.
हरविजयम्
द्वात्रिंशः सर्गः।
अथ तामविशन्नीलमणिमन्दिरसंकुलाम्।
विन्ध्यभूमिमिव व्यक्तगण्डशैलां गणाधिपः ॥ 32.1 ॥
पद्मरागमयाट्टालप्रकाशेन प्रथीयसा।
गगनाम्बोधिगर्भोर्ववह्निना रचितश्रियम् ॥ 32.2 ॥
विचित्रस्थानकोपेताः सुकुमाराङ्गवर्तनाः।
नृत्ते चित्रे च दधतीमाक्षिप्तहृदयाः स्त्रियः ॥ 32.3 ॥
पौरैः सदाशेषभोगभाग्भिर्वैकुण्ठविभ्रमम्।
बिभ्रद्भिराहिताभिख्यां समुद्रगृहकास्पदैः ॥ 32.4 ॥
दधतीं मध्यमग्राममूर्छनाप्रक्रियामिव।
सकलोपनतोदारपौरवीरचितां श्रियम् ॥ 32.5 ॥
प्रवालपाणिभिर्वल्लीः पाणिपद्मैश्च योषितः।
पद्माननैश्च नलिनीर्बिभ्रतीमुपशोभिताः ॥ 32.6 ॥
अशसा(भूयसा) तल्पलोपात्तमनोहरतरत्विषम्।
मातङ्गपृष्ठवंशोर्वीमिव विस्तृतदीर्घिकाम् ॥ 32.7 ॥
बिभ्रद्भिर्गेयवैदग्धीमुपकण्ठकृतास्पदैः।
तालाक्षरचिताभिख्यैः काननैरुपशोभिताम् ॥ 32.8 ॥
ससूक्ष्मतिलकां वक्त्रच्छायां गारुत्मतीमिव।
गिरं च सामृतोद्गारां दधतीर्दधुषीं स्त्रियः ॥ 32.9 ॥
अन्तर्युक्तान्महामात्रैः पतद्ग्रहशताकुलान्।
निशान्तान्दधतीमर्ककृतानकलुषत्विषः ॥ 32.10 ॥
अदृष्टनिग्रहस्थानां प्रौढवादविदामिव।
सदाचार्याहितच्छायां नृत्तलीलाविडम्बिनीम् ॥ 32.11 ॥
भिन्नं लयमिव त्रेधा द्रुतमध्यविलम्बितम्।
वलिभङ्गं दधानाभिः कृतशोभां पुरंध्रिभिः ॥ 32.12 ॥
दशनेन्दुप्रबालोकैः स्वच्छमानसनिर्झरैः।
मदनस्तबकोद्भेदैः स्त्रीणां हासैर्विराजिताम् ॥ 32.13 ॥
नक्तं नक्षत्रमालाभिः कृतमूर्धविभूषणैः।
अलिन्दा नाकुलं हर्म्य गजैर्बिभ्रद्भिराचिताम् ॥ 32.14 ॥
सत्काञ्चनपरीक्षायाः सदृशीं दृष्टिहारिणीम्।
निकषोपलसल्लेखामदभ्रां बिभ्रतीं श्रियम् ॥ 32.15 ॥
शुभप्रस्तावनाहृद्यां प्रख्यातोदात्तनायकाम्।
नानार्थप्रकृतिश्लाघ्यां नाटकप्रक्रियामिव ॥ 32.16 ॥
व्याप्तां कृतयुगस्थास्नुस्थितिं बोगिभिरुद्धतैः।
रथसंस्थामिवोष्णांशो रथ्यावलिविराजिताम् ॥ 32.17 ॥
अनाप्तगोत्रस्खलनामविपक्षामिव स्त्रियम्।
शुभप्रकृतिविस्तारां वीणावाद्यविधामिव ॥ 32.18 ॥ (अष्टादशभिः कुलकम्)
सार्धचन्द्रपताकत्वं दधतस्तेन वीक्षिताः।
तस्यासमसंयुता हस्ता इव देवगृहाः पुरः ॥ 32.19 ॥
व्यलोकि विस्मयवता शुभमध्यमदर्शनः।
सीमन्तिनीजनस्तेन दधन्माध्यमिकश्रियम् ॥ 32.20 ॥
स काञ्चनोज्जवलास्तस्यां विस्फुरन्मणिबन्धनाः
अलंकारावलीर्बाहुलताश्चैक्षत सुभ्रुवाम् ॥ 32.21 ॥
प्राप्तानलसनाथत्वं तेन तत्र गृहावली।
पटलोपहृतच्छाया दमयन्तीव वीक्षिता ॥ 32.22 ॥
तेनैक्ष्यत सुधापाण्डुच्छायसन्मानसालया।
नगर्या दधती साम्यं क्रीडाकमलिनी पुरः ॥ 32.23 ॥
महानप्यनहंकारप्रसूतिरवलोकितः।
तारकोऽप्यमुना बिभ्रलोलोकोऽनक्षिगतः श्रियम् ॥ 32.24 ॥
विदग्धमणअडलीमाराद्गोष्ठीबन्धमनोरमाम्।
सदाकृतिगणोपेतां सद्वृत्ति स व्यलोकयत् ॥ 32.25 ॥
तेनाङ्गनाजनस्तस्यामनपेक्षितभूषणः।
स्वरूपशोभयाक्रान्तः शक्रहस्त हवेक्षितः ॥ 32.26 ॥
जहर्ष सामान्यगुणद्रव्यसंयोगसुस्तिताम्।
तां कणव्रतसिद्दान्तप्रक्रियामिव वीक्ष्य सः ॥ 32.27 ॥
संक्रान्तयाञ्जनच्छायदेहप्रतिमयाथ सः।
प्रविशन्स्फटिकागारानैन्द्रनीलानिवाकरोत् ॥ 32.28 ॥
अपूर्वदर्शनाकूतकुतूहलवलद्दृशः।
दितिजास्तं विसृष्टान्यकर्तव्या निरवर्तयन् ॥ 32.29 ॥
तत्पारिज्ञायमानत्वादन्यस्याभिनिवेदिताम्।
स शृण्वन्नात्मनोऽभिख्यां राजमार्गानलङ्घयत् ॥ 32.30 ॥
अन्यैर्विज्ञायमानत्वादन्यस्याभिनिवेदिताम्।
सशृण्वन्नात्मनोऽभिख्यां राजमार्गानलङ्घयत् ॥ 32.31 ॥
मुक्ताप्रवालवैदूर्यप्रायरत्नपरिष्कृताः।
जहौ निषद्यावीथीः स सिन्धुवेलाविडम्बिनीः ॥ 32.32 ॥
प्राप्तवान्थ दैत्येन्द्रसिंहद्वारं विभूतिमत्।
त्रैलोक्यसंनिवेशस्य प्रत्यदेशमिव स्थितम् ॥ 32.33 ॥
सनागयक्षदैतेयवस्वादित्यमरुद्गणम्।
अनेकास्चर्यसंदोहं विस्वरूपमिव स्थितम् ॥ 32.34 ॥
नानासुरगणाकीर्णं पुरीदर्पणभूतले।
अदृष्टपारसंसारप्रतिबिम्बमिवोत्थितम् ॥ 32.35 ॥ (तिलकम्)
विकासिकिंशुकच्छायाद्वनादिव विभावसोः।
तत्क्षणापहृतान्पत्त्रशुकानैक्षत सव्यथः ॥ 32.36 ॥
चन्द्राशुगौरसत्पक्षबालभारान्प्रचेतसः।
ददर्श वाहरहंसांश्च चामरांश्च हृतानसौ ॥ 32.37 ॥
चतुर्दिक्स्फटिकागारप्रबाक्षीरपरिप्लुतम्।
ददर्श चोच्चैः श्रवसमुत्तिष्ठन्तमिवोदधेः ॥ 32.38 ॥
त्रैलोक्यलक्ष्म्याः स दधल्लीलादोलामिवाग्रत।
विलोलमुक्ताप्रालम्बव्याजेनैक्षत तोरणम् ॥ 32.39 ॥
ददर्श तोरणामुक्ता श्चण्डीसिंहसटावलीः।
उत्पातेन्दुकला दैत्यप्रलयाशंसिनीरिव ॥ 32.40 ॥
अदृश्यमानपर्यन्तानर्पणीयकरानसौ।
ददर्श विविधान्राज्ञे दिग्बिभागानिवागतान् ॥ 32.41 ॥
उत्खातशेषमाणिक्यकण्ठकाशून्यकंधरान्।
रभसालिङ्गितस्वःस्त्रीस्तनवासाविलोरसः ॥ 32.42 ॥
भर्तुः प्रसादलब्धानि देवयानानि सत्वरम्।
निर्गत्यारोहतो दैत्यराजपुत्रान्ददर्श सः ॥ 32.43 ॥ (युगलकम्)
अथाधिभूमि विन्यस्तकरजनुभिरादरात्।
न्यवद्यत द्वारगतः स भर्त्रे प्रतिहर्तृभिः ॥ 32.44 ॥
अवज्ञाचिरसंरोधमुक्तयैत्विति तद्गिरा।
निर्दिश्यमानमार्गस्तैः स दैत्येन्द्रसदोऽविशत् ॥ 32.45 ॥
भास्वन्मणिशिरोदैत्यभोगिमण्डलसंकुलम्।
तद्देहमलिनच्छायातिमिरप्लवपूरितम् ॥ 32.46 ॥
वैदूर्यकुट्टिमच्छायजलनिर्भरसंप्लवम्।
प्रविष्टवानथैक्षिष्ट पातालमिव तत्सदः ॥ 32.47 ॥ (युग्मम्)
तत्र सिंहासनासीनां तमालश्यामलत्विषम्।
स्फुरद्दंष्ट्रननां मूर्तिं कौशिकीमिव बिभ्रतम् ॥ 32.48 ॥
कुण्डलातपरत्नांशुबालातपविलङ्घितम्।
बिभ्राणमनिमित्तेऽपि रोषारुणामिवाननम् ॥ 32.49 ॥
चामराधूनन्व्यग्रकरपङ्कजयानिशम्।
निषेव्यमाणमभितस्त्रैलोक्यविजयश्रिया ॥ 32.50 ॥
बिभ्राणं शोणमाणिक्यभूषांशुच्छुरितं वपुः।
अशान्तवज्रसंपातवह्निशेषमिव क्वचित् ॥ 32.51 ॥
जयकुञ्जरनक्षत्रमालाममलमौक्तिकाम्।
दधतं विकटां हारलतां पीनेन वक्षसा । 32.52 ॥
दिङ्नागदानविष्यन्दकृतपत्त्राङ्कुरश्रियः।
बिभ्रतं भुवनाबोगवनतालतरून्भुजान् ॥ 32.53 ॥
केयूरासितरत्नांशुजलधाराश्च बिभ्रतम्।
वज्रान्लशिखादाहशान्तिहेतोरिव स्रुताः ॥ 32.54 ॥
उरः स्थले निषण्णाया रत्नपर्यङ्कविभ्रमम्।
बिभ्रतं दिग्गजाधीशदन्तभङ्गं सुरश्रियः ॥ 32.55 ॥
ददर्शान्धकमाबद्धमध्यं कनकशृङ्खलैः।
नितम्बपरिवृत्तार्कराश्मिरेखमिवाचलम् ॥ 32.56 ॥ (नवभिः कुलकम्)
त्रैलोक्यश्रीकरेणोस्तमालानीभूतदोर्द्रुमम्।
विलोक्येषन्नतशिरा विनयात्प्रणनाम सः ॥ 32.57 ॥
अथ बाहुं प्रसार्याराद्द्ङ्नागकरपीवरम्।
इत इत्यसुरेन्द्रेण निर्दिष्टं स्वयभन्तिके ॥ 32.58 ॥
हेमपीठमसौ चित्ररत्नजालपरिष्कृतम्।
अध्यास्त लोकसंवर्तमेघो मेरुमिवोन्नतम् ॥ 32.59 ॥ (युगलकम्)
अथ लम्भितसत्कारं तमुवाचान्धकासुरः।
दन्तज्योत्स्नाछलेनारियशःपीतमिवोद्रिरन् ॥ 32.60 ॥
गौरीविग्रहसंधानसमासादितनिर्वृतेः।
गणेश कुशलं वच्चिदव्याहति पिनाकिनः ॥ 32.61 ॥
चिरेण बत केनापि हेतुना स्मृतिगोचरम्।
आगच्छाम वयं शंभोर्येनेह त्वां व्यसर्जयत् ॥ 32.62 ॥
जयलक्ष्म्योपगूढस्य पुरा जितमरुत्वतः।
न ममाङ्गेषु संजातस्तादृशः पुलकोद्रमः ॥ 32.63 ॥
निर्व्याजप्रीतिपिशुनः शशिशेखरशासनात्।
ईयुषि त्वयि सौहार्दरसस्यन्दिनि यादृशः ॥ 32.64 ॥ (युगलकम्)
इमे वज्रकणा हर्षस्फुटद्व्रणमुखोत्थिताः।
रोमाञ्चेद्गमकार्कश्यमङ्गेप्वधिकयन्ति मे ॥ 32.65 ॥
सप्तलोकाधिपत्येन न तथोन्नतिमागताः।
यथाविष्कृतसद्भावभवसंभाविता वयम् ॥ 32.66 ॥
कर्तव्यं तन्न पश्यामि कृतकृत्योऽपि धूर्जटिः।
यच्चेतसि निधाय त्वं प्राहिणोदस्मदन्तिकम् ॥ 32.67 ॥
तदावेदय संदेशमिन्दुमौलेर्विवक्षितम्।
कुतूहलि ददात्यस्मान्मनो नोदासितुं यतः ॥ 32.68 ॥
इत्युक्ते तेन दन्तांशुपुष्पिताधरपल्लवः।
अवाप्तावसरो वक्तुं दूत इत्युपचक्रमे ॥ 32.69 ॥
कल्याणीं गिरमुत्स्रष्टुं विरला एव जानते।
सत्यां रेखां विलिखितुं चित्रकर्मविदो यथा ॥ 32.70 ॥
यदेवमादरारूढो बहुमानास्पदं त्वया।
क्रियते कुशलप्रश्नस्तेनाद्य कुशली विभुः ॥ 32.71 ॥
यशोंशुभासुरच्छायः क्षतदौर्गत्यविप्लवः।
विबात्यनर्घः संसारसागरैकमणिर्भवान् ॥ 32.72 ॥
सारम्भत्वेऽपि सततं विस्पष्टपरिघट्टनम्।
तव जातं द्विषच्चक्रं शुष्कं गेयमिवापदम् ॥ 32.73 ॥
त्वया नैयायिकेनेव सत्पक्षाश्रयशालिना।
हेतौ विदधता यत्नं परपक्षो निराकृतः ॥ 32.74 ॥
उपर्येव तव स्तास्नु शरच्चन्द्रांशुपाण्डुरम्।
यशश्छत्त्रमिवाभाति च्छत्त्रं यश इवोज्ज्वलम् ॥ 32.75 ॥
वैदग्धीं बिभृयुः शैला निःसारितमरुत्वतः।
वज्रानलशिखाजालप्लुष्टपक्षाः कथं नु ते ॥ 32.76 ॥
स्फुरत्यधितटं सिन्धोर्यामुक्ताकिरणच्छटा।
सा वः संकोचितारिस्त्रीमुखाब्जा कीर्तिचन्द्रिका ॥ 32.77 ॥
प्लुष्यत्यरीन्प्रतापस्ते निर्वापयति चापरान्।
दाहात्मकत्वमधिकं वह्नेरैकान्तिकं पुनः ॥ 32.78 ॥
क्रूरेऽपि मार्दवोपेता वामाचारेऽपि दक्षिणाः।
पापेऽपि शुद्धमतयस्त्वादृशा भुवि दुर्लभाः ॥ 32.79 ॥
अनेकजन्यशोभी त्वं भर्तालंकृतविग्रहः।
त्वमूहिथामुक्तकरामसङ्गोऽपि जयश्रियम् ॥ 32.80 ॥
दशामनुगुणां दग्ध्वा नाधारं तापयत्यलम्।
न स्रेहं क्षपयत्युच्चैर्वंशदीपोऽपरो भवान् ॥ 32.81 ॥
व्यजेष्ठा गोचरातीतं गुणगौरवतोऽधिकम्।
अगाधमपि दुग्धाब्धिं सुरासुरविलोडितम् ॥ 32.82 ॥
कथं शशधराधीनवृद्धिक्षयतयानिशम्।
सादृश्यं तव दुग्धोदसिन्धुना यशसो भवेत् ॥ 32.83 ॥
विरलास्त्वादृशा लोके दोर्दण्डदलितद्विषः।
निर्दघ्धासेषभुवनाः कियन्तो वह्नयः क्षये ॥ 32.84 ॥
स्वच्छं बिम्बितनिःशेषनीतिसंग्रहसुस्थितम्।
त्वमेव मानसं धत्से प्रज्ञाविभ्रमदर्पणम् ॥ 32.85 ॥
दोर्दण्डदलितोद्दामसङ्ग्रामारातिमण्डलः।
न बिभर्षि गुणोत्तुङ्गो गर्वमन्यासुरेन्द्रवत् ॥ 32.86 ॥
गुणआंस्तव गिरां नाथो वक्ति तेनाथवाप्यलम्।
सिन्धोस्तटेषु सिकताकणान्गणयितास्ति कः ॥ 32.87 ॥
इति संसदि वक्तुर्मे चित्रं यत्क्षीयते न वाक्।
क्व वा काव्यविकल्पानां गुणानां च तवावधिः ॥ 32.88 ॥
इत्थं प्रतापसंपत्तिपराक्रान्तमहीभृतः।
न कुल्योत्सादनं युक्तं तव ग्रीष्मरवेरिव ॥ 32.89 ॥
एवमाह विभुर्मान्यं जगत्सर्गस्तितिक्रमे।
नियुज्य द्रुहिणोपेन्द्रावौदासीन्येऽस्मि निर्वृतः ॥ 32.90 ॥
सुरासुरचमूवंशसंतानस्तितिरासदत्।
कश्यपो मानसोत्पत्तिसंमतां परमेष्ठिनः ॥ 32.91 ॥
स लब्ध्वात्मभुवोऽनुज्ञां चित्रसर्गचिकीर्षया।
उपायतात्मनो योग्या विधिवद्दक्षकन्यकाः ॥ 32.92 ॥
दनुदित्यदितिष्वासामुदभूवंस्ततः क्रमात्।
दानवाश्चैव दैत्याश्च देवाश्च बलशालिनः ॥ 32.93 ॥
प्रातिकूलिकतां मत्वा मिथस्तेषां स्वयंभुवा।
वासः पातालमूले च सुमेरौ च व्यभज्यत ॥ 32.94 ॥
प्रशान्तरणसंरम्भं स्वधर्मावस्थितप्रजम्।
तेन निःशेषमेवासीत्त्रैलोक्यमनुपल्लवम् ॥ 32.95 ॥
अथ दुर्वारदोर्दण्डदर्पकण्डूप्रतारितः।
आच्छिनद्धाम् देवानां हिरअयाक्ष्महासुरः ॥ 32.96 ॥
स जघ्रने सुरशत्रूणां मिषतां क्रोडमूर्तिना।
त्रैलोक्योपप्लवारक्षाबद्धकक्षेण शौरिणा ॥ 32.97 ॥
******* च मरुतां पत्युर्निहत्यासुरमण्डलम्।
त्रैलोक्यश्रीः पुनर्लीलाचामरव्यग्रहस्तताम् ॥ 32.98 ॥
याते कालेऽथ दुर्वारदर्पकण्डूतिदुर्धरः।
हिरण्यकशिपुर्जिष्णोस्तामेत्य पुनराच्छिनत् ॥ 32.99 ॥
तद्वक्षोऽददरद्वज्रधारादलनकर्कशम्।
नृसिंहमूर्तिर्नखरैर्नखरान्तैर्जनार्दनः ॥ 32.100 ॥
इत्थमन्यांश्च जगतो विप्रकर्तॄन्महासुरान्।
अनयद्दीप्तचक्राग्निज्वालापञ्जरयन्त्रणाम् ॥ 32.101 ॥
ज्योत्स्ना चन्द्रक्रमेणैव क्षीयते वृद्धिमेति च।
शूराणां च रणे कीर्तिर्गता न विनिवर्तते ॥ 32.102 ॥
तदर्हन्त्यधुना प्राग्वदविग्रहपरिग्रहाः।
रसातलनिवासेन संविभागां महासुराः ॥ 32.103 ॥
पुरेव लोकपालानां दैत्यानां च निरत्यया।
अनाविष्कृतसंरम्भा स्थितिरस्तु यथायथम् ॥ 32.104 ॥
धामान्यध्यूषुषामित्थं प्रेम्णा निजनिजानि वः।
सन्त्वाविष्कृतविस्रम्भाः परस्परगृहागमा ॥ 32.105 ॥
शासति त्वयि पातालं त्रिदिवं च पुरंदरे।
ससुरासुरचक्रस्य त्रैलोक्यस्यास्त्वनामयम् ॥ 32.106 ॥
निवर्तिते विरोदेऽपि युवयोरधुना मिथः।
अपहस्तितनिःशेषवैरं प्रेम विवर्धताम् ॥ 32.107 ॥
अतिसंघर्षतः सिन्धुमन्दराचलयोः पुरा।
प्राक्कालकूटसंभारः पश्चादमृतमुत्थितम् ॥ 32.108 ॥
इति स्थिते समुत्सृष्टविग्रहैकरसस्थितेः।
मरुत्वता समं मन्ये सख्यमेव तव क्षमम् ॥ 32.109 ॥
यस्य हारलतान्यासभासुरा फेनसंहतिः।
व्यावर्तमाना नमुचेः कठिनं कण्ठमच्छिनत् ॥ 32.110 ॥
यस्याद्यापि दधत्येते वज्रविच्छिन्नपक्षतीः।
साभ्राः पार्श्वभुवो बद्धव्रणपट्टा इवाद्रयः ॥ 32.111 ॥
यस्यान्तर्वज्रदहनज्वालजालमिव ज्वलत्।
चकार नीरसं दैत्यनारीहृदयमण्डलम् ॥ 32.112 ॥
तं दोर्दण्डमदोद्दामदैत्यदानवसूदनम्।
वज्रोद्भासिकरं को वा मित्त्रं न बहु मन्यते ॥ 32.113 ॥ (चक्कलकम्)
सुरैः सहामराक्रीडकल्पवल्लीगृहगेषु वः।
आपानगोष्टीबन्धेन बन्धुप्रीतिर्विवर्धताम् ॥ 32.114 ॥
सदाननिर्झरेष्वाराद्गण्डशैलेषु दन्तिनाम्।
अनायसमुखास्तावान्निपतन्तु शिलीमुखाः ॥ 32.115 ॥
अवाप्तनकासङ्गा मानुभूवन्महासुराः।
क्रूरासिपत्त्रसंपातनिरर्गलकदर्थनाम् ॥ 32.116 ॥
सुरदिति (दनु) सुतदैत्यकन्यकानां सरभसमाप्लुतिकेलिलीलयाम्भः।
भवतु कुचतटीनितम्बबिम्बस्खलनविजर्जरमम्बरापगायाः ॥ 32.117 ॥
इत्यभ्युदीर्य गिरमुज्ज्वलदन्तरत्न-
निर्यत्प्रभाधवलितां विरराम दूतः।
तस्थौ तदुत्तरविशेषपरीप्सया च
दैत्याधिपस्य वदने विनिधाय दृष्टिम् ॥ 32.118 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजनकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये दूतव्याहारो नाम द्वात्रिंशः सर्गः।