.
हरविजयम्।
अष्टाविंसः सर्गः।
अथ तपनभयान्निशाङ्गनायाः शशधरमण्डलदर्पणेऽस्तसानौ।
उषसि निपतिते नवोडुपङ्क्तित्सरुमणिसृङ्खलयान्यतो विशश्रे ॥ 28.1 ॥
अभिमतजनभाविविप्रयोगज्वलरविधुरा विदधे यदारवैः स्त्री।
अकृत हृदयशून्यतानुरूपं तदवसितक्षणदाहतो मृदङ्गः ॥ 28.2 ॥
दयिततमभुजोपधानलीलासुखविनिषण्णतनुर्निसर्गमुग्धा।
न खलु किल विभावरी गतेति क्षणविनिमिलितदृष्टिरेव तस्थौ ॥ 28.3 ॥
सपदि विगलितप्रबेन्दुवक्त्रा शिथिलगतिः स्मरसङ्गिनां त्रियामा।
तनुतिमिरनिरुद्धतारकश्रीयथ रतये न बभूव यातयामा ॥ 28.4 ॥
अलमतिवलनेन देहयष्टेः सुतनु तनुस्तव भङ्गमेति मध्यः।
इति कलरणिने कम्बुपङ्क्तिः सदृशमिवाभिदधे विजृम्भमाणाम् ॥ 28.5 ॥
दृढतरपरिरम्भविभ्रमेण प्रियहृदये हृदयं तदा नतभ्रूः।
द्रुततरमिव भ्राविविप्रयोगक्षतधृति संगमयांचकार काचित् ॥ 28.6 ॥
बभुरतनुदृशां तथा न पूर्वं सतिलकपत्त्रलताःक कपोलभागाः।
प्रतियुवतिविरूक्षकाक्षिदृष्टाः प्रियदशानाङ्कभृतो यथा प्रभाते ॥ 28.7 ॥
उदयगिरितटे तिरोहितस्य स्फुटमिव मातुमशेषमण्डमूर्ध्वम्।
विरलिततमसः कराः शितांशोर्द्रुतमुदहासत हासितारविन्दाः ॥ 28.8 ॥
अधिगगनतलं परिस्फुरन्ती कपिशिककौशिकदिङ्भुखा बभासे।
दिनकररथबन्धतान्तबोगिश्वसितकृशानुशिखावलीव संध्या ॥ 28.9 ॥
उदयशिखरिशृङ्गमुष्णरश्मिः प्रचुरतरा विधुतापदस्तदानीम्।
सरभसमभजन्निशावसाने सपदि दिशस्तदबीषवश्च दीर्घाः ॥ 28.10 ॥
दधति दृढतमं तमांसि मांसीमलनमलीमसभांसि मांसलत्वम्।
उषसि चकरिरे विभाकरस्य प्रलयविभावसुभासुरैः कराग्रैः ॥ 28.11 ॥
प्रतिककुभमधोगलन्ति संध्याकपिशितभांसि कुलानि तारकाणाम्।
विदधति भुवनारविन्दकोषच्युतमधुशीकरबिन्दुवृन्दलीलाम् ॥ 28.12 ॥
दिवसगजपतेर्मृगङ्कलेखाधवलमृणालसकनाथपुष्करस्य।
श्रियमभिमुखमाप चीनपिष्टप्रकरकरालरजश्छटेव संध्या ॥ 28.13 ॥
गगनमकुरुत परभाभिरुद्यन्नवशवलन्नयनाभिरुष्णरश्मिः।
उषसि ददृशिरे च कामिनीभिः सरसविवर्तितकंधरं युवानः ॥ 28.14 ॥
प्रतितदिशमुडुरत्नराशयोऽथ स्तिमिततमोबिदुरत्विषः प्रणेशुः।
दिनकरकिरणैः समुन्मिष्द्भिः सपदि कुवैकटिकैरिवानुविद्धाः ॥ 28.15 ॥
स्फुरितबहुवसाध्यरागवह्नौ सतिमिरधूमशिखेऽम्बराम्बरीषे।
उषसि विरलभृज्यमानलाजाश्रियमुडुसंहतयः क्षणं वितेनुः ॥ 28.16 ॥
मदविगलितलज्जया युवत्या दयितहृताम्बरयास्मि न व्यपास्तः।
इति पवनविधूर्णितः प्रभाते प्रमदवशादिव नृत्यति स्म दीपः ॥ 28.17 ॥
स्फुरदमलरुचिः प्रभातवेला दिशि दिशि संदधती प्रबोधजृम्भाम् ।
प्रसरदतनुसौरभाभिरामा श्रियममलामरविनदिनीव दध्रे ॥ 28.18 ॥
दिशि दिशि मकरन्दपानलोमभाद्द्रुतमुपरि भ्रमरैः परिभ्रमद्भिः।
प्यधिषत कुमुदानि भानवीयं करपरिमर्शमिवाभितो निरोद्धुम् ॥ 28.19 ॥
अधिशिषयिषमाणमप्यधत्त भ्रमरकुलं नलिनीं तथैस्य दूरात्।
क्षणसमयमलप्स्यतावकाशं तरणिरुचो न यशाशु तां विभेक्तुम् ॥ 28.20 ॥
दलितकमलकुड्मलाभिरामस्फुटतरसौरभवासितो नभस्वान्।
सलिलमभिसरन्सरोरुहिण्या हृदयमिवोत्कलिकाकुलं चकार ॥ 28.21 ॥
व्यरुचदथ सरोजिनी मनोज्ञस्थितिचतुरभ्रमरा सहंसपक्षा।
स्फुरितविशदशोभिनालपद्मा सततमसंयुतहस्तसंहतिश्रीः। 28.22 ॥
तरणिकिरणदण्डघट्टनाभिर्विघटितसंतमसत्वचोऽम्बरस्य।
स्फुरजरुणकरातपच्छलेन क्षतजमिव प्रतिबद्धमाविरासीत् ॥ 28.23 ॥
ददुरुषसि विनिद्रपुण्डरीकप्रकरपरागपिशङ्गितान्तरिक्षाः।
अविरतरतमर्दतान्तकान्ताकुचकरजक्षतिनिर्वृतिं समीराः ॥ 28.24 ॥
दिनकरकरघातताडितं सद्रजनिजलाश्रुपरिप्लुतं तदानीम्।
कुमुदनयनमाशु कैरविण्याः प्रबलरुजेव कृतव्यथं न्यमीलत् ॥ 28.25 ॥
उदयति हरिदिभ्भुखारुणाम्भःसरसविशेषकबिन्दुमण्डलेऽर्के।
स्तिमिततमतमालखण्डनौलैरमितमामभितैस्तमीतमोभिः ॥ 28.26 ॥
क्रमविघटितशार्वरान्धकारस्फुटतरकूटविशङ्कटं तदानीम्।
दिशिदिशि ददृशेऽम्बुराशिमध्यात्त्वरितमिवोत्तरदद्रिचक्रवालम् ॥ 28.27 ॥
अनुकृतभुजगेन्द्रभोगशय्यासुखविनिषण्णमुरारिनाभिचक्रम्।
श्रियमुषसि सरः सदर्पसर्पन्मधुकरकम्पितपुण्डरीकमापत् ॥ 28.28 ॥
दिनकरकिरणप्रवालवल्लीवलयभृतः स्फुरितोडुपात्तशोभात्।
भुवनपुलिनसीम्नि भासुरश्रीर्दिवसमणिः प्रससार कालसिन्धोः ॥ 28.29 ॥
कुमुदमुषसि संकुचत्सखेदः कमलमहो विकसत्प्रहृष्टचेताः।
उभयरसविसंस्थुलो रसायुर्मधुरमधुस्रुतिनिर्भरं लिलेह ॥ 28.30 ॥
उदयगिरिशिखागावक्षभूमौ भुवनविलोकनकौतुकावसक्तम्।
मुखमिव दिवसश्रियो विरेजे धृतनवकुङ्कुमलेपमर्कबिम्बम् ॥ 28.31 ॥
अथ विशदहिमासशुरश्मिभिन्नस्फुटदलसंधिविमुक्तबद्धभृङ्गम्।
उषसि कुमुदकाननायमानं कमलवनं बिभरां चकार लक्ष्मीम् ॥ 28.32 ॥
मृदुमरुदवधूतपक्ष्मपालीभरविगलन्मकरन्दपङ्किलेषु।
मधुमदविवशैः कुशेशयानां दलशिखरेषु शिलीमुखैश्चखञ्जे ॥ 28.33 ॥
प्रविघटितदलाररि प्रभाते मुखरशिलीमुखमङ्खचक्रवालम्।
न कमलपुटभेदनं न चक्रे दिवसकरः स्थितिधाम चारु लक्ष्म्याः ॥ 28.34 ॥
स्फुटमधिगतसंभ्रमा भवन्त्यः शशिनि लिलम्बिषमाणधूम्रबिम्बे।
उषसि मृदुसमीरघट्यमाना विशदमवेपिषताशु कैरविण्यः ॥ 28.35 ॥
विकसितमवलोक्य पुण्डरीकं विरचितसंहति संमदेन तावत्।
मधुरमधुपिपासया पतद्भिर्भ्रमरकुलैर्दुधुवे पतत्त्रपङ्क्तिः ॥ 28.36 ॥
तदनिलरयकम्पिकेसराग्रस्खलितरजःस्थगितेक्षणा न यावत्।
ददृशुरपि सदेशवर्ति तत्ते श्लथयति कातरतेप्सितार्थसिद्धिम् ॥ 28.37 ॥ (युग्मम्)
कमलमुकुलपञ्जरोदरेषु प्रतिहतिरोषविधूतकेसराणाम्।
प्रतिदिशमुदजृम्भत प्रणादो मधुकरकेसरिणां विनिद्रितानाम् ॥ 28.38 ॥
क्षितितलशयनोत्थितस्य पङ्कप्लवमलिनं करटस्थलं करेणोः।
मधुकरनिकरो जहावसाधुव्यतिकरतो नहि किंचिदस्ति सेव्यम् ॥ 28.39 ॥
नवयवयवसानवाप्तिखेदात्खुरशिखरैः खुरधारणीर्लिखन्तः।
जहुरथ परिवर्धकोपनीतं विकटकडङ्गरमाशु घासमश्वाः ॥ 28.40 ॥
द्रुततरमवतीर्य वासयष्टेर्भुजगभुजः प्रतिमागतैः शिखण्डैः।
विविघमणिमयीरिवाशु चक्रुर्नृपतिगृहाङ्गनरनत्नकुट्टिमोर्वीः ॥ 28.41 ॥
अविरमदनुनासिकाभिरामस्फुटतरतारविरावकुञ्चिताङ्घिः।
अविरति विरुराव ताम्रचूडः स्फुरितनतोन्नतकण्ठकंधराग्रः ॥ 28.42 ॥
रविकरपरिमर्शबद्धनिद्रं तदुदरसंकटयन्त्रिता द्विरेफाः।
विघटितदलसंपुटं तथैषुर्भरचलिता निजविग्रहप्रणोदैः ॥ 28.43 ॥
कुमुदमपि यथा क्षणं विनिद्रं सपदि तदुत्प्लवनानुकूलमासीत्।
ननु विवदि विषाददुर्गतानां किमिव हि दुस्तरमस्ति संहतानाम् ॥ 28.44 ॥ (युगलकम्)
द्रुतमयमवमोचयत्यपास्य च्छदपटलोदरयन्त्रणां रविर्वः।
इति कलरणितैरिवाम्बुजानामुपरि चरन्मधुपानुवाच भृङ्गः ॥ 28.45 ॥
दलितसकलशार्वरान्धकारः कृतपरभागगुणं सरोरुहिण्याः।
कमलमनयदुन्मुखत्वमर्कः स्फुटदलमण्डलसच्छ्रियाशु दीप्त्या ॥ 28.46 ॥
दिशि दिशि विहगास्तनूः समन्तादनलसपक्षतयोपचीयमानाः।
उषसि जिगमिषाकुलास्तदानीं दयितवियोगदशा वधूश्च देहुः ॥ 28.47 ॥
क्षपिततरुणखञ्जरीटकणअठस्फुटकरबिन्दुमलीमसान्धकारः।
श्रियमभृततरां सहस्ररस्मिस्त्रिभुवनमण्डलपुण्डरीकबिम्बः ॥ 28.48 ॥
शशधरमणिसालभञ्जिकाभिर्भवनविटङ्कसटङ्कटङ्किताभिः।
दिनकरकिरणाहताभिरिन्दौ विनिपतिते शुशुषे शुचेव सद्यः ॥ 28.49 ॥
अकृत कुमुदिनीविकासमारादहततमस्कममीलितारविन्दम्।
नभसि विगलितप्रभं हिमांशोः पयसि च बिम्बमभिन्नरूपमासीत् ॥ 28.50 ॥
स्फुटदलमणिशुक्तिगर्भपीतस्फुरदरुणातपशीधुशीकरौघः।
मदविवश इव प्रभातवातव्यतिकरतः कमलाकरश्चकम्पे ॥ 28.51 ॥
त्वरितमधिसरोजिनि व्रजन्ती मधुपततिः कुमुदाकराच्चकाशे।
दिवसकरभयात्पलायमाना तिमिरपरिप्लवधूसरेव रात्रिः ॥ 28.52 ॥
विकटभुजगशृङ्कलावनद्धं सपदि रथप्लवमर्यमाधिरूढः।
ग्रहमणिनिचयं जिघृक्षुराप स्फुट इव पोतवणिङ्नभःसमुद्रम् ॥ 28.53 ॥
शुनिभिरधिशिश्रिये वनोर्वी स्फुटमदनानलदाहतापयोगाम्।
स्थितिमुपदधती मनोरथैश्च त्रिदशवधूजनतोषसि व्रजन्ती ॥ 28.54 ॥
उपगतपरत्र वासतेयीं द्रुतमपवाह्य पुनः प्रबातकाले।
क्रुध इव रविमक्षमेक्षितुं द्यौरवनतमिन्दुमुखं चिरं बभार ॥ 28.55 ॥
दिनकरमुदितं निरीक्ष्य चन्द्रः स्फुरिततदंशुशिकावमर्शभीताम्।
स्फुटहरिणनिभेन रात्रिमङ्के दधदिव संभ्रमतोऽस्तशैलमभ्यैत् ॥ 28.56 ॥
त्रिभुवनविपिने कठोरभास्वत्किरणकुठारनिपातलूनमूर्तेः।
स्फुटमलमधुपो निशालतया रजनिकरस्तबकः क्रमेण मम्लौ ॥ 28.57 ॥
दयिततमममुं विधूय तेजो दिनकर मा परिभूर्निशाकरं मे।
इति विरचितकुड्भलाञ्जलिश्रीस्तमतिशुचेव कुमुद्वती ययाचे ॥ 28.58 ॥
मधुकरपटलीं मधुस्पृहान्धामुपरि कुशेशयिनी परिभ्रमन्तीम्।
अरचयुदुषसि प्रियस्य भानोः कुवलयवन्दनमालिकामिवारात् ॥ 28.59 ॥
विशदमधुरसारणानुबन्धक्वणदलपिसंहतिवल्लिकीनिनादैः।
जनितसुखमिव क्षपावसाने कुमुदवनं प्रतिपन्ननिद्रमासीत् ॥ 28.60 ॥
सरीसजमुकुलस्य पार्श्वभूमेर्मधूकरपङ्क्तिरुपात्तमध्यभागा।
हरितमणिसमुद्रकस्य कृष्णा श्रियमभृत प्रकटेव संधिराजिः ॥ 28.61 ॥
अधिनिशमवनेरपूरयद्यान्कपिशितदिग्वलयं तमोऽवकाशान्।
न तपनरुचिभिः पूपूरिरे ते बत मलिनस्य हि भूयसी विभूतिः ॥ 28.62 ॥
क्षपितरजनिरागतोऽपरत्र प्रकटितराग न लज्जसे करैर्माम्।
स्पृशसि यदधुना जहीहि कस्य त्वमित दिनात्ययखण्डनां स्मरन्ती ॥ 28.63 ॥
विरलविषमपत्त्रसंस्थमब्जं चलदलि पल्लवहस्तचारु कृत्वा।
भ्रमरीवरुतिभिर्जगाद सेर्ष्या तपनमितीव सरोजिनी सरोषम् ॥ 28.64 ॥ (युगलकम्)
शरदिव दिवसावतारलीला सकलमकाशतया श्रियान्वितासौ।
क्षततिमिरमला निनाय दूरं सरित इवाशु दिशः प्रसादलक्ष्मीम् ॥ 28.65 ॥
प्रकृतिशुचितया परावमर्शं सपदि विसोढुमिवाक्षमाभिरारात्।
स्पृशति दिनकरे करैः सरागं दिशि दिशि संकुचितं कुमुद्वतीभिः ॥ 28.66 ॥
अरुणकिरणदण्डघट्यमानस्फुटतिमिरौघविषा निशाभुजंगी।
ग्रहगणमणिमण्डिता तदानीं विगलितचन्द्रमरीचिञ्चुकासीत् ॥ 28.67 ॥
दिवसविरतिखण्कडनापराधस्मृतिसरुषोऽम्भसि बिम्बितोऽम्बुजिन्याः।
न्यपतदनुनिनीषयैव भास्चानरुणदलाङ्गुलिपादपद्ममूले ॥ 28.68 ॥
निपतति शशिमण्डलं हहा किं नभसि न दृश्यत एव तारकौघः।
कुमुदवनमितीव गर्भबद्धभ्रमररवैरथ पर्यदेवतारात् ॥ 28.69 ॥
स्फुरदरुणशिखाभिरामयोच्चैरषसि विकासितपद्मयांशुमाली।
त्रिदशपतिपुरेव संदिदिपे विसदमरीचितया श्रियोल्लसन्त्या ॥ 28.70 ॥
द्रुतकनकरसच्छटाभिरामस्फुरदरुणांशुशिखावरुग्णमूलैः।
प्रतिदिशमथ चस्खले तमोभिर्गगनजलाशय कासरायमाणैः । 28.71 ॥
ग्रहमणिशबलं नभःसमुद्रं सपदि लिलङ्घयिषुर्निदाघरश्मिः।
दिशि दिशि विचकार दैर्घ्यभाजः प्लवनरसादिव दूरमंशुबाहून् ॥ 28.72 ॥
दिवसकरकराहतं तदानीमदशनपङ्क्ति कृतावभासहासम्।
अमधुमदकृतामधत्त ताम्रत्विषमरविन्दमुखं कुशेशयिन्याः ॥ 28.73 ॥
उषसि घनतरान्धकारपङ्कव्यतिकरमार्जननिर्मलं कराग्रैः।
अकृत दिवसदर्पणं त्रिलोक्याः कसपदजि विलोकनयोग्यमंशुमाली ॥ 28.74 ॥
कुमुदवनमलं व्ययोजि लक्ष्म्या मुदमजहादतिखेदवानुलूकः।
प्रलयमुपजगाम् तारकौघः सपदि विधौ विधुरत्वमभ्युपेते ॥ 28.75 ॥
स्फुरजरुणपलाशतालु बिभ्रन्नवघनसौरभतामुपोढनिद्रम्।
कमलमुखमजृम्भताभिरामं स्फुटतरकेसरदन्तमम्बुजिन्याः ॥ 28.76 ॥
गुरुकलहरतालसच्छ्रियोच्चैः कृतमकरन्दरसस्पृहा नलिन्या।
दिशि दिशि गुरुनृत्तलीलयेव भ्रमरघटाकुलिता मिथस्तदासीत् ॥ 28.77 ॥
मधुलिहि मकरन्दपानलोभाद्विकसितताम्रदलाग्रभागलग्ने।
दिनकृति कमलेक्षणं नलिन्या रचितकटाक्षमिवोद्ववाह लक्ष्मीम् ॥ 28.78 ॥
क्षयसमयसमीरणाभिघातक्षुभितमिवाथ महासमुद्रमध्यम्।
अभवदुषसि जिह्मयमानकान्ति स्फुटतरलक्ष्ममलं मृगाङ्कबिम्बम् ॥ 28.79 ॥
उदयशिखरिशृङ्गवेदिकायां नवरुधिरारुणकान्ति भानुबिम्बम्।
अनुकृतदिवसप्रवेशलक्ष्मीप्रसवविशङ्कटगर्भशय्यमासीत् ॥ 28.80 ॥
नवविनिहितचीनपिष्टचर्चाच्छुरितविशेषकबिन्दुभानुबिम्बम्।
मुखमभृत तिरस्कृतेन्दुकान्ति स्फुरदरविन्दविलोचनं दिनश्रीः ॥ 28.81 ॥
उषसि विगलितान्धकारपङ्कप्लवशबलं घनवर्त्म दूरमासीत्।
मधुरतरणितापयोगतारं कमलवेन मधुपायिनां च पङ्क्तिः ॥ 28.82 ॥
अविरलशिखिगर्भभानवीयस्फुरितमरीचिवितानधाव्यमानम्।
दिनमभजत सर्वतोऽग्निशौचं वसनमिव क्रमशोऽतिनिर्मलत्वम् ॥ 28.83 ॥
दिशि दिशि दिवसेश्वरस्य पाद्यस्थितिमिव पङ्कजिनी रसेन दित्सुः।
नवकिसलयपाटलान्विरेजे कमलकराग्रपुटान्प्रसारयन्ती ॥ 28.84 ॥
उदितवति दिवाकरेऽस्तशैलद्वलिरदपतिः कुमुदच्छटावदातैः।
श्रियमतनुत भूरिभूतिचर्चाच्छुरित इवामृतदीधितेर्मयूखैः ॥ 28.85 ॥
गुरुविरहशुचा कुशेशयिन्याश्चकित इव क्षणदाम्बुबाष्पबिन्दून्।
विपुलदलवपिलोचनान्तरालादुषसि करैरहिमांशुरुन्ममार्ज ॥ 28.86 ॥
श्रियमभृत दिवाकरः प्रभाते गज इव भिन्नकरालधातुरोधाः।
स्फुरदरुणकराभिगाटभग्नप्रचूरतमालसदञ्चितातनुश्रीः ॥ 28.87 ॥
दिशि दिशि जपतां नवार्करश्मिच्छुरणविपाटलदन्तमालमास्यम्।
श्रियमनुचितगाढनागवल्लीदलकृतरागमिव व्रतेऽप्यवापत् ॥ 28.88 ॥
उदयगिरिगते सहस्ररश्मौ नवकपिशा दिवसावतारलक्ष्मीः।
स्फुरितसरसनालिकाभिरामस्थितिचषकानुचकार पानगोष्ठीम् ॥ 28.89 ॥
प्रकटकुलिशकुन्तचक्रभास्वत्परवलभीहितमत्तवारणाङ्का।
दिशि दिशि ददृशे निशान्तपङ्क्तिः समरविमर्दभुवं विडम्बयन्ती ॥ 28.90 ॥
अमृदु ममृदुषा निशातमस्तद्व्यतिकरदोषमलीमसत्वमाप्ताः।
स्पुरदरुणरुचा रुषेव दूरं दिवसकरेण निरासिरे दशाशाः ॥ 28.91 ॥
उदयगिरिमथोदितो विवस्वान्विचकरिषुः किरणैर्निशान्धकारम्।
स्फुरदरुणिमभिः करैरकरार्षिद्दवदहनैरिव रुद्धसर्वदिक्कम् ॥ 28.92 ॥
ग्रहपटलमशेषमूषुषीभिर्दिनकरदीधितिभिः कृताभिघातम्।
तिमिरमपतदन्तरिक्षमार्गात्कुवलयवृन्दमिवाभ्रनिर्झरिण्याः ॥ 28.93 ॥
क्षितिधरतनयेव पूरिताशा प्रहतनिरर्गलदुन्दुभिप्रणादैः।
श्रियमभृत निशावसानलीला नवमहारागमसंमदं वहन्ती ॥ 28.94 ॥
विघटिततिमिरौघदिग्विभागप्रकटनभस्यभवन्निशावसाने।
स्फुटदलनमनाश्च पद्मखण्डाः सपदि हिमेतरदीघितश्च तेषाम् ॥ 28.95 ॥
दिशि दिशि निशि संभृतं कराग्रैस्तिमिरमनर्गलमर्यमाचखण्डम्।
क्षणमपि सहते नहि प्रगल्भां क्वचिदहितस्य पुरः स्थितिं महस्वी ॥ 28.96 ॥
स्फुरदविरलकेसरार्गलाङ्कप्रकटपलाशकवाटपद्मगेहाः।
मधुपशबरसंनिवेशपल्ल्यो दिशि दिशि शिश्रियिरे श्रियं नलिन्यः ॥ 28.97 ॥
दयितमतिरुषा विलोकयन्त्याः सरसविपक्षनखक्षताङ्किताङ्गम्।
अभवदरुणिताक्ष्णि तत्र नूनं निवासति चित्तभुवः प्रतापवह्निः ॥ 28.98 ॥
प्रमदगलिततारकांशुसारीकृतरुचिरोदरबाष्पबिन्दुभङ्ग्या।
अभिसरति रसार्द्रतां विधित्सुर्द्रुतमपरापरनेत्रमण्डलीव ॥ 28.99 ॥
विकसनरभसेन हृत्प्रवेशप्रसरमिवाभिमतस्य दातुमन्तः।
अपसरतितरां रसातिभारस्फुटतरमन्धरितापि पक्ष्मपङ्क्तिः ॥ 28.100 ॥
सरभसमपि तारकः कथंचिद्व्रजति न यावदपाङ्गवर्त्म दीर्घम्।
सरति सपदि तत्प्रभा पुरस्ताच्चिरमपि तावदिवाक्षमा विसोढुम् ॥ 28.101 ॥
इति दयितविलोकनाभिलाषस्फुरणपृथूभवदात्मनस्तरुण्याः।
स्मरशरतरलाकृतेर्जजृम्भे नयनयुगस्य सरागविभ्रमा श्रीः ॥ 28.102॥ (चक्कलकम्)
श्रुतिपथजुषि तारतूर्यनादे तरलदृशामलसं विकासलक्ष्मीम्।
यदुकुलमिव नेत्रयुग्ममाप्नोदनवमकृष्णवलक्षताभिरामम् ॥ 28.103 ॥
प्रमदभरभृतः कपोलभागात्कमलदृशोऽगुरुपङ्कपत्त्रभङ्गः।
व्यगलदतनुबाष्पपातभिन्नो ननु मलिनस्य कुतश्चिरं व्यवस्था ॥ 28. 104 ॥
प्रथममतनुरागसंपदं तां चरममनुज्झितपूर्वरूपशोभाम्।
उषसि रुचमवाप्य साधुमैत्त्रीं न खलु तरां जहृषुर्न चक्रवाकाः ॥ 28.105 ॥
धवलबिसलता रसेन कोकः प्रविकटचञ्चुपुटोद्धृताश्चखाद।
क्रुध इव शशिनो वियोगहेतोरेगगनतलात्पतिताः कलाः कथंचित् ॥ 28.106 ॥
रससि विकटचञ्चुकोटिलग्रां सरभसवृत्तिरुपेत्य चक्रवाक्याः।
हृद इव विरहव्यथाशलाकां बिसकलिकां विचकर्ष चक्रवाकः ॥ 28.107 ॥
चञ्च्वग्रशण्डितमुखाद्विचकर्ष सूत्र-
जालं मृणालशकलात्क्षणदाप्रियस्य।
रन्ध्रोदरेषु करचक्रमिव क्रुधेन्दोः ॥ 28.108 ॥
विस्रस्तपत्त्रपुटकेसरकोटिदष्ट-
पर्यन्तभागविकटोन्नतकर्णिकाग्राः।
उच्छ्वासभग्नहरितच्छवयोऽर्करश्मि-
जालैरजृम्भिशषत पङ्कजकोषदण्डाः ॥ 28.109 ॥
दिक्पद्मिनीपरिसरास्फदताम्रपादः
कुर्वन्विकासिषु रुचिं नलिनेषु हंसः।
आपीवरोडुपतिबिम्बमृणालदण्ड-
खण्कडाच्चकर्ष शनकैः करसूत्रजालम् ॥ 28.110 ॥
आपातभीतिनमितोन्नमितार्धदेह-
बद्धस्थिरक्रमविधूतपतत्त्रपङ्क्तिः।
उच्चैः क्वणन्नवततार निवासयष्टि-
कोटेः शिखी विधुरयन्विरहातुराः स्त्रीः ॥ 28.111 ॥
अभ्युत्तिता शयनतसत्वरितं यियासुः
संपीडितोच्छ्वसितनीविनितम्बबिम्बम्।
संपश्यतोऽर्धविनिमीलितदृष्टि भर्तु-
रङ्के ह्रिया किल पपात चकोरचक्षुः ॥ 28.112 ॥
श्रोणीतटे न रशना करजक्षताङ्क-
संजातगाढरुजि चारुदृशा बबन्धे।
भूषा परा गुरुणि तत्पदपङ्क्तिरेव
तस्मिंस्तु काञ्चनशिलाविकटे तदासीत् ॥ 28.113 ॥
आकृष्य पाणिकमलेन च कर्णपाली-
मेकेन वल्लभविलोकननिश्चलाक्षम्।
तस्थौ पुरंध्रिरपरेण न लब्धसंधि-
र्माणिक्यकुण्डलमिति प्रविघूर्णयन्ती ॥ 28.114 ॥
द्वारि स्थिता विनिहितैककवाटपट्ट-
रुद्धार्धविग्रहतया गिरिकन्यकाश्रीः।
प्रेयांसमैक्षत वधूः स्तिमितैकतार-
शारेण यान्तमपरा नतपक्ष्मणाक्ष्णा ॥ 28.115 ॥
स्तनपरिसरभागे दूरमावर्तमानाः
श्रिततनिमनि मध्ये किंचिदेव स्खलन्तः।
ववुरतनुनितम्बाभोगरुद्धा वधूनां
निधुवनरसखेदच्छेदिनः प्राङ्णवाताः ॥ 28.116 ॥
विघटितदलमुद्राबन्धसौगन्धिकान्त-
र्निबिडपुटकुटीरक्रोडकाराविमुक्तैः।
उदयगतमनावीवारुवद्भिर्द्विरेफै-
स्तरुणमरुणरत्नच्छायमुष्णांशुबिम्बम् ॥ 28.117 ॥
प्रेङ्कत्पिङ्गार्कधामच्छुरणकपिशितश्च्योतदच्छिन्ननैश-
स्थूलाम्भो बिन्दुवृन्दाहित मधुरमधुस्यन्दसंदेहमुग्धैः।
संरम्भारव्धकोलाहलमुखरमुखैः पत्त्ररन्ध्रप्रवेश-
प्राप्तानन्दैर्विजुर्मधुकरनिकरैः पूरिताः पद्मखण्डाः ॥ 28.118 ॥
कुर्वाणा रत्नधीनां शशधरपतनोपप्लवेनेव तन्वीं
तोयावस्थां क्रमेण प्रकटितककुभः संभृताम्भोजहासाः।
तन्वन्तः खं खरांशोस्तरुणतरतमः स्तोमसंपिण्डितं स-
त्प्रत्यग्रष्ठ्यूतलाक्षारसरुचिरुचो दूरमुस्राः प्रसस्रुः ॥ 28.119 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये प्रत्यूषवर्णनो नामाष्टाविंशः सर्गः।