.
हरविजयम्।
चतुस्त्रिंशः सर्गः।
क्रोधोऽथ तां तिमिरविप्लवमन्ददृष्टि-
राबद्धवेपथुरतिक्रमयोगवृद्धिः।
आबद्धमूर्धविधुतिः श्वसितानुबन्ध-
पारिप्लवाधरदलः शनकैरविक्षत ॥ 34.1 ॥
अभ्यापतन्नुशनसासुरचक्रवाल-
हुंकारधूमनिकरो ददृशो पुरस्तात्।
आलिङ्गिताखिलवपुर्व्रतकार्यपान-
पर्याप्तसंस्तववशादिव धूमितार्कः ॥ 34.2 ॥
वक्षःस्थलीमलनसंभ्रियमाणधूम-
लेखावलीखबलितां कुपितोऽगग्निदंष्ट्रः।
आलग्नपीनदयिताकुचकुम्भपीठ-
कालागुरुप्रकरपत्त्रलतामिवोहे ॥ 34.3 ॥
सङ्ग्रामदोहदरसस्फुटितै रराज
पीनं हिरण्यकशिपोस्तनयस्य वक्षः।
स्थूलास्तिशृङ्खलनिपातविरुग्णखड्ग-
धारारजःकलुषितक्षतजैर्व्रणौघैः ॥ 34.4 ॥
क्रोदान्मयेन रचिता भ्रुकुटिः किरीट-
माणिक्यरश्मिकपिशश्रमवारिबिन्दुः।
संहारकालरजनीव रराज सांध्य-
रागच्छटारुणिततारकमण्डलश्रीः ॥ 34.5 ॥
कर्णावतंसविकचोत्पलकान्तिभिन्न-
संरम्भपाटलकपोलतलोंऽसकूटम्।
राकाप्रदोष इव राहुपरिप्लुतेन्दु-
बिम्बः करेण शतदुन्दुभिराहतोच्चैः ॥ 34.6 ॥
स्वेदाम्बुशीकरकणप्रकरावकीर्ण-
वक्षःश्थलव्रणदरीकुहरो विकुम्भः।
दध्रे विभिन्नकरिकुम्भमृगारिहस्त-
विस्रस्तमौक्तिकगुहागृहशैललीलाम् ॥ 34.7 ॥
सोत्सेकमत्सरधियोऽनलतारकस्य
निष्पेतुराहवरसस्फुटितव्रणेभ्यः।
वक्षःस्थलीविकटवप्रतटाभिघात-
भहग्रनामरद्विरदराजविषाणखण्डाः ॥ 34.8 ॥
संरम्भभासुररुचो हरिकंधरस्य
वक्त्रेण संभृतरुषः स्फुटहासभासा।
उद्गीर्णदग्धसलिलार्णवभस्मधूलि-
संतानवाडवमुखानुकृतिर्विदध्रे ॥ 34.9 ॥
आताम्रदृष्टिकिरणच्छुरिताच्छघर्म-
वारिच्छटाकणफणामणिरुल्लसन्ती।
छायाकलिन्दतनयाजलजालमध्य-
मग्ना कलेर्भ्रुकुटिकालियमीर्तिरासीत् ॥ 34.10 ॥
राहोरलक्ष्यत मुखं दृढदन्तयन्त्र-
निष्पेषधूममलिनीकृततालुमूलम्।
दैत्याधिपैः कवलितेन्दुकलङ्कपङ्क-
संसर्गधूसरमिव प्रविजृम्भमाणम् ॥ 34.11 ॥
सिंहीसुतो दशनपट्टविघट्टनोत्थ-
धूमच्छटा भुजगनायकभोगदीर्घाः।
ग्रासीकृतस्य शशलक्ष्ममभृतः कलङ्क-
लेखा इवोदगिरदन्तरितान्तरिक्षाः ॥ 34.12 ॥
निष्ठ्यूतया कवलितामृतधारयेव
बक्त्रान्तरालभुवि भूरिभरादमान्त्या।
तस्यातिनिष्ठुररुषो विकटाट्टहास-
भासावभासितसभाभवनं बभासे ॥ 34.13 ॥
स्वेदाम्बुकर्दमित्चूर्णिततारहार-
धूलिच्छटाधवलिता तनुरिन्दुकेतोः।
विन्यस्तचन्दनरसेव रराज वैरि-
लक्ष्मीसमागमसमुत्सुकमानसस्य ॥ 34.14 ॥
जृम्भाविकासिगुरुमत्सरदुर्निरीक्ष्य-
माताम्रमाननमराजत वज्रबाहोः।
औत्पातिकं विकटरन्ध्रनिरुद्धमध्य-
मुद्रश्मिमण्डलमिव स्फुटमुष्णधाम्नः ॥ 34.15 ॥
कालान्तकस्य सकलारिकुलक्षयाय
धूमच्छटा मलयचतोऽथ ललाटपट्टम्।
पुष्पावतंसविगलन्मकरन्दबिन्दु-
पानार्थिनी मधुपपङ्क्तिरिव न्यपप्तत् ॥ 34.16 ॥
रोषारुणेक्षणमरीचिविलङ्घ्यमान-
जिह्मोत्कटभ्रुकुटि वह्निशिखस्य वक्त्रम्।
अन्तर्विषानलशिखाशतपिङ्ग्यमान-
कालोरगाद्रिशिखरश्रियमाससाद ॥ 34.17 ॥
अभ्युन्मिषच्छिखिशिखापटलं सुबाहु-
रन्योन्यबाहुमलनेन करद्वयस्थम्।
त्वष्टा विटङ्कतरटङ्कनिकुट्टनोत्थ-
माधत्त चक्रघटनार्थमिवार्कतेजः ॥ 34.18 ॥
संरम्भिणः क्षितिसुतस्य कठोरकोप-
रागारुणच्छवि विलोक्य वपुस्तदानीम्।
दैत्याधिपाः क्षणमशङ्किषतानपोढ-
गाढोरुगर्भशयनक्षतजच्छटार्द्रम् ॥ 34.19 ॥
टांकारयन्विकटकुट्टिमपट्टष्ठ-
मङ्गुष्ठकोटिदृढटङ्ककठोरघातैः।
नष्टाष्टदिक्तटतमश्छटमट्टहास-
मट्टालकूटभिदुरं व्यधिताग्निदंष्ट्रः ॥ 34.20 ॥
चक्रेऽतिगाढकरपिष्टकरालहार-
तारावलीविलुलितातनुचूर्णपूर्णम्।
वज्रव्रणौघमवचूर्णनकाम्ययेव
संरम्भगर्भरभसस्फुटितं विदर्भः ॥ 34.21 ॥
क्ष्मामण्डलं बिभिदिवान्गुरुपारर्ष्णिघात-
पातेन कोपकलुषोऽथ हिरण्यनेमिः।
चक्रे रसातलमदृष्टचरार्कबिम्ब-
संदर्शनाकुलकुतूहलिकाद्रवेयम् ॥ 34.22 ॥
विस्पष्टजिह्मतरचेष्टतचित्तवृत्ति-
रुत्सृष्टसाधुचरितप्रतिपत्तिदुष्टः।
क्रोघः क्षणादविनयैकरसोऽभ्यसूयां
कुर्वन्मृगाङ्कमुकुटे नरकं जगाहे ॥ 34.23 ॥
वक्षः स्थलीलुलितहारमृणालदण्ड-
खण्डः प्रकोपमाहिषेण विगाह्यमानः।
छायाजलौघकलिलः कलुषाकुलश्री-
रुद्दामवेपथुरथेल्वलपल्वलोऽभूत् ॥ 34.24 ॥
संवर्तकस्य करवज्रशिखानिपात-
पिष्टाङ्गदांसशिखरोत्थितधूमकेतुः।
चामीकरोत्थमपरं बिभरांचकार
केयूरबन्धमिव संसदि बाहुदण्डः ॥ 34.25 ॥
दष्टौष्ठपृष्ठविकटभ्रुकुटीकराल-
ताम्राननस्य करसंपुटपेषजन्मा।
अन्तःस्थशेषफ्णरत्ननिधानभूमि।
पीठे पपात शरभस्य कृशानुवर्तिः ॥ 34.26 ॥
संहारमारुतधुतप्रलयाग्निहेति-
तालूरचक्रपरिमण्डलचक्षुपोच्चैः।
विन्ध्यासुरेण भयकातरदैत्यदृष्टां
चण्डीं रुपं धूतवता परुषं जगर्जे ॥ 34.27 ॥
पादाभिघातदलितं क्षितिपीठबन्ध-
मग्रेऽनुसंधिरभसादिव कालचक्रः।
कच्रेऽतिगाढकरसंपुटपिष्टहार-
तारावलीलुलितधूलिकणावकीर्णम् ॥ 34.28 ॥
अभ्युत्त्ताम करतामरसावमृष्ट-
तिम्यल्ललाटफलकोऽस्तमयाय शत्रोः।
आताम्रदृष्टिरतिमत्सरतस्तमाल-
नीलच्छविः कृततमीतिमिरोऽतिमायः ॥ 34.29 ॥
स्वेदोदबिन्दुशबलोष्मविलीनमौलि-
विष्पन्दिहेमरसमिश्रतया ललाटे।
भ्रूभेदराजिरजितस्य रराज कोप-
लीलापुरंध्रिचटुलातिलकायमाना ॥ 34.30 ॥
प्रेङ्खन्नखांशुपरिकल्पितकण्ठदाम-
दुर्दर्शनः परिममर्श करेण कोपात्।
वज्राभिघातविकटव्रयणबद्धसंस्थ-
विच्छिन्नहारकणकर्बुरकान्ति वक्षः ॥ 34.31 ॥
दिक्चक्रवालमनघस्मरघस्मरेन्दु-
मौलीक्षणस्मरणसंभृतसंभ्रमार्द्रम्।
क्रोधाग्निदीप्रतरतारकतारकाक्ष-
काक्षेक्षितं न कथमप्यशनैरधाक्षीत् ॥ 34.32 ॥
जृम्भाविकासिमुखकंदरदृश्यमान-
जिह्वालतः सपदि विह्वलयन्सुरारीन्।
आवर्तगह्वरपरिस्फुरितप्रवाल-
वल्लीकरालजलधिश्रियमाप धुन्धुः ॥ 34.33 ॥
वज्रप्रभेण विकटादुरसो विलूय
मुक्ताफलस्तबकदाम विकीर्णमूर्ध्वम्।
आसन्नदेशरचितस्थितिशीतरश्मि-
तारापुरंध्रिपरिवारविलासमाप्त ॥ 34.34 ॥
क्रोधोद्धतभ्रुकुटिभन्धकबन्धवक्त्र-
च्छायान्धकारविसरप्रसरोपघातम्।
चक्रुः करालदशनांशुशिखासहस्र–
शोभाभृतः सपदि केतुमतोऽट्टहासाः ॥ 34.35 ॥
वज्रानलोऽप्यनलभासुरघोरदृष्टि-
पातैर्दहन्निव जगद्गुरुमत्सरश्रीः।
स्मेरः सविभ्रममबिभ्रमदुद्गतांशु-
चक्राहितार्कपरिधिं करपद्मशाखाम् ॥ 34.36 ॥
तेन क्रुधा दुधुवुषोद्दतमुत्तमाङ्ग-
मुल्लासिभिः कनकमौलिमरीचिचक्रैः।
दृष्टव्युदस्तरविरश्मिरिव व्यधायि
संभ्रान्तखेचरगणा दिवसस्य लक्ष्मीः ॥ 34.37 ॥
संभ्रेमुषा सुरगणेन विलोकितोऽथ
जीमूतकेतुरभिनन्दितसंप्रहारः।
हारान्सलीलमलुनात्तरुणार्कबिम्ब-
दुर्दर्शलोचननिपीततदातपश्रीः ॥ 34.38 ॥
मूकोऽपि भ्रुकुटितरङ्गितं ललाटं बिभ्राणः करतलताडितांसकूटः।
संरम्भस्फुरदरुणेक्षणो जगर्ज क्रोधान्धो बधिरितसप्तलोकमुच्चैः ॥ 34.39 ॥
विवर्तिताधरविकसत्कपोलभूर्विचिन्तिताहितरणलाभहर्षुलः।
विकोषितोभयपुटफुल्लतारकाममर्षणो दृशमानिमेषिणी दधौ ॥ 34.40 ॥
विस्रब्धमैच्चदवसादितवासवोंऽस-
विस्रंसमानवसनः सवसावसेके।
व्यंसासुरश्चिरमविस्रसाविस्रुतास्र-
विस्रावनावसिकरः समरे विसर्तुम् ॥ 34.41 ॥
प्रह्रादो विकटविटङ्कदंष्ट्रमास्यं बिभ्राणः करतलताडितांसकूटः।
दिग्भित्तिप्रतिफलिताट्टहासभासा संहारे हर इव दत्तसंभ्रमोऽभूत् ॥ 34.42 ॥
दिक्सुदन्दरीस्फुटनवांशुकमिन्दुगौर-
मानन्दनिर्भरमिवारियशः पिपासुः।
व्यादादमन्दमथ कंदरकल्पमास्य-
माताम्रतालु शतदुन्दुभिरात्तजृम्भम् ॥ 34.43 ॥
पादाघातैर्दानवचक्रस्य तदानीमापातालं दृष्टगभीरातनुरन्ध्रा।
सासूयस्य क्रोधवशादिन्दुकिरीटे पुस्फोट क्ष्मा रौरवपातार्थमिवारात् ॥ 34.44 ॥
सिंहासनादसहनः सहसोज्जिहासु-
रुत्साहसाहसरसेन सहस्रमायः।
हंसांसहारिहसितः सहसारिहिंसा-
सज्जाहवो युधि जहर्ष जहास चोच्चैः ॥ 34.45 ॥
संरम्भघोरतरहुंकृतिधूमकेतु-
हेतिस्फुलिङ्गनिकरैरशनिप्रभस्य।
प्रत्यूयिरे सपदि हारलता मुहूर्त-
माताम्ररत्ननिकरैरिव दानवानाम् ॥ 34.46 ॥
कृतभुवनविनाशाशङ्कहुंकारगर्भाः
सपदि परुषरोषाविष्कृतेः सूचिरोम्णः।
मधुकरकुलनीलच्छायतस्तारकाग्रा-
ज्जलभृत इव विद्युन्निष्पपातोज्ज्वलार्चिः ॥ 34.47 ॥
गीर्वाणराजपृतनाः सविचित्तवीर्य-
सारस्तदाहवनिरर्गलचित्तवृत्तिः।
नाचिन्तयत्कुरचमूरिव पाण्डुसूनु-
रुच्चावचास्त्रचतुरो युधि विप्रचित्तिः ॥ 34.48 ॥
कुलगिरिगरिमस्थानल्पकायोऽतिमायः
करकुलिशतलेनास्फालयन्भूतधात्रीम्।
गुरुतरभरताम्यद्दिग्जस्कन्धपीठी-
लुठितविधुरसंस्थारुग्णबन्धां चकार ॥ 34.49 ॥
चक्ष्मायिरे क्षितिभृतः करपिष्टहार-
मुक्ताशिलाशकलकर्कशशर्कराभिः।
अभ्याहताः क्षय इवासुरचक्रवाल-
निःश्वासदुर्धरसमीरपरम्पराभिः ॥ 34.50 ॥
संक्षोभविभ्रमविशीर्णविकीर्णहार-
मुक्ताफलाच्छकरकाकणचक्रवालम्।
अभ्युत्पतद्दितिसुतस्तनयित्नुचक्र-
माक्रान्तकृत्स्नभुवनत्रितयं तदासीत् ॥ 34.51 ॥
करतलमलनोत्थं मन्थरीभूतभानु-
प्रबमनलमनल्पज्वालमालाकरालम्।
सकलममरवंशं द्रग्धुमुत्पादयन्तु
क्षयतरणिदुरीक्ष्यश्चुक्षुभे काञ्चनाक्षः ॥ 34.52 ॥
बिभ्रत्युदारतरमानसदृश्यमूक-
शैलक्षमारभसलङ्घनदुर्धरत्वम्।
मत्ता वलीमुखवरूथवतीव दृष्ट-
दैत्याधिराजगुरुमत्सरविक्रियासीत् ॥ 34.53 ॥
तेषामरोचिषत चूर्णितपद्मराग-
रत्नाङ्गदप्रकरपाटलधूलिदिग्धाः।
स्पष्टाट्टहासचलितातनुसंधिबन्ध-
विष्यन्दिसान्द्ररुधिरा इव दिग्विभागाः ॥ 34.54 ॥
कल्माषिताम्बरतलाः प्रलयावतार-
शङ्काकुलीकृतजगत्त्रयदृश्यमानाः।
उल्कालता ववृषिरे वृषराजकेतु-
संरम्भभासुरसुराहितदृष्टिपातैः ॥ 34.55 ॥
विष्यन्दमानपरिपीतविपक्षखड्ग-
धारानिपातसलिला इव दानवानाम्।
स्वेदाम्बुशीकरमुचो विबभुर्विशाल-
वक्षःस्थलीषु विकटव्रणकंदरौघाः ॥ 34.56 ॥
आसन्नसंयुगतया सुमनीबभूवु-
रुच्चैस्तरां जहसुराहसतांसकूटान्।
हारांश्च चुक्षुदुरुदस्थुरथासनेभ्यो
मृत्योरपि क्षतभियो न शशङ्किरेऽन्ये ॥ 34.57 ॥
सब्रह्मधूर्जटिहरींश्त्रिदशांस्तृणाय
विस्पष्टमत्सरधियो युधि मन्यमानाः।
दैत्याधिपाश्चकमिरे कमलासनाण्ड-
मुत्प्लुत्य पाटयितुमुत्कटरोषरूक्षाः ॥ 34.58 ॥
तै राहुकोपजनितप्रतिपक्षपक्ष-
संहारभीतिभिरपाकृतधैर्यबन्धैः।
आस्थान्यसौ सुररिपोर्बिभरांचकार
दुर्धर्षतां यदुपतेरिव वृष्णिसैन्यैः ॥ 34.59 ॥
इत्थं रुषेन्धनविनाकृतमप्यधूम-
मूर्ध्वेक्षणं स्मरपिपोरिव दग्धकामम्।
जज्वाल दानवसदः प्रलयार्कबिम्ब-
दुर्दर्शघोरघटितानलतारकं तत् ॥ 34.60 ॥
विदधुरवसरेऽत्र दैत्यचक्रप्रलयपरिस्फुटपैशुनोत्थितानि।
सकलभुवनमण्डलेऽप्यसक्तं भयमनिमित्तशतनि दारुणानि ॥ 34.61 ॥
प्रतिदिनमपवर्गद्वाररन्ध्रादमन्दं
दिनकृत इव बिम्बादर्गलादीर्घदण्डाः।
प्रतिककुभमकल्काः पेतुरुल्काः क्षयाग्ने-
र्भुवनदहनहेलासूत्रपातायमानाः ॥ 34.62 ॥
त्वष्ट्टटङ्कघटनानिकुट्टितग्रावसारविकटास्थिसंभवम्।
धूमराशिमिव भानुमण्डले लग्नमैक्षत कबन्धमासुरम् ॥ 34.63 ॥
निर्गच्छन्रजनिकरस्य बिम्बमध्यादुत्पातप्रसरवशेन धूमदण्डः।
वैदग्धीं कुवलयदामनीलभासः खड्गस्य व्यधित विलग्नदत्तमुष्टेः ॥ 34.64 ॥
उत्पातधूममलिनैर्निजकोषचक्र-
गर्भच्युतैः कमलासनपुण्डरीक-
बीजैरिवाम्बरतलं ग्रहचक्रवालैः ॥ 34.65 ॥
अभिमुखपतिनाशाशङ्कयेव प्रदीप्तं
विविशुरनलमाशा दाहयुक्त्या तदानीम्।
स्फुरितविकटोकेतुव्याप्तदिक्चक्रवालं
गगनमपि भविष्यत्संयुगच्छायमासीत् ॥ 34.66 ॥
क्षुभितविषमवेलोद्दामरत्नाकराणि
क्षयतरणिरुचो नाजीगणंस्तानि दैत्याः।
प्रतिककुभमकाण्डोड्डामराखण्डलश्री-
हरणरभसकण्डूचण्डदोर्दण्डखण्डाः ॥ 34.67 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराह्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये अन्धकासुरसभाक्षोभो नाम चकुस्त्रिंशः सर्गः ॥