३७

.

हरविजयम्।

सप्तत्रिंशः सर्गः।

इत्थं वचः सुररिपावभिधाय तत्र
तूष्णीं स्थिते विदधदुन्मुखमट्टहासम्।
संरम्भगर्भमिति संसदि वज्रबाहु-
रुज्जृम्भिताजिरसमारभताथ वक्तुम् ॥ 37.1 ॥
यत्काञ्चनाक्ष भवता नयगर्भमुक्त-
मित्थं वचस्तदुशना यदि वक्तुमीष्टे।
श्रुत्वैतदप्यसुवचं गुरुणापि मादृ-
गन्यो निसर्गजडधीः किमिवाभिदध्यात् ॥ 37.2 ॥
आकारमात्रमवलम्ब्य विभीतकस्य
पुष्पं विडम्बयतु नाम मधूकशोभाम्।
विष्यन्दिमञ्जुमकरन्दकणच्छटार्द्र-
किंजल्कतास्यकुत एव पुनस्यदीया ॥ 37.3 ॥
किंचित्तथाप्यसहनत्वमरातिलोक-
स्तुत्याभिधापयति मां प्रतिकूलरूपम्।
व्याघातमत्र निजपक्षपरिग्रहस्य
पश्यन्ति ये तु दितिजास्त इह प्रयान्तु ॥ 37.4 ॥
वाक्यं ममैतदणुसारमपि ग्रहीतु-
मर्हाः स्थ यूयमविवेकविकल्पवन्ध्याः।
अल्पोऽपि किं मधुकरैर्मकरन्दरेणु-
रादीयते हि मधुनो न मधूकपुप्पात् ॥ 37.5 ॥
आबिभ्रतो विरसतामथवाभ्युदेति
मत्तो न गीः कृतधियां हृदयंगमा वः।
क्षाराम्बुधेः कुत इवामृतशीकरार्द्र-
सान्द्रप्रभाधवलचन्द्रकलाप्रसूतिः ॥ 37.6 ॥
ये मन्दराद्रिमपि वासुकिभोगबन्ध-
लीलावघर्षणकृशीकृतमध्यभागम्।
उत्पाट्य पाणिभिरनाहतसंप्रहार-
हेला विरेजुरुपपादितशक्तिकृत्याः ॥ 37.7 ॥
एतेऽपि जेतुमतनूत्पुलकांसकूट-
दोर्दण्कडखण्डितनिरर्गलयुद्धशौण्कडाः।
हुंकारसंभ्रमवलत्त्रिदशाधिराज-
वद्धाभयाञ्जलिपुटा युधि केन शक्याः ॥ 37.8 ॥ (युगलकम्)
सिहीसुतस्य समरे सहसोत्थितस्य
शक्ताः कथंचन विलोलदृशः पुरस्तात्।
स्थातुं निसर्गतरला बत वीतशङ्क-
माचक्ष्व दूत यदि वः प्रमथप्लवंगाः ॥ 37.9 ॥
यस्याग्निचूर्णपरुषे रणेषु
दीप्रप्रतापतपने तपति त्रिलोकीम्।
निर्यत्तदूष्मभरखिन्नतयेव खड्ग-
धारागृहे चिरमुवास विपक्षलक्ष्मीः ॥ 37.10 ॥
यस्य प्रतापमिवसोढुमशक्नुवद्भि-
र्बन्दीकृतैः फणिपुरंध्रिगणैर्बुभूवे।
वैक्लव्यदुर्बलतया शिथिलायमान-
विस्रस्तकञ्चुकसितांशुकचक्रवालैः ॥ 37.11 ॥
यरयाहवेषु ववृधे भयसंकटेषु
निःश्वासमारुतपरम्परया रिपुणाम्।
भीष्मोष्मशुष्मपरिपाकविशेषदग्ध-
विद्वेषिवंशशततीव्रतरः प्रतापः ॥ 37.12 ॥
उच्चैरनायिषत यस्य समाकुलत्वं
विद्वेषिणामदयदारितदोर्द्रुमाणाम्।
आकृष्टकीर्तिकुसुमस्तबकैः कृपाण-
वल्लीनिपातपवनैः प्रसरद्भिराशाः ॥ 37.13 ॥
दुर्वारवैरिसमराध्वरयूपबाहो-
राधत्त यस्य रुचिरं चरणाश्रया श्रीः।
पाणिं नतिप्रवणदुर्जयलोकपाल-
निःश्वासधूसरितविभ्रमपुण्डरीकम् ॥ 37.14 ॥
किं तस्य पाण्डुरयशस्तुहिनाचलाभि-
मुख्यं न संख्यसुरभौ दधतः सुबाहोः।
भानोहिबाम्बुधितटानि गतो विलङ्घ्य
तीव्रीभवन्नधिकमेव दिशः प्रतापः ॥ 37.15 ॥ (पड्भिः कुलकम्)
संरम्भपाटलदृशः शरदभ्रशुभ्र-
हासस्य निःश्वसितघूर्णितमेघिकाभिः।
भेमेऽस्य गाढमिव दृग्भिरदभ्रबभ्रु-
ब्रूविभ्रमभ्रुकुटिसंभृतसंभ्रमाभिः ॥ 37.16 ॥
उज्जृम्भमाणतिमिरा भ्रुकुटिः सलील-
मस्यैव संभृतरुषो वदने स्फुरन्ती।
तच्चित्रमत्र यदरातिवधूमुखानि
लम्बालकानि परिधूसरतामनैषीत् ॥ 37.17 ॥
प्रालम्बयष्टिघटितारुणारत्नखण्ड-
प्रेङ्खन्मूशनिकुरुम्बपिशङ्गगर्मा।
अस्याततायिकुलसोणितपानगोष्ठी-
योग्यामिव स्म कुरुते करवालवल्ली ॥ 37.18 ॥
अस्यामलेन मम वा करवालमेघ-
धाराजलेन रणदुर्दिनडम्बरेषु।
शान्तिं सुखेन नवचन्द्रकलाञ्छितश्रीः
किं नीयते दितिजनाथ न नीलकण्ठः ॥ 37.19 ॥
प्रत्युत्फलत्सुरगणैर्ददृशे ममापि
वक्षःस्थलात्समरमूर्ध्नि मुरारिचक्रम्।
अभ्युज्जिहानमुदयाद्रिनितम्बभित्ति-
बागादिव क्षतजपाटलमर्कबिम्बम् ॥ 37.20 ॥
श्यामत्वमेति सहसैव ममाततायि-
लोकस्य कुन्दकलिकाधवलं यशः प्राक्।
श्च्योतन्ति कज्जलपरागमलीमसानि
पश्चाद्विलोचनजलानि नितम्बिनीनाम् ॥ 37.21 ॥
उद्भिन्न्पीनपुलकाङ्कुरमन्यशस्त्र-
धाराशतानधिगतप्रणयामृतार्द्रम्।
कण्ठग्रहं सपदि यस्य चकार चक्र-
धाराधिका तनुरुचिर्दयितेव राहोः ॥ 37.22 ॥
निष्ठ्यूतनिष्ठुरकृशानुशिखासहस्र-
धाराकरालममरेषु विलोकयत्सु।
आक्षिप्य तत्करतलान्मणिकर्णपूर-
मिच्छामि कर्तुमधुना रभसेन चक्रम् ॥ 37.23 ॥ (युगलकम्)
संमोहहेतुमधिगम्य पुरा कृपाण-
धारां रणेषु मदिरामिव सीरपाणिः
नूनं पुरा पतति वः शिथिलाङ्गयष्टि-
राघूर्णमानरुधिरारुणलोचनश्रीः ॥ 37.24 ॥
चक्रायुधोऽस्तु समरे मुसलायुधो वा
शूलायुधो भवतु वा कुलिशायुधो वा।
दोष्णैव तानहमनेन निहत्य हेति-
शून्येन धूसरमुखच्छवितां नयामि ॥ 37.25 ॥
सुव्यक्तमूर्जितधियो युधि हासयन्ति
वैदग्ध्यनिह्नुतधियो नयमार्गलग्नाः।
दोलाधिरोहविधूरं विहितं च कार्य-
मुत्सन्नमेव च तदित्यपि मेऽभिसंधिः ॥ 37.26 ॥
किं कीर्तितेन बहुना सुरनाथ ताव-
दापन्नतामरससारसहंसहासम्।
ग्रीष्मोष्मसोषितसरःसदृशं करोमि
तच्चक्क्रिमिश्रितमहं तव शत्रुसैन्यम् ॥ 37.27 ॥
तार्क्ष्योऽपि संयुगमुके निपतत्यवश्यं
मन्मुष्टिघातदलनाविधुतोत्तमाङ्गः।
ग्रासीकृतोरगसहस्रविषानुबन्ध-
मूर्छान्धकारघटनादिव मीलिताक्षः ॥ 37.28 ॥
मन्दीकृतोष्णकरमण्डलभासुरोर्ध्व-
ज्वालाजटालशिखिना त्रितयं पुराणाम्।
यस्येषुणा सकलमूर्ध्वगतेन दूर-
मक्ष्णा च मन्मथवपुः प्रसभं दिदीपे ॥ 37.29 ॥
तस्याहवे विनिहतेषु मयानुगेषु
ज्योत्स्नावती कृतविश्रृङ्खलदुःखदाहा।
आस्तां जराधवलकेशशिखेव केतु-
दण्डावचूलसितचामरचक्रवाला ॥ 37.30 ॥ (युगलकम्)
चूडाशशाङ्क इव निर्मलभासि भिन्न-
दिक्चक्रवालतिमिरे यशसि त्वदीये।
स्पष्टातिरेकमुपरि स्फुरति स्मरारे-
श्छायैति नूनमसुराधिप वामनत्वम् ॥ 37.31 ॥
आकम्पितत्रिभुवना सरुषो ललाट-
पट्टं प्रसीद नुदतु भ्रुकुटिस्तवेयम्।
बद्दान्थकारगहना रणदुर्धरस्य
सेना च संप्रति विकम्पमरातिचक्रम् ॥ 37.32 ॥
आयोधने मुखरितामरशैलकुञ्ज-
गुञ्जद्रुणातनुधनुर्दनुसूनुगर्भे।
धैर्यं बिभर्तद्यसकलेन कियन्निरुद्ध-
देहो हिमाद्रिसुतया हृदयेन शंभुः ॥ 37.33 ॥
आपाण्डुपिण्डितयशोघनसारचूर्ण-
पूर्णारिपूगफलभङ्गकृताभियोगः।
आकृष्य तस्य वपुषः प्रसभं भनज्मि
ताम्बूलरागरभसादिव नागवल्लीः ॥ 37.34 ॥
कल्माषितामलजला ज्वलतो ललाट-
नेत्रानलस्य चिरसंभृतधूमलेखाम्।
शीतांशुमण्डलविनिष्पतितां हरस्य
तल्लाञ्छनच्छविमिवानुगतां वहन्ती ॥ 37.35 ॥
मन्दाकिनी व्रजतु मूर्ध्नि जटानिकुञ्ज-
झांकारताररवडम्बरिताम्बरश्रीः।
कल्पावसानरभसकोत्थितभास्करांशु-
तीव्राग्निशल्यशरपातवशेन शोषम् ॥ 37.36 ॥ (युगलकम्)
चण्ड्याः करिष्यति रणे महिषध्वजोऽपि
लब्धावकाशमधुना किमपि स्फुरन्त्याः।
पादाभिघातदलिताहवशौण्डदर्प-
कण्डूलकासरवधानुशयादिवासौ ॥ 37.37 ॥
उत्खातदन्तमुसलां शरभिन्नकुम्भ-
विष्यण्णगाढरुधिरोक्षितकर्णतालाम्।
हेरम्बमूर्तिमपविद्धबिसां विवृत्त-
पत्त्रां करोमि नलिनीमिव वारणेन्द्रः ॥ 37.38 ॥
उत्तुङ्गबाहुशिखरस्थगितान्तरिक्ष-
मुद्दामनागकटकस्थितिमप्रकम्प्यम्।
क्रौञ्चाचलेन्द्रमिव मामविरुग्णपक्ष-
मासाद्य मुञ्चति पुरा न गुहो न शक्तिम् ॥ 37.39 ॥
कोदम्डदण्डमधुना कलधौतशैल-
माधाय शेषभुजगाधिपभीषणज्यम्।
हेलाविनिर्जितहरः प्रसभं शरेण
सप्तापि दूरमधुनैव भिनद्मि लोकान् ॥ 37.40 ॥
चण्डेश्वरस्य विदधे सहसोत्तमाङ्ग-
माबद्धविस्मयसुरासुरचक्रदृष्टः।
साङ्गार्युधो जगदिवाक्रमणोत्थपाद
लीलाभिघातदलितोरुकपालबन्धम् ॥ 37.41 ॥
सङ्ग्रामवासरपरिस्फुरितोऽतिशोभि-
निर्धूतपावकशिखाकपिशत्विषोऽहम्।
छायां शिलादतनयस्य विवर्तयामि
मेरोर्दिवाकर इवाप्रतिमप्रतापः ॥ 37.42 ॥
क्रोधेस्वरः क्व मम यास्यति हुंकृताग्नि-
छूमच्छटावलयितं दधटात्मकण्ठम्।
पर्याप्तकालकवलीकरणप्रगल्भ-
तत्पाशरुद्धपरिणाहमिवाहवाग्रात् ॥ 37.43 ॥
स्थूलास्तिकुम्भशिखरः करवालदान-
लेखाङ्कितः प्रविलसत्करपुष्करश्रीः।
शक्तः क्षणान्मम भुजः प्रतिनागराज-
लीलां दधद्दलयितुं युधि वीरभद्रम् ॥ 37.44 ॥
यैराहवे दितिसुतैः समवर्तिनोऽपि
भग्नः प्रतापविभवेन सहैव दण्डः।
स्यात्सप्ततन्तुदलने बहुमानपात्र-
मेषां पुरः क इव शंशत वीरभद्रः ॥ 37.45 ॥
सङ्घ्रामसीम्नि मयि गर्जति तारनाद-
मुज्झत्यवश्यमभिमानमरातिलोकः।
शब्दः स केसरिण एव भयंकरेण
येन श्रुयतेन विमदीभवतीभयूथः ॥ 37.46 ॥
मन्ये तदेव वचनं रिपुविप्रकार-
रोषेण रूषितधियः समरेषु यस्मिन्।
उद्भिध्यचतेऽतिषमा समवर्तिराज-
धानीभटस्य भृकुटिः प्रतिकारहेतोः ॥ 37.47 ॥
दोःशालिनो रणभुवि स्फुरणानुबन्ध-
भाजः क्षणाद्दलयतः सुभटस्य शत्रून्।
संपश्यता मृतमुखानि परं परेत-
नाथेन साम्यमहमक्षम एव कर्तुम् ॥ 37.48 ॥
सङ्ग्रामकाननमुदूढकरालपीलु-
बन्धं चमूरचितशोभमरातिसंस्था।
नैवाधितिष्ठिति चिरं सुभटस्य चाप-
टांकारनादचकिता हरिणीव लक्ष्मीः ॥ 37.49 ॥
गीर्वाणदैत्यसमरेषु करैर्विमुक्त-
सीत्कारशीकरकरालकणैर्घटन्ताम्
कुम्बोदरस्खलितपुष्करनध्रमार्ग-
निष्ठ्यूतमौक्तिकगणैरिव मत्तनागाः ॥ 37.50 ॥
कुर्वन्त्वखेटखटकामुखहस्तकृष्टि-
चक्रीकृतानि ककुभो युधि कार्मुकाणि।
आस्फालितक्षुभितसागरवारिधीर
मौर्वीरवश्रवणसंभृतसंभ्रमार्ताः ॥ 37.51॥
ग्रासीकरोतु दिवसाधिपमेष कर्ण-
पाशं दधत्कनककुण्डलमण्डलाङ्कम्।
विच्छिन्नकण्ठकटकानुशयात्सलील-
मुल्लम्बिताच्छहरिचक्रमिवाद्य राहुः ॥ 37.52 ॥
बाष्पाम्बुशीकरकणौघनिभेन चन्द्र-
बीजच्चटा इव पुरा विकिरत्यमन्दम्।
ग्रासीकृते शशिनि नूनमनेन नेत्र-
मत्रेस्तदुद्भवनिमित्तमतीव शोकात् ॥ 37.53 ॥
शोकानुबन्धकृतजागरगाढखेद-
मन्तश्चरेषु च मरुत्सु विघूर्णितेषु।
योग्यान्वयेऽप्यसुरविप्रकृतः कृशत्वे
संप्रत्युपैतु परिपीवरतां समीरः ॥ 37.54 ॥
उत्तुङ्गमङ्गलमतङ्गजजङ्गमाद्रि-
निःसङ्गभङ्गुरतुरङ्गतरङ्ग्यमाणम्।
अङ्गारिताङ्गमसुरायुधविस्फुलिङ्ग-
मुत्सङ्गसह्गिगगनाह्गनवीरयोधम् ॥ 37.55 ॥
सच्चापचक्रचतुरच्युतकाञ्चनोत्थ-
नाराचरेचितचमूचरचक्रवालम्।
आश्चर्यचर्यचतुराञ्चितचारुचर्च-
चन्द्रावचूलमचिराद्रणमस्तु चण्डम् ॥ 37.56 ॥ (युगलकम्)
संस्फेटवत्मनि जराधवलत्विषोऽपि
लीलाप्रकीर्णकगणा इव धीरयोधाः।
एतेऽधिरूढरभसास्तव दैत्यनाथ
शक्ताः प्रभञ्जनमपीरयितुं पुरस्तात् ॥ 37.57 ॥
तिग्मप्रतापघटनाभिमुखेष्वभीक्ष्ण-
मुद्दण्डपत्त्रपटलेष्वसुराधिपेषु।
ज्योत्स्नेव पङ्कजवनेषु निशाकरस्य
कीर्तिः रखलत्यकलुषापि मृगाह्कमौलेः ॥ 37.58 ॥
विष्यन्दिदानजलकुञ्जरकुम्भभेद-
निर्मुक्तमौक्तिककणश्रमवारिबिन्दुः।
क्रुध्यत्कृतान्तकुटिलभ्रुकुटीविभङ्ग-
भीमा ममास्तु समरे करवालिकेयम् ॥ 37.59 ॥
न्यूहप्रपञ्चरचनां विदधातु शुक्रः
शक्तिस्तु नाथ भवतो युधि दुर्निवारा।
संस्थानमस्तु रुचिरत्वविधायि शेष-
मालोकयत्यकलुषा हि कनीनिकाक्ष्णः ॥ 37.60 ॥
क्रोधात्क्षणेन ससुरासुरचक्रवाल-
मन्तं जगत्त्रयमपि व्यपनेतुमेतत्।
उत्क्षिप्यतां रणमुखे कृतकालरात्रि-
संज्ञा करालकुटिला करवालिकाभ्रूः ॥ 37.61 ॥
हेलाविलुप्तनरसिंहकठोरकण्ठ-
पीठस्फुरत्पृथुसटाघटितांसकूटाः।
शौर्योष्मनिष्कथितहारलतेन्दुकान्त-
वारिच्छटाकणकरालितवक्षसोऽमी ॥ 37.62 ॥
संवादिदोहदरसाः सुरसंक्षयार्थ-
मुच्चैः स्फुरन्ति तव संसदि दैत्ययोधाः।
तेजस्विनां तिमिरदारणनिश्चयेऽस्ति
किं नु क्वचित्त्रिभुवनेऽपि निसर्गभेदः ॥ 37.63 ॥ (युगलकम्)
लोकेऽत्र वीरजनतापरिभोग्य एव
केयं विभागपरिकल्पनलालसा वः।
हेलावरुग्णहरिणा हरयो यथेच्छ-
मध्यावसन्ति ननु काननचक्रवालम् ॥ 37.64 ॥
येनातिपीडनरसस्फुटनानुबन्धि-
बाष्पाम्बुशीकरपरिप्लुतपाटलाक्षः।
कालोऽपि कण्ठवलितोल्वणपाणिलग्न-
पाशः प्रसङ्य चकृषे समरेषु तस्य ॥ 37.65 ॥
संख्यं सुरैरसुरराजकुलस्य कीदृ-
गेकीभवन्ति नहि केसरिणः कुरङ्गैः।
दानान्धगन्धकरिकुम्बविभागभङ्ग-
दक्षस्फुरन्नखशिखाशिखराः कदाचित् ॥ 37.66 ॥ (युगलकम्)
सिंहोऽस्तु शत्रुरथवाधिपतिर्मृगाणां
शंसास्पदं तदपि न द्वयमेव मन्ये।
तस्य स्फुरत्करजवज्रशिखाभिघात-
हेलानिपातितमतङ्गजजह्गमाद्रेः ॥ 37.67 ॥
इत्यं मौक्तिककर्णपूरकिरणव्याजेन गण्डस्थली-
चर्चाचन्दनचर्चनामिव दधद्वीरोऽवलेपश्रियः।
वाक्यं रत्नशिखाकरलितशिरः कम्पाभिरामं भटै-
रारब्धस्तुतिबन्धमन्धकसदस्युकत्वा स तूष्णीमभूत् ॥ 37.68 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये वज्रबाहुविस्फूर्जितं नाम सप्तत्रिंशः सर्गः।