॥ (दशभिः कुलकम्)
सुरासुरव्रातकिरीटकोटिरत्नप्रभापाटलिताङ्घ्रिशाका।
खर्वात्मना संह्नियते स्वमूर्तिः पूर्वं ततो दानववंशलक्ष्मीः ॥ 38.69 ॥
संपीडितावयवसंधिगताः कथंचि-
दीषद्विवृत्य सरितोऽभिमुखं व्रजन्त्यः।
यान्ति प्रतीपमतिसंकटकुक्षिरन्ध्र-
बद्धास्पदोदधितरङ्गविघट्यमानाः ॥ 38.70 ॥
आबद्धतोषबलिदानवहस्तकुम्भा-
दर्घाम्भसा निपतितं करपुण्डरीके।
अम्बोजिष्टरकमण्डलुतश्च दण्ड-
पादे विरुग्णजगदण्डकवाटखण्डे ॥ 38.71 ॥
निःशेषलोकाक्मणोत्थितस्य कलिन्दकन्यासलिलत्विषोऽङ्घ्रेः।
श्यामीभवन्त्याशु दिशां मुखानि दैत्याङ्गनानां च रुचा स्पुरन्त्या ॥ 38.72 ॥
शेषोरगेण भुवनावसथाण्डखण्ड-
रुद्धावकाशविरसोल्लसितेऽङ्घ्रिपद्मे।
संभावितान्यचरणेन रसातलान्त-
रुत्तम्भ्यते कथमपि क्षितिराविशन्ती ॥ 38.73 ॥
उत्तस्थुषो लङ्घयितुं जगन्ति प्रदक्षिणावर्तपिनद्धपङ्क्तिः।
विभाति रत्नाङ्गदविभ्रमेण पादस्य सप्तर्षिगणोऽधिगुल्फम् ॥ 38.74 ॥
विस्तारिबाहुकरबद्धमुहूर्तसंस्थ-
चन्द्रार्कमण्डलरुचा स्थगितान्तरीक्षम्।
लक्ष्मीं बिभर्तिं घटितापरचारुशङ्ख-
चक्रेव मूर्तिरधिकं तरसोल्लसन्ती ॥ 38.75 ॥
त्रैलोक्यलङ्घननिरर्गलदण्कडपाद-
घातोच्छ्वसत्कनककर्परविभ्रमेण।
उत्तम्भ्यते मघवतस्त्रिदशाधिपत्य-
लीलातपत्रमिव निर्जरवंशलक्ष्म्या ॥ 38.76 ॥
इत्थं समग्रभुवनाक्रमणेन शार्ङ्ग-
पाणेरसौ क्व नु गता बलिदानवश्रीः।
प्रक्षालितेव चरणेन समं विरिञ्च-
हस्तारविन्दकरकार्घजलच्छटाभिः ॥ 38.77 ॥ (नवभिः कुलकम्)
लीलाविधौ भरनिपरीडितशेषभोग-
शय्याजुषो मुररिपोरपि नाभिपद्मम्।
येनाम्बुराशितनयाहृदयेन साक-
माकम्पितं करतलाग्रविघट्टनाभिः ॥ 38.78 ॥
उद्भाव्यते जलतरङ्गघटामरुद्भि-
रम्भोनिधावभिहतं हरिनाभिपद्मम्।
अद्यापि यत्करतलव्यपरोपणाभि-
घातस्मृतिव्यतिकरादिव बद्धकम्पम् ॥ 38.79 ॥
क्वासौ मधुर्ननु गतः सह कैटभेन
यस्यादिपूरुषकरोन्मलनादसृग्भिः।
व्याप्तेऽम्भसि स्फुटदलक्षितताम्रकण्ठ-
च्छेदा झषा झषनिधौ श्वसितेषु चेलुः ॥ 38.80 ॥ (तिलकम्)
किं कीर्तितैर्बहुभिरत्र महासुरेन्द्रै-
रिन्द्रानुजेन रणभूमिषु जाघ्निरे ये।
संक्षेप एष दितिजाधिप मत्प्रतीप-
वार्तान्तरायमभिषेणनमिन्दुमौलेः ॥ 38.81 ॥
विस्पष्टदण्डघटना स्फुटमष्टमूर्ति-
सेनाधुना शिथिलितव्यवसायबन्धा।
अभ्येत्य भस्मधवला भवतां करोति
कम्पं जरागमदशेव विजृम्भमाणा ॥ 38.82 ॥
उत्तंसितो डुपतिखण्डमृणालकाण्ड-
कल्माषितानलकडारकरालचूडम्।
फेनच्छटाशबलिताविरलप्रवाल-
वल्लीनिकुञ्जमिव दुग्धमहासमुद्रम् ॥ 38.83 ॥
प्रत्यग्रोष्णीषचन्द्रामलकिरणशिखा श्लेषनिह्नूयमान-
प्रेङ्खच्चूडाकपालोदरकुहरदरीघूर्णनामन्दवेगैः।
शङ्खक्षोदावदातैः स्खलनखलखलारावमौखर्यभाग्भि-
र्मन्दाकिन्या जलौघैर्लुलितगिरिसुताभागधम्मिल्लबन्धम् ॥ 38.84 ॥
स्वःसिन्धोः कपिलजटानिकुञ्जवेल्लच्छेवालामलजलवीचिसिच्यमानैः।
उत्खातां पुलिनगतैः कपालहंसैर्बिभ्राणं बिसलतिकामिवेन्दुलेखाम् ॥ 38.85 ॥
आसाद्य संयुगमुखे शशिखण्डमौलि-
मह्नाय जर्जरितदुर्धरधैर्यबन्धाः।
मुक्ताभिमानलघवः ककुभो भजन्ति
सार्धं तदीययशसा न चिरेण दैत्याः ॥ 38.86 ॥ (चक्कलकम्)
उद्दण्कडाम्भोजखण्डश्लथनिबिडपुटक्रोडधूलीकडार-
क्रीडत्कण्डूलगण्डामरगजमृदितापाण्डुडिण्डीरपिण्डा।
पिण्डेशूराः पुरो वः पुनरपि लडहाखण्डलस्त्रीस्तनाग्र-
प्रेङ्खत्कल्लोलकाण्डा भवति सुरसरिन्मत्तकारण्डवश्रीः ॥ 38.87 ॥
जृम्भारम्भाभिरामश्लथमुकुलमुखालक्ष्यलक्ष्मीकपक्ष्म-
प्रेङ्खद्धूलीपिशङ्गब्रमरकवलितामन्दविष्यन्दगर्भाः।
क्रीडन्त्यः कल्पवल्लीकिसलयकलिकाः कोमलाः कर्णपूर-
प्रेम्णा लुम्पन्ति हस्तैः सरभसमचिरान्नन्दने नाकनार्यः ॥ 38.88 ॥
तावद्बाष्पाम्बुपूरप्लुतनयनयुगस्वर्गनारीकराग्रै-
र्ज्योत्स्नागौरत्वलिषोऽमी तव सदसि धुताश्चामरा विस्फुरन्ति।
यावत्संहारवेलामिव न गणचमूमागतां सप्तलोकी-
चित्राकारव्यवस्थाविघटनचतुरामीक्षसे चन्द्रमौलेः ॥ 38.89 ॥
संप्रत्येव क्रोधवह्नौ पतंगा जाता गेहेनन्दिनो यन्न यूयंम्।
तन्मे नाज्ञामण्डलस्रग्विभूषां प्राप्तो मूर्धा धूर्जटेर्दैत्यनाथाः ॥ 38.90 ॥
इत्याक्षिप्य प्रगल्भं दनुतनुजपतीन्रोषरूक्षारुणाक्षां-
स्तत्कालालङ्घ्यतेजःप्रसरगुरुभरव्याहतार्कप्रकाशः।
पिंषन्रत्नाङ्गदालीं धुतकपिशरजःकल्पिताशाङ्गरागां
साङ्गारापाङ्गदृष्टिः कथमपि कुपितस्तत्सभां दूत औज्झीत् ॥ 38.91 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये दूतप्रतिगर्जितं नामाष्टात्रिंशः सर्गः।