३३

.

हरविजयम्

त्रयस्त्रिंसः सर्गः।

दैत्याधिपः श्रुततदुक्तवचःप्रपञ्च-
सासूयमानसतयाथ सितस्मितश्रीः।
प्रस्तावमन्तिकसदो भृगुनन्दनस्य
वक्तुं दिदेश मधुरोद्धृतया भ्रुवैवः ॥ 33.1 ॥
अभ्युन्मषत्कनकशृङ्कलचक्रवाल-
रश्मिच्छटापटलविच्छुरितां दधानः।
कालीं कलिन्दतनयामिव देहकान्ति-
मुल्लासिकालियफणामणिरागभिन्नाम् ॥ 33.2 ॥ (युगलकम्)
तच्चोदितः स दशनप्रभया सुरारी-
नद्रीन्मृगाङ्क इव चन्द्रिकया विलिम्पन्।
दूतं शशाङ्कशकलाभरणस्य वाक्य-
मित्थं विमृष्य शनकैरुशना बभाषे ॥ 33.3 ॥
आसन्नवर्तिदनुजेनद्रशरीरकान्ति-
कल्माषिता तनुरदृश्यत तस्य गौरी।
स्वच्छात्मतास्फुटतरव्रतपीतकुक्षि-
भागस्थधूमपटलेव सभातलस्थैः ॥ 33.4 ॥
दुर्वारवीर्यकरदीकृतविष्टपस्य
सा यस्य पश्यति मुखं चरणाश्रया श्रीः
नूनं नतिप्रवणदुर्जयलोकपाल-
पालीकिरीटमणिदर्पणमण्डलीषु ॥ 33.5 ॥
आभाति यस्य नमिताखिलदिग्लताग्र-
चन्द्रातपामलयशः स्तबकोज्जवलश्रीः।
शौर्यद्रुमो भुवनकाननसीम्न्यराति-
सीमन्तिनीजनजटादृढमूलबन्धः ॥ 33.6 ॥
प्रेङ्खत्करालकिरणप्रकरा च यस्य
हस्तारविन्दघटिता करवालवल्ली।
बद्धप्रतिष्ठनदराजसुताकराब्ज-
लोभात्पतद्भ्रमरपङ्क्तिरिवाबभासे ॥ 33.7 ॥
संभ्रम्य यं प्रणमतां मणिपादपीठ-
निर्घर्षणादिव ललाटतटस्थलीभ्यः।
दैत्यद्रुहां गुरुणि सत्यपि नाभिमान-
बीजेऽभ्युदैयत पुनर्भ्रुकुटीलताभिः ॥ 33.8 ॥
श्यामीभवत्यनुदिनं रिपुमण्डलस्य
यस्याहवे विरचितो निशितासिपाणेः।
आक्रान्तदिग्वलयसैनिकचक्रवाल-
निर्धूतभूतलपरागहतेव कीर्तिः ॥ 33.9 ॥
येन व्यलोकिषत संयति वृत्रशत्रु-
लीलानिरस्तकुलिशाग्निशिखा विलग्नाः।
बाहुद्रुमेषु रुचिराङ्गदपद्माराग-
रत्नप्रभाभ्रमविसंभ्रममाहवेषु ॥ 33.10 ॥
हेलाविनिर्जितहरेर्न पुरोऽभिधातु-
मस्यास्ति तेऽत्र गणखेट खटुङ्क शङ्का।
इत्थं निसर्गतरलप्रमथप्लवङ्ग-
संसर्गदुर्ललिततासुवचं वचः किम् ॥ 33.11 ॥ (सप्तभिः कुलकम्)
प्राग्दर्शितासुरविनाशविभीषिकेण
माधुर्यसंभृतिविशे,जुषा च पश्चात्।
संदेशदानवचसा शबलेन तेऽत्र
चेतः कृतं किमपि नः प्रतिपत्तिमूढम् ॥ 33.12 ॥
दुर्लङ्घ्यसारगहनासु रणाटवीषु
स्थाणाविवाशु विवशं विनिपत्य यस्मिन्।
चक्रेऽभ्युपेयुषि विवर्तनभाजि भङ्गं
शार्ङ्गायुधो विघटमानमनोरथोऽभुत् ॥ 33.13 ॥
अन्यः स एष भुजवज्रदृढाभिघात-
निष्पिष्टशात्रवकुलाचलचक्रवालः।
येनोज्झिता युधि दयामृदुनातिनम्रा
याथार्थ्यामापुरमराः प्रथितस्य नाम्नः ॥ 33.14 ॥
अस्यारिवंशदहनानुगुणप्रताप-
च्छायैकदेशलवलेशमपूरयिष्यत्।
धामाधिपो जगति यद्यभविष्यदेष
न त्वष्टुटङ्कविनिकुट्टनघट्टितौजाः ॥ 33.15 ॥
वक्त्रं यथा स्मितविकासिकपोलभित्ति
धत्ते न वक्ति च यथा स्फुटमेष किंचित्।
मन्ये भविष्यति तथा सुरचक्रवाल-
दावानलः स्फुरितहेतिशिखासहस्रः ॥ 33.16 ॥
दूरेऽस्तु तावदथवैव सुरेन्द्रलक्ष्मी-
मस्यानुगेष्वपि महत्सु हरिर्न लब्धा।
पत्त्रैरपि क्षितिरुहः प्रतिबद्धवृत्ति-
रासादयत्यवनिमुष्णकरातपः किम् ॥ 33.17 ॥
अध्यासितां पुरमिमामसुरोन्नतेन
संबिभ्रतः प्रथितमानपरिग्रहत्वम्।
न ह्रेपयन्ति दनुसूनुभटान्प्रगल्भ-
मेते किमर्ककिरणा अपि लङ्घयन्तः ॥ 33.18 ॥
छायाविभङ्गकलुषः क्रियते यदिन्दु-
रुष्णत्विषानुदिवसं प्रतिकारशून्यः।
निर्दह्यते जलनिधिर्वडवाग्निना च
तज्जाड्यजृम्भितमवैमि तयोर्विगर्ह्यम् ॥ 33.19 ॥
कामं भवन्ति शतसो जगतीह कुल्या-
स्तुल्यानुभावबलता कुत एव तेषाम्।
आलिङ्ग्यते तदतिरिक्तगुणोदयश्री-
र्यत्संपदा तदपि वाच्यपदं जडानाम् ॥ 33.20 ॥
कालक्रमादधिगतोदयमेकतोऽपि
बीजाङ्कुरात्सपदि यातमधोमुकत्वम्।
वल्लीकुलाय किमसूयति मूलजाल-
मूर्धावकाशरचितस्थितये तरूणाम् ॥ 33.21 ॥
पातालमन्दिरतले किमिवात्र कृत्य-
मनयैर्व्यतीतगणनैः फणिनां शिरोभिः।
स्लाघ्यं तदेकमपि शेषफणासहस्र-
मुर्वीं बिभर्ति यदशेषगिरीन्द्रगुर्वीम् ॥ 33.22 ॥
विष्पन्दशीतरुचिनिर्ज्ञरवारिधौत-
दिक्काः सहस्रगणना ननु सन्ति शैलाः।
क्ष्मापीठधारणसहाः कतिचित्तु नून्-
मव्याहतस्तितिकुलव्यपदेशयोग्याः ॥ 33.23 ॥
दैत्याधिपः स्मितमुखो विससर्ज सोर्ज-
मावर्जितोऽति दयया युधि जीवतो यान्।
रूढत्रया वद रसातलतालुवास-
मर्हन्ति ते किममराः कमथासुरेन्द्राः ॥ 33.24 ॥
इत्यूचुषि त्रिदशवैरिगुरावमर्ष-
गर्भं विधूनितशिरास्त्रिपुरारिदूतः।
तुङ्गाभिमानगिरिनिर्झरझांकृतेन
वाक्येन पूरितसभागृहमित्यवोचत् ॥ 33.25 ॥
किं कथ्यते बलवती भवितव्यातात्र
शोच्यं सभातलमिदं दनुजाधिपस्य।
यस्यासि वत्सरसहस्रनिपीतगाढ-
धूमान्धकारितमतिर्गुरुतामुपास्थाः ॥ 33.26 ॥
मा भूत्परस्परविरोधिसुरासुरौघ-
संमर्ददुःस्थितमिदं जगदप्यशेषम्।
उक्तं मयेति यदनुज्झितकृत्यवस्तु
तद्वालिशेन भवतापरथा गृहीतम् ॥ 33.27 ॥
सर्वत्र वस्तु वितथप्रतिभासमेव
निःसंशयं भवति विप्लवमन्ददृष्टेः।
मन्दाकिनीसलिलमिन्दुमरीचिगौर-
मुत्प्रेक्ष्यते क्षतजमित्यनिशं पिशाचैः ॥ 33.28 ॥
अभ्युद्वहन्धवलतामपि शीतरश्मि-
शोभाधरामहितपक्षगतः सुरारेः।
अत्यन्तवक्रहृदयो रणरागमेव
शंसन्विराजसि न शङ्क इव त्वमित्थम् ॥ 33.29 ॥
निन्द्यानपि स्तुवत एव गुणानुभाव-
वन्ध्यानधिक्षिपत एव विमूढवृत्तेः।
दुःस्वामिनस्तनुभृतामतिदैन्यभाजं
भावानुवृत्तिरसिकामनुजीवितां धिक् ॥ 33.30 ॥
संप्रत्यमी बुधजनस्य न चित्तवृत्ति-
माह्लादयन्ति भवतोऽभिहतप्रकाशाः।
अद्यापि कुक्षिकुहरास्पदपीतधूम-
श्यामीकृता इव भृगूद्वह वाचि वर्णाः ॥ 33.31 ॥
अन्तर्दधत्कलुषतामपि जिह्मवृत्ति-
राविष्करोति गुणमेव बहिः प्रकामम्।
कुक्षिप्रविष्टविषसंहतिरुत्तमाङ्ग-
रत्नप्रकाशमिव गूढपदो विमूढः ॥ 33.32 ॥
व्यक्तं समाश्रयवशादिह तत्स्वरूप-
शून्योऽपि तत्प्रकृतितां भजते जनोऽयम्।
श्वासानिलः सरलतामुपयाति वेणौ
शङ्खेदरे कुटिलता पुनरस्य सिद्धा ॥ 33.33 ॥
यस्याततायिहृदयानि नदन्विभेद
निःश्वासवातमुखरीकृतरन्ध्रमार्गः।
संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु-
संघट्टघोरतरघोष इवाशु शङ्खः ॥ 33.34 ॥
प्रेङ्खत्कराङ्गुलिशिखाग्रनिवृत्तिवेग-
वाताहता जलभृतः ककुभां मुखेषु।
चक्रस्य यस्य किरणैश्छुरिताः कराल-
धारानिकृत्तदिनखण्डरुचो निपेतुः । 33.35 ॥
लीला हरेरभृत यस्य कठोरकोप-
हुंकारपावकशिखा वदनात्स्खलन्ती।
निःश्वासधूतहृदयास्पदागूढनाभि-
पद्मोच्छ्वसत्कपिशकेसरधूलिलीलाम् ॥ 33.36 ॥
यस्य स्थितं करहतस्तनपृष्टसीम-
सीमन्तिनीरुदितशब्दकृतानुबन्धैः।
अद्यापि पल्लवितपूरितपाञ्चजन्य-
शङ्खस्वनैरिव महासुरगेहगर्भैः ॥ 33.37 ॥
तस्याधिपाणि सुरयौवतवक्त्रपद्म-
विस्पष्टहासघटनाचतुरार्कबिम्बम्।
द्रष्टासि कैटभरिपोरसुरेन्द्रकण्ठ-
पीठेषु चक्रमचिरात्परिवर्तमानम् ॥ 33.38 ॥ (पञ्चभिः कुलकम्)
नाप्नोति यस्य युधि दानवहेतिघात-
मूर्च्छान्धकारपटलं हृदयेऽवकाशम्।
ग्रासीकृतोरगसहस्रफणप्रतिष्ठ-
माणिक्यरश्मिभिरिव प्रविलुप्यमानम् ॥ 33.39 ॥
उच्छ्वासिकाञ्चनपतत्त्रसमीरवेग-
विस्रंसितं नभसि शीतमरीचिवबिम्बम्।
येनाण्डखण्ड इति निर्दुधुवेऽङ्गलग्न-
माकम्पितात्रिभुवनं भ्रमताहवेषु ॥ 33.40 ॥
अद्यापि पक्षपवनो भ्रमतीह यस्य
पातालवर्त्मनि जवेन विचेरुषः प्राक्।
वैधव्यविक्लवबूजङ्गवधूसहस्र-
सास्रानुबन्धगुरुनिःश्विसितापदेशात् ॥ 33.41 ॥
प्रत्यग्रसौरभभराकुलितद्विरेफ-
मालाहठाहृतसुदारसशीकरार्द्राः।
बिभ्रत्सुधौतकलधौतपतत्त्रपङ्क्ती-
र्ज्वालावलीरिव सधूमशिखाः कृशानुः ॥ 33.42 ॥
तार्क्ष्यो युधि स्वकरलूनपतत्त्रमुक्ति-
संमानितस्पुरदमोघनिपातवज्रः।
नीलभ्रकच्छविमुषः कुसृतिप्रगल्भा-
नेकःक्षणात्स दलयिष्यति भोगिनो वः ॥ 32.43 ॥ (पञ्चमिः कुलकम्)
निःशेषलोकपरिवर्तविनोददक्ष-
दक्षारिरूक्षतरसा गणसेनयैते।
यास्यन्ति कामपि दसामसुरा विरुग्णाः
संहारमारुतपर्म्परयेव शैलाः ॥ 32.44 ॥
दिक्स्यन्दिनीषु सुरवारणदानपङ्क-
श्यामीकृतातपजलासु विपन्नपक्षाः।
मत्ता महासकुरझषाः परिदृष्टकण्ठ-
च्छेदा भवन्ति न चिरेण समुच्छ्वसन्तः ॥ 32.45 ॥
तिष्ठन्तु तावदथ वाखिलसकप्तलोक-
संचारचातुरजुषः प्रमथाधिनाथा-।
दोर्दण्डयन्त्रपरिवर्तितरत्नसानुः
पातालवासमहमेव करोमि किं वः ॥ 32.46 ॥
इति कथयति रूक्षालापगर्भं गणेन्द्रे
दितितनयपतीनां क्रोदसंरम्भहेतोः।
करतलहतरत्नस्तम्भपङ्क्तिः सभा सा-
वमरगिरितटीवोद्धूतकल्पद्रुमासीत् ॥ 32.47 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे रीजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये भार्गवनिर्भर्त्सनं नाम त्रयस्त्रिंशः सर्गः ॥