३१

.

हरविजयम्।

त्रिंशः सर्गः।

इत्थं शरागशशभृत्परिभोदलीला-
विच्छिन्नरात्रिरशनामणिकिङ्किणीभिः।
नक्षत्रसंततिषु संदधतीषु साम्य-
मस्ताद्रिसानुपदवीपरिपुञ्जितासु ॥ 30.1 ॥
विष्यन्दमानमधुशीकरलोबलीन
भृङ्गावलीचरणबन्धुरकेसरेषु।
पद्माकरेषु विससत्सु शनैर्निदाघ-
धामांशुभिन्नदलमण्डलसंधिबन्धम् ॥ 30.2 ॥
प्रातस्तनानिलविकम्पितपुण्डरीक-
पक्ष्माग्रकोटिघटिते सलिलाशयेषु।
निद्राविमुक्तिवलितावयवापविद्ध-
लक्ष्मीवधूपरिमलश्रियि धूलिचक्रे ॥ 30.3 ॥
शैलालिवत्स्फुटयति स्फुटसर्वभाव-
व्यक्तिक्रमेण दिवसे मुखरागशोभाम्।
अभ्यर्च्य कालमुसलश्चरणौ मृगाङ्क-
चूडामणेरुदपतद्ध्रुवधामवीथीम् ॥ 30.4 ॥ (चक्कलकम्)
तेन व्यलोकि दिवमुत्पतताग्रवर्ति
विस्पष्टलक्ष्म परिणाहि मृगाङ्कबिम्बम्।
उन्निद्रकुन्ददलपाण्डुरमण्डपिण्ड-
मध्यास्यमानमिव कालियपन्नगेन ॥ 30.5 ॥
संपश्यति स्म स तडित्स्फुरणानुबन्ध-
मादीर्घमभ्रशकलं स्थित्मन्तरिक्षे।
उच्छ्वासलक्ष्यरुधिरारुणकान्तिकण्ठ-
च्छेदं महाझषमिवाम्भसि पङ्कलीनम् ॥ 30.6 ॥
अन्योन्यसंवलनवेल्लितपल्लवाग्र-
विश्लेषनिर्दलितकेतुशिखांशुकौघाः।
उन्मूल्यमानशिखरस्खलदर्धचन्द्र-
रत्नप्रबाखचितकाञ्चनतोरणाग्नाः ॥ 30.7 ॥
अभ्याहता विशशरुर्जवमारुतेन
तस्याशु दिक्षु सुरसिद्धविमानसंघाः।
बाणाग्निदीपितपुरत्रयतायमान-
नानाविधावयवविभ्रममूहिवांसः ॥ 30. 8 ॥ (युगलकम्)
केशेषु तस्य कृतसंनिधयो मुहूर्तं
कंसाततायिन इवाञ्जननीलभासः।
उष्णीपरत्नकिरणद्विगुणायमान-
सौदामनीवलयिनो जलदा बभूवुः ॥ 30.9 ॥
तस्योत्थितस्य सहसा घनवर्त्मसीम्नि
धत्ते स्म कर्णशिखरं श्रियमव्यवस्थाम् ।
उष्णीषभिन्नहृदयस्तनयित्नुलग्र-
सौदामनीविकटहाटकमञ्जरीकम् ॥ 30.10 ॥
पिङ्गोर्ध्वलोचनकृशानुशिखासहस्र-
मस्यान्वकारि मुखमण्डलमन्तरिक्षे।
साम्भोभरेण गमनोत्थमरुद्विवर्त-
भाजाम्बुवाहशकलेन तडिद्वताग्रे ॥ 30.11 ॥
तस्य प्रतीपमगमद्घमनानिलेन
विक्षिप्यमाणसलिला क्षणमन्तरिक्षे।
मन्दीकृतोष्णकरमण्डलभासुरोर्ध्व-
नेत्राग्नितापकृतशोषभियेव गङ्गा ॥ 30.12 ॥
विस्रंसितोडुरशनं गलदिन्दुगौर-
गङ्गादुकूलमकरोत्स दिवस्तदानीम्।
विस्तीर्णमम्बरनितम्बमनम्बुदेन्दु-
बिम्बाननाम्बुरहचुम्बनबुदेन्दु-
बिम्बाननाम्बुरुहचुम्बनबद्धतृष्णः ॥ 30.13 ॥
जह्रे मनोऽस्य मृदुमारुतपूर्यमाण-
रन्ध्रैर्हिमाद्रितटकीचकचक्रवालैः।
गम्भीरतारमधुरक्वणितैर्नयद्भि-
रुत्कर्णतां तरणिकूबरिवाजिपङ्क्तिम् ॥ 30.14 ॥
ऐक्षिष्ट विस्फुरितकाञ्चनकल्पवल्ली-
विस्तारिपक्ष्मशिखरच्छदचक्रवालम्।
कैलासशैलमसकृत्स जगत्त्रयैक-
लक्ष्म्याः स्थितं धवलविभ्रमपुण्डरीकम् ॥ 30.15 ॥
फेनावलीधवलचामरचक्रवाल-
भूषाभिरामजवनस्थिरसप्तवाहाम्।
भागीरथीं रथधुरामिव घर्मरश्मे-
र्वीक्ष्यैकपिङ्गलगिरौ स मुदा ववन्दे ॥ 30.16 ॥
तेन स्खलत्खलकलामुखरा कराल-
कैलासकूटविकटोर्मिघटासहस्रा।
संक्रान्तकैटभनिसूदनपादपद्म-
प्रेङ्खन्नखच्छविरिवैक्षत जह्नुकन्या ॥ 30.17 ॥
मज्जत्कुबेरतरुणीगलितावतंस-
हासाभिरामतटमार्गमसावपश्यत्।
विस्तारिमानससरः सलिलिर्मिभङ्ग-
पर्यस्तशीकरसकाञ्चनवालुकाम्भः ॥ 30.18 ॥
वीचीसमीरधुतकाञ्चनपुण्डरीक-
पर्यस्तकेसरपरागपिशङ्गिताम्भः।
अच्छोदमैक्षत स देवपुरन्ध्रिपाद-
लाक्षारुणीकृतशिलातलतीरलेखम् ॥ 30.19 ॥
आराधनप्रवणकासरदैत्यवंश-
कण्ठप्रसाधनधियेव विलभ्यमानाः।
चण्ड्या यदीयमणिकंदरमन्दिराग्र-
विस्तारितोरणगताः प्रविभान्ति घण्टाः ॥ 30.20 ॥
स्थूलेनद्रनीलमणिशृङ्गरुचोऽथ तस्य
कल्माषिताखिलदिगन्तरमुन्मिषन्ती।
भूयस्तरां तरणिमार्गरुरुत्सयाशु
मुक्ताः शिखा इव ददर्श स मेकलाद्रेः ॥ 30.21 ॥ (युगलकम्)
लीलानिमग्नशबरीकुचकुम्भपीठ-
संक्षोबजर्जरितवीचिघटासहस्राम्।
रेवामसौ सरलवञ्जुलजालजम्बू-
स्तम्बप्रसाधिततटामवलोक्य रेमे ॥ 30.22 ॥
कण्ठग्रहप्रणयिना ददृशेऽथ तेन
विन्ध्यश्रियो मणिशिखेज्ज्वलमेखलायाः।
रेवापगाम्बुकपृथुपीननितम्बबिम्ब-
विस्रस्तमम्बरमिवातनुपादलग्नम् ॥ 30.23 ॥
संवीततीरवनरूढतमालखण्ड-
लोलानिलाकुलितनीलजलांशुकश्रीः।
तेन व्यलोकि वरुणालयवल्लभाग्र-
लीलीभिसारणधियेव कलिन्दकन्या ॥ 30.24 ॥
सेवाविचक्षणतयेव दवाग्निदग्ध-
कालागुरुप्रचुरधूमशिखाकदम्बैः।
कुर्वन्तमैक्षत महेन्द्रमसावनल्प-
कल्पद्रुमांशुकततीः सुरभीः सुराणाम् ॥ 30.25 ॥
विस्पष्टफेनधवला विरलोर्मिभङ्ग-
निःसङ्गसंगतपयः प्लवरोधसं सः।
लाङ्रूलिनीं सरितमाकलयांचकार
तत्पादगोचरगतामिव सौरभेयीम् ॥ 30.26 ॥
वीक्ष्यावतंसितविकासिलवङ्गपुष्प-
मालाःस स सह्यगिरिकाननशाखिवीथीः।
रेमेतरां सुरमतङ्गजगण्डकाष-
लीलावरुग्णसरलोन्नततालखण्डाः ॥ 30.27 ॥
उत्फुल्लतीरतरुखण्डलतासखीभिः।
संग्रथ्यमाननिजपुष्पभरावतंसाः।
आबिभ्रतीं भ्रमरनीलरुचः स वीचि-
वेणीलतास्तदनु भीमरथीमपश्यत् ॥ 30.28 ॥
आमग्रकुन्तलवधूकुचक्रम्भभार-
हारप्रभाद्विगुणितच्छविफेनहासाम्।
गोदावरीं चरणचुञ्चुचकोरचक्र-
चञ्च्वग्रचुम्बितविलोलजलामपश्यत् ॥ 30.29 ॥
उल्लासिशीकरकरालफणासहस्र-
कल्लोलनागकुलसंकुलमध्यभागाम्।
वेणां स्फुरत्तिमिरतातिगभीरतालु-
मूलां रसातलभुवः सदृशीं ददर्श ॥ 30.30 ॥
तदस्योपयुक्ततटकाननानारिकेल-
वल्लीफलप्रकरशीतलगर्भतोयाः।
अन्वायिनः कटकवर्त्मसु पारियात्र-
शैलस्य चक्रुरुपभोगसुखान्निवासान् ॥ 30.31 ॥
मीनावलीसरभसाप्लुतिघट्टिताम्बु-
वीची विलोलविरुवत्कुररी करालम्।
कावेर्यलक्ष्यत जलं दधती च तेन
निःशङ्करङ्ककुलसंकुलकूलकच्छा ॥ 30.32 ॥
आविर्भवत्स्मितमनोहरगण्डभित्ति-
भागश्चमूचरपुरंध्रिगणः सलीलम्।
चर्मण्वतीपुलिनवर्त्मनि तस्य हारि-
हारीतकण्ठविरुतार्पितकर्ण आसीत् ॥ 30.33 ॥
आवासितस्य तटवर्त्मनि तस्य ताल-
खण्डप्रकाण्डदलताण्डवनप्रगल्भाः।
सिप्रातरङ्गमरुतोऽनुचराङ्गनानां
पीनस्तनक्षतरुजं सुरतेषु जहरुः ॥ 30.34 ॥
संवादिकाननतलस्य निवेशलक्ष्मी-
मद्रेरसावधिकमृक्षवतोऽभ्यनन्दत्।
पादावनौ कतिचिदेव दिनानि बद्ध-
संस्थो निशीव तमसाहृतदृष्टिरासीत् ॥ 30.35 ॥
गच्छन्विशङ्कटमसौ कटकं सुवेल-
शैलस्य काञ्चनशिलाशकलावकीर्णम्।
वेलाविलोलवरुणालयवीचिभङ्ग-
पर्यस्तवाडवकृशानुमिवैक्षतारात् ॥ 30.36 ॥
तेन व्यलोक्यत कपोलतलायमान-
विस्पष्टपाकलवलीफलकन्दलाढ्या।
घ्राणानुलेपि नवचन्दनखण्डगन्ध-
हृद्यामला मलयपर्वतकाननश्रीः ॥ 30.37 ॥
लक्ष्मीभृतस्त्रिभुवनाक्रमणप्रगल्भ-
सर्वोन्नतेर्मलयभूमिभृतोऽभ्रसिन्धुम्।
पुण्यस्थितिं मुररिपोरिव पादमूल-
भागोत्थितामभिननन्द स ताम्रपर्णीम् ॥ 30.38 ॥
पर्यस्तरत्नकिरणाङ्कुरदन्तुरेषु
वेलातटेषु कृतसैनिकसंनिवेशः।
अम्भोनिधिं स निरवर्णयदुल्लसद्भि-
रुत्तम्भितोडुपथमूर्मिघटासहस्रैः ॥ 30.39 ॥
उन्नालनीलनवञ्जुलनालिकेर-
ताम्बूलवल्लिवलयाकुलकूलकच्छम्।
आश्चर्यधाम दधतं सततप्रसन्न-
मप्यप्रसन्नमुपपादितशोभमम्भः ॥ 30.40 ॥
विस्रंसमानसलिलामलनीविबन्ध-
मास्फालयन्तमतिकाममिवोर्मिहस्तैः।
आबद्धरत्नवलयोज्ज्वलकाञ्चिदाम-
वेलाङ्गनापुलिनपीनतितम्बबिम्बम् ॥ 30.41 ॥
ठउत्सङ्गसङ्गिविलसत्तटिनीपुरंध्रि-
लीलार्परणारभसयेव निवेशयन्तम्।
आवर्तचक्रचषकेषु तरङ्गहस्त-
व्याकृष्टतीरतरुपुयष्पभरावतंसान् ॥ 30.42 ॥
प्रेङ्खत्कपालशकलामलशङ्खशुक्ति-
माच्छादिताम्बरघनामितवीचिबाहुम्।
और्वाग्निपिङ्गलशिखाविकरालकेश-
मुत्प्लुत्य भैरवमिवासकृदारसन्तम् ॥ 30.43 ॥
लक्ष्मीसुराविमलकौस्तुभपारिजात-
चन्द्रामृतापहरणोत्थितया शुचेव।
हेमाद्रिकूटविकटार्चिषि निर्व्यपेक्ष-
मात्मानमौर्वदहने विनिपातयन्तम् ॥ 30.44 ॥
गम्भीरगर्भघटितास्पदकालकूट-
शेषाग्निदाहशमनार्थमिव क्षपासु।
ज्योत्स्नासुधां विकटमौक्तिकदन्तपङ्क्ति-
शोभाधरैर्विवृतशुक्तिमुखैः पिबन्तम् ॥ 30.45 ॥
प्रेङ्खत्प्रवालकिरणाच्छुरितं वहन्त-
मावर्तचक्रपरिवर्तगभीरमम्भः।
संवादिकौस्तुभमयुखशिखावकीर्ण-
दैत्यायुघव्रणकरालमुरारिवक्षः ॥ 30.46 ॥
शैलाभिघातशकलीकृतमप्यखण्ड-
माकृष्टरत्नमपि रत्ननिधित्वमाप्तम्।
लक्ष्मीमदग्धदशमप्यसमौर्ववह्नि-
दाहाकुलं चिरगतामपि नोत्सृजन्तम् ॥ 30.47 ॥
वज्राभिघातभयकातरतोयलीन-
माहेन्द्रनीलमणिशैलशतप्रकाशम्।
गर्भान्धकारमिव शेषफणासहस्र-
माणिक्यरश्मिगलहस्तितमुद्गिरन्तम् ॥ 30.48 ॥
प्रेङ्खत्करालमणिरश्मिशताभिनद्ध-
कल्लोलकेतुपटलस्थगितान्तरिक्षम्।
उद्दामवाजिगजसाधनमब्युपेत्य
गृह्णन्तमाशु विजिगीषुमिवाखिलाशाः ॥ 30.49 ॥
वेलाङ्गनाभिरभितो धुतवीचिताल-
वृन्तानिलाकुलितफेनदुकूलपट्टम्।
ताभ्यो दिशन्तमसकृज्जलवेगनुन्ना
रत्नावलीरविरलाः स्फुरदिन्दुगौरीः ॥ 30.50 ॥
उत्थाय दूरमसकृत्सुरनाथमुक्त-
वज्राभिघातकलनाशरणागतानाम्।
क्षोणीभृतमनिशमप्यकुतोभयानां
सर्वासु दिक्षु भयहेतुमिवेक्षमाणम् ॥ 30.51 ॥
दिग्भ्यः क्रमादविरलोत्कलिकानुबन्ध-
मभ्येयुषीः सरभसं सरितः सरागाः।
विस्पष्टदुग्धजलकप्रविजृम्भमाण-
चेतोहरस्थिति परिष्वजमानमारात् ॥ 30.52 ॥
ज्योत्स्नातपं सपदि दुग्धधिया विवेक्तुम्।
आवाञ्छता सरभसं तटराजहंस-
यूथेन बन्धुरगलेन निषेव्यमाणम् ॥ 30.53 ॥
विस्फुर्जदौर्वाशिखिकालनिपीयमान-
मालोक्य सङ्कसुकमायुरिवाभितोऽम्भः।
प्राप्तं क्रमाद्विरसतां भजमानमाशु
सत्कूर्चकेसरघनां कटकाननोर्वीम् ॥ 30.54 ॥
और्वाग्रनिहेतिशतमप्यकृशानुताप-
मुत्तानमप्यतिगभीरतयानुयातम्।
सन्नागमप्यनवसन्नगिरिप्रकाण्ड-
मिन्दुप्रभोज्झितमपि स्फुटचन्द्रिकाढ्यम् ॥ 30.55 ॥
दिक्चक्रवालरभसोपगतप्रविष्ट-
सुस्वादुनिर्झरवतीजलसंप्लवेऽपि।
अम्भःश्रिया विरसया प्रकृतेरिवौर्व-
वह्न्यारवैरभिदधानमसुत्यजत्वम् ॥ 30.56 ॥
गाम्भीर्यशालि मणिरागपिशङ्गमम्भ-
स्तत्राप्यनन्तभुजगधिपभोगशय्याम्।
तामाश्रितं विकटकुक्षिपुटस्थलोक-
मभ्युद्वहन्तमधिकं हरिमेव सारम् ॥ 30.57 ॥
उत्क्षिप्तपञ्चफणमण्डलभोगीहस्त-
मभ्रंकषोल्बणशिखं ग्रसमानमम्भः।
कवेलानिलाहतिविघट्टितवीचिघोषैः
संतर्जयन्तमिव संततमौर्ववह्निम् ॥ 30.58 ॥
आवर्तमण्डलकुकुन्दरबद्धशोभ-
कल्लोलपीवरनितम्बतटान्तरेषु।
पर्यस्तशुक्तिनयनं गलदच्छहारि-
रत्नप्रभानिवसनेषु सरिद्वधूनाम् ॥ 30.59 ॥
सन्नागमक्षततिमिश्रितमुत्प्रवाल-
मुद्रागमाकुलमलङ्घनतामवाप्तम्।
सश्रीफलस्पृहतरत्प्लवगं वनौघ-
मुत्तालमुच्चमरसत्वजुषं वहन्तम् ॥ 30.60 ॥
उल्लासिभिः प्रतिदिशं विकटोर्मिभङ्गै-
र्बालाष्टमीशशधरप्रतिबिम्बगर्भैः।
उत्तप्तहेमघटितां परिकल्पयन्त-
मायानपङ्क्तिमिव तोयतुरंगमाणाम् ॥ 30.61 ॥
संसक्तबिन्दुपटलानविलुप्तशुक्ति-
मत्स्यश्रियो मकरदन्तकबद्धशोभान्।
वीचीन्क्रमेण दहता भिषजेव शश्व-
दश्वानमुक्तमभितो वडवाग्निनारात् ॥ 30.62 ॥
सिन्धूर्विपाण्डुररुचिस्फुटफेनहास-
दूरावगाढरसनिर्भरमापतन्तीः।
पश्यन्तमादरवशादिव निर्विशेष-
मावर्तचक्रनयनैर्मधुरं वलद्भिः ॥ 30.63 ॥
विच्छादकांशुमणिविच्छुरिताच्छवीचि
विच्छेदशीकरसमीरतरङ्ग्यमाणाः।
वल्लीर्द्रुमाभिमुखमुन्मदना इवात्त-
कम्पाः करालिततटोपवना वहन्तम् ॥ 30.64 ॥
उद्भिन्नरत्नकिरणारुणधातुवर्ति-
प्रेङ्खत्फणाङ्गुलिभुजंगमबोगहस्तम्।
रोषादिवानधिगतप्रसरं वलन्तीः
सोत्कण्ठमूर्मिफलकेषु नदीर्लिखन्तम् ॥ 30.65 ॥
उल्लासिभिर्दिशि दिशि स्फुरदुन्मरीचि-
माणिक्यरश्मिशबलोर्मिघटासहस्रैः।
विस्तारिभिर्भुवनमण्डलमण्डपस्य
वैदूर्यकुड्यरचनामिव संदधानम् ॥ 30.66 ॥
फुल्लज्जपाकुसुमपाटलरागरम्यैः
कल्माषिताखिलदिशं मणिभिः स्फुराद्भिः।
वेलानिलाहतिविलोलशिखाशतस्य
स्थूलैः स्फुलिङ्गनिकरैरिव वाडवाग्नेः ॥ 30.67 ॥
आवर्तचक्रमुदरास्पदरन्ध्रनाभि-
पर्यन्तधूर्णितमणिप्रकरांशुशारम्।
बिभ्राणमच्युतमिवाञ्चितशङ्खशोभ-
मम्भोदमेचकरुचोन्नतवीचिदोष्णा ॥ 30.68 ॥
वेलानिलोद्धतशिखस्य विटङ्कहेति-
वर्तिच्छटाभिरनलस्य निपेतुषीभिः।
आबिभ्रतं पिशुनिता इव कुक्षिभाग-
बद्धप्रतिष्ठगिरिसानुनिधानभूमीः ॥ 30.69 ॥ (एकत्रिंशद्भिः कुलकम्)
यस्याधिकं दधति निर्मलनीरमध्य-
बिम्बागता जलभृतोऽभ्रकपङ्कनीलाः।
कुक्षिप्रविष्टकमठश्वसितव्युदस्त-
पातालरन्ध्रगतकर्दमराशिलीलाम् ॥ 30.70 ॥
वेलाविलासविशरारुतरङ्गराशि-
पारिप्लवीकृततिमिव्रजपृष्ठपक्षाः।
यस्मिञ्जनेन निरचायिषतोदराद्रि-
कूटभ्रमं विदधतो भ्रमता तटोर्व्याम् ॥ 30.71 ॥
वेलापुरंध्रिरभियोगपटुप्रपञ्च-
मुक्तेव चञ्चलतरैः श्रियमूर्मिहस्तैः।
यस्य प्रवालमणिशोभिभिरेति दन्त-
च्छेदप्रकारसदृशैः स्फुटबिन्दुमालैः ॥ 30.72 ॥
देवासुरभ्रमितमन्दरशैलमूल-
लीलावलोडनविलोलजलोत्थितस्य।
मार्गं रसेन तुरगाधिपतेरिवारा-
दाभाति यत्र वडवामुखमीक्षमाणम् ॥ 30.73 ॥
श्लाघ्यो गवामधिपतिस्तिमिरक्षयार्घ्य-
रूपस्थितिर्जलदमार्गतलावलम्बी।
सच्चन्द्रिकं शिशिररश्मिरिवात्मबिम्ब-
मम्बो बिभर्ति हरिणाध्युषितं य एकः ॥ 30.74 ॥
यो ग्रावलग्रबहलोर्मिकया चिराय
कुर्वाणया रुचिरसैकतया व्यवस्थाम्।
लक्ष्मीं सभोगिवलयो जलसंपदैति
शैलाधिराजसुतयेव शशाङ्कमौलिः ॥ 30.75 ॥
छायागतर्क्षपतिबिम्बविधानपिण्ड-
लीलाप्रसारितविसारितरङ्गहस्तः।
धत्ते स्म यः स्फुरितविद्रुमताम्रराग-
तालूरसत्स्थितिरिभाधिपतेरभिख्याम् ॥ 30.76 ॥
प्रत्यग्रविद्रुमवितानमरीचिगाढ-
रागोर्मिलाञ्छिततया रजनीष्वभीक्ष्णम्।
यस्योन्नतानुगतलक्ष्मणचित्तवृत्ति-
राभाति चन्द्रकिरणोल्लसितस्य वेला ॥ 30.77 ॥
भिन्दंस्तमो भुवनवासगृहे कृतैक-
देशस्थितिर्यमधितिष्ठति निष्ठुरार्चिः।
विस्तारिपात्रमिव निर्मलतोयतैल-
पूर्णोदरं विदधदौर्वशिखिप्रदीपः ॥ 30.78 ॥
लक्ष्म्या कुलीरचितया श्रित एक एव
प्राप्नोति यः स्म महिमानमलङ्घ्यधामा।
योधैरिव क्षितिपतिः स्थितिमेत्यमन्द-
पातालवासिभिरनेकविधैश्च सत्त्वैः ॥ 30.79 ॥
धत्ते जलाशयपतिः स्थितिमम्भसां स्म
साराधिकस्तिमिततामरसां य एकः।
यस्याश्रितेन पुलिनाञ्चितया श्रिया च
वीचिव्रजेन हरिणा च चिरं ववल्गे ॥ 30.80 ॥ (एकादशभिः कुलकम्)
उल्लङ्घ्य वर्षगिरिवीचिमतीशतानि
नानाविधान्यथ तदीक्षणबद्धतोषः।
दूरादिलावृतमसावविपन्नमेरु-
च्छायं विडम्बितहिमाद्रिमसावपश्यत् ॥ 30.81 ॥
धत्ते समुद्रपरिखावलयावलीढ-
पर्यन्तवर्त्मपरिमण्डलभूप्रतिष्ठः।
यः कूर्मपृष्ठपृथुकर्परसंनिविष्ट-
रुक्मांशुविच्छुरितमन्दरशैलशोभाम् ॥ 30.82 ॥
विस्तारशालिकुरुविन्दशिलानितम्ब-
बागोत्थितं वहति यः करचक्रवालम्।
स्कन्धावघर्षणविलग्नमहावराह-
विश्लिष्टकेसरसटानिकुरुम्बसोभम् ॥ 30.83 ॥
येन प्रसाधितमिलावृतमाचकास्ति
रत्नप्रभाशबलकाञ्चनसानुनोच्चैः।
पद्मासनेन च विनिद्रपलाशचक्र-
मुत्पत्तिपङ्कजमनुज्झितकर्णिकाङ्कम् ॥ 30.84 ॥
यस्मिन्विभाति शिशिरांशुकलामृणाल-
वल्लीसनाथपृथुपुष्करभूमिरर्वाक्।
स्तम्भे हिरण्मय इव क्षणदान्धकार-
च्छायाकरेणुरलिनीलरुचिर्निबद्धा ॥ 30.85 ॥
विस्तारितार्कमणिपल्लवनिर्यदग्नि-
धौताग्निशौचशुचिकल्पलतादुकूलैः।
विष्यन्दिसान्द्रजलबिन्दुकणेन्दुकान्त-
वल्लीविमर्दकृतर्दिनमूलभागैः ॥ 30.86 ॥
बद्धास्पदक्षणविनिह्नुतवह्नितीव्र-
तापानुमेयदिवसाधिपमण्डलाभिः।
संदर्शितक्षयनिशामुखसांध्यरागैः ॥ 30.87 ॥
वज्राङ्कुराहितशतक्रतुचापचक्र-
मुक्ताफलस्तबकमञ्जुरमञ्जरीकैः।
रत्नांशुपिञ्चरितखञ्जनखञ्जरीट-
मञ्जीरमञ्जुतरशिञ्जलतानिकुञ्जैः ॥ 30.88 ॥
स्थूलेन्द्रनीलशकलग्रथितालवाल-
मध्यप्रबाजनितसेकजलौघशङ्कैः।
अभ्रंकषाग्रविटपास्पदशातकौम्भ-
कुम्भीफलानुमितशेवधिशंनिवेशैः ॥ 30.89 ॥
तस्यानुवेलमलिवल्लभवेल्लिताग्र-
वल्लीविलोलमणिपल्लववल्लरीकैः।
ऐक्षिष्ट कल्पतरुभिः कलिलामनल्प-
संकल्पसाधनफलैर्मणिमेखलां सः ॥ 30.90 ॥ (नवभिः कुलकम्)
गच्छन्क्रमादथ विलम्बितरत्नदाम-
दोलाधिरोहतरलीकृततारकौघम्।
अभ्युन्मिषन्मरकतांशुशिखायमान-
लग्नार्ककूबरितुरंगसटावलीकम् ॥ 30.91 ॥
स्तम्भस्खलज्झणझणारणिताभिराम-
घोषानुबन्धिसुरसिद्धविमानघण्टम्।
आश्लिष्टतारकमृगोल्लिखितान्तरिक्ष-
संदेहितेन्दुशकलस्फुरदर्धचन्द्रम् ॥ 30.92 ॥
निर्धूतचामरशिखाशतवीजितार्क-
मुच्छ्रायिनाकमणिगोपुरतोरणं सः।
आनन्दितालिविगलन्मकरन्दबिन्दु-
मन्दारदामकृतबन्दनमालमापत् ॥ 30.93 ॥ (तिलकम्)
तस्य श्यामायमानस्थगितदिनकराकाशसंकाशकाय-
च्छायापीतातपाशातटनिमितदृशो रत्नसानुस्तलीषु।
प्रत्यासन्नित्रियामामुखसरलधियः सत्वरत्वं विभूषा-
विन्यासं प्रत्यवापुः स्मररभसरसप्लाव्यमानास्तरुण्यः ॥ 30.94 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये मार्गविभागवर्णनो नाम त्रिंशः सर्गः।

.##

.

हरविजयम्

एकत्रिंशः सर्गः।

तारापथात्स हृदयस्थगरिष्ठकार्यः
पृष्ठे पुरंदरगिरे रचितप्रतिष्ठः।
माणिक्यगोपुरमतीत्य समाससाद
मार्गावसादरहितस्त्रिदिवोपकण्ठम् ॥ 31.1 ॥
श्च्योतत्सुधाशिशिरशीकरशारिताभ्र-
मग्नामरद्विरदशूत्कृतभिन्नवीचिम्।
तत्पीवरायतकराहतिरुग्णहारि-
हैमारविन्दमकरन्दविमिश्रतोयाम् ॥ 31.2 ॥
लीलानिमग्नकमलासनवाहहंस-
संदेहिताच्चजलशीकरफेनपिण्डाम्।
उत्तारलग्नहरिदश्वरथाश्वबन्ध-
भोगीन्द्रगाढपरिपीततरङ्गवाताम् ॥ 31.3 ॥
विस्तारिणः परिसरान्स्फऱुटहाटकेश-
मन्त्राभियोगकृतसिद्धिनरेन्द्रकल्पान्।
आबिभ्रतीं सकलशैलबिलाभिराम-
सीमन्तिनीजनमनोरमगाढशोभान् ॥ 31.4 ॥
संवादिभारतकथं दधतीमलुप्त-
मत्स्यावनातनुरसस्थविराटमम्भः।
प्रेङ्खोलनेन हरताण्डवतोऽधिकं च
धौताम्बरां क्षय इवोर्मिगणेन गङ्गाम् ॥ 31.5 ॥
स्रानावतीर्णधवलग्रहचक्रवाल-
संदेहितेन्दुरुचिबुद्बुदबिन्दुवृन्दाम्।
उच्चैःश्रवःखुरपुटाहतरत्नपट्ट-
सोपानपङ्क्तिमवलोक्य मुदा ववन्दे ॥ 31.6 ॥ (पञ्चभिः कुलकम्)
अभ्युन्मिषत्कनकपट्टमरीचिपिङ्ग-
मुत्खातरत्नबिसमुन्मदहसमालम्।
मन्दाकिनीतटमवेयक्ष्य स नीलकण्ठ-
मूर्ध्नोऽस्मरद्धृतपालशिखामणीन्दोः ॥ 31.7 ॥
स प्रेङ्खितश्रवणतालसमीरवेग-
पर्यस्तकाञ्चनलतास्पदरत्नपुष्पे।
संदानितं महति कल्पतरावपश्य-
दैरावणं सकलनागकुलावतंसम् ॥ 31.8 ॥
गण्डस्थले नवमदानमुचि प्रकृष्ट-
शोभे महाहवविमर्द इवासुराणाम्।
बद्धास्पदां मधुलिहां पृथुकर्णताल-
दोलानिलेन लुलितां पटलीं दधानम् ॥ 31.9 ॥
दूरव्यपोढमलशीतमरीचिबिम्ब-
गौरच्छविश्रवणचारमरचारुभूषम्।
आलग्नभग्नविकचोज्ज्वलपारिजात-
स्न्मञ्जरीकमिव वक्त्रतलं दधानम् ॥ 31.10 ॥
आग्रातुमन्यकरिमण्डलदानगन्ध-
मूर्ध्वीकृतप्रवरपीवरहस्तदण्डम्।
आलीढविद्रुमवनप्रभयेव भिन्न-
माताम्कान्ति पृथु तालुतलं दधानम् ॥ 31.11 ॥
चन्द्रप्रभापटलगौरशरीरकान्ति-
सावर्ण्यनिह्नुतमपि प्रकटं वहन्तम्।
आमन्थरश्रवणतालवृताभिघट्ट-
दोलानुबन्धतरलं शुचि कर्णशङ्खम् ॥ 31.12 ॥
क्षीरोदसिन्धुजठरात्सममुत्थितेन
शङ्खेन कर्णशिखराश्रयिणा सलीलम्।
गण्डस्थलं दधतमुन्नतमिन्दुनेव
सोदर्यताञ्चितरसेन विचुम्ब्यमानम् ॥ 31.13 ॥
हेलाधुतिव्यतिकराहितगण्डदान-
पङ्कच्चटाशबलितोदरकुन्दपाण्डू।
विस्पष्टलाञ्छनकलङ्कशशाङ्कबिन्ब-
खण्डद्वयप्रतिकृती श्रवणौ दधानम् ॥ 31.14 ॥
संवर्तकाभ्ररसितानुविदायिकण्ठ-
गर्जाच्छलेन चिरसंभृतभुद्गिरन्तम्।
विस्तीर्णकर्णकुहरान्तरमार्गलब्द-
कुक्षिप्रवेशमिव सागरमन्थघोषम् ॥ 31.15 ॥
रीढावलीढजलमन्थरमेघखण्ड-
मुत्क्षिप्तमम्बरतले सरलप्रकाण्डम्।
हस्तार्गलं दधतमिन्दुकरावदात-
मुत्तम्भितक्षितितलोरगभोगशोभम् ॥ 31.16 ॥
गण्डस्थलीविगलितातनुदानपान-
लोभागतैरविरलं भ्रमरैर्भ्रमद्भिः।
पातलगर्भसहवासरसेन गाढ-
मालिङ्ग्यमानमिव संतमसप्रबन्धैः ॥ 31.17 ॥
आबद्धदेहभरकाञ्चनभूमिपीठ-
शोणाश्मरश्मिकपिशं त्रिपदीविलासैः।
संध्यांशुपाटलिततिग्ममरीचिबिम्ब-
संवादि पादतलमण्डलमुद्वहन्तम् ॥ 31.18 ॥
निर्वासितस्य रिपुणा सह देवसंघै-
र्भर्तुः सविस्तरनिवासधियेव भूयः।
कर्णप्रकीर्णकविपाण्डुरपक्ष्मपङ्क्ति-
लक्षेण पङ्करुहनालगुणान्वहन्तम् ॥ 31.19 ॥
बिभ्राणमङ्गुशमशङ्कितशातकुम्भ-
पातं मरुत्तनृपराज्यमिवासनस्थम्।
आबद्धशोभमभितः शुचिनारदेन
तुङ्गं सुरर्षिसदसेव सुमेरुपृष्टम् ॥ 31.20 ॥
तन्वन्नवलग्रहकृतं क्षणदावतार-
तारापथोऽन्य इव योऽतिमनोहरत्वम्।
साम्यं विबातसमयस्य बिभर्ति बाल-
संध्याहितातनुरुचिः स्फुटपुष्करश्रीः ॥ 31.21 ॥
शृङ्गारिणी कृतकटक्षतया च यस्य
लक्ष्म्याश्रितातनुरनुज्झितरत्नकक्ष्या।
आयोधनावनितलैरिव भात्यशून्य-
रूपा सदानकवलस्थितिभिर्द्विरेफैः ॥ 31.22 ॥
पर्यस्यतः सकलसच्चरितानुकारि
विस्पष्टसज्जनवशीकरणं कराम्भः।
यस्यासुरीमिव बिभर्ति कपोलभित्ति-
रच्छिन्नदानवरतामभिरामरूपाम् ॥ 31.23 ॥
यः कुञ्जराजितवपुः कटकानुसारि-
रूपो रुचासमहिमाहितया कृतश्रीः।
सच्छरिवंशरचितस्थितिनाकरोधि
नीहारशैल इव चारु बिभर्ति पृष्ठम् ॥ 31.24 ॥
कक्ष्यानुबन्धरचनारुचिरेण हस्ति-
मल्लेन गौरवपुषा गमितेन शिक्षाम्।
व्यापारितातनुकरेण रणाङ्गनेषु
दर्पादघानिषत येन विपक्षनागाः ॥ 31.25 ॥
विन्ध्याचलोन्नतिहृता परिपीतदान-
सिन्धूर्मिणा श्रवणतालधुतेन गुर्वीम्।
कुम्भोत्थितेन नवधातुरजश्चयेन
लक्ष्मीमगस्त्यमुनिनेव च यः स्म धत्ते ॥ 31.26 ॥
गीर्वाणवैरिपृतना समरेषु यश्च
शौर्यातिरेकभृदनुत्तमदोर्जितश्रीः।
धत्तेऽनपोढकरटस्थितिमन्यपुष्ट-
नारीमिवाविलरुचिं म9दुपायिपङ्क्तिम् ॥ 31.27 ॥
शैलाधिराज इव यः सविकासमर्द-
नानाबलानुगतनागविदारिदन्तः।
विष्पन्दिदानजलनिर्झरगण्डशैल-
शोभी बिभर्त्यधिकमभ्रमकरीत्यभिख्याम् ॥ 31.28 ॥
प्रेमास्पदाभ्रमुरजस्थितिरव्यपाय-
लक्ष्मीपरिग्रहरुचिप्रचलाकिशोभः।
योऽभ्यागमेषु हतदुन्दुभिरेति भद्र-
कालीविलासमधरस्थितसैंहिकेयः ॥ 31.29 ॥
नागाधिपोऽपि दधदस्खलितामशेष-
भोगाशयां स्थितिमुदूढगुरुक्षमो यः।
तन्वन्विनिद्रकुमुदश्रियमप्यभीक्ष्ण-
मैरावतो युधि विराजति सुप्रतीकः ॥ 31.30 ॥
देहत्विषाम्बररुचा भुवनानि यश्च
व्यापारिपुच्छलतया युधि रोचमानः।
यस्य त्रिविष्टपसदामतिवल्लभस्य
विस्पष्टडिण्डिमरुतां स्तितिरेति लक्ष्मीम् ॥ 31.31 ॥
पर्याप्तदानवपुषा दनुचेष्टितेन
सादृश्यमाश्रितवताप्यत येन लीला।
यस्याविपन्नयजुषा श्रुतिवर्त्मनेव
लक्ष्मीरभारि चरितेन गुरोर्गजानाम् ॥ 31.32 ॥
तुङ्गं वपुः सकलहास्तिकभङ्गबद्ध-
कक्ष्योऽतिनास्तिक इव स्फुटसाधनश्रीः।
विस्तारिचक्रमिव राशिमयं बिभर्ति
योऽनेकदामकरकुम्भकरालशोभम् ॥ 31.33 ॥ (षड्विंशत्या कुलकम्)
आलीनरत्नकमले कलधौतपङ्क-
पिङ्गीकृताम्भसि स नाकसरित्प्रवाहे।
आमज्जतो मणिमृणाललतासनाथ-
चञ्चून्ददर्श सलिलेश्वरवलाहहंसान् ॥ 31.34 ॥
सङ्ग्रामभग्नबहुलासुतशक्तिलग्न-
घण्टासनाथपृथुपीवरकण्ठभागम्।
ऐक्षिष्ट कासरमसौ समवर्तिनोऽथ
मन्दाकिनीसरसकाञ्चनकर्दमाङ्कम् ॥ 31.35 ॥
तस्यानुकूलकलहंसकलापकेलि-
कोलाहलकुलकलहंसकलापकेलि-
लीलाससालसविसाध्वससारसासु
सारासु रत्नसरसीषु ससार दृष्टिः ॥ 31.36 ॥
मज्जत्सुरेशतरुणीगलितावतंस-
हासाभिराममणिसैकतरोधसोऽसौ।
निर्वण्यं निर्वृतिममन्दरसामवाप
मन्दाकिनीदुहितृका इव रत्नवापीः ॥ 31.37 ॥
विश्राम्यति स्म नलिनीतटवर्त्म वीचि-
पर्यस्तशीकरकणाहतहंसयूथम्।
आसाद्य निर्दलितमौक्तिकचूर्णरेणु-
संसक्तसान्द्रसिकताशिशिरीकृतं सः ॥ 31.38 ॥
मन्दाकिनीतटतरोः स ददर्श मन्द-
वाताभिघातचलितेन नवांशुकेन।
ऐरावतीयदशनव्लणपट्टबन्ध-
माबन्धुरं विदधतीमिव कल्पवल्लीम् ॥ 31.39 ॥
दोलायमानमणिकुण्डलचारुरत्न-
काञ्चीकलापचरणाभरणाभिरामाः।
विस्पष्टभेदमवलोकयति स्म कल्प-
वल्लीः स नाकललनाश्च सुवर्णगौरीः ॥ 31.40 ॥
विस्तीर्णकाञ्चनलतागृहजृम्भमाण-
संभोगदेवमिथुनं मुमुदे विलोक्य।
सिद्धाङ्गनाकरविलुप्तनवप्रवाल-
मन्दारवृक्षमथध नन्दनकाननं सः ॥ 31.41 ॥
संचरिहंसमिथुनाञ्चितचारुपाद-
मुद्राङ्करत्नसिकताञ्चितचारुपाद-
पश्यन्नसौ तदुकण्ठनिविष्टहेम-
वापीर्विनिद्रकमलाश्चिरमभ्यनन्दत् ॥ 31.42 ॥
ऐक्षिष्ट स त्रिदशकाननसङ्गिरङ्ग-
दग्रे कुरङ्कुलमाकुलिनान्तरिक्षम्।
रत्नप्रभाखचितसूक्ष्मशरीरपक्ष्म
तारामगस्य विदधत्परिवारलीलाम् ॥ 31.43 ॥
माणइक्यपल्लवमयूखसिखावलुप्त-
च्छायावितानमपि तत्र स पारिजातम्।
सच्छायमेव च ददर्श नभःपुरंध्रि-
हस्ताम्बुजावचितकोमलरत्नपुष्पम् ॥ 31.44 ॥
विस्तारशालिविलसन्मणिपल्लावाग्र-
निर्गच्छदच्छकिरणप्रकरच्छलेन।
रत्नालवालवलयान्तरवर्ति पीत-
मभ्युद्वमनतमतिभूरिभरादिवाम्भः ॥ 31.45 ॥
नाकाङ्गनारुणतलाङ्गुलिचक्रवाल-
संदेहिताभिनवपल्लवपाणिलूनैः।
अभ्युन्मिषद्भिरपि तत्समकालमेव
लक्ष्मीं वहन्तमपरापररत्नपुष्पैः ॥ 31.46 ॥ (तिलकम्)
इत्युत्तरोत्तरविशेषविलोकनेच्छा-
विस्मेरतामुपगतः शशिमौलिदूतः।
रत्नप्रभाखचितकाञ्चनतोरणाग्र-
वर्ती मुहूर्तमभतत्पुरुहूतपुर्याः ॥ 31.47 ॥
यस्यां बिभर्ति मणिमन्दिरमिन्द्रनील-
माणिक्यसालवलयान्तरसंनिविष्टम्।
विस्तारशालिमधुसूदनबाहुदण्ड-
मन्दीरध्यगतमन्दरशैललीलाम् ॥ 31.48 ॥
यस्यां स्फुरन्मरकतारुणरत्नहर्म्य-
भित्तिप्रभापटलसंवलिता वहन्ति।
चन्द्रांशवः कुरबकद्रुमपुष्पता (ना?) ल-
वृन्दश्रियं हरितपाटलतामवाप्ताः ॥ 31.49 ॥
वैदूर्यपट्टघटिताररिभिर्निशासु
दूरादपावृतमुखैरिव दृश्यमानैः।
द्वारैर्बिभर्तिपिहितैरपि यत्र लक्ष्मी-
मभ्रंकषा प्रतिदिशं मणिहर्म्यपङ्क्तिः ॥ 31.50 ॥
प्रतिककुभमयत्नपूर्वमारादुपवनकल्पलतांशुकानि यस्याम्।
सुरभयति गवाक्षमार्गनिर्यत्प्रचुरतरागुरुधूपसौरभश्रीः ॥ 31.51 ॥
यस्यां विभाति निशि चन्द्रकरावमृष्ट-
हारेन्दुकान्ततरलच्युतमङ्गनानाम्।
आबद्धबिन्दुपटलाननचन्द्रबिन्ब-
निर्यत्सुधाशिशिरनिर्झरशोभमम्भः ॥ 31.52 ॥
यत्रेन्द्रनीलवलभीविवराभिनिर्य-
दंशुच्छटापटलधूसरितानुबन्धाम्।
धत्तेतरामतनुमत्सरसैहिकेय-
निष्पीतमुक्तमलिनामिव कान्तिमिन्दुः ॥ 31.53 ॥
यत्र दधति सुरयुवतयः श्रियं भास्वदसितमणिभवनसंगजाम्।
व्यूढसलिलभरजलदमण्डलप्रेङ्खदचिररुचिरुचिरविभ्रमाः ॥ 31.54 ॥
क्लान्तिं रतान्तचजनितां श्लथयन्ति यत्र
माणिक्यमन्दिरगवाक्षपथप्रविष्टाः।
अभ्यर्णवर्तिसुरनिर्झरिणीतरङ्ग-
भङ्गनुसारसिशिरा मरुतोऽङ्गनानाम् ॥ 31.55 ॥
यस्यां नभस्चरगणेन विदूरदेश-
संस्थेन सालवलयं कलधौतदिग्धम्।
आलक्ष्यत भ्रमदलातशिखाकृशानु-
लेखानिबद्धपृथुचक्रकरालशोभम् ॥ 31.56 ॥
यस्यां भूत्यानुज्झितो नीलकण्ठच्छायारम्भो भोगिनाथैरशून्यः।
धत्ते शोभां देहलीनां गृहौघः क्षमाभृत्कन्यामुन्नतात्मेव शंभुः ॥ 31.57 ॥
दीर्घाकृतामिव विलोचनयोर्युगेषु
संपिण्डितामिव कपोलकुचस्थलीषु।
विस्तारितामिव नितम्बतटे बिभर्ति
लावण्यकान्तिमबलाजनता च यस्याम् ॥ 31.58 ॥
चन्द्रोदये भवनचन्द्रमणिप्रणाल-
विष्पन्दमानजलनिर्झरसिक्तमूलैः।
यस्यां शिशूपवनपादपचक्रवालै-
रालिङ्गच्यते प्रतिदिशं सकलर्तुलक्ष्मीः ॥ 31.59 ॥
रामाभिरामश्च विदूरजाश्मप्रासादराशिर्निशि यत्र धाम्रा।
हतप्रसर्पन्मृगरूपचिह्नतेजस्विमारीचबलश्चकास्ति ॥ 31.60 ॥
ज्योत्स्नाछटाधवलकेतनवैजयन्ती-
व्याजेन निर्जितविचित्रपुरान्तरोत्थम्।
या दिङ्भुखेषु शशिदीधितिपाण्डु मूर्त-
मालक्ष्यते शश इवाविरलं किरन्ती ॥ 31.61 ॥
निबिडमपि निबद्धानूरुणा रत्नहर्म्य-
स्थलघटितशिखण्डिव्रातकेकारवार्ता।
विवलितफणचक्रं यत्र मार्गागतस्य
श्लथयति रथबन्धं भास्वतो भोगिपङ्क्तिः ॥ 31.62 ॥ (षोडशभिः कुलकम्)

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये स्वर्गाभोगवर्णनं नामैकत्रिंशः सर्गः।