.
हरविजयम्।
पञ्चत्रिंशः सर्गः।
इत्याहितत्रिभुवनक्षयसंभ्रमार्ति
दिक्चक्रवालगगनक्षितिगोचरेषु।
उत्पातविप्लवशतेषु समुद्भवत्सु
तस्मिन्क्षणे प्रलयशंसिषु दानवानाम् ॥ 35.1 ॥
संरम्भगर्भगुरुनिः श्वसितानिलोत्थ-
धूमच्छटाभिरसुराधिपमण्डलेषु।
मेघावललीभिरभितः स्थगयत्सु लोक-
संवर्तदुर्दिनमुखेष्विव दिग्विभागान् ॥ 35.2 ॥
दष्टौष्ठपट्टविकटभ्रुकुटीविभङ्ग-
मावेगनिर्धुतशिरः स्मरवैरिदूतम्।
पश्यत्सु जिह्ममनलोल्बणदृष्टिपात-
प्लुष्टप्रकीर्णकशिखं दितिजाधिपेषु ॥ 35.3 ॥
अन्तः प्रकोपदहनोद्धतहेतिदाह-
भीत्येव कण्ठविकचोत्पलमालिकासु।
वक्षःस्थलीनिकषणोत्थकृशानुधूम्-
व्याजात्पलायनपरायणतां गतेषु ॥ 35.4 ॥
अद्यैव तेऽस्तु निधनं सदसीत्यशक्ल-
क्लिष्टाक्षरं निगदतः क्रमयोगशून्यम्।
संतर्जयत्सु तरलीकृततर्जनीक-
मत्थं गणाधिपतिमाहवदुर्मदेषु ॥ 35.5 ॥
संरम्भगाढवलिताङ्गुलिपल्लवाग्न-
मुद्गूर्य मुष्टिमपरेषु रुषाभिहन्तुम्।
उत्थाय दष्टविकटौष्ठमवध्यदूत-
बुद्ध्या शनैरुपविशत्सु निजासनेषु ॥ 35.6 ॥
अन्येषु धीरललितस्थिति कृत्यवस्तु-
चिन्ताप्रवेशविवशीकृतशेमुषीकम्।
संरम्भशून्यममरारिषु निस्तरङ्ग-
भङ्गोर्मिमालिसदृशीं श्रियमाश्रितेषु ॥ 35.7 ॥
प्रेमानुबन्धिपरमार्जनलग्नराज-
लक्ष्मीदुकूलपटपल्लवविब्रमाभिः।
विब्राजितेन नखदीधितिमञ्जरीभि-
राक्रम्य पादफलकं चरणेन हैमम् ॥ 35.8 ॥
चेतोहरस्मितविकासिकपोलभित्ति-
भ्रुक्षेपलोलललिताङ्गुलिहस्तचेष्टम्।
चन्द्रांशुगौररुचिकल्पबलतादुकूल-
पर्यङ्कबन्धविकटोन्नतपीनवक्षाः ॥ 35.9 ॥
दैत्याधिपो मुखरिताखिलदिङ्भुखेन
वाक्येन दानवचमूपतिकर्णकुक्षीन्।
आपूरयन्प्रलयमेघ इवाद्रिरन्ध्र-
भागान्विशेषपरुषाक्षरमित्यवादीत् ॥ 35.10 ॥ (दशभिः कुलकम्)
किं सांप्रतं तरलदूतवचःप्रपञ्चै-
रेभिः किलाकुलितसत्त्वधियः स्थ दैत्याः।
संभाव्यते शिखरिणां नहि मुग्धपत्त्रि-
शब्दश्रुतिक्षुभितकेसरिकंदरत्वम् । 35.11 ॥
एतेन दूतवचसापि विजृम्भमाण-
संरम्भमेतदवलोक्य सुरारिचक्रम्।
शङ्के कुलाचलकुलं कलविङ्कपोत-
पर्यस्तपक्षपवनाहतिबद्धकम्पम् ॥ 35.12 ॥
यद्बालभावसुलभं शशलक्ष्ममौलि-
दूतोऽभ्यधादयमशङ्कितचित्तवृत्तिः।
वक्तुं क्षमं पितृगृहे तदशेषमेव
श्रोतास्ति यत्र रभसेन स मातृवर्गः ॥ 35.13 ॥
त्रैलोक्यसारगुरुधाम सदः किलैत-
न्नैव श्मशानमशिवात्म शिवाशवाढ्यम्।
दैत्या इमे रिपुकुलाचलचक्रवाल-
निष्पेषकल्पमरुतो न गणप्लवंगाः ॥ 35.14 ॥
दैत्याधिराजविनिपातविभीषीकाभि-
रभ्येत्य भाययसि दूत दितेः सुतान्यत्।
तद्व्याहतं लघुघनाघनमुक्ततोय-
धाराभिरेति न यतः शममौर्ववङ्निः ॥ 35.15 ॥
निर्जित्य संयुगमुखे सुरराजचक्र-
मप्यात्मसाज्जगदकारि यदैव दैत्यैः।
क्वासौ तदा समभवत्कथयेन्दुमौलिः
स्कन्दोऽथवा क्व नु गणाः क्व नु ते क्व नन्दी ॥ 35.16 ॥
आश्वासयन्नसिलतावनतालवृन्त-
वातैर्नृसिंहनखरक्षतविग्रहां ये।
लक्ष्मीं पुनर्दितिजराजकुलस्य काल-
दण्डप्रचण्डपरिपीवरबाहुदण्डाः ॥ 35.17 ॥
किं तैर्न नन्दनंगतैर्दयिताजनस्य
गीर्वाणपौरुषमिव स्वरुचा हसन्ती।
आपानबन्धमुदितैरपनिद्ररत्न-
पुष्पावतंसरचना क्रियतेऽसुरेन्द्रैः ॥ 35.18 ॥ (युगलकम्)
किं वावलोकनकुतूहलिभिस्त्रिलोक्या-
मारुद्य बाहुजितदेवविमानवीथईः।
नाभ्राम्यतासुरभटैः समरात्तगन्ध-
गन्धर्वकिंपुरुषगीतविनोद्यमानैः ॥ 35.19 ॥
माणिक्यपुष्पभरमन्थरकल्पवल्ली-
लीलागृहोदरगतैर्हरदूत दैत्यैः।
किं नान्वभूयत विदग्धविलासदिग्ध-
मुग्धारिवारवनितारतकेलिलीला ॥ 35.20 ॥
किं वा न विभ्रमविभूषितदैत्यनारी-
हस्तारविन्दपददुर्ललितो गृहान्तः।
अध्यावसन्करविमृष्टकलङ्क एति
याथार्थ्यमेव गृहचन्द्र इति स्म चन्द्रः ॥ 35.21 ॥
किं वावरोघनवधूदयितत्वपक्ष-
पातात्सुरैः सततसंनिहितीकृतार्काः
स्वाधीनवल्लभतया प्रतिपन्नहारी-
हासा व्यलोकिषत नो न गृहाम्बुजिन्यः ॥ 35.22 ॥
पिङ्गस्फुरत्किरणकेसरशारिताशा-
स्मेरस्य नो किमुपदीक्रियते सुरेन्द्रैः।
उत्खातशेषफणभृत्फणचक्रवाल-
माणिक्यपुष्परचिता मम मङ्गलस्रकग् ॥ 35.23 ॥
विस्पष्टसंहृतनिरर्गलसप्तलोक-
पूरप्रगल्भरसिता मृदुमञ्जुगर्जाः।
किं मे न यामपटहत्वमवाप्नुवन्ति
सौदामनीकनककोणभृतः क्षयाब्दाः ॥ 35.24 ॥
प्रलियशैलतटकाननदेवताभि-
रम्येत्य नो मृगमदागुरुकुङ्कुमेन।
संपाद्यते किमवरोधवधूजनस्य
दैत्याधिराजपुरि विभ्रममण्डनश्रीः ॥ 35.25 ॥
दैत्याधिपैर्युधि जितस्य मृणालसूत्र-
गर्भे स्थितिर्भयवशात्पुनरत्र मा भूत्।
नोन्मूलिताः किममराधिपतेरितीव
मद्दन्तिभिर्भवनकाननपङ्कजिन्यः ॥ 35.26 ॥
किं वा विघट्टनविरुग्णसुपर्णकेतु-
नाभीह्रदाम्बुजजरद्बिसदण्डखण्डैः।
दैत्यैरपुष्यत मम व्यपहृत्य हम्ये-
वापीषु न द्रुहिणधोरणहंसपङ्क्तिः ॥ 35.27 ॥
विस्पष्टभङ्गलघुचापलतापरीतः
स श्रीफलैकरसिको हरिराहवाग्रे।
स्यैर्यं बिभर्ति कुत एव विशङ्कटेषु
दैत्याधिराजकरवाललतागृहेषु ॥ 35.28 ॥
चिन्ताभरानतमुखप्रतिबिम्बलग्न-
लोलैककुण्डलसितेतररत्नखण्टडम्।
तस्याचिरेण दयिता वहति स्तनं श्री-
र्विश्रान्तषट्रणचक्रमिवारविन्दम् ॥ 35.29 ॥
लक्ष्म्या भविष्यति रणे भयबद्धकम्प-
लोलाङ्गुलिश्लथगृहीतकरालनालम्।
विस्रंसि सान्द्रदलमण्डलपक्ष्मखण्ड-
मुत्कर्णिकं कदपि विभ्रमपुण्डरीकम् ॥ 35.30 ॥
प्रत्यग्रमेचकरुचिर्विकराललोल-
कल्लोलपीवरकराहतपुष्करश्रीः।
स्वच्छन्दमेव चकृषे सहसासु यचेन
सीराङ्कुशेन करिणीव कलिन्दकन्या ॥ 35.31 ॥
संख्ये जितस्य हलिनोऽपि मयैति तस्य
नूनं त्रपभरविहस्ततयोत्तमाङ्गम्।
अन्तर्निगूढमणिशारशिरः सहस्र-
बारातिगौरववशादिव बन्धुरत्वम् ॥ 35.32 ॥ (युगलकम्)
क्रीडापतत्त्रिरभसोत्थजिघृ-क्षयारा-
त्क्षिप्तो मयापि विनतातनयस्य तस्य।
पाशः प्रसादनविलग्नभुजंगभोग-
लीलां पुरैति चरणाङ्गुलिकोटिलग्नः ॥ 35.33 ॥
कोदण्डमण्डलकटुक्वणितं मदीय-
मायोधने श्रुतवतो हृदयात्स्मरारेः।
धैर्यं गमिष्यति निरुद्धशरीरभीरु-
चित्तस्थभीतिपरिणामवशादिवोच्चैः ॥ 35.34 ॥
कोदण्डमन्दरगिरिश्रवणान्तकृष्ट-
मौर्वीकृताहिघटितोन्नतपृष्टभागः।
यस्याच्युतोऽप्यभिददुष्णमरीचिबिम्ब-
दुर्दर्शभासुरमुखस्त्रिपुरं पृषत्कः ॥ 35.35 ॥
मुञ्चन्ति शात्रववधूनयनारविन्द-
मालाः कराहतपयोधरमण्डलाग्रम्।
अद्यापि दीपितपुरत्रयतायमान-
धूमाभिघातघटनादिव यस्य बाष्पम् ॥ 35.36 ॥
आलम्बितां करजकूटशिखाविददष्ट-
तारागणां वपुषि वीक्ष्य मृगेन्द्रकृत्तिम्।
यस्योज्झितः शुचिमरीचिचयश्चकास्ति
भीत्येव लक्ष्महरिणेन किरीटचन्द्रः ॥ 35.37 ॥
उर्ध्वेक्षणानलमनिन्धनमप्यवैमि
धत्ते मया युधि हरः स विजीयमानः।
रोषानुबन्धमलिनालिकपट्टपृष्ट-
निष्ठ्यूतधूमशबलीकृतविस्फुलिङ्गम् ॥ 35.38 ॥ (चक्कलकम्)
आकूणितेक्षणमुखस्य कृपाणयष्टि-
रेषा रणेषु पतितेरसि चनद्रमौलेः।
हारीकृतोरगफणामणिशाणकोण-
काषक्रमेण मसृणीभवति क्षणान्नः ॥ 35.39 ॥
पश्यस्यवश्यमचिरेण विखण्ड्यमान-
दोर्दण्डदर्परभसस्य मया रणेषु।
श्यामायमानमलिकेक्षणवह्निधूम-
च्छायाविलङ्घितमिवाननमिन्दुमौलेः ॥ 35.40 ॥
आपातजर्जरितजह्रुसुताजलौघ-
निर्मृष्टलाञ्छनकलङ्क इवाच्छलेखः।
इस्ते यशोङ्कुर इवैति पुरा हरस्य
हेला जयेन मम सोऽपि किरीटचन्द्रः ॥ 35.41 ॥
आयोधनेऽपि विजितस्य मया स्मरारे-
रूर्ध्वेक्षणानलशिखाभिहतो ललाटे।
पाणिः पुरैति घटनां नखकोटिरश्मि-
संदेहितामलकिरीटशशाङ्कखण्डः ॥ 35.42 ॥
पीनान्तरालपरिवर्तितमत्कृपाण-
च्छायानुबन्धबहलच्छविकालकूटम्।
कण्ठं बिभार्ति न चिरादिव संभ्रमार्त-
शैलाधिराजतनयेक्षितमिन्दुमौलिः ॥ 35.43 ॥
चक्रीकृतातनुधनुर्गुणगुञ्जितेन
सङ्ग्राममूर्ध्नि मयि रुन्धति शैलकुञ्जान्।
जिह्नेतु तस्य हृदयं तनुलग्नभीरु-
चित्तार्धभागविदितच्युतधैर्यबन्धम् ॥ 35.44 ॥
निर्धौतकज्जललवामपि बद्धघोर-
मूर्छान्धकारगहनां रुदितेन गौरी।
न्यस्ताञ्जनामिव विधास्यति पक्ष्मपङ्क्ति-
रुद्वृत्ततारकमयूखशिखावलीभिः ॥ 35.45 ॥
चिन्तागृहीतदयिताशिथिलोपगूढ-
कण्ठस्य मन्युभरदुः स्तितचित्तवृत्तेः।
शय्यान्तरे सरिदिवैष्यति भङ्गमाशु
सा वर्तनी रसिकतानुगता स्मरारेः ॥ 35.46 ॥
तारं शरासनगुणक्वणितं भयेन
संस्तम्भितश्रवणतालमुदञ्चिताक्षाः।
आकर्णयन्तु समरे मम जन्मसाम-
घोषोदयातिरभसादिव दिग्गजेन्द्राः ॥ 35.47 ॥
ग्रासीकृताखिलजगत्त्रितयोऽधुनैव
सान्द्रान्धकारमलिनामसुराधिनाथाः।
किं धूमवर्तिमिव तामपि कालरात्रि-
मेकः पिबामि भवतामधुना पुरस्तात् ॥ 35.48 ॥
निघ्रन्नखेटखटकामुखहस्तकृष्ट-
मौर्विविनिर्गलविनिर्गतमार्गणौघैः।
तां रेवतीमपि खटाखुमवैमि संख्य-
मार्गेऽतिशुष्कमलिनच्छविदेहयष्टिम् ॥ 35.49 ॥
आरोप्य किं पुनरपि भ्रममुप्णरश्मि-
बिम्बं क्रमेण हरिहेतिजिगीषयैकः।
टङ्काभिघातविनिकुट्टिततन्निशात-
तेजश्ठटाभिरपरं घटयामि चक्रम् ॥ 35.50 ॥
माणिक्यकन्दुकमिवोष्णमरीचिबिम्ब-
मास्पोट्य पाणिकमलेन सलीलमेतत्।
कुर्वे तदीयचशिखिगर्भमयूखताम्न-
मारूढपाकमिव किं क्षितिपीठपृष्ठम् ॥ 35.51 ॥
अभ्याहता निपतता करवालमेघ-
धाराजलेन गुरुसंगरदुर्दिनेषु।
मुञ्चन्तु तावदधुना चिरसंभृतं त-
मूष्माणमुन्नतिजुषः प्रतिपक्षशैलाः ॥ 35.52 ॥
मुक्ताशिलाशकलकोमलभासि बाल-
भारेऽस्तु दुःखविधुरा चमरीव तावत्।
उच्छ्रायि दैत्यपतिकीचकचक्रवाल-
भग्नेऽधुना यशसि निर्जरवंशलक्ष्मीः ॥ 35.53 ॥
गाम्भीर्यरेचितमनूर्जितकैटभारि-
तापानुबन्धविसरत्वमभीक्ष्णमाप्तम्।
तत्स्तोकमेव सुरसैन्यमवैमि ताव-
दायोधनेऽत्र मरूमार्गजलायमानम् ॥ 35.54 ॥
मन्ये निसर्गमहतां हृदयेषु पूर्व-
मिच्छैव निष्प्रतिघतामनघां वहन्ती।
पश्चादुपायघटना सकलेषु कृत्य-
वस्तुष्वनन्यसदृशीमुपयाति सिद्धिम् ॥ 35.55 ॥
विस्पष्टमुष्टिघटनागुणयोगभाज-
स्तीक्षणीकृता भटजनेन कृपाणपट्टाः।
कार्यप्रबन्धघटनावहितैः सुनीति-
मार्गाश्च भीरुहृदयैर्ननु सप्रपञ्चाः ॥ 35.56 ॥
यस्मिन्निसर्गमहता चरमः प्रकृष्ट-
मारम्भमाद्यमतिशेत इह प्रत्नः।
तं तारतम्यभरसंभृतिजृम्भमाण-
संरम्भशून्यफलमाद्रियतेऽविदग्धः ॥ 35.57 ॥
और्जित्यमुज्झितवतां बत वीतशङ्कं
कार्यं करिष्यति च नीतिविषूचिका वः (चेत्)।
वन्ध्यासुतः शशविषाणधनुर्विधाय
मोक्ष्यत्यवश्यमचिरेण स नाकबाणान् ॥ 35.58 ॥
विस्पष्टलुत्थ(ण्ठ) नकथां विजहीत नीति-
कन्थाममन्थरपराक्रममार्गपन्थाः।
तन्द्रालुभिर्न सुलभा ननु धैर्यशौर्य-
शौटीर्यहार्यहृदया क्वचिदेव लक्ष्मीः ॥ 35.59 ॥
नूनं मलीमसपयोधरमण्डलासु
जातासु दिक्ष्विव विपक्षनितम्बिनीषु।
संप्राप्यते मधुजितेव विटङ्करत्न-
पर्यङ्कशेषघटितेन मयापि निद्रा ॥ 35.60 ॥
कृपणविरुतिलग्ना रात्रिसोभाधरेऽस्मि-
न्नभिपतति तमिस्रा धूसरे मत्कृपाणे।
विरहाविधुरचेताः पार्श्वमुत्स्रक्ष्यति द्रा-
क्तुहिनशिखरिकन्या चक्रवाकीव भर्तुः ॥ 35.61 ॥
इत्याविर्भूतदर्पप्रसरमभिदधत्यन्धके बद्धमन्या-
वालक्ष्यान्तर्विवक्षास्फुरदधरपुटश्चुक्षुभे काञ्चनाक्षः।
रत्नप्रालम्बमालामलकिरणशिखानिर्झराम्भश्छटाभि-
र्बिभ्रन्निर्वाष्यमाणातनुकुलिशशिखिप्लोषमुच्चैरिवोरः ॥ 35.62 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये अन्धकासुरव्याहारो नाम पञ्चत्रिंशः सर्गः ॥