.
हरविजयम्।
सप्तविंशः सर्गः।
अतिरतिरभसादलीकनिद्रारभसविघूर्णितलोचनाम्बुजाभिः।
शयनतलमशिश्रियन्वधूभिः सह मदमन्मथमन्थरा युवानः ॥ 27.1 ॥
प्रियेण वासस्यपनीयमाने मां हन्ति कान्ता श्रवणोत्पलेन।
अशिश्रियत्पूर्वमितीव दीपस्तद्गण्डभित्तिं प्रतिमापदेशात् ॥ 27.2 ॥
आकृष्यमाणमथ पुष्पशशासनेन
संरभ्य कामिहृदयानि बिभित्सतारात्।
लीनद्विरेफकुलझांकृतिचित्तहारि
टांकारनादमुखरस्थिति चापमासीत् ॥ 27.3 ॥
भिन्दन्त एव हृदयान्यपि संदधानाः
पौष्या अपि द्रढिमसारभृतोऽभियोगे।
चेतोभुवः सुरपुरंध्रिखरूचिकासु
पेतुः शराः कुसुमकार्मुकचक्रमुक्ताः ॥ 27.4 ॥
दयितपरिहृताम्बरं वरोर्वाः कनकशइलाविपुलं नितम्बबिम्बम्।
मदानकरिविषाणघातरन्द्रप्रतिमकुकुन्दरसुन्दरं बभासे ॥ 27.5 ॥
चेतोभुवो भुवनदुर्विषहा नितान्त-
माक्षिप्तशीघ्रगमना इव चित्तवृत्तिः।
धैर्यं पतत्त्रमरुतेव विधूनयन्तो
बाणाः पुरंध्रिहृदयेषु रयान्निपेतुः ॥ 27.6 ॥
पीनोरुमूलं रभसापनीतवासो विलोलेक्षणमीक्षमाणम्।
जघान रोषात्किल पीवरेण कुचद्वयेनोरसि कापि कान्तम् ॥ 27.7 ॥
उच्छ्वासिपीनजघने निबिरीसमूर्वो-
र्गाढं नितम्बफलके घनघर्मवारौ।
तन्व्याः कुकुन्दरयुगे शिथिलं चकर्ष
चण्डातकं कथमपि प्रियपाणिपद्मः ॥ 27.8 ॥
द्रीमन्थरा विधृतवेपथुना करेण
कर्णोत्पलं दयितमुक्तनितम्बवासाः।
चिक्षेप दीपहतये परिहृत्य तेन
तद्दाहसंभ्रमवशादिव तं निपेते ॥ 27.9 ॥
अविरतरतिविभ्रमो जजृम्भे श्रमजलशीकरबिन्दुपुष्पशोभी।
कुरबकविटपीव पीवरस्त्रीस्तनकलशाहतिभिर्विदग्धयूनाम् ॥ 27.10 ॥
आलिङ्गिताया दयितेन तन्व्याः स्पर्शस्य मा भूद्वच्यवधानखेदः।
तद्वक्षसीतीव ममज्ज नुन्ना कुचद्वयस्योपरि हारयाष्टिः ॥ 27.11 ॥
छातोदरक्रमविभाव्यवलीविभङ्ग-
मुत्तम्भितोन्नतपयोधरतालपत्त्रम्
निर्मृष्टचित्रककपोलललाटलेख-
मुद्बाहु कञ्ञुकमुदक्षिपदञ्चितभ्रूः ॥ 27.12 ॥
कृच्छ्रात्तनोः सघनघर्मजलाङ्गयंष्टि-
गाढावसक्तमथ कञ्चुकमुत्क्षिपन्त्याः।
लावण्यकान्तिरमलाधिक्मुन्मिमील
गौरस्य मध्यभुवि चारु वलित्रयस्य ॥ 27.13 ॥
वपुषि दयितसङ्गतोऽङ्गतोयैः स्मरयुवराज इवाभिषिच्यमाने।
प्रथमतरमवापि बन्धनेभ्यस्तरलदृशामथ नीविभिर्विमोक्षः ॥ 27.14 ॥
रराज दष्टाधरधूतहस्तविनिर्गतः कम्बुरथायताक्ष्याः।
निर्मत्नतः कामिमनांस्यमन्दं विलासमन्दीर इव स्मरस्य ॥ 27.15 ॥
रागार्द्रचाटुचतुरस्य विमुक्तनीवि-
माबद्धवेपथुतया दयितस्य हस्तम्।
रोद्धुं शशाक न करः सुतनोरभीष्ट-
सिद्धिं ध्रुवां तरलता शिथिलां विधत्ते ॥ 27.16 ॥
प्रेयः करोद्गुथितकञ्चुकलक्ष्यमाण-
बिम्बागतावसनकास्पदरत्नदीपा।
विन्यस्तकोरकितचम्पकपुण्कडरीक-
संवादितां कुचतटी सुतनोर्बभार ॥ 27.17 ॥
रतोत्सवे पीनतयापि युक्तौ चक्रीकृतौ कान्तवीगूहनेन।
पयोधरौ मन्मथकांस्यताललीलां मुहूर्तं सुतनोरधत्ताम् ॥ 27.18 ॥
श्रवणकुवलयस्य गर्भपत्त्रं निधुवनकेलिविमर्दशीर्णमासीत्।
मिथुनहतिविरुग्णमुष्टिबन्धं फलकमिवासमसायकासिधेनोः ॥ 27.19 ॥
सलीलनिर्धूतकरारविन्दसीत्कारसंधुक्षितमन्मथायाः।
जग्राह बिम्बाधरमूढगाढरागं रमण्या हृदयं च कान्तः ॥ 27.20 ॥
प्रत्यूहितेक्षणसुखानुभवोत्सुकत्व-
कल्लोलितान्तरिततारकमक्षि वध्वाः।
ताम्बूलपङ्करसरञ्जितकोटिभाग-
रेखीभवद्धटितपक्ष्म चुचुम्ब कान्तः ॥ 27.21 ॥
यस्योचितं भवति यत्तदवाच्यमेव
तस्यानतिक्रम इह क्रियते वलिदग्धैः।
येनौष्ठपल्लवमखण्डयदायताक्ष्याः
प्रेयांश्चुचुम्ब नयनं च तरतोत्सवेषु ॥ 27.22 ॥
कुसुमशरकरावलम्बरूपः सुरतपदेऽनुपदेशशिक्षितोऽपि।
अनवसितविकासविभ्रमश्रीस्तरलदृशां रसभावसंकरोऽभुत् ॥ 27.23 ॥
उपोढरागे नयनारविन्दं विचुम्बति प्रेयसि कम्बुकण्ठ्याः।
बिम्बाधरः श्वासकृताभिदातस्तन्मत्सरेणेव मुहुश्चकम्पे ॥ 27.24 ॥
सीत्कारहकान्तमलमराथवचो विदग्ध-
हावानुबन्धि मणितं ललिता विलासाः।
इत्यङ्गसंघ्रहमनोहरतापि येन
पुष्पायुधः कथमहो स भवेदनङ्गः ॥ 27.25 ॥
व्यक्तं न कार्यिकतया चिरकालगुप्ति-
संवर्धितेऽपि भवति क्वच न व्यपेक्षा।
आविर्भवद्रतरसाञ्चितविभ्रमाभिः
स्त्रीभिर्यदासु विजहे सहजापि लज्जा ॥ 27.26 ॥
यदधरगतमादधाति तृष्णां दिशति च यश्चषकोत्पलस्य निद्राम्।
किमपि तदमृतं स कोऽपि चन्द्रो वदनमयः श्रियमाततान तन्व्याः ॥ 27.27 ॥
निःश्वासवातैरधरस्य तन्व्याः पीतो रसस्त्वद्विरहेऽधुना त्वम्।
किं पास्यसीति क्वणितैर्युवानमुत्तंसलग्नोऽभ्यधितेव भृङ्गः ॥ 27.28 ॥
आलिङ्गति प्रियतमे विनिमग्नहार-
मुक्तापदाह्कितपयोधरपीठगाढम्।
आच्छादितावयवमुच्छ्वसितं विवेद
रोमाञ्चकञ्चकमपि व्यवधिं वरोरूः ॥ 27.29 ॥
लज्जावसात्पिदधती दयितव्यपास्त-
चीनांशुकं कुचयुगं करपङ्कजाभ्याम्।
बिम्बागतं सपदि तत्र रसेन कान्त-
मन्तः प्रवेशयितुमैच्छदिवाञ्चितभ्रूः ॥ 27.30 ॥
मिथुनरतपरस्पप्रहारैर्ललितदलं मकरन्दवृष्टिमौज्झीत्।
सरसबकुलप्रष्पदाम शीधुस्रुतिमिव मुग्धवधूमुखान्निपीताम् ॥ 27.31 ॥
उत्तानितस्यावटुजग्रहेम परिस्फुरन्मानवतीमुखेन्दोः।
प्रियेण बिम्बाधरपानसङ्गान्निपीत आसीदिव कोपरागः ॥ 27.32 ॥
उद्धामरागरभसाभिमतावरुग्ण-
बन्धा शनैर्निधुवने पतिताधिसय्यम्।
शीभां बभार सुदृशो मकरावचूल-
पर्यङ्कपट्टरचना कलधौतकाञ्ची ॥ 27.33 ॥
पर्यासितो निधुवेन कलकण्ठवर्ति
शुश्रुषमाण इव कूजितमव्यवस्थम्।
तूष्णीं बभूव शयने रमणीजनस्य
काञ्चीगुणः क्वणितरेचितरत्नघण्टः ॥ 27.34 ॥
किमपि कलमुदाहरन्नतभ्रूर्निधुवनकेलिषु यन्निषेधवाक्यम्।
कमितुरगमयद्विधिं तदस्याः प्रभवति वस्तुषु वाम एव कामः ॥ 27.35 ॥
अशिक्षितं प्रातिभतामवाप सुशीलितं विस्मृतरूपमासीत्।
रतेऽधिरोहत्यमराङ्गनानां न वाम(किं नाम) कामानुगुणं न जज्ञे ॥ 27.36 ॥
संरम्भभाजि दयितेऽधरचुम्बनाय
मानात्सहुंकृति मुखं परिवर्तयन्त्याः।
प्टष्टगतोपरि कुचस्य बभौ तरुण्या
वेणीलता मधुपपङ्क्तिरिवाम्बुजस्य ॥ 27.37 ॥
चुम्बत्युपोढरसविभ्रममाननेन्दु-
मुत्तानितं हठकचग्रहणेन कान्ते।
उत्सार्यमाण इव निःश्वसितानिलेन
मानः क्षणान्निरगमद्धृदयात्पुरंध्रेः ॥ 27.38 ॥
शयनमनुगतं विलूनहारच्युतनवमौक्तिकमण्डलैस्तरुण्याः।
मदनशिखिविलीनगण्डभित्तिप्रतिमितचन्द्रसुधाकणैरिवासीत् ॥ 27.39 ॥
स्पर्शोत्सवेनाहितगाढरागा बभार काचिद्बहिरेव कम्पम्।
निःस्पन्दतामाप पूनः स्तितान्तः प्रेमामृतार्द्रे हृदि वल्लभस्य ॥ 27.40 ॥
आलिङ्गिता सरभसं दयितेन प्टष्ठ-
विन्यस्तसान्द्रनशपङ्क्तिपदा तदानीम्।
गाढीचकार तदुरःस्थलसंनिवेश-
चक्रीभवत्कुययुगा परिरम्भमेका ॥ 27.41 ॥
आघूर्णनाकुलिततारकलोचनायाः
कम्पाकुलोत्पुलकपीनतनोः प्रियस्य।
आलिङ्गनं मधुमदः शिथिलीचकार
गाढं पुनर्मृगदृशो विदधावनङ्गः ॥ 27.42 ॥
गलितसरसकुङ्कुमाङ्गरागाः श्रमजलशीकरबिन्दवस्तरुण्याः।
हृदयनिहितगाढरागरक्ता इव रतविभ्रमनिर्गता विरेजुः ॥ 27.43 ॥
प्रेयोनखार्द्रक्षतिबिर्नताङ्ग्याः परिस्फुरत्काञ्चनकाषगौरी।
व्यराजतोद्भिन्नमनोज्ञरागबीजाङ्कुरौघेव शरीरयष्टिः ॥ 27.44 ॥
लीलावती शकलितागुरुपङ्कपत्त्र-
भङ्गप्रसाधनकरालनखक्षताङ्काम्।
गण्डस्थलीं स्थगितरत्नवतंसकान्ति
लावण्यसंभृतिभरस्पुटिकामिवोहे ॥ 27.45 ॥
प्रेयोनखक्षतपदानि कपोलभित्ति-
भागेषु ताम्रकुटिलानि नितम्बिनीनाम्।
भान्ति स्म बिभ्रति हरेक्षणवह्निहेति-
संधुक्ष्यमाणवदनेन्दु….(मदनाशुग) पक्ष्मलक्ष्मीम् ॥ 27.46 ॥
प्रियतमपरिचुम्बनेन भीरोः स्फुटमधरोऽपि सजीवतामवापत्।
अविरतरतविभ्रमाभिलाषात्कथमपि संस्फुरणोऽन्यथा भवेत्सः ॥ 27.47 ॥
विभ्राणया सरलतां करणप्रपञ्च-
नानाविकल्पकृतिनो वदनेन यूनः।
संसर्गमाप्य मधूरं चकणे रतेषु
वामभ्रुवा मकरकेतनवंशनाड्या ॥ 27.48 ॥
आकृष्य चुम्बनविकल्पपटीयसोऽपि
बिम्बाधरं कमितुरोष्ठदलान्तरालात्।
चातुर्यचारुसदनं वदनं चुचुम्ब
काप्यात्मनः कुशलतां किल दर्शयन्ती ॥ 27.49 ॥
अधररुचकदानधूतहस्ताच्च्युतमवहद्वलयं पुरः पुरंध्रेः।
वदनविजितकान्तिदुःखभिन्नसिथितिहृदयं स्फुटदिन्दुबिम्बशोभाम् ॥ 27.50 ॥
कण्ठेऽभवलद्वल्लभबाहुपाशनिपीडनं जीवितलाभहेतुः।
विखण्डनं चाधरपल्लवस्य कचग्रहश्चोत्सवं एव तासाम् ॥ 27.51 ॥
किं कर्णकेशमृदुबाहुमयेन तस्य
पाशत्रयेण सुदृशामिह मीनकेतोः।
एकोऽपि संयमयितुं प्रतिबद्धशक्ति-
रस्याभवत्क्वचन रागवतो न पुंसः ॥ 27.52 ॥
उत्फुल्लवेल्लहलहारिविदग्धहाव-
संमूर्छिताञ्चितमनोहरभावहृद्यां॥
चारुभ्रुवां निधुवनावसरे प्रसस्रु-
रक्षुण्णरागरभसोल्लसिता विलासाः ॥ 27.53 ॥
कुचकलशतटेषु कामिनीनां दयितनखक्षतराजयो विरेजुः।
रतरभसविलूनकण्ठमालाच्युतकुटिलारुणकेसराभिरामाः ॥ 27.54 ॥
आविष्कृतानर्गलरागसंपदमन्दनिःश्वासतरङ्ग्यमाणम्।
समर्पयन्त्याधरपल्लवाग्रमग्राहि तन्व्या हृदयं प्रियस्य ॥ 27.55 ॥
आबद्धरागसुरतश्रमवारिबिन्दु-
निर्धौतशेषरुचिरागुरुपत्त्रलेखाम्।
सुभ्रूर्विलग्नमदनास्त्रकृशानुदाह-
कालीकृतामिव बभार कपोलपालीम् ॥ 27.56 ॥
ऐक्षन्त धर्मसलिलप्लवलङ्ग्यमान-
कालगुरुप्रकरपत्त्रलता युवानः।
स्वच्छाः कपोलसरसीरवरीर्णपुष्प-
कोदण्डकेतुमकरा इव कामिनीनाम् ॥ 27.57 ॥
श्रियमदधत पीवरैः स्तनाग्रैः सरसनखक्षतराजिभिस्तरुण्यः।
अलिविघटितपत्त्रसंधिबन्धैर्धृतमुकुलैर्नलिनैरिवाम्बुजिन्यः ॥ 27.58 ॥
जिह्मारुणाः पक्ष्मललोचनानां बभुर्नखाग्रक्षतयः स्तनेषु।
प्रसूनबाणासनरत्नवीणातन्त्रीकलाविभ्रममाक्षिपन्त्यः ॥ 27.59 ॥
भाति स्म निर्दयरतिश्रमवारिबिन्दु-
वृन्दावकीर्णपरिपाणडुरगण्डभागम्।
लावण्यसिन्धुसलिलोत्थितलक्ष्यमाण-
विस्तारिबुद्बुदमिवाननमङ्गनायाः ॥ 27.60 ॥
वामभ्रुवो निधुवनक्लमघर्मवारि-
बिन्दूत्करव्यतिकरोच्छलिता विरेजे।
गम्भीरनाभिसरसी स्मरकेतुयष्टि-
कोटिप्रतिष्ठझषमन्दिरसुन्दरश्रीः ॥ 27.61 ॥
अनलमिव विसोढुमङ्गनायास्तनुपदविच्युतिदुः खमङ्गरागः।
अकृत कुचतटे रतिश्रमाम्भःफ्लवगालितो नखराजिषु प्रवेशम् ॥ 27.62 ॥
निर्भिद्य देहं स्मरमार्गणेषु मनः प्रविष्टे, रताभियोगे।
तद्रन्ध्रमार्गैरिव कामिनीनां स्तना विरेजुः करजक्षतौघैः ॥ 27.63 ॥
अभ्युच्छ्वसत्पुलकपूरभरातिभार-
गुर्वीं विसोढुमसहेव तनुं मुमोच।
आविर्भवद्रतिरसाशिथिलप्रयत्नं
लीलालसा दयितवक्षसि संहतोरूः ॥ 27.64 ॥
स्पष्टोत्तरं रसमनोज्ञविसेषवृत्ति
शिक्षाप्रपञ्चरहितं किमपि स्ववेद्यम्।
चारुभ्रुवः प्रतिबभौ सुरते तदासु
पुष्पायुधस्य हृदयं यदखण्डमासीत् ॥ 27.65 ॥
श्रवणशिखरविच्युतं तरुण्याः शशिधवलं नवकेतकीपलाशम्।
अभृत मकरकेतुकेतुदण्डस्खलितविमुग्धझषावचूललीलाम् ॥ 27.66 ॥
विलूनहारोज्ज्वलशेखरश्रीरुपोढरागश्रमवारिबिन्धुः।
रतावमर्दः सुरसुन्दरीणामाक्षिप्तकोपानुकृतिर्जजृम्भे ॥ 27.67 ॥
लावण्यकान्तिममलां मृगनाभिपङ्क-
पत्त्रावली विलिखिताच्छकपोलभितौ।
श्मामीकरोति किमितीव दधाव घर्म-
वारिच्छटा दयितभावनजा तरुण्याः ॥ 27.68 ॥
गम्भीरनाभिसरसी सुदृशोऽङ्गराग-
पिङ्गैरपूर्यत रतिश्रमवारिलेशैः।
आलक्ष्यचूचुकषडङ्घ्रिकुचारविन्द-
विष्यन्तिसान्द्रमकरन्दरसायमानैः ॥ 27.69 ॥
दयितनखविलेखनं वधूनां विशदमयूरपदं शशप्लुताङ्कम्।
अभृत मदनकाननस्य लक्ष्मीं स्तनशि………..॥ 27.70 ॥
कचग्रहोत्तानितवक्त्रपङ्कजे चुचुम्बि[षौ]प्रेयसि…..।
ननर्त तोषा[दिव]……विभ्रमस्फुटीभवत्स्पन्दनसुन्दरोऽधरः ॥ 27.71 ॥
धौताङ्गराग …….श्रमवारिलेशाः
पौष्पे निपेतुषि हृदि स्मरमार्गणौघे।
तद्रन्ध्रमार्गविगलन्मकरन्दबिन्दु-
वृन्दश्रियो मृगदृशं सुरते निरीयुः ॥ 27.72 ॥
यैरध्यगामि नितरां प्रथमे समाप्ति-
रारब्द एव नवकोमलरागवेशे।
ते विभ्रमाः सपदि पप्रथिरे रतेऽत्र
संधुक्षितस्मरसरसाः सुदृशो द्वितीये ॥ 27.73 ॥
समदमदनसाध्वसत्रपास्ताः किमपि रसान्तरमन्तराविशन्त्यः।
चिरमपदृतचेतसोऽपि चित्रं दयिततमानुपचेरुरञ्चिताक्ष्यः ॥ 27.74 ॥
सुकानुबन्धाद्विनिमीलिते मुहुः प्रियाननालोकनकातेर मुहुः।
अवापतुर्मन्थरतां विलोचने निमीलनोन्मीलनविभ्रमैस्तनोः ॥ 27.75 ॥
बिभ्राणया श्रुतिमनोरमतामभीक्ष्णं
प्रेयानसेचनकदर्शनया तदानीम्।
आक्षिप्तरागिहृदयो हरिणीदृशाथ
रत्युत्सवे मदनमञ्चुकथा गिरासीत्(?) ॥ 27.76 ॥
आपात एव यदभूत्सुखमात्मवर्ति
तेनातुरत्वमितरत्र विवर्धमानम्।
संधुक्षितान्यसुरतं कमितुर्बभूव
चित्रपपञ्चचतुरत्वमहो स्मरस्य ॥ 27.77 ॥
भवतु च परिवृत्त्य नाम तन्व्याः स्थितमधिशय्यमलीकमानखेदात्।
हृदयमभिमतेऽनुरागवृत्तेरभिमुखमेव पुनर्बभूव तस्याः ॥ 27.78 ॥
प्रियेण हन्तुं दयितां गलन्मधुच्छटाकणं केसरदाम पातितम्।
नपुंसकत्वेऽपि सघर्मशीकरं तदङ्गसंस्पर्शसुकादिवाभवत्॥ 27.79 ॥
तत्कालसंभृतरसादिशयानि दूर-
मव्याहतप्रसरतां सुदृशां दधद्भिः।
चन्द्रः करैरभिमुखत्वमुपानिनाय
पुष्पायुधस्तु हृदयान्यभिनत्पृषत्कैः ॥ 27.80 ॥
तस्यातिविस्मयविधायि विचेष्टितं त-
दुत्थाय चञ्चलतरान्मनसोऽप्यनङ्गः।
स्थैर्यं दधत्सुनिशितैरिषुभिर्भिनत्ति
पौष्पैरपि स्म हृदयानि यदाशु यूनाम् ॥ 27.81 ॥
अधरभुवि नितम्बिनीजनस्य प्रियतमचुम्बनदंशबिन्दुमालाः।
दधुरभिनवतोपलक्ष्यताम्रच्छविसुभगाः स्मररागवीजशोभाम् ॥ 27.82 ॥
उपेयुषीणामुपदेशशून्यतां रतेऽधिरोहत्यधिकं नतभ्रुवाम्।
असुत तासां प्रतिभैव तं गुणं न येन यूनां हृदयानि नाहरत् ॥ 27.83 ॥
प्रेङ्खोलतातरलिता…………..
……………………….।
……………………….
……………………….. ॥ 27.84 ॥
भाति स्म पक्ष्मशिखरस्खलितद्विरेफ-
कल्माषिता रतिगृहोदरकुट्टिमोर्वी।
त्कालबद्धरभसस्मरकृष्यमाण-
कोदणअडदण्कडगलितैरिव रत्नपुष्पैः ॥ 27.85 ॥
अविरलकुसुमोपकारलीनं भ्रुमरकुलं रतिवेश्मनि व्यराजत्।
स्मरशरहतिजर्जरीकृतं सत्कवचमिवोज्झितमायसं भटीभिः ॥ 27.86 ॥
……………………….।
……………………….. ॥ 27.87 ॥
मध्यस्य तानवभृतो घटते तवाति-
दीर्घाङ्गुलीतुलनमकस्तु नितम्बभित्तेः।
इत्यभ्यधायि रणितैरिव वल्लभस्य
पाणिः पुरंध्रिरशनामणिकिङ्किणीभिः ॥ 27.88 ॥
कौतूहलाविरतहारिरसौपगूढ-
कल्लोलितस्मरविकल्परतप्रपञ्चा।
हीमनथरत्वमपहाय वियातिमान-
मासेदुषी सुतनुरन्यमयीव जज्ञे ॥ 27.89 ॥
शयनगतविनिद्रकान्तलीलाचिरपरिहापितसप्रपञ्चरागम्।
अभृत सुभगरूपतां निशायाः सपदि मुखादिपि पश्चिमार्धमासाम् ॥ 27.90 ॥
उदीरयन्ती किमपि स्खलत्पदं तदाभियुक्ता दयितेन कामिनी।
अशिक्षितालम्बितपाटवा नु किं सुखिक्षितं नु प्रकटत्वमानयत् ॥ 27.91 ॥
स्वच्छं बभार विपरीतरतश्रमाम्बु
निर्धौतशेषरुचिरागुरुपत्त्रलेखम्।
दोलायमानमणिकुण्कडलकोटिकाष-
लीलाकिणाङ्कितमिव प्रमदाकपोलम् ॥ 27.92 ॥
तन्व्याः प्रवृत्तपुरुषायितविभ्रमाया
घृष्टं रणत्युपरमे (रि मे) कथमत्र काञ्ची।
इत्यभादिव मनोहरशिञ्जितेन
पर्याकुलं रतिषु नूपुरपारिहार्यम् ॥ 27.93 ॥
अभृत वदनमूढकान्तिसंपत्सुरतविपर्ययविभ्रमे तरुण्याः।
स्फुटकवलनरागराहुशङ्गानिपतदधोमुखचन्द्रबिम्बशोभाम् ॥ 27.94 ॥
विपरीतरताभियोगलग्नां स्त्रियमालेक्य विलज्जितेव दूरम्।
श्रमशीकरबिन्दुधाव्यमाना विजहौ पत्त्रलता कपोलभित्तिम् ॥ 27.95 ॥
अन्यात्मनश्चरणभूषणशिञ्चितेन
प्रत्याहृता चरणयोर्नवयावकश्रीः।
रागेण पीडनभूवा हरिणेक्षणाया
धौरापि घर्मसलिलैः शयते तदानीम् ॥ 27.96 ॥
स्मररभसपरीतकान्तदन्तक्षतिपरिजातभियेव बिम्बतेन।
प्रयुरमदविपाटला तरुण्याः सपदि जहे शशिना कपोलभित्तिः ॥ 27.97 ॥
संपादिताभिनवविभ्रममण्डनानि
प्रेयोनखक्षतपदानि तनुस्तरुण्याः।
मुक्ताफलार्घकुसुमैरिव निष्पतद्भि-
रानर्च घर्मजलशीकरबिन्दुवृन्दैः ॥ 27.98 ॥
अग्राहि रागिहृदयं दयितसाय येन
यच्चान्यवस्तुनिरपेक्षतया मनोज्ञम्।
चारुब्रुवः किमपि तत्सुरतेषु वाम्य-
मक्षुण्णमेव रमणीयमथाविरासीत् ॥ 27.99 ॥
चिक्षेप दृष्टिरभितः सुतनोरपाङ्ग-
पर्यस्ततारकमयूखजलच्छटालीः।
प्रत्यग्रकान्तदशनक्षतगाढपीडा-
निर्वापणार्थमिव कोमलगण्डभित्तेः ॥ 27.100 ॥
निहितनखपदं कुचाग्रभागे करकमलेन विकम्पिना नतभ्रूः।
प्रियकरमभिनाभि कापि कोपात्किल कलकोमलकूजिता निरासे ॥ 27.101 ॥
वामभ्रुवः शयनपट्टविवर्तनेन
कान्तस्य चित्तमृगन्धनवागुरासीत्।
विस्तारिमूलशिथिलाश्रितदैर्घ्यलेश-
पर्यन्तभागविषमोच्छ्वसिताथ वेणी ॥ 27.102 ॥
पर्यङ्गपट्टमलनात्सविशेषमाप
दैर्घ्यं यदुत्पलदृशो लुलितः शिखण्डः
तस्यामुना फलमवापि तनोर्नितम्ब-
बिम्बाग्रचुम्बनसुखर्पितमद्वितीयम् ॥ 27.103 ॥
स्वस्थानादचलदपि क्षणेन तत्तद्विस्रम्भातिशयमनेज्ञमाचरद्भिः।
यत्तासां हृदयमगृह्यतानुरागि प्रेयोभिस्तदभवदद्भुतं तदानीम् ॥ 27.104 ॥
निद्रां विहाय शनकैः कपरिपीतशीत-
वातायनस्थचषकाश्रयशीधुशेषा।
मत्ताधिकं श्रमजलप्लुतदेहयष्टि-
रच्छिन्ननीरसरताभिरतोतत्सवासीत् ॥ 27.105 ॥
सुव्यक्तमापदमरत्वमसौ पुरंध्रि-
बिम्बाधरास्पदसुधारसपानसङ्गात्।
गढीभवन्निधुवनोत्सवसंमदेन
येनानिमेषयनत्वमवापि यूना ॥ 27.106 ॥
दधत्कान्तिं नासावनुभवति किं खण्डनदशां
निपीतः सन्रागं प्रकटयति नो वा किमधिकम्।
किमानन्दस्यैको न भवतितरां हेतुरतनोः
सुधासुतिश्चन्द्रः किमधरदलं नोत्पलदृशाम् ॥ 27.107 ॥
तत्खण्डनार्दितपुरंध्रिविधूतहारि
हस्तप्रकोष्ठगलितो नवरत्नकम्बुः।
कंदर्पलासकतिरस्करिणीविशीर्ण-
माणिक्यबन्धकटकस्य बभार शोभाम् ॥ 27.108 ॥
रोमाञ्टचकण्टकितकम्पिकपोलभित्ति-
रन्योन्यसंवलिततारकलोचनश्रीः।
रागावसान्लुलिता मिथुनस्य दृष्टि-
रन्यैव निस्तिमितकालकलाविरासीत् ॥ 27.109 ॥
निबिडज्घनरोहकाण्डयुग्मा तरलविवर्तिततारकेक्षणश्रीः।
दृढतरपरिरम्भविभ्रमासीत्कमलदृशां सुरतावसान्लीला ॥ 27.110 ॥
लावण्यकान्तिविसरामृतधाव्यमान-
रम्याङ्गदर्शनकुतूहलिना वितीर्णे।
कान्तेन वाससि वधूः सुरतावसान-
वैलक्ष्यहासदशनांशुपटं ततान् ॥ 27.111 ॥
प्रेयः कराकलितपीननितम्बबिम्ब-
वासा वधूः करतलस्थनितोरुमूला।
हारेण चन्द्ररुचिमौक्तिकदन्तपङ्क्ति-
निर्यत्प्रभाविशदशोभमहस्यतेव ॥ 27.112 ॥
लीलाविलासकिलकिञ्चितहावहारि-
हेलाभिरामसुकुमारमदप्रगल्भाः।
रागादपर्यवसितेच्छमिति प्रियांस्तां-
श्छन्दानुवृत्तिनिपुणं रमयां बभूवुः ॥ 27.113 ॥
रत्युत्सवे शिथिलितारभसेन पूर्व-
मुत्सारितानुचितधार्ष्ट्यपरिग्रहत्वात्।
लज्जा तदन्तकृतसंभ्रमविभ्रमश्री-
राविर्बभूव सुदृशां विनयाग्रदूती ॥ 27.114 ॥
चेतोहरा विदधती वपुषः प्रयत्न-
शैथिल्यमाशु विहितस्मृतिविप्रमोषा।
किं मत्तता किमथवा सुदृशां व्यधत्त
निद्रा विजिह्मितविघूर्णितलोचनत्वम् ॥ 27.115 ॥
इति मिथुनसहस्रे रत्नपर्यङ्कभाजि
क्लमपरिगतनिद्रे सा निशा पर्यणंसीत्।
मुहुरुपशमवेलामारुतश्वासवातैः
शशिनिपतनकालग्लानिमावेदयन्ती ॥ 27.116 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये संभोगवर्णनो नाम सप्तविंशः सर्गः।