३०

.

हरविजयम्

एकोनत्रिशः सर्गः।

इति स्फुरत्किसलयपाटलार्चिषि स्फुटोदये सवितरि सौखसायिकाः।
अविस्खलत्सुललितबन्धया गिरा गरीयसां गुरुमुपतस्थुरीश्वरम् ॥ 29.1 ॥
विमुच्यतां शयनतलं दिवाकरः करोत्करैर्विदलितविद्रुमारुणैः।
करोत्यसावुदयमहीभृतः क्रमात्परिस्फुरन्स्फुटमिव मद्मरागताम् ॥ 29.2 ॥
क्रमादिमास्तव भवनेषु भानुमत्प्रभाहतास्तदुपलसालभाञ्जिकाः।
पृथून्मिषद्दहनकणोत्करच्छलात्तमश्छिदः सुवत इवार्यमार्भकान् ॥ 29.3 ॥
अयं क्षंणाद्दयिततमेन भानुना समागमस्तव भवतीति शंसितम्।
स्फुरत्पदस्तरलितमौषसानिलैः कुशेशयं नयनमिवाम्बुजश्रियः ॥ 29.4 ॥
विवस्वतो विचकरुषः क्षपातमः स्फुटज्जपाकुसुमविपाटलास्त्विषः।
विभान्त्यमूर्नभसि सुवर्णगैरिकच्छटा इवासितमणिपट्टकुट्टिमे ॥ 29.5 ॥
श्रितोदये हततिमिरोत्करे जना ददुर्दृशो दिनकृति बद्धसंभ्रमाः।
खवर्त्मनो मुमुचिषि शीतरोचिषि च्युतः पदान्न भवति गौरवास्पदम् ॥ 29.6 ॥
ततस्तदीरुदयगतार्यमाश्मनामहस्करे करनिकरैः स्पृशत्यदः।
पिशङ्गितं गगनतलं विभाव्यते तदुत्थया दहनरुचेव संध्यया ॥ 29.7 ॥
दिनक्षियो मुखमरुणारुणप्रभापिशङ्गितस्फुटघनमेधराजिकम्।
विराजति प्रतिनवकुङ्कुमच्छटाकृतत्विषं दधदिव पत्त्रमञ्जरीम् ॥ 29.8 ॥
अपारयन्त्युपहतशीतदीघितिप्रभामिवाहिमकरधामसंपदम्।
निमीलितातनुतरतारकाधुना विभावरी विशति महीध्रगह्वरम् ॥ 29.9 ॥
निनाय यद्विरहविजृम्भणाकुलो विबावरीं कथमपि साभ्युपागता।
विलोकिता दयिततमा तथा मुदं तनोति नो रजनिवियोगिपत्त्रिणः ॥ 29.10 ॥
यथा शशी पिपतिषुरस्तपर्वते नवांशुमत्किरणविरुग्णचन्द्रिकः।
करोत्यहो अपि निजसंपदः स्फुटं द्विषद्गता विपदधिकं सुखोदयम् ॥ 29.11 ॥ (युगलकम्)
स्मरातुरप्रियतमपाणिजक्षतीर्निशागमे नवनिहिता मृगीदृशाम्।
नयन्नसावधिकमनोज्ञरागतां नवातपो निपतति गण्डमण्डले ॥ 29.12 ॥
विकासिभिर्दिशि दिशि गर्भनिर्भरस्रवन्मधुग्रहणाधियेव सत्वरम्।
सरोरुहैर्दलपटलच्छलान्मिथः प्रसार्यतेऽरुणमणिशुक्तिमण्कडलम् ॥ 29.13 ॥
तनोत्यसौ नवसुशकोटिदष्ट्या विभावरीजलकणमालया स्थली।
रसायुषामुपरि भरेण घूर्णतां विपाण्डुरच्छविकुसुमोद्गमभ्रमम् ॥ 29.14 ॥
घनैरिवातनुतरचन्द्रकच्छलस्फुटामरायुधशतसोभिभिर्दिशः।
धुतैरमी विदधति पिच्छमण्डलैः शिखण्डिनो रजनिपयः परिप्लुताः ॥ 29.15 ॥
अधिक्षपं धवलकपोलमण्डलस्फुटोदितप्रतिमतया मृगीदृशाम्।
तदाहितामिव परिपाण्डुरश्रियं दधत्यमी तव भवनप्रदीपकाः ॥ 29.16 ॥
उपेयुषीं कमलरजोवृतेक्षणो न वीक्षते रथचरणाह्वयः प्रियाम्।
सुखं चिरादुपनतमप्यसंशयं व्रजत्यहो विधिहतकस्य दूरताम् ॥ 29.17 ॥
विभावरीविरतिहतस्य दुन्दुभेः कृतव्यथं स्वनमवकर्ण्य कामिभिः।
पुनस्तरां क्षणशयितैर्निमील्यते विलोचनं रतरसजागरारुणम् ॥ 29.18 ॥
प्रभातजं विरहपरिप्लवं वधूरचिन्तयन्त्यनुनयमग्रहीन्नया।
यियासते सुहृति न सा न दूयते कुतोऽथवा सुखमनुदर्कदर्सिनाम् ॥ 29.19 ॥
न निष्ठता ननु रजनी विलम्ब्यतां तदागमे पुनरपि मा कृथाश्चिरम्।
इति स्रवन्नयनजलं प्रियोदितं गतं प्रति श्लथयति कामिनो मनः ॥ 29.20 ॥
निशीथिनीव्यपगमदुन्दुभिस्वनैर्विनिद्रतामपि सहसाब्युपागता।
यियासुरप्यभिमतकण्ठगोचरं न कामिनी श्लथयति बाहुपञ्जरम् ॥ 29.21 ॥
वियोगजां शुचमसहैर्व्यपोहितुं निकेतनैरुषसि निषिध्यतेऽधुना।
अपावृतप्रकटकवाटसंपुटस्फुटारवैर्गमनमिवाञ्चितभ्रुवः ॥ 29.22 ॥
अदः क्रमाद्विकचनितम्बकाननद्रुमान्तरक्षणघटितं दिवः पतत्।
विराजति स्फुटविहगाण्डमण्डलश्रियं दधद्ग्रहकुलमस्तभूभृतः ॥ 29.23 ॥
दिगङ्गनानवकलधौतमेखला नभस्तलोदधिवडवानलत्विषः।
निशातमः क्षतधरवज्रकोटयो विभान्त्यमूश्तरणिरुचोऽरुणोद्गताः ॥ 29.24 ॥
बिभर्त्यसौ पृथुतरमण्डलोरसा विभावरी दृढपरिरम्भविभ्रमैः।
शशच्छलाच्छिशिरकरस्तदुन्नतस्तनासितागुरुनवपत्त्रमञ्जरीम् ॥ 29.25 ॥
स्फुटोदयः पुनरपि बन्धविप्लवं पुरा तव व्यपनयति क्षपाकरः।
प्रतीक्ष्यतां तदवधिरत्र मा कृथा मनागपि क्षपितगुरुश्रियं शुचम् ॥ 29.26 ॥
हतप्रभे शशिनि गतेऽस्तगह्वरं विहाय तद्वपुरवतीर्णमम्बरात्।
इति क्वणन्मधुपमिषेण लाञ्छनं कुमुद्वतीमिव खलु धीरयत्यदः ॥ 29.27 ॥ (युगलकम्)
मधुस्पृहानिभृतनिलीनषट्पदं कुशेशयं हृदयमिवारविन्दिनी।
बिभर्त्यसौ तपनवियोगसंज्वरज्वलच्छिखाशतशिखिदाहधूसरम् ॥ 29.28 ॥
अचन्द्रिकामलयजपङ्कचर्चना अतारकागणमणिमेखलागुणाः।
दिगङ्गनाः शशिविधुरा इवाधुना दधत्यमूर्लुलिततमःकचां श्रियम् ॥ 29.29 ॥
शशित्विषं त्वरितमिवोदराश्रयां रिरक्षिषुर्दिनकररश्मिविप्लवात्।
असावितः कृतनिबिरीससंपुटं कुमुद्वती रचयति पत्त्रमीलनम् ॥ 29.30 ॥
पपौ तरां प्रियतमया समं मधु प्रतिक्षपं दलशयनेष्वशेत यः।
रसायुषः शशीधर तस्य सांप्रतं समञ्जसं सह कुमुदेन बन्धनम् ॥ 29.31 ॥
तथा स्वपन्मधुरसपानमत्तताविचेतनः सरसिजकुक्षिकोटरे।
यथा क्रमादविदितबन्धनव्यथः शिलीमुखः स्फुटमधुना विबुध्यते ॥ 29.32 ॥
दधद्वपुर्विकसितकेतकीरजोविरूषितं कुमुदवनाद्विनिर्गतम्।
विपाण्डुरं तदुदरवर्तिचन्द्रिकाच्छटाशतस्नपितमिवालिमण्डलम् ॥ 29.33 ॥
श्रितोदयारुणकरटङ्ककुट्टनाविघट्टितं दिशि दिशि धाम भासुरम्।
गलत्यदः सवितुरिवास्तपर्वतभ्रमार्पितस्फुटवपुषः क्षपापतेः ॥ 29.34 ॥
समुन्मिषत्तरणिकराभिघातभीपरिप्लुते शशितिमिरे शशच्छलात्।
सहस्थिते इव सुरनाथ नश्यतो विरोधिता विपदि परस्परं कुतः ॥ 29.35 ॥
स्फुटाक्षताञ्चितखचितोडुशारतामुपागते फलक इवाम्बरेऽधुना।
श्रितोदयापरगिरिविष्टरावुभौ दुरोदरं तनुत इवेन्दुभास्करौ ॥ 29.36 ॥
मृणालिनीदलभिदुरं यथा यथा समुन्मषत्यहिममरीचिमण्डलम्।
तिरस्कृतावतमसराशिमण्डलं तथा तथोन्नमदिव लक्ष्यते नभः ॥ 29.37 ॥
अधश्च्युतं मम वपुषोऽर्धमित्यपि क्षपाकृता भ्रममभिवीक्ष्य बिभ्रता।
जलाशयप्रतिमितमस्तपर्वते जिघृक्षुणा तदिव दिवोऽवतीर्यते ॥ 29.38 ॥
इतोऽधुना गिरिगुरुघातघट्टनाविघूर्णितार्णवजलदेवतेव ते।
मनोरमामलिततिमिश्रितां श्रियं बिभर्त्यसौ भव भवनारविन्दिनी ॥ 29.39 ॥
सरागतां ककुभि गतः शतक्रतोः क्रमादमूं जिगमिषसि प्रचेतसः।
सहासमित्यलिकुलहुंकृतैरिव प्रभाकरं कथयति नाथ पद्मिनी ॥ 29.40 ॥
शिलीमुखः सरसिजपक्ष्मपेशलं विलम्बितं निगडमिवार्धविच्युतम्।
दधन्मधुव्यतिकरलग्नमङ्घ्रिणा विसर्पति च्वरितमपोढबन्धनः ॥ 29.41 ॥
अहर्पतेश्चिरमनिमेषदर्शनक्लमादिव स्रुतघनबाष्यशीकरम्।
सरोजिनी रजनिपयः परिप्लुतं बिभर्त्यसौ विकसितमब्जलोचनम् ॥ 29.42 ॥
शिलीमुखा विधुतपतत्त्रमारुतप्रसारितैरुषसि सुगन्धयन्त्यमी।
दिशोऽधुना निजतनुलग्नविस्फुटत्कुशेशयोत्करमकरन्दसीकरैः ॥ 29.43 ॥
सरःश्रियः शफरुकशोभिनोऽम्बुजात्सविभ्रमभ्रमरघटा विवस्वता।
इतोऽधुना शितिमणियष्टिमण्डलीविडम्बिका करनिकरेण कृष्यते ॥ 29.44 ॥
मनोरमस्मितहसितां परिस्रवन्निशाजलस्फुटरुदितोत्पलेक्षणाम्।
इतोऽधुना श्रितकिलकिञ्चितामिव प्रभाकरो रमयति नाथ पद्मिनीम् ॥ 29.45 ॥
भुजालतामशिथिलकण्ठवर्तिनीं रतोत्सुका दयिततमस्य कुर्वती।
विजृम्भते किल विनिमग्नपीवरस्तनद्वया तदुरसि मत्तकाशिनी ॥ 29.46 ॥
रतोत्सवप्रमदविशेषपीवरे पराप्नुयात्कथमिव तेऽत्र मेखला।
नितम्ब इत्यभिदघदुच्चकैः शुकः सहासतामुषसि करोति सुभ्रुवः ॥ 29.47 ॥
न लाघवं वलनविलासविभ्रमे विलोकितं क्वचन मयेदृशं तनोः।
कलारवैर्वदति नितम्बमण्डले नियोजिता मधुरमितीव मेखला ॥ 29.48 ॥
निशीथिनीं सममतिवाह्य कामिना व्रजत्यसावुषसि मुहुः स्खलन्त्यपि।
तदुत्सुका गलितधृतिः प्रतिक्षणं निरीक्षते विवलितकंधरं वधूः ॥ 29.49 ॥
समुत्थितः शयनतलात्क्षमारजश्छटाहतोबयपृथुपार्श्वविग्रहः।
दधत्सदानवमथुरागतः श्रियं मतदङ्गजोऽपर इव लक्ष्मणाग्रजः ॥ 29.50 ॥
नमस्वतामुदवसितोदरोत्थिताः सुगन्धितां विदधति वासरेणवः।
पतन्त्यमूर्ग्रहततयो दिवाकरप्रभाहता दिशि दिशि वासरेऽणवः ॥ 29.51 ॥
सरोजिनी पयसि हृदीव बिम्बितं श्रितं तटानहिमकरं दधार या।
तयालयः स्फुटितकुशेशयोत्थया न तोषिता नहि मकरन्दधारया ॥ 29.52 ॥
एषा विशालविशिखामुखविप्रकीर्ण-
हर्म्योपकारकुसुमप्रवणालिपङ्क्तिः।
मर्कांशुभिन्नमनुसोचति तारनादैः ॥ 29.53 ॥
सत्कर्णिकाकनकविष्टरसंनिविष्ट-
मूर्तिर्निजं कमलकेसरपानसङ्गात्।
रोलम्बचक्रमुपरि भ्रमणानुबन्धि
पारिप्लवत्वमिव शिक्षयतीश लक्ष्मीः ॥ 29.54 ॥
भाति द्विरेफकुलमुज्झितनैद्रतन्द्र-
रक्तारविन्दमकरन्दसपीतिलग्नम्।
अध्यूषुषा शतमखेन मृणालसूत्र-
गर्भं विलोचनसहस्रमिव व्यपास्तम् ॥ 29.55 ॥
लोकान्तरं जिगमिषोः शशिनः प्रचण्ड-
भानुप्रतापविधुराश्चिरमस्तशैलगः।
तारावरोधनवधूः शिरसा बिभर्ति
तुङ्गात्मनां समुचितं ध्रुवमेतदेव ॥ 29.56 ॥
चेतो दुनोति सुदृशां ननु तारनाद-
निष्ठो वियोगविधुरं रणितेन शङ्खः।
व्यक्तं प्रकाशयत एव बहिर्विशुद्धि-
मत्यन्तवक्रहृदयाद्बत कस्य शान्तिः ॥ 29.57 ॥
कर्णे कुशेशयदृशामुपशल्यवर्ति-
प्रेयोवियोगविषमज्वरकातराणाम्।
क्रौञ्चस्य संप्रति गिराशनिधारयेव
मर्मच्छिदा करकरायितमापतन्त्या ॥ 29.58 ॥
आप्रश्नपूर्वमुपगूढवतः प्रियस्य
बाष्पाम्बुपूरपिहितातनुलोचनायाः।
चक्रीकृतौ मदनलासककांस्यताल-
लीलां स्तनौ मृगदृशः क्षणमीश धत्तः ॥ 29.59 ॥
प्रत्यग्रदंशजनितश्वयथून्सलील-
मम्बोजकोमलकराङ्गुलिकोटिभागैः।
बिम्बाधरान्मधुरसीत्कृति संस्पृशन्त्यः
कान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥ 29.60 ॥
भ्रूविभ्रमं विदधतो बहुधैवतं त-
मास्फालिताविकलनिःस्वनवल्लकीकाः।
गायन्ति किंनरपुरंध्रिगणाः शशाङ्क-
मौले विभातसमये तव भिन्नषड्जम् ॥ 29.61 ॥
भ्रमणविधुतपक्षैः पीतमाकाश एव
प्रतिककुभमकुण्ठोत्कण्टमाराद्ध्विरेफैः।
दलपटलविकासस्थूलबिम्बाम्बुजोत्थं
विकिरति मकरन्दक्षोदमुच्चैः समीरः ॥ 29.62 ॥
इति गिरमुपकर्ण्य प्रेयसीबाहुबन्ध-
व्यतिकरकृतरत्नावापकव्यक्तचिह्नम्।
असकलशशिमौलिः कण्ठपीठं दधानः
सुरभिपरिमलाङ्कं हेमपर्यङ्कमौज्झीत् ॥ 29.63 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजावकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये भगवत्प्रबोधनं नामैकोनत्रिंशः सर्गः।