३६

.

हरविजयम्।

पट्‌त्रिंशः सर्ग।

बिभ्रत्कलिन्दतनयामिव चन्द्रमौलि-
लीलाधृतत्रिदशनिर्झरिणीर्ष्ययारात्।
श्यामीकृतार्ककरचक्रकिरीटकूट-
कोटिस्फुरन्मरकतांशुखिकेन मूर्ध्ना ॥ 36.1 ॥
दोलायमानमणिकुण्डलकोटिलग्न-
रत्नांशुपुञ्जपरिपिञ्चरितावतंसः।
अंसस्थलेन विकटांसतटेऽभिहत्य
व्यंसासुरं स निकटस्थितमित्यवादीत् ॥ 36.2 ॥ (युगलकम्)
हे दैत्यनाथ किमवस्तुविजृम्भमाण-
संरम्भमित्यभिदधासि विभिन्नधैर्यः।
तिष्ठत्सु दानवभटेष्वपि संयुगाज्ञा-
लाभोन्मुखेषु दलितारिकुलाचलेषु ॥ 36.3 ॥
सत्स्वेव संनिहितदिग्गजगण्डभिति-
विष्पन्दमानमदपङ्ककृताङ्कुरेषु।
दैत्येन्द्रबाहुषु रिपुक्षयकालरात्रि-
मालम्बते तव करः करवालवल्लीम् ॥ 36.4 ॥
पार्श्वे विलोकयसि किं भ्रुकुटिं विदाय
कोपात्सवेपथुकरः कुलिशं जिघृक्षुः।
तत्कार्यमेष कुरुते तव बाहुरेव
हेलाविरुग्णसकलाहितशैलचक्रः ॥ 36.5 ॥
आयोधयत्यधिकमेकतमापि काचि-
दल्पापि ते भटवरूथवती विवक्षम्।
पर्याप्तिमेति शिखिनः समिदुद्धतस्य
दग्धुं स्फुलिङ्गकणिकापि समासजन्ती ॥ 36.6 ॥
मेधासितस्तव भुजो ननु मेकलाद्रिः
केयूरमेष शिखरं विकटं बिभर्ति।
निस्त्रिंशयष्टिरियमत्र विटङ्कसीम्नि
हालाहलोल्बणलता विदधाति मोहम् ॥ 36.7 ॥
सत्यं त्वमेव सकलं सुरराजचक्र-
मेकः क्षणाद्दलयितुं समरे समर्थः।
भस्मीकरोतु वडवानलमन्तरेण
कल्लोलकाण्डकलिलं क इवाम्बु सिन्दोः ॥ 36.8 ॥
तेजस्त्वया निशितमार्गणटङ्कघातै-
स्त्वष्ट्रेव शातितमनर्गलमिद्धधाम्नः।
आरोपितस्य समरब्रममाततयि-
लोकस्य दीप्ततरमारचितं च चक्रम् ॥ 36.9 ॥
आकर्णितेन वचसा भवतो बिभर्मि
यत्सत्यमुत्पुलकपूरभरां स्वमूर्तिम्।
कोऽप्येष शब्दमहिमा जलदस्य येन
रत्नाङ्कुरप्रसवमेति विदूरभूमिः ॥ 36.10 ॥
वाक्यं ब्रवीतु सुवचाः सदसद्विवेक-
योग्यो भवानिव भवेद्यदि तत्र कश्चित्।
ग्राव्णः प्रसूतिमधिगच्छति हेम यस्मा-
न्नासौ क्वचिद्भवति तस्य निकाषपट्टः ॥ 36.11 ॥
प्रज्ञा ममाल्पविभवपि विवेकयोग-
मेषा कियन्तमपि नैव निरस्यतीह।
ज्योत्स्नातपं बहुलपक्षपरिक्षतापि
नात्मानुरूपममृतांशुकला जहाति ॥ 36.12 ॥
नैसर्गिकीं विरसतां दधतोऽप्यभीक्षण-
मासेदुषोऽपि जडिमानमगण्यवृत्तेः।
वाक्यस्य सारगुरुणो गुरुभिः परीक्ष्य-
मन्तः कप्रसूतिरुपलादिव काञ्चनस्य ॥ 36.13 ॥
अर्हन्ति मेघमलिनाः सदसि ग्रहीतु-
मेतेऽर्थतत्त्वमधुना वचसि स्तितं नः।
दैत्याधिपा मदुकरा इव पुष्पधूलि-
गर्भे कृतव्यतिकरं मकरन्दलेशम् ॥ 36.14 ॥
निर्भिद्यमानहृदयोच्छलितं व्युदस्त-
हस्तस्य पञ्चभिरुपोढनृसिंहमूर्तेः
रोषादिव प्रतिमितैर्नखदर्पणेषु
दैत्येन्द्रशोणितमपीयत यस्य वक्त्रैः ॥ 36.15 ॥
दंष्ट्रागृहीतगुरुसंभ्रमभूतधात्री-
पातालपातपुनरुक्तिभयेन रुद्धम्।
अन्तर्विधूर्णनविसंस्थुलसप्तलोक-
मासीद्वराहवपुषः श्वसितं च यस्य ॥ 36.16 ॥
मच्चक्रकोटिपरिवर्तनसंधिबन्ध-
च्छेदार्तिमेष कथयिष्यति दानवानाम्।
जीवन्विधुंतुद इतीव पुरा विचिन्त्य
येन व्यधायि मुखमण्डलमांत्रसेषः ॥ 36.17 ॥
सङ्ग्राममूर्धनि विपूरयितुं न येन
यत्नादपि स्फुटमपार्यत पाञ्चजन्यः।
निःश्वासनुन्नहृदयास्पदसप्तलोक-
संस्थानरुद्धविकटाननरन्ध्रमार्गः ॥ 36.18 ॥
लक्ष्मीकराकलितविभ्रमपुण्डरीक-
लीलावमृष्टचरणो युधि शार्ङ्गपाणिः।
चिन्तापथं न कथमेति स दैत्यमार्ग-
संहारतिग्मकरबिम्बसुदर्शनो वः ॥ 36.19 ॥ (पञ्टभिः कुलकम्)
निष्ठ्यूतनिष्ठुरशिखानलविस्फुलिङ्ग-
पिङ्गीकृताम्बरतला समराङ्गणे वः।
कौमोदकी स्मृतिपथात्स्खलिता कथं नु
तद्बाहुदण्डघटितारियुगक्षयोल्का ॥ 36.20 ॥
सह्येत केन रणवर्त्मनि नन्दकोऽपि
कण्ठच्छिदारसभरदिव योऽसुराणाम्।
कल्माषितोष्णकिरणांशुकरालरश्मि-
रेखाछलेन कुरुतेऽन्यकृपाणसर्गम् ॥ 36.21 ॥
यस्याहवेषु परिवर्तजुषो मुरारि-
हस्ताङ्गुलीकिसलयाग्रगतस्य दूरम्।
सीमन्त्यमानतिमिराः किरणौर्निशात-
धारावखण्डनभियेव दिशोऽपसस्रुः ॥ 36.22 ॥
दिग्देवताकनकदर्पणविस्फुलिङ्गः
सर्पन्नतर्प्यत जनार्दनदर्पवर्ष्म।
दाराकृशानुरपि यस्य सुरारिकण्ठ-
नाडीनिरर्गलगलत्क्षतजच्छटाभिः ॥ 36.23 ॥
चक्रं क्षमेत युधि तत्क इवास्य रोद्धु-
मुद्धूतधूसरितदिक्पटलान्धकारम्।
उन्निद्रकुन्ददलकोमलकीर्तिचन्द्र-
लेखोपबृंहणसहस्रमरीचिबिम्बम् ॥ 36.24 ॥ (तिलकम्)
मा भूत्पत्त्रपवनेन कपालबन्ध-
संधिर्द्विधा दलित एष दिवस्पृथिव्योः।
ध्यात्वेति योऽण्डशकलादुदितः क्षणेन
चण्डेतरोड्डयचनडम्बरिकोऽम्बरेऽभूत् ॥ 36.25 ॥
हेलादिलङ्घितजगत्त्रितयोक भुजंग-
संदानितः शतमखानुजदेहभारः
येनोह्यते वियति वाजिगणेन दूर-
मुष्णत्विषो रथ इव स्फुरदेकचक्रः ॥ 36.26 ॥
पुञ्जीकृतोरगसहस्रजिघत्सयेव
पक्षानिलेन घनवर्त्मनि यश्चकार।
क्ष्मामण्डलसं विदलिताचलचक्रवाल-
मेकीभवत्क्षुभितसप्तमहासमुद्रम् ॥ 36.27 ॥
ब्रह्माण्डगर्भमपि योऽधिवसन्निजाण्ड-
पिण्डादनिर्गमनमेव विदांचकार।
दिग्भित्तिसंकटविकूणितपक्ष्म(क्ष) पाली-
मन्दक्रमोड्डयनदुःस्थितचित्तवृत्तिः ॥ 36.28 ॥
यस्यावतीर्णमधिवारिधि शैशवेऽपि
लीलागृहीतगजकच्छपमञ्जसारात्।
त्रस्तालगर्दगृहिणीतरलाक्षिदृष्ट-
मुत्कम्पिकातरजनार्दनकूर्ममासीत् ॥ 36.29 ॥
तार्क्ष्यः स चिन्त्य उदकादिव दुग्धसिन्धो-
रादत्त योऽमृतरसं सुरसुप्तिबन्धात्।
चञ्च्वग्रदष्टपृथुशेषमृणालकाण्ड-
पातालगर्भनलिनीतटराजहंसः ॥ 36.30 ॥ (षड्भिः कुलकम्)
आताम्रदन्तुरफणाङ्गुलिकोटिभाग-
विस्पष्टरत्नकरजांशुजेन यस्य
पातालतालु तरसावनिराविशन्ती ॥ 36.31 ॥
क्ष्मामण्डलोद्धरणलग्नमहावराह-
विन्यस्तनिष्ठुरखुराग्रविखण्ड्यमानाः
पिङ्गैः परागपटलैर्नवचीनपिष्ट-
पिष्टातकश्रियमधुर्मणयोऽपि यस्य ॥ 36.32 ॥
कल्पावधावधिपयोधि यमेकमेव
बद्धास्पदं मधुरिपुः शयनीचकार।
कुक्षिप्रविष्टभुवनत्रयचित्रचेष्टा-
व्याहारविभ्रमविलुप्तसमाधिनिद्रः ॥ 36.33 ॥
शेषः स यस्य भुवनप्रलयावतार-
पर्याप्तताण्डवपरिक्रमनम्यमानाम्।
दिक्कुञ्जरांसशिखरस्खलितां कथंचि-
दुर्वीं दधच्छ्वसिति गाढमुपोढखेदः ॥ 36.34 ॥
भ्रूभङ्गभीषणमरीणरुषो रणेषु
तस्य क्षमेत क इवेक्षितुमिन्दुमौलेः।
शाखाभिराहितभयं तिसृभिस्त्रिशूलं
दृग्भिश्च वक्त्रमनलोल्बणरूपभाग्भिः ॥ 36.35 ॥ (पञ्चभिः कुलकम्)
यस्याः पलायनपरायणतामुपेत-
मालोक्य दानवकुलं समरे हसन्त्याः।
भाति स्म दन्तमणिषून्मिषिता हिमाद्रि-
सानुस्थलात्परिणतेव विपाण्डुरश्रीः ॥ 36.36 ॥
आकम्पितत्रिभुवनां भुजदण्कडखण्ड-
संछादिताम्बरतलां समराजिरेषु।
कस्तां जगत्क्षयनिरर्गलनृत्तराग-
लीलामिव स्मररिपोर्विषहेत चण्डीम् ॥ 36.37 ॥ (युगलकम्)
यस्याधिगण्डतटमुत्कटकर्णताल-
दोलानिलाभिहतिनिर्दयरुग्णमूलाः।
क्षोणीभृतोऽपि पतिताः स्रुतदानलोभ-
लीनद्विरेफपटलश्रियमुद्वहन्ति ॥ 36.38 ॥
अभ्युन्नतांसशिखराग्रविघट्टनाभि-
र्नोन्मूलितः कथमपि त्रिदशाच्लोऽपि।
गण्डस्थलीं निकषतः स्रुतदानसिन्धु-
मालानपादप इव श्रियमेति यस्य ॥ 36.39 ॥
यस्यैक्षतेन्दुकलिकाधवलाद्विषाण-
दण्डादुरःस्थलविवर्तितहारफेना।
ज्योत्स्नाच्छटाशबलिताम्बरवर्त्मभित्ति-
र्मन्दाकिनी हिमगिरेरिव निष्पतन्ती ॥ 36.40 ॥
यस्यामलाम्बरसरस्यहिमांशुबिम्ब-
रक्ताम्बुजं सरलदीधितिपक्ष्म लक्ष्मीम्।
धत्ते विषाणबिसकाण्डकरालमूल-
लीलाव्युदस्तकरदण्कडमुहूर्तलग्नम् ॥ 36.41 ॥
गाङ्गायनेः समिति तस्य विषाणवज्र-
पातेन दानवकुलाचलचक्रवालम्।
संशीर्यमाणविकटाश्थिशिलावकीर्णृ-
मस्याः क्षणेन लघयिष्यति भारमुर्व्याः ॥ 36.42 ॥ (पञ्चभिः कुलकम्)
उत्क्षिप्तपीवरनिरायतकंधरेण
मेघावलीमिव चुचुम्बिषतानुरागात्।
यः स्मोह्यते सरभसं सविलासपिच्छ-
संच्छादिताम्बरतलेन शिखण्डिनोच्चैः ॥ 36.43 ॥
तिग्मांशुबिम्बमणिकन्दुकमव्यवस्थ-
मास्फोट्य पाणिकमलेन सलीलमुर्व्याम्।
चिक्रीड यः शिशुतया प्रलयागमेषु
सप्रेम पश्यति विमुग्धमृगाङ्कमौलौ ॥ 36.44 ॥
स्कन्दस्य तस्य दितिजाधिपटुग्धसिन्धु-
लक्ष्मीसमुद्धरणमन्दरशैलमूर्तिम्।
क्रौञ्चाद्रिनिर्दयविमर्दशिताश्रिकोटिं
शक्तिं न सोढुमसुरेष्विह कोऽपि शक्तः ॥ 36.45 ॥ (तिलकम्)
प्रेङ्खच्छिखण्डभरशोभिवपुः कलिन्द-
कन्याह्रदश्रियमगाधतया दधाने।
शक्तो रणे दलयितुं प्रचलाकिकेतु-
रङ्नाय कालियमिवाहितमच्युतश्रीः ॥ 36.46 ॥
स्थानदानसमये शशिखण्डमौले-
रातस्थुषः प्रतिदिनं प्रतिहारभूमिम्।
यस्यावलोकनवसाद्बहु मन्वते च
पद्मासनप्रभृतयोऽपि दृशाः पतन्तीः ॥ 36.47 ॥
को वा विडम्बितजगत्प्रलयार्कबिम्ब-
वह्निस्फुलिङ्गनिकुरुम्बनिपीतसिन्धुम्।
शूलं शिलादतनयस्य युधि क्षमेत
सोढुं ससंयुगरसभ्रमणानुबन्धम् ॥ 36.48 ॥ (युगलकम्)
आक्षेपमाहवमुखे विधुतोत्तमाङ्ग-
संघट्टनिर्दलितमौलिकपालखण्डम्।
चण्डेश्वरस्य निबिडभ्रपुकुटिप्रचण्ड-
टांकारडम्बरमपि क्षमते न मृत्युः ॥ 36.49 ॥
क्रोधेश्वरोऽपि करवालविलूनकण्ठ-
पीठै रणेष्वसुहृदां लुठितैः शिरोभिः।
तृप्तिं कृतान्तकरिणो विदधद्विधान-
पिण्डैरिवाजिभुवि वीक्षितुमप्यशक्यः ॥ 36.50 ॥
इन्द्रोऽपि सान्द्ररुचिचन्द्रकचक्रवाल-
रूपाभिरामपरिणामविलोचनश्रीः।
भीत्या शिखी हतमखस्य बभूव यस्य
चिन्त्यः कथं नु भवतां न स वीरभद्रः ॥ 36.51 ॥
अन्येऽपि लोकपरिवर्तनदुर्विलास-
हेलोल्लसत्प्रलयवासरविभ्रमा ये।
तेभ्यो ममास्ति न भयं न च तेषु नीति-
गर्भं वचटोऽभिदधतो ननु पक्षपातः ॥ 36.52 ॥
प्रज्ञाविकल्पगिरिलोडितकार्यसिन्धु-
सारामृतासवपरिग्रह एव तस्मात्।
उत्सृष्टविग्रहकथाः कुरुत प्रयत्न-
मभ्येषथासुरभटा ननु तेन मृत्युम् ॥ 36.53 ॥
स्वल्पापचारविधुरोऽवसरषु कश्चि-
त्प्राप्नोत्यनर्थपरिणाममवश्यमेव।
विस्फोटवान्किल कुशाङ्कुरकण्टकादि-
विद्धो भवत्यविरतं कुलिकोदयेषु ॥ 36.54 ॥
तेजो विकासि दधतः स्थिरसंप्रहार-
कण्डूनिरर्गलमरातिबलं जिगीषोः।
नीतिप्रपञ्चरहितस्थिति पौरुषं हि
नाभाति पङ्कजमिवोद्धृतबीजकोषम् ॥ 36.55 ॥
आयोधनेष्वतनुदुर्धरशौर्यशालि-
गीर्वाणचक्रमवमंसथ मा स्म दैत्याः।
येनाहुरग्रहणमार्यधियः परेषो
जाड्यं न धैर्यमिह शौर्यनिरर्गलेषु ॥ 36.56 ॥
प्रज्ञाप्रकर्षविनियोगविशेषसाध्य-
मिच्छन्ति कार्यगहनं नहि मोहहेयम्।
आदिप्तदीपकशिखानिकुरुम्बभेद्य-
रूपं तमोऽन्धतमसेन कदा विभिन्नम् ॥ 36.57 ॥
केचित्पराक्रमगुणेन नयोन केचि-
त्केचित्तथा ततुभयेन विशेषनिष्ठाः।
अन्ये पुनः सकलतन्निरपेक्षवृत्ति-
दैवानुभाववशतः श्रियमाप्नुवन्ति ॥ 36.58 ॥
अन्यार्थमन्यफलमेव भवत्यवश्य-
मारम्भजातमखिलं मतिदुर्विधानाम्।
कण्डूयनाय करिणं शरभो हि पृष्ठ-
मारोपयत्यनिशमेति स तेन नाशम् ॥ 36.59 ॥
हे दैत्यनाथ विनयस्व परेषु मन्यु-
मन्यायवृत्तिरभसारभटीयमास्ताम्।
संमान्यतां सदसि दूतमुखेन ताव-
देतन्मृगाङ्कशकलाभरणस्य वाक्यम् ॥ 36.60 ॥
इति दितिसुतसिन्धुर्वाक्यरत्नं विसृज्य
व्यरमदतनुमुक्ताकर्णपूरत्विषोच्चैः।
स्फुटनयगुएमतोषाच्चुम्ब्यमानं कपोल-
स्थलममलधियेवागाधधैर्यो दधानः ॥ 36.61 ॥

इतिक श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये कनकाक्षनयोपक्षेपो नाम षट्त्रिंशः सर्गः।